Page #1
--------------------------------------------------------------------------
________________
ॐ तत्सद्ब्रह्मणे नमः । Vyasan
महामुनिश्रीमद्व्यासप्रणीतं
पद्मपुराणम् ।
Pad ma Püro Fam
( तत्राssदिममादिखण्डं द्वितीयं भूमिखण्डं चेत्येतद्वयरूपः प्रथमो भागः )
एतत्पुस्तकं कै० श्री० रावसाहेब मण्डलीकेत्युपनामधारिभिः विश्वनाथ नारायण इत्येतैः
महता परिश्रमेण बहुतराणि पुस्तकानि मेलयित्वा सपाठान्तरनिर्देशं संशोधितम् ।
तच्च
महादेव चिमणाजी आपटे इत्यनेन
पुण्याख्यात्तन
आनन्दाश्रममुद्रणालये
आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् ।
शालिवाहनशकाब्दाः १८१५ रिख्रस्ताब्दाः १८९३
( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ) चतुर्विंशतिरूपकाः ।
मूल्यं
:
:.
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
अथ पद्मपुराणान्तर्गताध्यायविषयानुक्रमः ।
तत्र प्रथममादिखण्डम् ।
पुराणप्रस्तावः श्रवणफलं च ... ... ... ... १ कन्यातीथादितीथीनां वर्णनम्,मणकचरितम. करुक्षे. आदिमर्गकथनं पचमहाभतोत्पनिश्च ... ... ... २ त्रमाहात्म्यवर्णनम् , सरस्वत्यरुणासंगममाहात्म्यवर्णनवखण्डसहितजम्बद्रीपवर्णनम् ... ... ... ३ नम , कुरुक्षेत्रमर्यादाकथनं तदन्तर्गतविविधतीर्थवमेरुचतुर्दिकप्रदेशवर्णनम् ... ... ... ... न च ... ... . वर्षाणां पर्वतानां नामानि वर्णन च ... ... ...
५ धर्मतीर्थादिविविधतीर्थानां वर्णनम् ... ... ... २८ भाग्नवर्षवर्णनम, तदन्तर्गतानां नानां पर्वतानां देशानां कालिन्दीनदीमाहात्म्यम् .... ....
च नामानि... ... ... ... ... ... : कालिन्दामाहात्म्यवर्णनप्रमगाछीकुण्डलविकुण्डलाख्यभाग्नवर्षम्य हेमवतम्य च प्रमाणकथनम् ... ... वैश्यपुत्रयोश्चरित्रप्रारम्भः ... ... ... ... शाकद्वीपवर्णनम् ... ... ... ... ... ८ वैश्यपत्रचरितप्रसद्गादारनाममाहात्म्यकथनम् , शालिग्रामप्तमागरवर्णनम , क्रो जादिीपवर्णनम ... ... ९ मशिलामाहात्म्यकथनम , नानाविधधर्मकथनम् ... ३१ धर्मनारदमबाद पृथ्वांप्रदक्षिणाफलवर्णनप्रश्नः ... ... १० गुगन्धादिनानाविधतीर्थवर्णनम् । तीर्थयात्रावर्णन पुष्करमाहात्म्यकथन च ... ... ११ वागणसीमहिमवर्णनम् .... .... .... पुष्करगमापस्थनानाविधतार्थनामकथनम् ... ... १. वाराणमास्थिताकाराभिधशिवलिङ्गमहिमवर्णनम् नर्मदामाहात्म्यवर्णनम् ... ... ... ...
१३ कपीश्वरवर्णनम , पिशाचमोचनतीर्थवर्णनप्रमहाच्छकुजलेश्वरतार्थापनि कथनम् , त्रिपुरदहनोपक्रम ... १४ कर्णाभिधावप्रचरितम् ... ... ... त्रिपुग्दहनम , अमरकण्टकार्थवर्णनम् ... ...
१' मध्यमेश्वरमाहात्म्य वर्णनम् ... ... ... ... कावेरीनर्मदासंगममाहात्म्यकथनम ... ... ....
१६ वाराणीस्थितविविधार्थवर्णनम् ... ... ... नर्मदोनरकलनिकटस्थित विविधताथवर्णनम्, नर्मदा
गयामाहात्म्य म्..... .... .... .... स्तोत्रम् ... ... ... ... ... ... " समंदाक्षिणक टममीपस्थनानाविधतीर्थवर्णनम् ... ५८
नानाविधतार्थानां वर्णनम् ... ... ... ... ३८
'मविद्याताथवर्णनम , गगासागरसंगमवर्णनं वैतरणीबदरिनर्मदानिकटस्थितशुक्रतीर्थस्योत्पनिकथन वर्णन च ... १९ ममदागमीपस्थनग्काभिवार्थमाहात्म्यकथनम, दशा
काश्रमगोकर्णगोदावर्यादिविविधतार्थवर्णनं दण्डका। श्वमेधतीर्थवर्णनम, भगुतीर्थोत्पनिकथानकम् ... २०
___रण्यगततीर्थानां वर्णन च, प्रयागमाहात्म्यम् विहंगेश्वरादितार्थानां वर्णनम्, नर्मदाधिसंगममाहात्म्य
दिलापतीर्थयात्रागमनवर्णनम् ... ... ... ३९ वर्णनम् , तीर्थमाहात्म्यपटनफलम् ... ... ... २१
., युधिष्ठिरमार्कण्डेयमवादे विस्तरेणनर्मदाजलकणस्पशानन्धर्वकन्याशापमोचनरूप रतो. प्रयागमाहात्म्यारम्भः.... .... ....
पक्रमः, गन्धर्वकन्यानामृषिकुमारस्य च परस्परशा. प्रयागानकटांस्थतीर्थानां वर्णनम् ... ... ...
पप्रदानात्पिशाचयोनिगमनम, ... ... ... .. प्रयागक्षेत्रकृतदानपुण्यवर्णनम् ... ... कोमशप्रसादानर्मदाजलकणस्पर्शन तेषां शापमोचनम , प्रयागतीर्थयात्राविधिकमवर्णनं प्रयागमहिमवर्णन वैक्षिणसागरनिकटस्थतार्थवर्णनम सरस्वतीमागरसंगम- तदन्तगतताथाना वर्णनम् ... ... ...
माहात्म्यकथनम् , वरदानादिनानाताथवर्णनम् ... २४ यमुनामाहात्म्यम् .... ..... नानाविधतार्थानां वर्णनम् ... ... ... ... २५ नार्थादिदेवतानिन्दकस्याधोगमनवर्णनम् ... कुरुक्षेत्रादितीर्थवर्णनम्, रामबदमाहात्म्यकथनम् , वंश- प्रयागे सर्वतीर्थनिवासवर्णनम् ... ...
मूलकायशोधनादिनीर्थानां वर्णनम् ... ... ... २६ प्रयागे सर्वदेवतानिवासवर्णनम् ... ...
Page #4
--------------------------------------------------------------------------
________________
पद्मपुराणान्तर्गताध्यायानांयुधिष्ठिरराज्याभिषेकवर्णनं कृष्णस्य युधिष्ठिरं प्रति नि- गृहस्थधर्मनिरूपणम् ... ... ... ...
त्यप्रयागस्मरणविषयक उपदेशश्च... ... ... ४९ वानप्रस्थाश्रमाचारनिरूपणम् ... ... ... विष्णुभाक्तिमाहात्म्यवर्णनं कर्मयोगप्रशंसा च... ... ५० यतिधर्मनिरूपणम् ... ... ... ... नानाविधकर्मयोगकथनम् ... ... ... ५१-५२ पुराणश्रवणमाहात्म्यनिरूपणम् ... वर्णाश्रमधर्मनिरूपणम् ... ... ... ... ५३-५५ आदिखण्डश्रवणफलम् ... ... ... ... भक्ष्याभक्ष्यनियमविचारः ... ... ... ... ५६
अथ द्वितीयं भूमिखण्डम् ।
पितृतीर्थमहिमवर्णनारम्भः-प्रद्दरादपूर्वचरितकथ. बलनान्नो दैन्यस्य वधकथनम् ... ... ... नप्रसङ्गाच्छिवशर्मकथाप्रारम्भः, शिवशर्मणा स्वपुत्राणां वृत्रव मनप्रकार: ... ... ... ... पितभक्तिदातावलोकनार्थ तेषां मनोभावपरीक्षणम १-२ वृत्रासुरवधवणनम् ...
मरुदत्यानकथनम् ... ... ... पत्रभावावलोकनपरितटस्थ शिवशर्मणः पत्रेभ्य इश्वर-
... प्रदानम् ... ... ... ... ... ... पृथुचारतप्रस्तावः .... .... शिवशर्मणा कनिष्टपत्रम्य मोमशर्मणो भावपरीक्षणम
पथपाख्यानम... ... ... ... .. परितुष्टेन शिवशर्मणा सोमशर्माण प्रति वरप्रदानम सोम- तम्यत्र चरितकथन कथाश्रवणफलं च...
शर्मणः प्रहगदजन्म, इन्द्रस्य जन्माख्यानम, वनोपाख्यानारम्भः इन्द्रपदप्राभिश्च ... ... ... ... ...
। अत्रिप्रेग्णयाऽहम्य तप मे प्रति गमनम् ... ...
