________________
[ आख्याते चुरादयः ] टीकाद्वयोपेता ।।
(१२१) द्यन्त्रतीति माधवेनोक्तं तच्चिन्त्यम् । यन्त्र इत्यत्र नकारे पठितेऽपि नो लोप इति न. लोपो न लभ्यते नकारस्यानुपधात्वात् । चिन्त्यादित्यत्रतु चिन्त स्मृत्यामितिनकारोपधपाठे नस्य लोपः स्यादेवति तद्वारणाय क्रियमाण इकारस्तु ज्ञापक इति भावः।
ओलडि उत्क्षपणे ओदित्करणं वाद्योदितश्चेति धातोरव्यवहितस्य तकारस्य नत्वार्थमितितबलात् नेडित्येके । ओदिद्भलादिड्व्यवधानेऽपि नत्वमित्यन्ये । लण्डिनः ।
(तत्त्वदी०) चुरादेः॥ वुर आदिर्यस्य स तस्मात् । तद्गुणसंविज्ञानोबहुव्रीहिः । अनुद्भूतावयवभेदसमुदायस्यान्यपदार्थत्वेनाश्रयणादेकवचनम् । ननु धातोः प्रेरणे इत्यनेनैव चुरादेरपि स्यात्किमनेनेत्यत आह-स्वार्थ इति । निर्वेति। अयं भावः । चिन्तेति पठितव्ये इदित्करणं : पाक्षिकत्वे लिङ्गम् । तेन चिन्त्यादित्यादौ नलोपो न ॥ यत्रि ॥ यन्त्रेति पठितुं युक्तम् । इदित्त्वाभावेऽपि उपधाभूतनकाराभा । नलोपाभावात् ॥
(भाजभासभाषदीप जीवमीलपीडां वोपधाया ह्रस्वोऽपरेनौ) अपीपिडत्-अपिपीडत् ॥ प्रथ प्रख्याने । प्राथयति ॥
(सुबोधिनी)-भ्राजभासभाषदीपजीवमीलपीडां वोपधायाद्वस्वोऽङ् परे औ॥ एषामुपधाया ह्रस्वो वा स्यात् अङ्परो यस्मात् सोऽङ्परस्तस्मिन् जिप्रत्यये परे ॥ भ्रातृ भासू दीप्तौ । भाष व्यक्तायां वाचि । दीपी दीप्तौ । जीव प्राणधारणे। मील निमीलने । पीड अवगाहे । ह्रस्वपक्षे लघोर्दीर्घ इति पूर्वस्य दीर्घः। अपीपिडत । हूस्वाभावे अपिपीडत् ॥ प्रथ प्रख्याने । प्रख्यानं कथनम् । स्वार्थे जो ज्ञपादिभ्य इति वक्ष्यमाणेन मित्त्वाभावान ह्रस्वः । प्राथयति ॥
(स्मृहत्वरप्रथम्रदस्तस्पशां पूर्वस्याऽदपरे नौ इत्वापवादः) अपप्रथत् ॥ पृथ प्रक्षेपे । पर्थयति ॥
(सुबोधिनी) स्मृहत्वप्रथम्रदस्तृस्पशां पूर्वस्यादपरे औ इत्वापवादः ॥ एषां द्वित्वे पूर्वस्य अत्वं स्यात् अपरे जौ अङि लघावित्यस्यापवादः॥ स्मृ चिन्तायाम् । दृ भये । जित्वरा संभ्रमे । प्रथ प्रख्याने । म्रद मर्दने । स्तृज आच्छादने । स्पशू बाधनग्रन्थनयोः।
(उपधाया ऋवर्णस्य ऋद्रापरे जौ इररारामपवादः)अपीपृथत्अपपर्थत् ॥ भक्ष अदने । अबभक्षत् ॥श्रण दाने । विश्राणयति । अशिश्रणत्-अशश्राणत् ॥ तड आघाते। अतीतडत् ॥
(सुबोधिनी)-उपधाया ऋवर्णस्य ऋद् वाडूपरेऔइररारामपवादः ।। ऋवर्णोपधस्य धातोरुपधाया ऋद्धा स्यात् अङ्गपरे जो इररारामपवादः॥धातोरुपधाया ऋत इरिति । अचीकृतदित्यादौ इप्राप्तः, अमीजदित्यत्र मृजेवृद्धिरित्यारप्राप्तः,