________________
सिद्धान्तचन्द्रिका। [आख्याते ज्यादयः ] गुणः।मृषीष्ट । हन्नृतः स्यप इतीट् । मरिष्यति ।लोपोह्रस्वादिति सिलोपः। अमृत । शानप्रत्यये म्रियमाणः॥ङ् प्रायेणापूर्वः । 'तथाद्रियन्ते न बुधाः सुधामपि' इति श्रीहर्षः ॥ इत्यात् ॥ इति सुबोधिन्यां तुदादयः॥ (तत्त्वदी०)-कृतायामिह टीकायां लोकेशकरशर्मणा।मताभाष्यको भव्या तुदादिप्रक्रियागता।।
इति तत्त्वदीपिकायां तुदादयः ।। ८ ॥
अथ ज्यादयः । डुक्रीन द्रव्यविनिमये ॥ ना ज़्यादेः॥ कर्तरि चतुषु ॥ क्रणिति॥ (सुबोधिनी)--डुक्री द्रव्यविनिमये॥विनिमयो व्यतिहारः॥ना ज़्यादेः॥ क्रीरादिर्यस्य स यादिस्तस्मात् ना प्रत्ययः स्यात् कर्बर्थे' चतुर्षु ॥
( तत्त्वदी०)-डुक्री ॥ विनिमयः परिवर्तः ॥ ना:यादेः॥ ऋीरादिर्थस्य स. तथा तस्मात् ॥
ई हसे ॥ ना इत्यस्याकारस्य ई डिति हग ॥ क्रीणीतः ॥ (सुबोधिनी )-ई हसे ॥ ङित्यदुरित्यतो कितीत्यनुवृत्तं नात इति च ॥ (तत्त्वदी०)-ई हसे ॥ नात इत्यनुवर्तते ॥
नातः॥ना इत्यस्याकारस्य लोपो डिति स्वरे ॥ क्रीणन्ति । कोणीते । चिक्रयिथ-चिक्रेथ । अषीत् । अवेष्ट॥प्रीञ् तर्पणे कान्तौ च। पिप्रिये ॥ श्रीन पाके । अझैषीत् ॥ मीच हिंसायाम् । मीनातिमिनोतीत्यात्वम् । ममौ । मिम्यतुः । मनिथ-ममाथ । मासीष्ट । माता-अमासीत् ॥ स्कुन आप्रवणे ॥
(सुबोधिनी)-नातः॥ ना आत इति छेदः। ङित्पदुरित्यतो कितीत्यनुवृत्तम् । ओमौरित्यतो लोप इति च । डिति हसे ईविधानात्परिशेषात्स्वरे इति लब्धम् ॥ ना इत्यविभक्तिकम् । आतोऽन्तोऽदनत इत्यति नात इत्यालोपे क्रीणते । बुधातोरितीय । चिक्रिये । वृद्धिः। अषीत् । अवेष्ट ॥ प्रीञ् तर्पणे कान्तौ च ॥कान्तिः कामना ॥ मीञ् ॥ मीनातिमिनोतीत्यात्वम् । ममौ । नुधातोरिति यः। मिम्ये।मीयात्। मासीष्ट । माता । मास्यात । मास्यते । अमास्यत् । अमास्यत यमिरमिनमातामितीसकौ । अमासीत्, अमास्त ॥
(तत्त्वदी०)-नातः ॥ ना आत इति छेदः । नेत्या भक्तिकम् । षष्ठीनिर्दिष्टत्वेनान्त्यस्यैव स्यादात इत्युत्तरार्थं स्पष्टार्थमिहैव कृतम् । हसे ईविधानात्प िशेषात्स्वर इति लभ्यत इत्याह ॥ स्वरे परे इति ॥ स्कुञ्ज ॥ आप्रवणमुद्धरणम् ॥