.. पुत्रशोकमंतप्ताया दनोदितिनिलय आगमन पदभ्रष्टपु
__ अनवरप्रदानम् ... ... ... ... ... शोकक्लिन्नाया दिनविलापश्च ... ... ...
सुनीथाचरितम् .... .... .... ....
गनाथाया मोहिनाविद्याप्राभिकथनम् ... दितेः कश्यपेन कथितमान्मज्ञानयोगख्यानम. शगंगेत्पत्तिः, इन्द्रियाणां संवादः ... ... ...
सुनाया प्रति गम्भाया सभाषणम ... ... ...
अन मह मनाथाविवाहविधिकथनम ... ... ... अध्यात्मज्ञानस्य रूपकवर्णनम् । कश्यपस्य दितिसंबोधनम् ... ... ... ...
बनपापपरुषयो संवाद जनमतप्रतिपादनम... ...
. देवेभ्यः पगभतानां दैत्यानां तपश्चर्या प्रतिनिरूपणम ५. वन प्रति पीणां गंबोधः, तेभ्यम्तम्यानरम बनम्य
गन्यपाणिमन्थनम इन्द्रजन्मकथनप्रसङ्गात्सुव्रतोपाख्यानारम्भः, तत्प्रसन
... ... ... ... ३७ सुमनासामशर्मणोः संवादा वैगग्योपदेशश्च, पुत्रादीनामृ
पापकृदाप वन. स्वग गतम्तस्य कारणम, वनविष्णणादिसंबन्धः, मुपुत्रगणनिरूपणम् ... ... ... १५ मवाद ... ... दर्वासाधर्मसंवादः, पण्याचरणकथनम सपर्गवारधर्मस्व- वनविष्णुमवादे दानम्य काललक्षण विधिलक्षण पात्र
रूपकथनम . दर्वासमा दत्तो धर्मशापः ... ... १. लक्षण च ... ... ... ... ... ... सुमनायै सोमशर्मणो ब्रह्मचर्यलक्षणप्रश्नः ... ... ५. वनविष्णुमवाद नमित्तिकदाननिरूपणम ... ... . सोमशर्मणे मुमनया स्वपूर्वजन्मवृत्तकथनम् , धर्मनिरत- वनावणुगवाद-भायातीर्थप्रस्तावः सकलाच
नरस्य जन्ममृत्युलक्षणनिरूपणम् ... ... ... १४ रितारम्भश्च कृकलाख्यन भी मुकलात्याग', पापिनां मरणलक्षणम् ... ... ... ... ... १५ भतृर्गहतस्त्रादुःखवर्णनम .... ... ... ... ४१ पुत्रप्राप्तिसाधननिरूपणम् ... ... ... ... १६ मुकलामखिमवादे-सदवाचरितारम्भः , गुदेवासवसिष्टेन सोमशर्मणः पूर्वजन्मचरितकथनम् , सोमशर्म- हिनम्यवाकोगयागमनम , सुदेवासदाचानिरूप___णो द्विजजन्मप्राप्तः कारणम् ... ... ... १७ णम तदन्नगतशकरश करीसवादे वाग्धर्मनिरूपणम् ४५ मुमनासोमशर्मणास्तपार्थ ग्वातीरे गमनम् , तपःप्रभावा- इक्ष्वाकुवगहायुद्ध वणनम , वगण वाकुसैन्यपराजयः ४
ग्दिशनम् , विष्णुस्तोत्रम , ... ... ... १८ मग्राम वराहमरणम , वगहशापविमोचनम् ... ... . हरिणा तयावरप्रदानम् , सुव्रतजन्म... ... ... १९ इक्ष्वाक्णा लव्धक द्वारा शकगंधातः ... ... ... .. सुव्रततपश्चयाकरणवर्णनम् ... ... ... ... २० मुदेवाशकरीसंवादं शक राशकरयोः पूर्वजन्मचरितनिरू. विष्णुना सुव्रतं प्रति वरप्रदानम् ... ... ... २१ पगम् ... ... ... ... ... ... ४६
Page #5
--------------------------------------------------------------------------
________________
ॐ तत्सद्रमणे नमः। महामुनिश्रीव्यासप्रणीतं पद्मपुराणम्।
तत्राऽऽदिममादिखण्डम्।
अथ प्रथमोऽध्यायः ।
नमामि गोविन्दपदारविन्दं सदेन्दिरानन्दनमुत्तमाढ्यम् ।
जगजनानां हृदि संनिविष्टं महाजनैकायनमुत्तमोत्तमम् ॥ एकदा मुनयः सर्वे ज्वलज्ज्वलनसंनिभाः। हिमवद्वासिनः सर्वे मुनयो वेदपारगाः॥ . त्रिकालज्ञा महात्मानो नानापुण्याश्रमाश्रयाः । महेन्द्रागिरता ये च ये च विन्ध्यनिवासिनः॥ येऽर्बुदारण्यनिरताः पुष्करारण्यवासिनः । जाम्बुमार्गरता ये च [*ये च सत्यनिवासिनः ॥ : धर्मारण्यरता ये च दण्डकारण्यवासिनः । श्रीशैलनिरता ये च ] कुरुक्षेत्रनिवासिनः॥ । एते चान्ये च बहवः सशिप्या मुनयोऽमलाः । नैमिषं समुपायाताः शौनकं द्रष्टुमुत्सुकाः॥ । तं पूजयित्वा विधिवत्तेन ते च सुपूजिताः । आसनेषु विचित्रेषु वृष्यादिषु यथाक्रमम् ॥ ५ शौनकेन प्रदत्तेपु आसीनास्ते तपोधनाः । कृष्णाश्रिताः कथाः पुण्याः परस्परमथाब्रुवन् ॥ ८ कथान्तेषु ततस्तेषां मुनीनां भावितात्मनाम् । आजगाम महातेजाः सृतस्तत्र महाद्युतिः ॥ ९ व्यासशिष्यः पुराणज्ञो रोमहर्पणसंज्ञकः । तान्प्रणम्य यथान्यायं स तैश्चैवाभिपूजितः॥ १० उपविष्टं यथायोगं शौनकाद्या महर्पयः । व्यासशिष्यं सुखासीनं मूतं वै रोमहर्षणम् ॥ तं पप्रच्छुर्महाभागाः शानकाधास्तपोधनाः॥ । ऋपय ऊचुःपौराणिक महाबुद्धे रोमहर्षण सुव्रत । त्वत्तः श्रुता महापुण्याः पुरा पौराणिकीः कथाः ॥ १२ *सांप्रतं च प्रवृत्ताः स्म कथायां सक्षणा हरेः । स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे ॥१३ पुनः पुराणमाचक्ष्व हरिवार्तासमन्वितम् । हरेरन्यकथा सूत श्मशानसदृशी स्मृता ॥ १४ हरिस्तीर्थस्वरूपेण स्वयं निष्ठनि तच्छ्नम् । तीर्थानां पुण्यदातॄणां नामानि किल कीर्तय ॥ १५ कुन एतत्समुत्पन्नं केन वा परिपाल्यने । कस्मिल्लयं समभ्येति जगदेतच्चराचरम् ॥ १६ क्षेत्राणि कानि पुण्यानि के च पूज्याः शिलांचयाः। नद्यश्च काः पराः पुण्या नृणां पापहराः शुभाः ॥ एतत्सर्व महाभाग कथयस्व यथाक्रमम् ॥
१७ सूत उवाचसाधु साधु महाभागाः साधु पृष्टं तपोधनाः । तं प्रणम्य प्रवक्ष्यामि पुराणें पद्मसंज्ञकम् ॥ १८
* एनश्चिमान्तर्गतः पाठः ख. हु. च. अ. ढ. इत्येतेष्वेव पुस्तकेषु दृश्यते ।
१ ख. ज. 'माख्यम् । ढ. 'माद्यम् । २. तु. स्मिनिलयम । ३ स. म. 'ब्रह्मसं।
Page #6
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं - [ १ आदिखण्डे २ द्वितीयोऽध्यायः ]
२३
२४
पाराशर्य परमपुरुषं विश्ववेदैकयोनिं विद्याधारं विपुलमतिदं वेदवेदान्तवेद्यम् । शश्वच्छान्तं स्वमतिविषयं शुद्धितेजोविशालं वेदव्यासं विततयशसं सर्वदाऽहं नमामि ॥ १९ नमो भगवते तस्मै व्यासायामिततेजसे । यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥ २० प्रवक्ष्यामि महापुण्यं पुराणं पद्मसंज्ञितम् । सहस्रं पञ्चपञ्चाशत्षभिः खण्डैः समन्वितम् ॥ २१ asssदावादिखण्डं स्यानमिखण्डं ततः परम् । ब्रह्मखण्डं च तत्पश्चात्ततः पातालखण्डकम् ।। २२ क्रियाखण्डं ततः ख्यातमुत्तरं खण्डमन्तिमम् । एतदेव महापद्ममुद्भूतं यन्मयं जगत् ॥ तद्वृत्तान्ताश्रयं तस्मात्पद्ममित्युच्यते बुधैः । एतत्पुराणममलं विष्णुमाहात्म्यनिर्मलम् || देवदेवो हरियेद्वै ब्रह्मणे प्रोक्तवान्पुरा । ब्रह्मा तु नारदायाऽऽह नारदोऽस्मद्गुरोः पुरः ॥ व्यासः सर्वपुराणानि सेतिहासानि संहिताः । अध्यापयामास गुरुर्मामतिप्रियमात्मनः ॥ तत्तेऽहं संप्रवक्ष्यामि पुराणमतिदुर्लभम् । यच्छ्रुत्वा ब्रह्महत्यादिपापेभ्यो मुच्यते नरः ।। सर्वतीर्थाभिषेकं च लभते शृणुते हि यः । श्रद्धया परया भक्त्या श्रुतमात्रेण मुक्तिदम् ॥ अश्रद्धयाऽपि शृणुते लभते पुण्यसंचयम् । तस्मात्सर्वप्रयत्नेन पद्मं श्रोत्रातिथी कुरु ॥ तत्राऽऽदिखण्डं वक्ष्यामि पुण्यं पापप्रणाशनम् । शृण्वन्तु मुनयः सर्वे सशिप्यास्त्वत्र ये स्थिताः ।। ३० इति श्रीमहापुराण पाद्म आदिखण्डं प्रथमोऽध्यायः ॥ १ ॥
