________________
[ आख्याते दिवादयः ] टीकाद्वयोपेता।
(९७) (मस्जिनशोझसे नुम् ) ननंष्ठ । नेशिव-नेश्व, नेशिम-नश्म. नशिता-नंष्टा । नशिष्यति-नक्ष्यति । अनशत् ॥ तृपू प्रीणने । तृप्यति । ततर्पिथ-तत्रप्थ-ततर्थ । तर्पिता-त्रता-तप्र्ता । तर्पिष्यति त्रप्स्यति--तप्य॑ति । अतृपत्-अतीत्-अत्राप्सीत्-अताप्सीत् ॥ दृप् हर्षगर्वयोः । दृप्यति । अद्राप्सीत्-अपत् ॥ द्रुह जिघांसायाम् । दुद्रोहिथ--दुद्रोढ-दुद्राग्ध । दुद्रुहिव-दुदुह्व, दुद्रुहिम-दुद्रुह्म । द्रोहिता-द्रोग्धा-द्रोढा । द्रोहिष्यति-ध्रोक्ष्यति । अद्रुहत् ॥ मुह वैचित्य । मुह्यति । मुमोहिथ-मुमोढ-मुमोग्ध ॥ ष्णुह उद्दिरणे । स्नुह्यति । सुष्णोहिथ-सुष्णोढ-सुष्णोग्ध ॥ निह प्रीतौ । सिष्णे: हिथ-सिष्णेढ-सिष्णेग्ध ॥ शमु उपशमे ॥
( सुबोधिनी)-मस्जिनशोझसे नुम् ॥ अनयोर्नुम् स्यात् झसे परे ॥ टुमस्जो शुद्धौ । णश अदर्शने । छशषेति षत्वम्।ष्टुत्वम् । ननंष्ठ । नशोरिति कत्वमिह कर्तुं न शंक्यं पदान्त एव तद्विधानात् । अन्यथा नष्टं नष्टिरित्यादि न सिध्यति॥तृप् प्रीणने । प्रीणनं तृप्तिस्तर्पणं च । 'नाग्निस्तृप्यति काष्ठानाम्। करणस्य संबन्धविवक्षायां षष्ठी। पितृन् अतार्सीत् इत्युभयत्र दर्शनात्। स्वरतीति वेट् । ततर्पिथ । कृशादीनामिति वा रततर्पथ तत्रपथ । कृष्स्पृशमृगतृपढपामिति वा सिः। अतीत् । इडभावे अनिटो नामिवत इति वृद्धिः । अताप्र्सीत् । रत्वे अत उपधाया इति पुनर्वृद्धिः। अत्राप्सीत् । अतृपत् ॥ दृपे हर्पमोहनयोः । मोहनं गर्वः॥ मुह वैचित्ये । वैचित्यमविवेकः । द्रुहादेरिति घत्वढत्वे । तथोर्द्ध इति थस्य धत्वम् । झबे इति गः। मुमोग्ध । ष्टुत्वे ढि ढ इति ढलोपः । मुमोढ-मुमोहिथ । लटि घत्वढत्वयोस्तुल्यं रूपम् । खसे इति षढोरिति च कत्वविधानात् । मोक्ष्यते ॥ शमु उपशमे । उदित्वात् क्त्वात्प्रयये वेट् । शमित्वा । शान्त्वा । क्वचिद्वेट इति क्तक्तवत्वोरनिट् । शान्तः॥
(तत्त्वदी०)--नंष्टेति। अत्र नशेः को वेति पक्षे ककारोऽस्त्विति न भ्रमितव्यं तस्य पदान्त एव विधानात् । स्याद्यधिकाराच्च ।
शमा दीर्घः ॥शमादीनामष्टानां दीर्घः कर्तरि ये ॥ शाम्यति । शमिता । अशमत् ॥ तमु काङ्क्षायाम् । ताम्यति । तताम । तेमतुः। अतमत् ॥ दमु शमनायाम् । दाम्यति । देमतुः । अदमत् ॥ श्रम तपसि खेदे च । श्राम्यति । शश्राम, शश्रमतुः । अश्रमत् ॥? भ्रमु अनवस्थाने । भ्राम्यति-भ्रमति । बभ्राम । भ्रमतुः-बभ्रमतुः। अभ्रमत् ॥ क्षमू सहने । क्षाम्यति । चक्षमिथ-चक्षन्थ । अक्षमत् ॥ कमु ग्लानौ। भ्राशूभ्लाशेति यो वा । क्लाम्यति । ष्ठिवुकम्वाचमा