________________
[ उत्तरकृदन्तप्रक्रिया ] टीकाद्वयोपेता ।
(३४५) (निमूलसमूलयोः कषः) अत्र प्रकरणे पूर्वकाल इति न संबध्यते असंभवादप्रतीतेश्च ॥ निमूलकाषं कषति । समूलकाषं कषति । निमूलं समूलं वा कषतीत्यर्थः॥
(सुबोधिनी)-निमूलसमूलयोः कषः ॥ निमूलसमूलयोः कर्मणोरुपपदयोः कष हिंसायामस्माद्धातोर्णम् स्यात् ॥ __(तत्त्वदी०)-निमूल०॥निमूलादिप्रकृतिकधातोरेव कषादेन त्वन्यधातुयोगेऽपीति बोध्यम्।। निमूलकाषमिति ॥ निर्गतं मूलमस्येति निमूलम् । एकस्यापि धात्वथस्य निमूलादिविशेषणसंबन्धाद्भेदे सति सामान्यविशेषभावेन विशेषणविशेष्यभावः । एवमग्रेऽपि ॥
(शुष्कचूर्णरूक्षेषु कर्मसूपपदेषु पिषः) शुष्कपेष पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् ॥ . (मुबोधिनी) शुष्कचूर्णरूक्षेषु कर्ममूपपदेषु पिषः॥एषु कर्मसूपपदेषु पिष्ल संचूर्णनेऽस्माद्धातोर्णम् स्यात् ॥
(समूलाकृतजीवेषु कर्मसु हन्कृयहां णम्) समूलघातं हन्ति॥ समूलं हन्तीत्यर्थः । अकृतकारं करोति । जीवग्राहं गृह्णाति । जीवन्तं गृहातीत्यर्थः ॥
(सुबोधिनी)-समृलाकृतजीवेषु कर्मसु हन्कृयहां णम्॥समूलादिषु कर्ममूपपदेषु हनादिभ्यो णम् स्यात्।हनादीनामेव यथाविध्यनुप्रयोगश्च कर्तव्यः॥समूलोपपदाद्धन्तेर्णमि कृत हनो घदिति घत् । ततोऽत उपधाया इति वृद्धिः। समूलघातम् ॥ जीवोपपदाद् गृहातेर्णमि कृते वृद्धिः । जीवग्राहम्।जीवतीति जीवः। नाम्युपधादिति कः। जीवन्तं गृहातीत्यर्थः॥
(करणे हनः ) पादघातं हन्ति । पादेन हन्तीत्यर्थः॥ (सुबोधिनी)-करणे हनः॥ करणकारकोपपदाद्धन्तेणम् स्याद्धन्तेरनुप्रयोगश्च ॥ नित्यानुप्रयोगार्थमिदं सूत्रम् । भिन्नधातुसंबन्धे तु हिंसानामिति वक्ष्यते ॥
( स्नेहने पिषः ) उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥ (सुबोधिनी )-स्नेहने पिषः ॥ स्नेहनकरणोपपदात् पिष्ल संचूर्णनेऽस्माण्णम् स्यात् ॥ स्निह्यते येन तत् स्नेहनं तस्मिन् । पेषवासवाहनादिषु परेषु उदकस्योदादेशो वक्तव्य इत्युदादेशः । उदपेषम् ॥
(हस्तार्थे करणे वर्तिग्रहोः) हस्तवर्त वर्तयति । करवतम् । हस्तेन गुटिकां करोतीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