२५
२६
२७
२८
२९
अथ द्वितीयोऽध्याय ।
सूत उवाच -
१
२
'
आदिसर्गमहं तावत्कथयामि द्विजोत्तमाः । ज्ञायते येन भगवान्परमात्मा सनातनः ॥ सृष्टेषु प्रलयादूर्ध्वं नाऽऽसीत्किचिद्विजोत्तमाः । ब्रह्मसंज्ञमभूदेकं ज्योतिर्वै सर्वकारकम् ।। नित्यं निरञ्जनं शान्तं निर्गुणं नित्यनिर्मलम् । आनन्दस्य पुरं स्वच्छं यत्काङ्क्षन्ति मुमुक्षवः || ३ सर्वज्ञं ज्ञानरूपत्वादनन्तमजमव्ययम् । अविनाशि सदास्वच्छमच्युतं व्यापकं महत् ।। संर्गकाले तु संप्राप्ते ज्ञात्वा तं ज्ञानरूपकम् । आत्मलीनं विकारं च तत्स्रष्टुमुपचक्रमे ॥ तस्मात्प्रधानमुद्भूतं ततश्चापि महानभूत् । सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् ॥ प्रधानतत्त्वेन समं त्वचा बीजमिवाऽऽनृतम् । वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ॥ त्रिविधोऽयमर्हकारी महत्तत्त्वादजायत । यथा प्रधानेन महान्महता स तथाssवृतः ॥ भूतादिस्तु विकुर्वाणः शब्दं तन्मात्रकं ततः । ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥ शब्दमात्रं तथाssकाशं भूतादिः स समाहणीत् । शब्दमात्रं तथाऽऽकाशं स्पर्शमात्रं ससर्ज ह १० बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः । आकाशं शब्दमात्रं तु स्पर्शमात्रं समादृणात् ॥ ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह। ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ।।
་
८
દ્
१४ १२
५
६
१ ख. अ. ंशत्पश्चख ं । २ ख. अ. 'त्राऽऽदा सृष्टिखण्डं स्याद्धमिखण्ड ततः परम् ।। स्वर्गखण्ड च तत्पश्चात्ततः पाता लखण्डकम् ॥ पञ्चमं च ततः ख्यातमुत्तरं खण्डमुत्तमम् ॥ ए । ३ ख ज 'अद्भु ४. ड. "म्यमुत्तमम् । ५ ड ढ सः | ६ क. न्दमापरं । ७ ख . पुच्छं । ८ झ 'स्वस्थम । ९ ड सङ्गका । १० ड वीजं त्रिरा । ११ भूतादि ।
Page #7
--------------------------------------------------------------------------
________________
सुदेवायै शुक्रर्या स्वपूर्वजन्मचरितस्मरणात्राप्तिकारण
निरूपणम् ...
...
...
सुदेवाशुकर्गसंवादे–पद्मावत्युग्रसेनचरितारम्भः पद्मावत्याः क्रीडार्थ रमणीयपर्वतगमनम्, गोभिलदैत्येन
पद्मावतीपातिव्रत्यभङ्गः पद्मावतीगोभिलदैत्यसंवादे पातित्रत्यादिनानाविधधर्म
...
...
कथनम्
पद्मावत्याः पितुगृहगमनम्, अनन्तरं पुनर्भर्तृगृहागमनम, गर्भपातनोद्यतया पद्मावत्या सार्ध गर्भस्थजीवभाषणम्, भिक्षोद्देशेनाटमानायाः सुदेवाया आकस्मिको भर्तृगृह प्रवेशः शिवशर्मणो मङ्गलाख्यपत्न्या सह सवादः, सुदेवाया इक्ष्वाकुपत्न्यं पापयोनिभ्रमणजद खकथनम, इक्ष्वाकुपत्नीदत्तपुण्येन सुदेवायाः स्वर्गगमनम् सुकल्यपातिव्रत्यभङ्गार्थ मन्मथेन सहेन्द्रकृतप्रयत्नः, सुकल्या महेन्द्रप्रेषितदतीसंवादः, सुकलाकृतदे हम्यासारतावर्णनम्, सुकलापातित्रत्यभङ्गार्थमन्त्रं प्रांत कदस्य गोक्तिः तस्यास्ते जीवलपरीक्षणार्थमिन्द्रेण सह वियोगमनम्
...
...
विषयानुक्रमः ।
मुकलापरीक्षार्थमागतस्य मन्मथस्य तेजोभङ्गः कलायाम प्रतीन्द्रसदनसकाशात्पातित्रत्यपरीक्षणयार्थना, सुकलया देrराकाशाद्भत्र गमनवार्ताश्रव
णम्
कीडायाः सुकलागृहागमनम तयोः संवादः इन्द्रकामयो परस्पर भगनम
कलाप राक्षणार्थमागतस्येन्द्रस्य तेजोभत: ... कलातार कुल प्रति तीर्थयात्रात स्वगृहपरावdaaratarपदेशः
·
कलम्य गृहागमनम गुकला को सुकलापातिनयपरितुष्टदेवतावरप्रदानम् । सुकलाख्यानसमाप्तिभीfateपरिसमाप्तिश्व
तृतीर्थारम्भः, सुकर्मचरितप्रस्तावः .... कपिलवाद, ferrorद प्रति पितृभक्तमाहात्स्यप्रतीति: तृभक्तिमाहमवर्णनम्
षचरितम् ययातिचरितारम्भः, ययाति प्रतीन्द्रप्रेपितस्य मानले. स्वर्गगमनविपये प्रार्थना सिलिना ययाति प्रति धर्मरक्षकशरीरम्य स्वर्गानाकारणनिवेदनम
जातिवाद देहात्पत्तिप्रकारनिरूपणम् जगवनम् मृतिस्थितिनिरूपणम् विविधधर्माधर्मविकवर्णनम्
| मातलिययातिसंवादे - अधर्मकर्मविपाकनिरूपणम्
४७
४८
धर्मकर्मविपाकनिरूपणम् शिवागमोक्तधर्मनिरूपणम् यमपीडावर्णनम्
४९
५०
५.१
५०
५०
''"
६०
६१
६५
•
६६
"
در
"
""
""
"
देवतानां स्थितिवर्णनम्, शिवविष्ण्वोरभेदवर्णनम् मातलि प्रति ययातेः स्वर्गानागमनकारणनिवेदनम्, मातलेः पुनः स्वर्गगमनम् ...
स्वराज्ये हरिनामामृतमाहात्म्यवर्णनाय ययातेर्दूतप्रेषणम्, नामामृतमाहात्म्यश्रवणफलम् . 'ययातिप्रेषितदूतानां ययातिराज्ये हरिनामामृतोपदेश
...
घोषः हरिनाममाहात्म्यवर्णनम्, ययात्यानयनार्थेन्द्रप्रेषितमदनस्य नटरूपेण सपरिवारं ययातिगृहागमनम् ययातिं प्रति वेषधारिणा मदनेन नाटकप्रदर्शनम् ययातेर्मृगयागमनम् ययातेर्वने विशालाभिधस्त्रीदर्शनम विशालाययातिसंवाद:, विशालावचनाज्जरादानाथं स्वपुत्राणामाह्वानम् ... तारुण्यादातुभ्यः पुत्रेभ्यः शापप्रदानम्, तारुण्यदात्रे पितृभक्ताय पुरवे राज्यादिदानम्, अनुविन्दुमत्या ययातिमोहनम्
...
·
...
...
...
...
...
ययातिना मातृभाज्ञायमानाद्यदुपुत्रं प्रति शापदानम् कामकन्याययातिरावादा, ययातेः स्वर्गगमनम्, अनतर कमेण ब्रह्मशिवविष्णुलोकगमनम्, तेभ्यश्चाभीएवरग्रहणम्
.s
ययातिचरितसमाप्तिः पितृतीर्थसमाप्तिश्व गुरुतीर्थारम्भः, च्यवनतीर्थयात्रावर्णनम्, कुञ्जल५८ शुकचरितारम्भः, उज्ज्वलेन स्वपित्रे दिवोदासकन्याविवाहवृत्तवर्णनम, उज्ज्वलेन पित्रे दिवोदासकन्याया विवाहकाले पतिमरणकारणप्रश्नः कुञ्जलशुकेन स्वपुत्राय दिवोदासकन्यायाः पूर्वजन्मचfeature वैष्णव धर्मनिरूपणम्, विष्णुध्यानिरूपणम् जयाविजयाजयन्तीवतभेदनिरूपणम् विष्णुशतनामस्तोत्रनिरूपणम् . उज्ज्वलशुकोपदेशाद्दिवोदासकन्याकृतविष्ण्वागधनवर्ण६२ नम, तस्यै विष्णुवरप्रदानम्
...
