________________
सिद्धान्तचन्द्रिका । [ उत्तरकृदन्तप्रक्रिया ] . (मृजो वा) मृज्यम्-मार्यम् ॥ __(मुबोधिनी)-मृजो वा ॥ ऋदुपधादिति नित्यं प्राप्ते विकल्पार्थमारम्भः ॥ मृजूष शुद्धौ । मृज्यम् । क्यवभावे घ्यण् । मृजेर्वृद्धिरिति वृद्धिः । चजोरिति गः । मार्यम् ॥ : (भुवो भावे ) नाम्न्युपपदे भुवो भावे क्यः ॥ ब्रह्मणो भावः ब्रह्मभूयम् । नानि किम् । भव्यम् ॥
(सुबोधिनी)-भुवो भावे ॥ भू सत्तायाम् । ब्रह्मभूयम् ॥ नाम्न्युपपद इति किम् । भव्यम् । स्वराय इति यः॥
(इण्स्तुभृवृशासुजुषखनः क्यप् च) इत्यः । स्तुत्यः । दृङ आदरे । दृत्यः। वृत्यः । शासेरिः। शिष्यः । जुषी प्रीतिसेवनयोः। जुष्यः ॥
(सुबोधिनी) इणस्तुभृशासुजुषखनः क्यप् च ॥ एभ्यो धातुभ्यः क्यप् स्यात् ॥ इण् गतौ । इत्यः॥ ष्टुञ् स्तुतौ । स्तुत्यः॥ वृ इति वृञ् वरणे इत्यस्य ग्रहणम् । वृत्यः। वृङ् संभक्तावस्मा तुध्यणेव । वार्यः। दृङ् आदरे । दृत्यः॥ भृञ् भरणे । भृत्यः कर्मकरः । भर्तव्य इत्यर्थः । क्रियाशब्दोऽयं न तु संज्ञा ॥ शासु अनुशिष्टौ । शारिरितीत्वम् । घसादेरिति षः। शिष्यः ॥ जुषी प्रीतिसेवनयोः । जुष्यः ॥ . (तत्त्वदी० )-इणस्तु ॥ वृ इति वृञ् न तु वृङ् । ताप वार्या ऋत्विज इति ध्यणेव ॥ शासु अनुशिष्टौ । शासु इच्छायामपीति कश्चित् । स्वरभेदार्थमेव ॥
(खन इत्वं क्यपि ) खेयम् ॥ : (सुबोधिनी)-खन इत्वं क्यपि॥खनु अवदारणे इत्यस्य नस्येत्वं स्यात्क्यपि।। खेयम् ॥
(भिद्यौद्धयौ नदे) भिनत्ति कूलमिति भिद्यः । उज्झति जलमित्युद्धयः॥ ' (सुबोधिनी)-भिद्योद्धयौ नदे ॥ भिदिर विदारणे उज्झ त्यागे आभ्यां क्यप् स्यात्कर्तरि उज्झेर्धत्वं च निपात्यते नदे वाच्ये॥भिनत्ति कूलमिति भिद्यः॥ उज्झत्युदकमिति उद्धयः ॥ नदे किम् । भेत्ता उज्झिता, तृप्रत्ययः॥ (तत्त्वदी० )-भिद्योद्धयौ ॥ धत्वं निपात्यम् । नदे इति किम् । भेत्ता । उज्झिता ।।
(कृवृषोर्वा क्यप् ) कृत्यम्-कार्यम् । वृष्यम्-वर्ण्यम् ॥ "१ इच्छार्थक यस्मान्डो विधीयते तस्यैवेत्वमत एवाऽऽशास्त इादी नेति व्याख्यानादित्वाभावेन शास्यमित्यत्र क्यबण्यतो (ध्यणो ) विशेषाऽभावात्तित्स्वरितमिति स्वर दार्थमवत्येवकारस्वारस्यम् ।