________________
(३४२)
सिद्धान्तचन्द्रिका। [उत्तरकृदन्तप्रक्रिया ] (पौनःपुन्ये णम्पदं द्विश्च ) समानकर्तृतषु धातुषु प्रयुज्यमानेषु पूर्वकाले धातोर्णम् क्त्वा च णमन्तस्य ॥ द्विवचनम् ॥ पायंपायं गच्छति । भोजभोजम् । स्मारंस्मारम् ॥ मितां यन्तानामिणि णमि च वा दीर्घः। गामंगामम्-गमंगमम् । लाभलाभम्-लम्भंलम्भम्।।
(सुबोधिनी )-पौनःपुन्ये णम्पदं द्विश्च ॥ पौन पुन्ये द्योत्ये समानकर्तृकयाः पूर्वकाले धातोर्णम् स्याञ्चकारात् क्त्वा णमन्तस्य द्वित्वं च ॥णम्प्रत्ययमाह-णित्त्वाद्वद्धिः । क्त्वाद्यन्तं चेत्यव्ययत्वाद्विभक्तेलृक् । पा पाने । अस्मात् णमि कृते आतो युगिीत युक् । पायंपायम् । पक्षे पीत्वापीत्वा । स्थामीती त्वम् ॥ भुज पालनादौ । भोजभोजम् । भुक्त्वामुक्त्वा॥ स्मृ चिन्तायाम् । स्मारस्गरम् । पक्षे स्मृत्वास्मृत्वा ॥ गम्ल गतौ । ञ्यन्तादस्मात् णमि कृते जनीज़ाषित्यमन्तवान्मित्संज्ञायां मितां ह्रस्व इति ह्रस्वे कृते मितां ज्यन्तानामिणि णमि चेति वा दीर्चः। गामंगामम्।गमंगमम् । पक्षे गत्वागत्वा ॥ डुलभ प्राप्तौ अस्मात् णमि कृते र भेरिण्णमोरित वा नुम् । लम्भलम्भम् । नुमभाव वृद्धिः । लाभलाभम् । पक्षे लब्धालब्ध्वा ॥
(तत्त्वदी०)-पौनःपुन्ये णम्पदं द्विश्च ॥ णमन्तस्य नामत्वात्स्यादौ पदत्वम् । पायंपायमिति ॥ आतो युगिति युक् ॥ गामंगाममिति ।। मितां ञ्यन्तानामिति दीवः ॥ लम्भलम्भमिति ॥ णमि वा नुम् । व्यवस्थितत्वादुपसृष्टे प्रल भमित्यादौ नित्यमेव ।।
(कथमादिषु स्वार्थे कृत्रो णम् ) कथंकारम् । अन्यथाकारम् । एवंकारम् । इत्थंकारं पठति । इत्थं पठतीत्यर्थः । . .
( सुबोधिनी)-कथमादिषु स्वार्थे कृतो णम् ॥ कथमित्थमन्यथैवमित्यादिखूपपदेषु कृलो णम् स्याद्यदि कृञ् प्रयोगाऽनहः स्यात्॥ थिंकारं पठति। कथं पठतीत्यर्थः । अन्यथाकारं भुङ्क्ते । अन्यथा भुते इत्यर्थः ॥ एवं कारं करोति । एवं करोतीत्यर्थः ॥ इत्थंकारं वदति । इत्थं वदतीत्यर्थः ॥ प्रयोगाऽनर्ह इति किम् । शिरोऽन्यथा कृत्वा भुते ॥
(अग्रेप्रथमपूर्वेषूपपदेषु क्त्वाणमौवा) अग्रेभोज ब्रजति अग्रेभुक्त्वा । प्रथमंभोजम्-प्रथमंभुक्त्वा । पूर्वभोजम्-पूर्व भुक्त्वा । पक्षे प्रत्ययाभावः। अग्रे भुङ्क्ते ततो व्रजति । आमीक्ष्ण्ये तु पूर्वेण नित्यमेव णम् । अग्रेभोजभोजं व्रजति ॥
(सुबोधिनी )-अग्रेप्रथमपूर्वेषूपपदेषु क्त्वाणमौ वा ॥पौनःपुन्ये इति नानुवर्तते एखूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमौ वा स्तः ॥ अग्रे इति सप्तम्यन्त