कुलस्य द्वितीयपुत्र प्रति प्रश्नः, द्वितीयपुत्रेण पितरं प्रतिदृष्टपूर्वनिवेदनम्, हंसव्याधयोश्चरितनिरूपणम् ८' ६४ कुञ्जलेन स्वपुत्रमदेहनिवारणार्थ प्रयागपुष्करमाहात्म्यवर्णनम, इन्द्रसभायां सृतिमत्सर्वतीर्थानामागमनम्, इन्द्रतीर्थसवादः ...
६७
६८
६९
७०
७१
७२
७३
७४
७५
७६
७७
७८
७९
८०
८१-८३ ८०
८.
तीर्थमाहात्म्य वर्णनप्रसङ्गेन विदुराख्यक्षत्रियचरितवर्णनम, ९ देवमगममाहात्म्य वर्णनम, रेवासंगमतीर्थमङ्गप्रसङ्गात्पमहापातकिनां मुक्तिनिरूपणम्...
८
८.
Page #8
--------------------------------------------------------------------------
________________
पद्मपुराणान्तर्गताध्यायानां विषयानुक्रमः । कुञ्जलस्य तृतीयपुत्रं प्रति दृष्टापूर्वनिवेदनप्रश्नः, स्व- हुण्डदैत्यवधप्रयाणसमय इन्द्रप्रेरणया मातलिसमानीते
मांसभक्षयित्रोः स्त्रीपुरुषयोश्चरित्रनिरूपणम् ... ९३ न्द्ररथारोहणम् , सर्वदेवैस्तं प्रति स्वशस्त्रास्त्रसमर्पणम् ११० पूर्वकर्मविपाकवैचित्र्यवर्णनम्, सुबाहचरितारम्भः ९१ प्रयाणसमये नगरवासिजनकृतोत्साहवर्णनम् ... ... १११ स्वर्गादिलोकानां गुणदोषवर्णनम् ... ... ... ९५ मार्गेऽशोकमुन्दर्या नहुषावलोकनम् ... ... ... ११२ स्वर्गनरकगामिना नराणां पुण्यपापकर्मनिरूपणम् ... ९६ अशोकसुन्दरीरम्भासंवादः, रम्भाद्वाराऽशोकसुन्दर्या सुबाहुगृहे वामदेवागमनम् , अन्नदानमाहात्म्यवर्णनम् ९७, नहुषं प्रति संदेशकथनम् ... ... ... ... ११३ वासुदेवाभिधस्तोत्रवर्णनम् ... ... ... ... ९८ नहुषस्याशोकसुन्दरी प्रति गम्भया पुनः संदेशकथनम् . भार्यासहितस्य सुबाहोर्वासुदेवाभिधस्तोत्रश्रवणान्मुक्तिः ९९ हुण्डसैन्यस्य युद्धोपक्रमः ... ... ... ... ११४ वेनस्य विष्णु प्रति कुअलशुकपूर्वचरितवर्णनप्रश्न: ... १०. हुण्डनहुषयुद्धवर्णनम् , हुण्डवधः ... ... ... :१७ कुञ्जलस्य चतुर्थपुत्रं प्रत्यदृष्टपूर्वनिवेदनप्रश्नः, कैलास- अशोकमुन्दरीमहितस्य नहुषस्य गृहागमनम् . पुत्राव
वर्णनम् , कपिझलेन स्वपित्रे दृष्टापूर्वनिवेदनम् ... १०१ लोकनान्नहुषमातापित्रोरानन्दवर्णनम् ... ... ११६ पार्वतीशिवयोः क्रीडार्थं वनगमनम् , कल्पद्रुमवर्णनम् . नहपेण मातापितृभ्यां स्वस्याशोकमुन्दा हुण्डस्य च
कल्पवृक्षाधोभागे कन्याजन्म, तस्याः पार्वतीशिव
यविरप्रदानम् ... ... ... ... ... .. तान्तानवदनम नहुषचरितसमाप्तिः ... ११. अशोकसन्दर्याश्चरित्रवर्णनम् , अशोकसुन्दरीहुण्डदैत्यम- कामोदाव्यानारम्भः, विहुण्डस्य तपोद्वारा मा
वादः, नहुषचरितम् दत्तात्रेयवरप्रदानादायोः ___ याप्रमादनम , विहुण्डशुक्रसवादः ... ... ... ११८ पुत्रप्राप्तिः... ... ... ... ... ... १०३ कुझलकपिझलमंवाद कामोदाचरित्रम, कामोदाहामाआयुपत्न्या रात्री स्वप्नावलोकनम् ... ... ... १०४ पापोत्पत्तिकारणम , कामोदाजन्मचरितकथनम , ११९ नहुषजन्म, हुण्डेन नहुषापहरणम्, नहपवालनाशार्थ कामांदानारदसंवादः, नारदेन स्वप्नकारणनिवेदनम् .... १२. हुण्डाज्ञापितेन सूदेन सैरन्ध्रीद्वारा वमिष्ठाश्रमे न
ईश्वरस्यावतारग्रहणकारणनिरूपणम , देव्या विहुण्डवध. हुषत्यागः, नहुषस्योपरि वसिपप्रनादः ... ... १०७ निरूपणम ... ... ... ... ... नढुषमातृकृतपुत्रशोकवर्णनम् ... ... ... ... १०६
... १२१ आयुगज्ञो गृहे नारदागमनम् . पुत्र कुशलवार्तानिवेदनम् १०७
कुमलगुकेन यवनाय स्ववृत्तान्तनिरूपणम ... ... १२२ वसिष्टाज्ञया नहुषम्य वनगमनम् , मिष्टन नहष प्रति कुनलम्य काग्योनिप्राप्तिकारण नवेदनम , गुरुतीर्थमा
तस्य बाल्यावस्थाचरितवर्णनम् ... ... ... १०८ हाम्यवर्णनम , वेनविष्णसंवादसमाप्तिः ... १२३ हुण्डवधार्थ नहुषस्यारण्यगमनम् , अशोकसन्दर्या गन्ध- पृथुवेनमवादः, पृथवे ब्रह्मणो वरप्रदानम् ... ... १२४
र्वमुखेन पतिप्राप्तिसुवार्ताश्रवणम् ... ... ... १०९ पृथुचरितसमाप्तिः, भूमिखण्डश्रवणफलम् ... ... १२५
इत्याद्यखण्डद्वयाध्यायान्तर्गतविषयानु
क्रमः समाप्तः।
Page #9
--------------------------------------------------------------------------
________________
आदिखण्डे ३ तृतीयोऽध्यायः ] पद्मपुराणम् । स्पर्शमात्रस्तु वै वायू रूपमा समावृणोत् । ज्योतिश्चापि विकुर्वाणं रसमा संसर्ग ह॥ ११ संभवन्ति ततोऽम्भांसि रसमात्राणि तानि तु । रसमात्राणि चाम्भांसि रूपमा समावृणोत् ।।१४ विकुर्वाणानि चाम्भांसि गन्धमात्रं ससंजिरे । तस्माज्जाता मही चेयं सर्वभूतगुणाधिका ॥ १५ सजायातो यतस्तस्मात्तस्य गन्धो गुणो मतः । तस्मिस्तस्मिंस्तु तन्मात्रात्तेन तन्मात्रता स्मृता १६ तन्मात्राण्यविशेषाणि विशेषाः क्रमशोऽपराः । भूततन्मात्रसर्गोऽयमहंकारात्तु तामसात् ॥ १७ कीर्तितस्तु समासेन मुनिवर्यास्तपोधनाः । तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ॥ १८ एकादशं मनश्चात्र कीर्तितं तत्त्वचिन्तकैः । ज्ञानेन्द्रियाणि पश्चात्र पश्च कर्मेन्द्रियाणि च ॥ १९ तानि वक्ष्यामि नेपां च कर्माणि कुलपावनाः। श्रवणं त्वक्कभुजिहा नासिका चैव पञ्चमी॥२० शब्दादिज्ञानमिदव्यर्थ बुद्धियुक्तानि पञ्च वै । पायूपस्थं हस्तपादौ कीर्तिता वाक्क पञ्चमी ॥२१ विसर्गानन्दमिद्भिश्च गन्युक्ती कर्म तत्स्मृतम् । आकाशवायुतेजांसि सलिलं पृथिवी तथा ॥ २२ शब्दादिभिर्गुणैविप्राः संयुक्ता उत्तरोत्तरः । नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना ॥ २३ नाशक्नुवन्प्रजाः स्रष्टुमसमागत्य कृत्स्नशः । समेत्यान्योन्यसंयोगं परस्परमथाऽऽश्रयात् ॥ २४ एकसंघाः सलक्षाश्च संप्राप्यैक्यमशेषतः । पुरुपाधिष्ठितत्वाच्च प्रधानानुग्रहेण च ॥ २५ महदादयो विशेषान्तादण्डमुत्पादयन्ति ते । तत्क्रमेण विवृद्धं तु जलवुदबुदवत्सलम् ॥ २६ भूतेभ्योऽण्डं महाप्राज्ञा वृद्धं नदुदकेशयम् । प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् ॥ २७ तत्राव्यक्तस्वरूपोऽसौ विष्णुर्विश्वेश्वरः प्रभुः । ब्रह्मरूपं समास्थाय स्वयमेव व्यवस्थितः ॥ २८ खेदजाण्डमभृत्तस्य जरायुश्च महीधराः । गर्भोदकं समुद्राश्च तस्याभन्महदात्मनः ॥ साद्रिद्वीपसमुद्राश्च सज्योनिर्लोकसंग्रहः । तस्मिन्नण्डेऽभवन्सर्व सदेवासुरमानुपम् ।। अनादिनिधनस्यैव विष्णा भेः समुत्थितम् । यत्पद्म तमिमण्डमभूच्छीकेशवेच्छया ॥ रजोगुणधरो देवः स्वयमेव हरिः परः ॥ ब्रह्मरूपं समास्थाय जगत्स्रष्टुं प्रवर्तते ॥ सृष्टिं च यात्यनुयुगं यावन्कल्पविकल्पना । नारसिंहादिरूपेण रुद्ररूपेण संहरेत् ॥ स ब्रह्मरूपं विस जन्महात्मा जगन्समस्तं परिपातुमिच्छन् । रामादिरूपं स तु गृह्य पानि बभूव रुद्रो जगदेवदत्तुम् ॥
इति श्रीमहापुगणे पान आदिखण्डे द्वितीयोऽध्यायः ॥ २ ॥
आदिनःश्लोकानां समष्ट्यङ्काः-६४
