________________
( ५२ )
सिद्धान्तचन्द्रिका |
[ आख्याते भ्वादयः ]
अभ्यासे | मनाते विद्याम् अभ्यस्यतीत्यर्थः ॥ अदा देत्यत्र दादेः पे इति सिलुकू ! गुणोऽर्तीति गुणः । जह्वरतुः ॥
(तत्त्वदी० ) सदिस्वञ्जोरिति । लिटि परे परस्य स येति शेषः । स्वजेग्रहणं तु भाष्याननुगुणमपि वृत्त्यादिसंमतत्वात्कृतम् ॥
Ber
( ऋदन्तात्थपो नेट् ) जह्वर्थ । ह्वर्यात ह्वर्ता । हरिष्यति । अह्नरिष्यत् । अह्नार्षीत् ॥ स्वृ शब्दोपतापयं । स्वरति । सस्वरिथ । सस्वर्थ । सस्वरिव । स्वरिता स्वर्ता | स्वरिष्यति । अस्वरिष्यत । अस्वारीत् । अस्वार्षीत्, अस्वाष्टम्, अस्वार्षुः ॥ बुध अवगमने ! बोधति । बोधिता । रुह बीजजन्मनि प्रादुर्भावे च । रोढा । रोक्ष्यति । अरुक्षत् ॥ स्कन्दिर् गतिशोषयोः । स्कन्दति । चस्कन्दिथ-चस्कन्त्थ | स्कद्यात् । स्कन्ता । स्वन्त्स्यति । अस्कान्त्सीव्-अस्कदत् ॥ यभ मैथुने । यमति । याभ, येभतुः, येभुः । 'यभिथ-ययब्ध | यभ्यात् । यब्धा । अयासीत्, अयाब्धाम्, अया
प्सुः ॥ तृप्लवनतरणयोः । तरति । ततार । तेरतुः । तेरिथ ॥ (सुबोधिनी ) - ऋदन्तात् थपो नेट् ॥ ऋदन्तात् धातोः परस्य थप इण्न भवति ।। स्वरान्तादीत पाक्षिके प्राप्ते निषेधः । हन्नृत इतीट् । ह्नरेष्यति ॥ स्वृ शब्दोपतापयोः । उपतापो रोगः । स्वरात सूतीति वेटू । सस्वरिथ - सस्वर्थ । गुणोऽतीति गुणः । स्वर्यात् लाटे हन्त इति नित्यमिट् । स्वरिष्यति । लुङि अस्व रीतू, अस्वारिष्टाम् । इडभाव अस्वार्षीत् अस्वाष्टम् ॥ स्वरान्तादत्वत इति वेट् । चकन्दिथ- चस्कन्त्य । आशिषि नो लोप इति नलोपः । स्कद्यात् । लुङि इरितो वेति ङः । अस्कदत् । ङाभावे सावनिटो नित्यं वृद्धिः। अनिटो धातोरनुपधाभूतस्यातं वृद्धिः स्यात् सिप्रत्यये । अस्कान्त्सीत् ॥ तृफलेत्येत्यपूर्व लोपौ | तेरतुः ॥
ऋत इर् ॥ ऋकारस्य इर् भवत्यगुणवृद्धि विषये ॥ तीर्यात् ॥ ( सुबोधिनी) - ऋत इर् ॥ धातोर्ऋकारस्य इर् भवति गुणवृद्धिनिमित्ताभावे ।। ववति दर्घिः । तीर्यात् ॥
ईटो ग्रहम् ॥ ग्रहादीनामिट ईकारो तु णादौ ॥
( सुबोधिनी ) - ईटो ग्रहाम् ॥ ग्रहादेः परस्येटो दीर्घः स्यान्न तु लिटि । ग्रहामिति बहुवचनेन वक्ष्यमाणव्यवस्था ॥
( तत्त्वदी ० ) न तु णादाविति । ऊदितो वेत्यतो वानुवृत्तेर्व्यवस्थया लाभः ॥ ( वृङ्वृञ्क्रुदन्तानां वा ) तरिता - तराता ॥