________________
[ आख्याते क्र्यादयः 1
टीकाद्वयोपेता ।
( ११९ )
(सुबोधिनी) --शुदां ह्रस्वो वा लिटि ॥ एषां वा हस्वो लिटचेव । शश्रतुः । अन्यत्र ऋसंयोगादित्यकित्त्वाद् गुणः । शशरतुः । कित इति निषेधस्य क्रादिनियमेन बाधः । शशरिव-शश्रिव । ऋत इरितीरि कृते खोविं हसे इति दीर्घः । शीर्यात् वृवृञइति वेटो दीर्घः । शरिता- शरीता । ऋ । ऋणाति । ऋणीयात् । ऋणातु । आर्णीत् । अरांचकार । ईर्यात् । अरिता - अरीता । अरिष्यति--अरीष्यति। आरिष्यत् । आरीत् ॥ ज्या ॥ ग्रहामिति संप्रसारणम् । दीर्घस्य दीर्घ इति दीर्घे कृते प्वादेर्हस्व इति ह्रस्वः । जिनाति ॥ री गतिरेषणयोः । रेषणं वृकशब्दः । लीलीङोरित्यात्वं वा । ललौ - लिलाय । लेता । इति ल्वादयः । प्वादयोऽपि ॥ क्षीषु ॥ षित्त्वादे | क्षिया । ज्ञाजनोर्जेति जादेशः । जानाति ॥ बन्ध । नोलोप इति नलोपः । बध्नाति । हसादान हावित्यानः । अत इति हेलुक । बधान । आदिजबानामिति भत्वम्।भन्त्स्यति। सानो नित्यमिति वृद्धिः । अभान्त्सीत् । तथोर्ध इति तस्य धत्त्वम् । झसादिति सिलोपः । अबान्धाम् । अभान्त्सुः ॥ श्रन्थ विमोचनप्रतिहर्षयोरित्यस्य श्रन्थ ग्रन्थसंदर्भे इत्यर्थभेदात् श्रन्थेः पुनः पाठः । श्रन्थग्रन्थीत्यादिना कित्त्वपक्षे एत्वपूर्वलोपावप्यत्र वक्तव्याविति हरदत्तादयः । श्रेथतुः श्रेथुः । इदं कित्त्वं पितामपीति सुधाकरमते श्रेथिथ । अस्मिन्नपि पक्षे णपि शश्राथ । उत्तमे तु शश्राथ, शश्रथेति माधवः । तत्र मूलं मृग्यम् ॥ मृद् मृड क्षोदे । ष्टुत्वम् । मृद्भाति ॥ कुष निष्कर्षे | अन्तर्गतस्य बहिनिष्कासनं निष्कर्षः ॥
( निरः कुषो वसादेरनपीड़ा ) निष्कोषिता - निष्कोष्टा । निरकोषीत्-निरक्कुक्षत् ॥ क्षुभ संचलने ( क्षुम्नादिषु न णत्वम् ) क्षुभाण ॥ णभ तुम हिंसायाम् । नभान । तुभान ॥ क्विशू विबाधने । किइनाति । अक्लेशीत् । अक्किक्षत् ॥ अश भोजने । अश्नाति । आशीत् ॥ उधम् उञ्छे । धस्नाति । उकारो धात्ववयव इत्येके । उध सांचकार । औध्रासीत् - औध्रसीत् ॥ विष विप्रयोगे । विषाण । वेष्टा | अविक्षत् ॥ पुष् पुष्टौ । पोषिता ॥ मुष स्तेये ॥ खच् खबू हिठू भूतप्रादुर्भावे । खच्ञाति ॥
प्रगत ध.
( सुबोधिनी) - निरः कुषो वसादेरनपीडा ॥ निरपूर्वात् कुषेः परस्य वसादिप्रत्ययस्य इड्वा स्यात् अनपि ॥ इड्भावे हशषान्तादिति सकू । निरकुक्षत्॥क्षुम्नादिषु न णत्वम् । क्षुम्नादिराकृतिगणः ॥ णभ तुभ भ्वादौ दिवादौ च ॥ क्लिशू विबाधने । न शादिति श्चुत्वनिषेधः । क्लिश्नाति ऊदितो वेति वेट् । अक्लेशीत् । इडभावे हशषान्तादिति सक्| अक्लिक्षत् ॥ पुष· पुष्टौ । अनिट्केषु पुष्यतीति यप्रत्ययेन निर्देशादयं सेडिति भावः । पोषिता ॥ खच् खवू हिदू भतप्रादुर्भावे । भूतप्रादुर्भावः अतिक्रान्तोत्पत्तिः । शत्रुत्वम् ॥ खच्ञाति ॥