अथ नृतीयोऽध्यायः ।
ऋपय ऊचुःनदीनां पर्वनानां च नामधेयानि सर्वशः । तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ॥ १ प्रयाणं च प्रमाणज्ञ पृथिव्याः किल सर्वतः । निखिलेन समाचक्ष्व काननानि च सत्तम ॥ २
सूत उवाचपोमानि महामाज्ञा महाभूतानि संग्रहात् । जगनीस्थानि सर्वाणि समान्याहुर्मनीषिणः ॥ ३
१ समावृणोत्। । क. सर्ज वै। त। ३ इ. ढ. मी ॥ २० ॥ मादि । ४ क. मिध्यं च बु। ५ क. 'या ॥२॥
संसादि । ६ क. तत्कमेण ।
क. 'कन्धविकन्धना ।
Page #10
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[१ आदिखण्डेभूमिरापस्तया वायुरनिराकाशमेव च । गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ॥ ४ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । भूमेरेते गुणाः मोक्ता ऋषिभिस्तत्त्ववेदिभिः ॥ ५ चत्वारोऽप्सु गुणा विमा गन्धस्तत्र न विद्यते । शब्दः स्पर्शश्च रूपं च तेजसोऽय गुणात्यः ६ अब्दः स्पर्शश्च वायोस्तु आकाशे शब्द एव च । एते पञ्च गुणा विप्रा महाभूतेषु पञ्चसु ॥ ७ वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः । अन्योन्ये नातिवर्तन्ते साम्यं भवति वै तदा ॥ ८ यदा तु विषमीभावमाविशन्ति परस्परम् । तदा देहेर्देहवन्तो व्यतिरोहन्ति नान्यथा ॥ ९ आनुपूर्ध्या विनश्यन्ति जायन्ते चानुपूर्वशः । सर्वाण्यपरिमेयानि तदेषां रूपमैश्वरम् ॥ १० यत्र यत्र हि दृश्यन्ते धावन्ति पञ्चभौतिकाः। तेषां मनुप्यास्तर्केण प्रमाणानि प्रचक्षते ॥ ११ अचिन्त्याः खलु ये भावास्ताम तर्केण साधयेत् । सुदर्शनं प्रवक्ष्यामि द्वीपं तु मुनिपुङ्गवाः॥ १२ परिमण्डलो महाभागा द्वीपोऽसौ चक्रसंस्थितः । नदीजलपरिच्छन्नः पर्वतैश्चाब्धिसंनिभैः ॥१३ पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा । वृक्षैः पुष्पफलोपेतैः संपन्नो धनधान्यवान् ॥ १४ लवणेन समुद्रेण समन्तात्परिवारितः । यथा हि पुरुषः पश्येदादर्श मुखमात्मनः ॥ १५ एवं सुदर्शनो द्वीपो दृश्यते चक्रमण्डलः । द्विरंशे पिप्पलस्तस्य द्विरंशे च शशो महान् ॥ १६ सर्वौषधि समादाय सर्वतः परिवारितः । आपस्ततोऽन्या विज्ञेयाः शेषः संक्षेप उच्यते ॥ १७
ऋषय ऊचुःउक्तो यस्य च संक्षेपो बुद्धिमन्विधिवत्वया । तत्त्वज्ञश्चासि सर्वस्य विस्तरं सून नो वद ॥ १८ यावान्भूम्यवकाशोऽयं दृश्यते शशलक्षणे । तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम्॥ एवं तैः किल पृष्टः स सूतो वाक्यमथाब्रवीत् ।।
सूत उवाच-- पागायता महामाज्ञाः षडेते रत्नपर्वताः । अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ।। हिमवान्हेमकूटश्च निषधश्च नगोत्तमः । नीलश्च वैडूर्यमयः श्वेतश्च शशिसंनिभः ॥ सर्वधातुपिनद्धश्च शृङ्गवान्नाम पर्वतः । [*एते वे पर्वता विमाः सिद्धचारणसेविताः॥ २२ तेषामन्तरविष्कम्भो योजनानि सहस्रशः । तत्र पुण्या जनपदास्तानि वर्षाणि सत्तमाः॥ २३ वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः । इदं तु भारतं वर्ष ततो हैमवतं परम् ॥ २४ हेमकूटात्परं चैव हरिवर्ष प्रचक्षते । दक्षिणेन तु नीलस्य निषधस्योत्तरेण च ॥ . २५ पागायतो महाभागा माल्यवानाम पर्वतः। ] ततः परं माल्यवतः पर्वतो गन्धमादनः ॥ २६ परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः । आदित्यतरुणाभासो विधूम इव पावकः ॥ २७ योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः। अधस्ताचतुरशीतिर्योजनानां द्विजोत्तमाः ॥ २८ ऊर्ध्वमधश्च तिर्यक लोकानात्य तिष्ठति । तस्य पार्श्वप्वमी द्वीपाश्चत्वारः संस्थिता द्विजाः॥२९ भद्रायः केतुमालश्च जम्बूद्वीपश्च सत्तमाः । उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥ विहगः सुमुखो यस्तु सुपार्थस्याऽऽत्मजः किल।सवै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् ३१ मेरुरुत्तममध्यानामधमानां च पक्षिणाम् । अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥ ३२
प्रवपाश्चमो॥
*एतचिहान्र्तगतः पाठः ख. ड. च. अ. अ. ट. ढ. पुस्तकेभ्यो गृहीतः ।
१. 'स्वदर्शिभिः । २ झ. ट. 'स्तान्वित।।क. शीतयों।
Page #11
--------------------------------------------------------------------------
________________
२ तृतीयोऽध्यायः]
पथपुराणम् । तमादित्योऽनुपर्येति सततं ज्योतिषां वरः । चन्द्रमाच सनक्षत्रो वायुचैव प्रदक्षिणः ॥ स पर्वतो महामाज्ञा दिव्यपुष्पसमन्वितः । भवनैराकृतः सर्वैर्जाम्बूनदमयैः शुभैः ।। तत्र देवगणा विमा गन्धर्वासुरराक्षसाः । अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा ॥ तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः । समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥ तुम्बुरुर्नारदश्चैव विश्वावसुर्हाहाहूहूः । अभिगम्यामरश्रेष्ठ स्तुवन्ति विविधैः स्तवैः॥ ३७ सप्तर्पयो महात्मानः कश्यपश्च प्रजापतिः । तत्र गच्छन्ति भद्रं वः सदा पर्वणि पर्वणि ॥ ३८ तस्यैव मूर्धन्युशना काव्यो दैत्यैर्महीयते । तस्य हैमानि रत्नानि तस्यैते रत्नपर्वताः॥ ३९ तस्मात्कुबेरो भगवांश्चतुर्थ भागमभुते । ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥ ४० पश्येत्तस्यान्तरे दिव्यं सर्वर्तुकुसुमैश्चितम् । कर्णिकारवनं रम्यं शिलाजालसमुच्छ्रितम् ॥ ४१ तत्र साक्षात्पशुपतिर्दिव्यभूतैः समावृतः । उमासहायो भगवान्रमते भूतभावनः ॥ ४२ कर्णिकारमयीं मालां बिभ्रदापादलम्बिनीम् । त्रिभिर्नेत्रैः कृतोद्योतस्त्रिभिः सूर्यैरिवोदितैः ॥ ४३ तमुग्रतपसः सिद्धाः मुव्रताः सत्यवादिनः । पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ॥ ४४ तस्य शैलस्य शिखरात्क्षीरधारा द्विजोत्तमाः। विश्वरूपात्परिमिता भीमनिर्यातनिःस्वना ॥ ४५ पुण्यापुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा । प्लवन्तीव प्रवेगेण हदे चन्द्रमसः शुभे ॥ ४६ तया ह्युत्पादितः पुण्यः स हृदः सागरोपमः । तां धारयामास तदा दुर्धरां पर्वतैरपि ॥ ४७ शतं वर्षसहस्राणि शिरसैव पिनाकधृक् । मेरोस्तु पश्चिमे पार्वे केतुमालो द्विजोत्तमाः॥ ४८ जम्बूखण्डे तु तत्रैव महाजनपदो द्विजाः । आयुर्दशसहस्राणि वर्षाणां तत्र सत्तमाः ॥ ४९ सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसां समाः। अनामया वीतशोका नित्यं मुदितमानसाः॥ ५० जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः। गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः॥ संवृतोऽप्सरसां संधैर्मोदते गुह्यकाधिपः । गन्धमादनपार्वे तु पुरे दिव्योपपादुकाः॥ ५२ एकादशसहस्राणि वर्षाणां परमायुषः । तत्र कृष्णा नरा विपास्तेजोयुक्ता महाबलाः॥ स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः । नीलोत्पलधरं श्वेतं श्वेताद्धरण्यकं वरम् ॥ वर्षमैरावतं विमा नानाजनपदावृतम् । धनुषी ते महाभागा देवर्षेर्दक्षिणोत्तरे ॥ ५५ इलावृत्तं मध्यगं तु पश्च वर्षाणि चैव हि । उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः ॥ ५६ आयुष्पमाणमारोग्यं धर्मतः कामतोऽर्थतः । समन्वितानि भूतानि तेषु सर्वेषु सत्तमाः॥ ५७ एवमेषा महाभागाः पर्वतैः पृथिवी चिता । हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः॥ ५८ क्षेत्रे वैश्रवणो देवो गुह्यकैः सह मोदते । अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति ॥ ५९ हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः। तस्य पार्थे महदिव्यं शुभ्रं काञ्चनवालुकम् ॥ ६० रम्यं विष्णुसरो नाम यत्र राजा भगीरथः। दृष्ट्वा भागीरथी गङ्गामुवास बहुलाः समाः॥ ६१ यूपा मणिमयास्तत्र क्षेत्राश्चापि हिरण्मयाः। तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः॥ ६२ स्रष्टा भूतिपतिर्यत्र सर्वलोकैः सनातनः । उपास्यते तिग्मतेजा यत्र भूतैः समन्ततः॥ ६३ नरनारायणो ब्रह्मा मनुः स्थाणुश्च पञ्चमः । तत्र दिव्या त्रिपथगा प्रथम तु प्रतिष्ठिता॥ ६४ ब्रह्मलोकादपाक्रान्ता सप्तधा प्रतिपद्यते । वटोदका सा नलिनी पावनी च सरस्वती ॥ ६५
१च. ट. चयः । २ क. कृताद्योतिस्त्रि । ३ ख. अ. गाद्देव । ४ ख. म. तत्र । ट. यत्र । ५ ट. 'ते। स्वलोकगा चन।
Page #12
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[१आदिखण्डेजम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी । अचिन्त्या दिव्यसंज्ञा सा प्रभावैश्व समन्विता६६ उपासते यत्र सत्रं सहस्रयुगपर्यये । दृश्याऽदृश्या च भवति तत्र तत्र सरखती ॥ ६७ एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः । रक्षांसि वै हिमवति हेमकूटे च गुह्यकाः ॥ ६८ सर्पा नागाश्च निषधे गोकर्ण च तपोवनम् । देवासुराणां सर्वेषां श्वेतः पर्वत उच्यते ॥ ६९ गन्धर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा । शृङ्गवांस्तु महाभागा देवानां प्रतिसंचरः॥ ७० इत्येतानि महाभागाः सप्त वषोणि भागशः। भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥ ७१ तेषामृद्धिर्बहुविधा दृश्यते देवमानुषा । अशक्यं परिसंख्यातुं श्रद्धेया तु बुभूपता ॥ ७२ यां तु पृच्छय मां विमा दिव्यामेतां शशाकृतिम् । पार्थे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे ॥७३ कर्णे तु नागद्दीपश्च काश्यपद्वीप एव च । कर्णद्वीपशिलो विप्राः श्रीमान्मलयपर्वतः ॥ एतद्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ।।
७४ इति श्रीमहापुराणे पाद्म आदिखण्डे तृतीयोऽध्यायः ॥ ३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१३८
अथ चतुर्थोऽध्यायः ।
ऋषय ऊचु:मेरोरथोत्तरं पश्चात्पूर्वमाचक्ष्व सूत नः । निखिलेन महायुद्धे माल्यवन्तं च पर्वतम् ॥ १
सूत उवाचदक्षिणेन तु नीलस्य मेरोः पार्चे तथोत्तरे । उत्तराः कुम्वा विप्रा पुण्याः सिद्धनिपेविताः ॥ २ तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः । पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥ ३ सर्वकामफलास्तत्र केचिदृक्षा द्विजोत्तमाः । अपरे क्षीरिणी नाम वृक्षास्तत्र द्विजोत्तमाः ॥ ४ ये क्षरन्ति सदा क्षीरं तत्र पञ्चामृतोपमम् । वस्त्राणि च प्रसूयन्ते फलेवाभरणानि च ॥ ५ सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका । सर्वर्तुसुखसंम्पर्शा निर्मलाश्च तपोधनाः॥ ६ देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः । शुक्लाभिजनसंपन्नाः सर्वे सुप्रियदर्शनाः ॥ ७ मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः । तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसंनिभम् ॥ ८ मिथुनं जायते काले समन्ताच्च प्रवर्धते । तुल्यरूपगुणोपतं समवेशं तथैव च ॥ एकमेवानुरूपं च चक्रद्वयसमं द्विजाः । निरामयाश्च ते लोका नित्यं मुदितमानसाः॥ १० दश वर्षसहस्राणि दश वर्षशतानि च । जीवन्ति ते महाभागा न चान्योन्यं जहन्युत ॥ ११ भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः । तानिहरन्तीह मृतान्दरीषु प्रक्षिपन्ति च ॥ १२ उत्तराः कुरवो विमा व्याख्यातास्ते समासतः। मेरोः पार्श्वमहं पूर्व वक्ष्याम्यथ यथातथम् ॥ १३ तस्य मूर्धाभिषेकस्तु भद्राश्वस्य तपोधनाः । भद्रशालवनं यत्र कालाम्रश्च महाद्रुमः ॥ १४ कालाम्रस्तु महाभागा नित्यपुष्पफलः शुभः । द्रुमश्च योजनोत्सेधः सिद्धचारणसवितः ॥ १५ तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः । खियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥ १६ चन्द्रवर्णाश्चतुर्वर्णाः पूर्णचन्द्रनिभाननाः । चन्द्रशीतलगात्राश्च नृत्यगीतविशारदाः ॥ १७
१ ८. 'नुषे । अ । २ क. देवर्षे ।।
Page #13
--------------------------------------------------------------------------
________________
पञ्चमोऽध्यायः ]
पद्मपुराणम् ।
१९
'वर्षसहस्राणि तत्राऽऽयुर्द्विजसत्तमाः । कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः || १८ दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु । सुदर्शनो नाम महाअम्बूवृक्षः सनातनः ।। सर्वकामफलः पुण्यः सिद्धचारणसेवितः । तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ।। २० योजनानां सहस्रं च शतं च द्विजसत्तमाः । तथा माल्यवतः शृङ्गे पूर्वे पूर्वानुगान्तकाः ॥ २१ योजनानां सहस्राणि पञ्चाशन्माल्यवान्द्विजाः । महारजतसंज्ञास्ते जायन्ते तत्र मानवाः ।। २२ ब्रह्मलोभच्युताः सर्वे सर्वे च ब्रह्मवादिनः । तपस्तप्यन्ति ते दिव्यं भवन्ति ह्यूर्ध्वरेतसः ।। २३ रक्षणार्थ तु भूतानि प्रविशन्ति दिवाकरम् । पष्टिस्तानि सहस्राणि षष्टिरेव शतानि च । अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् । षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ||
२४
इति श्रीमहापुराणे पाद्म आदिखण्डे चतुर्थोऽध्यायः ॥ ४ ॥ आदितः लोकानां समश्यङ्काः - १६३
अथ पनमोऽध्यायः ।
ऋषय ऊचु:
वर्षाणां चैव नामानि पर्वतानां च सत्तम । आचक्ष्व नो यथातत्रं ये च पर्वतवासिनः ||
9
२५
सूत उवाच -
I
६
