________________
(१२२)
सिद्धान्तचन्द्रिका। [आख्याते चुरादयः ] इतरेषामृदुपधानामुपधाया लघोषित अपीपृथादित्यादावर प्राप्त इति विवेकः ॥ श्रणदाने ॥ प्रायेणायं विपूर्वः। विश्राणनं वितरणम् ॥
(तत्त्वदी०) इररारामिति ॥ दीर्घोपधे उपधाया ऋत इति इर् प्राप्तः । मृजेवृद्धिरित्यार प्राप्तः । लघूपधत्वे त्वर प्राप्तः ॥ .
ज्ञप ज्ञानज्ञापनयोर्मित् । (सुबोधिनी)-ज्ञप ज्ञानज्ञापनयोर्मित् ॥ज्ञप धातुज्ञ ने ज्ञापने च जिप्रत्ययं लभते मित्संज्ञकश्च । 'प्रतिपज्ज्ञप्तिचेतनाः' ॥
मितां द्वस्वः॥ मितां धातूनामुपधाया द्वस्वो औ ॥ ज्ञपयति । अजिज्ञपत् ॥/
(सुबोधिनी)-मितां स्वः ॥ म् इत् येषां ते मितः तेषाम् । घटादयो मित इत्यादि मित्संज्ञकानां ग्रहणम् ॥ (तत्त्वदी० )-मितां द्वस्वः॥ म् इत् येषां ते तथा तेषाम् ।
यम वेष्टने मित । यमयति । अयीयमत् ॥ (सुबोधिनी)-यम वेष्टने मित् ॥ चुरादौ यमधातुर्वेष्टने मित् न तु भोजने । यमयाति चन्द्रम् । परिवेष्टते परिवषं करोतीत्यर्थःायमधातुश्चुरादौ घटादौ च। घटादौं तु यच्छति जनतोऽन्यत्र । मिन्नोत भोजने एव मित्संज्ञकः । यमयति ब्राह्मणान भोजयतीत्यर्थः । अन्यत्र आयामयाति द्राघयति व्यापारयति त्यर्थः । जनी जृषित्यमन्तत्वादेव सर्वार्थेषु मित्त्वे सिद्ध विशेषार्थं वचनम् ॥ १. (तत्त्वदी०) यमयति ॥ परिवेष्टत इत्यर्थः ॥ २। चह चप परिकल्कने मित् । चहयति । अचीचहत् । चपयति । अचीचपत् ।
(सुबोधिनी)-चह चप परिकल्कने मित् । परिकल्कनं दम्भः शाठ्यं च । अदन्तेषु कथादिषु वक्ष्यमाणस्य तु अदन्तत्वेनावृलोपित्वान्नाकार्यम्। अचचहत् ॥ (तत्त्वदी०) परिकल्कने ॥ परिकल्कनं दम्भः शाठयं च ' कथनमित्यन्ये ॥ रह त्यागे मित् । रहयति । अरीरहत् ॥ ( सुबोधिनी) रह त्यागे मित् ॥ कथादेस्तु अररहत् । । बल प्राणने मित् । बलयति । अबीबलत् ॥ चिञ चयने मित् । (सुबोधिनी)-चिञ् चयने मित् ॥ रचनायां मिदयम् ॥ (चिस्फुरो वात्वं वा)