________________
(१२०)
सिद्धान्तचन्द्रिका । [ आख्याते चुरादयः ] (तत्त्वदी०)-खच् इति ॥ भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । खच्नातीति ॥ स्तो श्चुभिच्चुरिति ञः ॥
(खवो वस्य औ ने) खौनाति । हिठ्णाति ॥ इति पम् ॥ वृङ् संभक्तौ । वृणीते । ववे । वरिषीष्ट-टषीष्ट । अवरिष्टअवृत ॥ इति क्रयादयः॥
(सुबोधिनी )-खवो वस्य औ ने खवे तोर्वकारस्य औत्वम् भवति नाप्रत्यये परे॥ परत्वादौत्वे हसान्तत्वाभावात् हसादान हाविति नाखौनीहि।ष्टुत्वम् । हिठ्णाति ॥ ॥ इति पम् ॥ वृक संभक्तौ ॥संभक्तिर्भजनम् । क्रादेरिति नट् । ववृषावृवृऋदन्तात्सिस्योरिड् वा । वरिषीष्ट-वृषीष्ट । वृबृऋदन्तानामिति वेटो दीर्घः । वरितावरीता । इडभावे लोपो हस्वादिति सिलोपः । अवृत । इत्यात् ॥ इति सुबोधिन्यां ज्यादयः॥ ... (तत्त्वदी०) कृतायामिह टीकायां लोकेशकरशर्मणा। बाधनं दुष्टब हीनामगमत्त्वयादिसाधनम्।।
इति तत्त्वदीपिकायां क़्यादयः ॥ ९ ॥
अथ चुरादयः । चुर स्तेये ॥चरादेः॥ स्वार्थे ञिः॥ चोरयति । चोरयते । चोरयांचकार । चोर्यात् । अचूचुरत् ॥ चिति स्मृत्याम् । चिन्तयति । अचिचिन्तत् । चुरादेनिति केचित् ॥ चिन्तति । यत्रि सङ्कोचने । यन्त्रयति । अययन्त्रत । ओलडि उत्क्षेपणे । ओलण्डयति । ओलण्डति । ओलण्डांचकार । औललण्डत् । ओकार इदित्येके । लण्डयति । अललण्डत् । लण्डति ।अलण्डीत् ॥ पीड अवगाहे । पीडयति । पीडयते । पीडयांचक्रे ॥
(सुबोधिनी)-चुर स्तेये ॥ चुरादेः॥स्वार्थे निः॥चुर आदिर्यस्य स चुरादिस्तस्मात् चुरादेर्गणात् स्वार्थे ञिः स्यात् ॥ उपधाया लघोरिति गुणः । धातुत्वात् तिगुणायादेशौ । 'जित्स्वरितेत उभे' इत्युभयपदम् । चोग्यति । चोरयते । चोरयेत् । चोरयेत । चोरयतु । चोरयताम् । अचोरयत् । अचोरर त । चारयामास । चोरयांचवे । ओरिति जिलोपः।चोर्यात् । चोरयिषीष्ट । चोरयित । चोरयिष्यति । चोरयिष्यते । अचोरयिष्यत् । अचोरयिष्यत । लुङि अचूचुरत् । अचूचुरत॥ चिति स्मृत्याम् । चिन्तेति पठितव्ये । इदित्करणं जिप्रत्ययस्य पाक्षिकत्वं ज्ञापकम्।सर्वेऽपि चुरादयो विकल्पेन जिप्रत्ययं लभन्ते इत्यर्थः। तेन चिन्त्यात्. चिन्त्यते इत्यादौ 'न लोपः' इत्यनेन लोपो न ॥ यत्रिं संकोचने।यन्त्रेति पठितुं शक्यम् । यत्त इदित्करणा