दक्षिणेन तु तस्य निपस्योत्तरेण तु । वर्ष रमणकं नाम जायन्ते तत्र मानवाः ॥ शुक्लाभिजनसंपन्नाः सर्वेऽतिप्रियदर्शनाः । निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः || दश वर्षसहस्राणि शतानि दश पञ्च च । जीवन्ति ते महाभागा नित्यं मुदितमानसाः ॥ दक्षिणेन तु नीलस्य निपधस्योत्तरेण तु । वर्षे हिरण्मयं नाम यत्र हैरण्वती नदी ॥ यत्र चायं महाप्राज्ञाः पक्षिरापतगोत्तमः । यक्षानुगा विप्रवरा धन्विनः प्रियदर्शनाः ॥ महावास्तत्र जना विमा मुदितमानसाः । एकादश सहस्राणि वर्षाणां ते तपोधनाः ॥ आयुष्मप्रमाणं जीवन्ति शतानि दश पञ्च च । गृङ्गाणि च विचित्राणि त्रीण्येव द्विजपुङ्गवाः ॥ ८ एकं मणिमयं तत्र तथैकं रुक्ममद्भुतम् । सर्वरत्नमयं चैकं भवनैरुपशोभितम् ।। तत्र स्वयंप्रभा देवी नित्यं वसति शैण्डिनी । उत्तरेण तु शृङ्गस्य समुद्रान्ते द्विजोत्तमाः ।। वर्षमैरावतं नाम तस्माच्छृङ्गवतः परम् । न तु तत्र सूर्यगतिर्न जीर्यन्ति च मानवाः ॥ चन्द्रमाश्च सनक्षत्री ज्योतिर्भूत इवाssवृतः ॥
७
९
१०
११
१२
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः । पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ।। अनिष्पन्ना नष्टगन्धा निराहारा जितेन्द्रियाः । देवलोकच्युताः सर्वे तथा विरजसो द्विजाः ॥ १३ अयोदश सहस्राणि वर्षाणां ते द्विजोत्तमाः । आयुष्प्रमाणं जीवन्ति नरा धार्मिकपुङ्गवाः ॥ १४ क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः । हरिर्वसति वैकुण्ठः शकटे कनकामये ।। अष्टचक्रं हि तद्यानं भृतयुक्तं मनोजवम् । अग्निवर्ण महातेजो जाम्बूनदविभूषितम् ॥
१५
१६
}
१ ख . वानगा । २ ख. . शृङ्गिणी । ट. दण्डिनी ।
Page #14
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासपणी
[ आदिखण्डेस प्रभुः सर्वभूतानां विभुश्च द्विजसत्तमाः । संक्षेपो विस्तरश्चैव कर्ता कारयिता तया ॥ १७ पृयिव्यापस्तयाऽऽकाशं वायुस्तेजश्च सत्तमाः । स यज्ञः सर्वभूतानामास्यं तस्य हुताशनः ॥ १८
इति श्रीमहापुराणे पाद्म आदिखण्डे पञ्चमोऽध्यायः ॥ ५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१८१
अथ षष्ठोऽध्यायः ।
ऋषय ऊचु:यदिदं भारतं वर्ष पुण्यं पुण्यविधायकम् । तत्सर्व नः समाचक्ष्व त्वं हि नो बुद्धिमान्मतः॥ १
सूत उवाचअत्र ते कीर्तयिष्यामि वर्ष भारतमुत्तमम् । प्रियमित्रस्य देवस्य मनोवैवस्वतस्य च ॥ पृथोश्च प्राज्ञ वैण्यस्य तथेक्ष्वाकोर्महात्मनः । ययातेरम्बरीपस्य मान्धातुर्नहुषस्य च ॥ तथैव मुचुकुन्दस्य कुबेरोशीनरस्य च । ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ कुशिकस्यैव राजर्षेर्गाधेश्चैव महात्मनः । सोमस्य चैव राजर्षेदिलीपस्य तथैव च ॥ अन्येषां च महाभागाः क्षत्रियाणां बलीयसाम् । सर्वेषामेव भूतानां प्रियं भारतमुत्तमम् ॥ ६ ततो वर्ष प्रवक्ष्यामि यथाश्रुतमहो द्विजाः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥ ७ विन्ध्यश्च पारियात्रश्च सप्तते कुलपर्वताः। तेषां सहस्रशो विप्राः पर्वतास्ते समीपतः॥ ८ अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः । अन्ये तु ये परिज्ञाता हस्वाहस्वोपजीविनः ॥ . आर्यम्लेच्छाश्च धर्मज्ञास्ते मिश्राः पुरुषा द्विजाः। नी पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम् १० गोदावरी नर्मदां च बहुदां च महानदीम् । शतटुं चन्द्रभागां च यमुनां च महानदीम् ।। ११ दृषद्वतीं विपाशां च विपाशां स्वच्छवालुकाम् । नदी वेत्रवतीं चैव कृष्णां वेणी च निम्नगाम् ।।१ इरावती वितस्तां च पयोणी देविकामपि । वेदस्मृतिं वेदशिरां त्रिदिवां सिन्धुलाकृमिम् ॥ १॥ करीषिणी चित्रवहां त्रिसेनां चैव निम्नगाम् । गोमती धूतपापां च चन्दनां च महानदीम् ॥ १.५ कौशिकी त्रिदिवां हृद्यां नाचितां रोहितारणीम् । रहस्यां शतकुम्भां च शरयूं च द्विजोत्तमाः१५ चर्मण्वती वेत्रवती हस्तिसोमां दिशं तथा । शरावतीं पयोणी च भीमां भीमरथीमपि ॥ १६ कावेरी वालुकां चापि वापी शतमलीमपि । नीवारां महितां चापि सुप्रयोगां तथा नदीम् ।। १७ पवित्रां कृष्णलां सिन्धुं वाजिनीं पुरुमालिनीम् । पूर्वाभिरामा वीरां च भीमां मालावती तथा १८ पलाशिनी पापहरां महेन्द्रां पाटलावतीम् । करीषिणीमसिक्नी च कुशवीरां महानदीम् ।। १० मरुत्वां प्रवरां मेना होरा घृतवतीं तथा । अनाकतीमनुणी च सेव्यां कापी च सत्तमाः ॥ १० सदावीरामधृष्यां च कुशचीरां महानदीम् । रथचित्रां ज्योतिरथा विश्वामित्रां कपिञ्जलाम् ॥ उपेन्द्रां बहुला चैव कुवीरामम्बुवाहिनीम् । वैनन्दी पिञ्जला वेणां तुङ्गवेगां महानदीम् ।। २२ विदिशां कृणवेगां च ताम्रां च कपिलामपि । धेनुं सकामां वेदस्वां हविःस्रावां महापथाम् ॥ २३ शिप्रां च पिच्छलां चैव भारद्वाजी च निम्नगाम्। कौर्णिकी निम्नगां शोणां बाहुदामथ चन्द्रमाम् २४
१ क. नृपस्य । २ ख. अ. 'म् । नवव। ३ ड. झ. ट. 'ता दुःखादुःखाप । ४ ड. च. ढ. बाहुदां । ट. बहुदां । ५ च. श. चलुकां । ट. भालुकां। ख. ढ. चुलुकां । ६ ज. तापी । ७ ख. ड. च. झ. ढ. । हेमां ।
Page #15
--------------------------------------------------------------------------
________________
पिष्ठोऽध्यायः
पद्मपुराणम् । मन्तःशिलां चैव ब्रह्ममेध्यां दृषद्वतीम् । परोक्षामय रोही च तथा जम्बूनदीमपि ॥ २५ नासां तपसां दासी सामान्यां वरुणामसीम् । नीलां धृतिकरी चैव पर्णश च महानदीम्॥२६ मानवीं वृषभां भाषां ब्रह्ममेध्यां दृषद्वतीम् । एताश्चान्याश्च बहवो महानद्यो द्विजर्षभाः॥ २७ सदानिरामयां कृष्णां मन्दगां मन्दवाहिनीम् । ब्राह्मणी च महागौरी दुर्गामपि च सत्तमाः॥२८ चित्रोत्पलां चित्ररथां मञ्जला रोहिणीं तथा । मन्दाकिनी वैतरणी कोकां चापि महानदीम्।।२९ पक्तिमतीमनङ्गां च तथैव वृषसांत्वयाम् । लोहित्यां करतोयां च तथैव वृषर्कोत्वयाम् ॥ ३० कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम् । मन्दाकिनी सुपुण्यां चे सर्वा गङ्गां च सत्तमाः३१ विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः । तथा नद्यः स्वप्रकाशाः शतशोऽथ सहस्रशः ॥३२ इत्येताः सरितो विप्राः समाग्व्याना यथास्मृति । अत ऊर्व जनपदान्निबोध गदतो मम ॥ ३३ तत्रेम कुरुपाञ्चालाः शाल्वमात्रयजाङ्गलाः । शूरसेनाः पुलिन्दाश्च बौधा मालास्तथैव च ॥ ३४ मत्स्याः कुशट्टाः माँगन्ध्याः कुन्तयः काशिकोशलाः ।दिमत्स्यकरूपाश्चभोजाःसिन्धुपुलिन्दकाः३५ उत्तमाश्च दशार्णाश्च मेकलाश्चोन्कलैः सह । पश्चालाः कोशलाश्चैव नकपृष्ठयुगंधराः॥ ३६ बोधा मद्राः कलिङ्गाश्च काशयोऽपरकाशयः । जठराः कुकुराश्चैव सदशार्णाः सुसत्तमाः ॥ ३७ कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः । गोमन्ता मल्लकाः पुण्डा विदर्भा नृपवाहिकाः ॥ ३८ अश्मकाः सोत्तगश्चैव गोपराष्ट्राः कनीयमः । अधिराज्यकुशट्टाश्च मल्लराष्ट्राश्च केरलाः ॥ ३९ मालवाश्चोपवास्याश्च वक्रावक्रातपाः शकाः। विदेहा मागधाः सद्मा मलजा विजयास्तथा ॥