________________
( ३५० )
सिद्धान्तचन्द्रिका |
[ उत्तरकृदन्तप्रक्रिया J
(सुबोधिनी) - अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमौ वा ॥ अव्ययपूर्वपदात्करोतेः क्त्वाणमौ वा स्तोऽयथाभिप्रेताख्यानेऽर्थे ॥ ययाऽभिप्रेतं तथानाख्यानमित्यर्थः । अप्रियस्य नीचैः कथनं यथाभिप्रेताख्यानं तद्विपरीतमयथाभिप्रेताख्यानमिति ।
( तिर्यगुपपदे समाप्तौ कृञः क्त्वाणमौ वा ) तिर्यक्कृत्य गत इति । तिर्यक्कृत्वा तिर्यक्कारम् । समाप्य गत इत्यर्थः । समाप्तौ किम् । तिर्यक् कृत्वा काष्ठं गतः ॥
(सुबोधिनी) - तिर्यगुपपदे समाप्तौ कृञः क्त्वाणमौ वा ॥ तिर्यक्छब्दोपपदात्करोतेः क्त्वामौ वा स्तः समाप्तौ गम्यमानायाम् ॥ समाप्तौ किम् । तिर्यक कृत्वा काष्ठं गतः । अग्रतः स्थितं काष्ठं पार्श्वतः कृत्वा गत इत्यर्थः ॥
( स्वाङ्गे तस्प्रत्यये कृभ्वोः ) मुखतःकृत्य गतः । मुखतः कृत्वा । मुखतःकारम् । मुखतोभूय गतः । मुखतोभूत्वा रखतोभावम् ॥
(सुबोधिनी ) - खाङ्गे तस्प्रत्यये कृभ्वोः ॥ तस्प्रत्ययान्ते स्वाने उपपदे डुकृञ् करणे भू सत्तायामाभ्यां णम् स्यात् ॥ तस् प्रत्ययो यस्मात्तत् तस्प्रत्ययं तस्मिन् । तस्प्रत्यये किम् । मुखे कृत्वा गतः ।
( नाधार्थप्रत्ययान्त व्यर्थे कृभ्वोः क्त्वाणमौ वा ) अनाना नानाकृत्य - नानाकृत्वा नानाकारम् I विनाकृत्य - विनाकृत्वाविनाकारम् | नानाभूय-नानाभूत्वा - नानाभावम् । अनेकद्रव्यमेकं कृत्वा एकधाकृत्य-- एकधा कृत्वा -- एकधाकारम् 1 एकधाभूयएकधाभूत्वा--एकधाभावम् । प्रत्ययग्रहणं किम् । हिरुक्कृत्वा । पृथग्भूत्वा ॥
(सुबोधिनी ) - नाधार्थप्रत्ययान्ते च्व्यर्थे कृभ्वोः क्त्वाणमौ वा ॥ नाधार्थप्रत्ययान्ते च्व्यर्थविषये उपपदे कृभूभ्यां क्त्वाणमौ वा स्तः ॥ विनञ्भ्यां नानाञाविति नानाञ प्रत्ययौ ॥ संख्यायाः प्रकारे धा इति धाम यः । द्वित्रिभ्यामेवाधमुजी चेति एधाधमुजाविति नाधार्थप्रत्ययाः । एवं द्वैधंकृत्येत्यादि ॥ प्रत्ययग्रहणं किम् । हिरुक् कृत्वा | पृथक् कृत्वा । 'हिरु मध्ये विनार्थे च' इनिरुद्रः ॥ ' हिरुगुक्तं च सामीप्ये' इत्यमरमाला || 'पृथग्विनान्तरेणर्ते हिरुड़ नाना च वर्जने' इत्यमरः ॥
( तूष्णींशब्दे भुवः क्त्वाणमौ ) तूष्णींभूय गतः तूष्णींभूत्वा । तूष्णींभावम् ॥