________________
[ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(३४१) ( तत्त्वदी० )-समासे क्यप् ॥ समानकर्तृकत्व एव । यत्तु मत्प्रसूतिमनाराध्य' इत्यादिमहाकविप्रयोगाद्भिन्नकर्तृकेऽपि क्यबिति वासुदेवेनोक्तं तन्महान्तो न क्षमन्ते । स्थितस्येत्यध्याहारेणैव तत्र निर्वाहः । ओदनः पक्त्वा भुज्यत इत्यत्र प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत्प्रकाशते इति न्यायात्प्रधानक्रियया कर्मोक्तमतो गुणक्रियायाः कर्मविभक्तिप्राप्तिन भवति ॥
( क्यपि लघुपूर्वात्परस्य ओरय् ) परिणमय्य । लघुपूर्वात्किम् ।' संप्रधार्य ॥ __ (सुबोधिनी)-क्यपि लघुपूर्वात्परस्य ओरय्॥लघुःपूर्वो यस्मादोत्तस्माल्लघुपूर्ववर्णात्परस्य रयादेशः स्यादित्यर्थः ॥ णम प्रबत्वे शब्दे च। अस्मात्प्रयोजकजिप्रत्यये जनीजृषित्यमन्तत्वान्मित्त्वम्। मितां हस्व इति हस्वस्ततो जेरयादेशाप्रणमय्य॥ गणसंख्याने चुरादिरदन्तः। अस्मात्स्वार्थे जिप्रत्यये यत इत्यलोपः। नन्विह कृतस्याल्लोपस्य स्थानिवद्भावेन लघुपूर्वकवर्णात्परत्वं नास्ति कथमयादेशः स्यात् । उच्यते अत्रायादेशे कर्तव्ये अल्लोपस्य स्थानिवत्त्वं भाष्यादौ न स्वीकृतमस्ति । विगणय्य ॥ लघुपूर्वादिति किम् । संप्रधार्य । संपूर्वात् धृ धारणे अस्मात्प्रयोजकजिप्रत्ययान्तात् क्यपि कृते रिति जिलोपः॥
(आप्नोतेर्वा ) प्रापय्य-प्राप्य ॥ (सुबोधिनी)-आप्नोते॥आप्ल व्याप्तावस्मात्परस्य रयादेशो वा स्यात्।। अप्राप्तविभाषेयम् । तथा च श्रीहर्षः--'अयमयोगिवधूवधपातकैर्धमिमवाप्य दिवः खलु पात्यते' इत्यत्रावाप्येत्यस्यावापय्येत्यर्थों बोध्यः ॥
(क्यपीत्वाभावः ) प्रदाय । प्रधाय । प्रस्थाय । प्रसाय । मीनातिमिनोतीत्यात्वम् । प्रमाय । निमाय । एवं लिलीडोरात्वं वेत्यादि । विलीय-विलाय ॥
(सुबोधिनी)-क्यपीत्वाभावः॥ दादेरितीत्वं स्थामीतीत्वं च प्राप्तमनेन निषिध्यते ॥डुदाञ् दाने । प्रदाय ॥ डुधाञ् धारणादौ । प्रधाय ॥ ष्ठा गतिनिवृत्तौ । प्रस्थाय ॥ षोऽन्तकर्मणि । प्रसाय ॥ कथं तर्हि 'निपीय यस्य' इति श्रीहर्षप्रयोग इति चदत्राहुः । दिवादिगणस्थस्य पीङ् पाने इत्यस्य रूपमिति ॥
(अपूर्वकालेऽपि क्वचित) मुख व्यादाय स्वपिति। नेत्रे निमील्य हसति ॥
(सुबोधिनी)-अपूर्वकालेऽपि क्वचित् ॥ क्यप् स्यात् ॥ डुदा दान। व्यादाय । यदैव स्वपिति तदैव मुखं व्यादत्ते ॥ मील निमीलने । निमील्य यदैव हसति तदैव नत्रे संमीलयतीत्यर्थः ॥