________________ (352) सिद्धान्तचन्द्रिका / ' [ उत्तरकृदन्तप्रक्रिया ] ... संवेगादिगुणैर्वशीकृतजना विख्यातकीर्तिप्रभा स्तेषामस्ति विचक्षणो विनयवान् शिष्यः सदानन्दकः // 1 // निधिनन्दार्वभूवर्षे 1799 सदानन्दः सुधीमुदे // सिद्धान्तचन्द्रिकावृत्तिं कृदन्ते कृतवानृजुम् // 2 // इति श्रीसिद्धान्तचन्द्रिकाया व्याख्या सुबोधिनीसमाख्या सदानन्दी समाप्ता // ( तत्त्वदी०)-धातूनामानन्त्यात्तेभ्यश्चोत्पद्यमानानां कृतामप्यानन्त्यमतो न सर्वशः शब्दा व्युत्पादयितुं शक्या इत्याह-लोकादिति।शेषस्य उक्तादन्यस्य शब्दस्य सिद्धिर्निष्पत्तिर्लोकादनादि वृद्धशब्दप्रयोगाद्वयाकरणान्तराच्च ज्ञेयेत्यर्थः।सिद्धिशब्दो मङ्गलवाचक इत्यन्ते प्रयुक्तः। आदिमध्यावसानेषु मङ्गलमाचरणीयमित्युक्तः / समंङ्गलानि शास्त्राणि प्रथन्ते वीरपुरुषकाण्यायुष्मत्पुरुषकाणि भवन्त्यध्येतारश्चास्य वर्द्धन्ते एवं चैतदध्येतॄणां कार्यसिद्धिः स्यादिति ध्वनितम् // लोकेशकरसंज्ञेन श्रीक्षेमकरसू नुना / मुदे भूयादुमाशम्भ्योर्विहिता तत्त्वदीपिका // 1 // चन्द्रवेदहयभूमिसंयुते 1741 वत्सरे नभसि मासि शोभने / शुक्लपक्षदशमीतिथावियं दीपिका बुधप्रदीपिका कृता // 2 // श्रीचण्डिकायाश्चरणारविन्दप्रसादतो यल्लघुदीपिकाऽभूत् / मनीषयाऽपीह भवत्वमुष्या अध्येतुरध्यापनहेतुराशु // 3 // इति श्रीमद्रामकरपौत्रश्रीक्षमकरसूनुलोकेशकरविरचिता __ सिद्धान्तचन्द्रिकाव्याख्या तत्त्वदीपिका समाप्ता। पुस्तक मिलनेका ठिकाना खेमराज श्रीकृष्णदास, "श्रीवेङ्कटेश्वर" स्टीम्-प्रेस, बम्बई. / गङ्गाविष्णु श्रीकृष्णदास, "लक्ष्मीवेङ्कटेश्वर" प्रेस, कल्याण-बम्बई.