४० अङ्गा वङ्गाः कलिङ्गाश्च यकल्लोमान एव च । मल्लाः सुदणाः प्रहादा महिपाः शशकास्तथा ॥४१ बाहिका वाटधानाच आभीराः कालतायकाः । अपरान्ताः परान्ताश्च पङ्कलाश्चर्मचण्डकाः ॥४२ अटवीशेग्वराश्चैव मेरुभूताश्च सत्तमाः । उपातानुपावृत्ताः सुराष्ट्राः केकयास्तथा ॥ ४३ कुट्टापरान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः । अन्धाश्च बहवो विप्रा अन्तगिर्यस्तथैव च ॥ ४४ बहिगिर्योऽङ्गमलदा मगधा मॉलवायटीः । सवनगः प्रापया भार्गवाश्च द्विजर्षभाः ॥ ४५ पुण्ड्रा भागोः किराताश्च सुदप्णा भासुरास्तथा । शका निपादा निषधास्तथेवाऽऽनतेनेक्रेता:४६ पूर्णलाः पृतिमत्स्याश्च कुन्तलाः कुशकास्तथा । नीरग्रहाः शूरसेना इजिकाः कल्पकारणाः ॥४७ तिलभागा मसाराश्च मधुमत्ताः ककुन्दकाः। काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा४८ अभीसाराः कुद्रुताश्च सारिला वाहिकास्तथा । दर्वी च मालवादवातजामरथोरगाः ॥ ४९ बलरट्टास्तथा विप्राः सुदामानः सुमल्लिकाः । वन्धाकरीकपाश्चैव कुलिन्दा गन्धिकास्तथा ॥५० वानायवा देशाः पार्वरोमाणः कुविन्दवः । काच्छा गोपालकच्छाश्च जाङ्गलाः कुरुवर्णकाः॥५१ किराना बवराः सिद्धा वेदहाम्ताम्रलिप्तिकाः। औड़म्लेच्छाः ससरिन्द्राः पावेतीयाश्च सत्तमाः५२ अथापर जनपदा दक्षिणा मुनिपुङ्गवाः । द्रविडाः केरलाः प्राच्या मूपिका बालमूषिकाः॥ ५३ कर्णाटका माहिपका विकन्या मूपिकास्तथा । झल्लिकाः कुन्तलाश्चैव सौहृदा नलकाननाः ॥५४ कोकुट्टकास्तथा चालाः कोकणा मणिवालवाः । समगाः कनकाश्चैव कुकुराङ्गारमारिषाः ॥ ५५
१ ट. 'न्यां वारणा । २ ख. अ. म् ॥२९॥ मक्ति । ३ ख. ज. 'साह्वया । ज.काह्वया । ५ ख. म.च स्वगंग" । ६ क. गोगन्ता । ७ ख. अ. मालवाघटाः । ८ ट. सत्त्वोत्तराः। ९ क. प्णा मामु। १० ङ. झ. गाः ॥ ४९॥ चत्वरठास्त । ११ढ. वल्वर । १२ ट. दराः । १३ ज. किष्किन्धा । ट. विकत्था । १४ स्व. न. वालकाः । स ।. झ. ढ. वालुका: । स'।
Page #16
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं -
[ आदिखण्डे
५७
ध्वजिन्युत्सवसङ्केतास्त्रिगर्भा माल्यसेनयः । व्यूढकाः कोरकाः प्रोष्ठाः सङ्गवेगधरास्तथा ।। ५६ तथैव विन्द्यरुलिकाः पुलिन्दा वेल्बलैः सह । मालवा मलराचैव तथैवापरवर्तकाः || कुलिन्दाः कालदाचैव चण्डकाः कुरटास्तथा । मुशलास्तनवालाच सतीर्थापूतिसृञ्जयाः || ५८ अनिदायाः शिवाटाश्च तपानाः सूतपास्तथा । ऋषिकाश्च विदर्भाश्व स्तैङ्गनाः परतङ्गकाः ॥५९ उत्तराचापरे म्लेच्छा जना हि मुनिपुङ्गवाः । जवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः ॥ ६० संकृघृहाः कुलव्याश्च हूणाः पारसिकैः सह । तथैव रमणाश्चान्यास्तथा च दशमानिकाः ||६ १ क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च । शूराभीराश्च दरदाः काश्मीराः पशुभिः सह । स्वाण्डीकाश्च तुषाराश्च पद्मावा गिरिगहराः । आंत्रेयाः सभरद्वाजास्तथैव स्तनपोपकाः areera कलिङ्गाश्च किरातानां च जातयः । तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥ एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च । उद्देशमात्रेण मया देशाः संकीर्तिता द्विजाः ॥ यथागुणबलं वाऽपि त्रिवर्गस्य यहाफलम् ॥
६२
||६३
६४
६५
इति श्रीमहापुराणे पाद्म आदिखण्डे षष्टोऽध्याय ॥ ६ ॥ आदितः श्लोकानां समयङ्काः – २४६
-
१०
अथ सप्तमोऽध्यायः ।
ऋषय ऊचु:
भारतस्यास्य वर्षस्य तथा हैमवतस्य च । प्रमाणमायुषः सृत बलं चापि शुभाशुभम् ।। अनागतमतिक्रान्तं वर्तमानं च सत्तम । आचक्ष्व नां विस्तरेण हरिवर्ष तथैव च ॥
--
9
सूत उवाच -
४
६
८
चत्वारि भारते वर्षे युगानि मुनिपुङ्गवाः । कृतं त्रेता द्वापरं च कलिश्व द्विजसत्तमाः || पूर्व कृतयुगं नाम ततस्त्रेतायुगं द्विजः । तत्पश्चाद्वापरं चाथ ततस्तिप्यः प्रवर्तते ।। चत्वारि तु सहस्राणि वर्षाणां मुनिपुङ्गवाः । आयुःसंख्या कृतयुगे संख्याता हि तपोधनाः || ५ तथा त्रीणि सहस्राणि त्रेतायामायुषी विदुः । द्वे सहस्त्रे द्वापरे तु भुवि तिष्ठन्ति सांप्रतम् ॥ न प्रमाणस्थितिर्ह्यस्ति तिष्ये तु मुनिपुङ्गवाः । गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥७ महाबला महासत्त्वाः प्रज्ञागुणसमन्विताः । प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः ॥ द्विजाः कृतयुगे विमा बलिनः प्रियदर्शनाः । प्रजायन्ते च जाताश्च मुनयां वै तपोधनाः ।। महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः । प्रियदर्शा वपुष्मन्तो महावीर्या धनुर्धराः ॥ १० air हि युधि जायन्ते क्षत्रियाश्चारुसंमताः । त्रेतायां क्षत्रियास्तावत्सर्वे वै चक्रवर्तिनः ।। १४ सर्ववर्णाश्च जायन्ते सदैव द्वापरे युगे । महोत्साहा वीर्यवन्तः परस्परवधैषिणः ।। तेजसऽन्धेन संयुक्ताः क्रोधनाः पुरुषाः किल । लुब्धाश्वानृतिकाश्चैव तिष्ये जायन्ति भो द्विजाः १३ ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च । तिष्ये भवन्ति भूतानां रागो लोभश्च सत्तमाः १४
८
५२०
१ ख. न. विन्ध्यपौलायाः । २ड. च. ट. ढ. बल्मलैः । ख. म. दण्डकैः । ३ ८. स्तङ्गणाः परतङ्गणाः । ४ सहुहुकाः । ५ क. आद्रेयाः सभिर' । ६ क. 'जाः । संक्षेपाद्वा । क. तत्र स्निग्धः प्र । ८ क. ष्येषु मु । ९ क. श ॥ ८ ॥ कृतायुग । १०८. सांऽशेन । ११ क. रुषाङ्किनः । लु ।
Page #17
--------------------------------------------------------------------------
________________
मष्टमोऽध्यायः ]
पद्मपुराणम् ।
भोपो वर्तते विप्रा द्वापरे युगमध्येके । गुणोत्तरं हैमवतं हरिवर्ष ततः परम् ॥ इति श्रीमहापुराणे पाद्म आदिखण्डे सप्तमोऽध्यायः ॥ ७ ॥ आदितः श्लोकानां समयङ्काः – २६ १
अथाष्टमोऽध्यायः ।
??
१५
ऋषय ऊचु:
जम्बूखण्डस्त्वया प्रोक्तो यथावदिह सत्तम । विष्कम्भस्य च प्रब्रूहि परिमाणं तु तत्त्वतः ॥ १ समुद्रस्य प्रमाणं च सम्यगच्छिद्रदर्शनः । शाकद्वीपं च नो ब्रूहि कुशद्वीपं च धार्मिक ॥। शाल्मलं चैव तत्त्वेन क्रौञ्च द्वीपं तथैव च ॥
सूत उवाच -
विमा: सुबहवो द्वीपा यैरिदं संततं जगत् । सप्त द्वीपान्प्रवक्ष्यामि शृणुत द्विजपुङ्गवाः ॥ अष्टादश सहस्राणि योजनानि द्विजोत्तमाः । षट्शतानि च पूर्णानि विष्कम्भो जम्बुपर्वतः || ४ लवणस्य समुद्रस्य विष्कम्भो द्विगुणः स्मृतः । नानाजनपदाकीर्णो मणिविद्रुमचित्रितः ।। नैकधातुविचित्रैश्च पर्वतैरुपशोभितः । सिद्धचारणसंकीर्णः सागरः परिमण्डलः ।। शाकद्वीपं च वक्ष्यामि यथावदिह सत्तमाः । शृणुताय यथान्यायं ब्रुवतो मम धार्मिकाः ॥ जम्बूद्वीपप्रमाणेन द्विगुणः स द्विजर्षभाः । विष्कम्भेन महाभागाः सागरोऽपि विभागशः ॥ क्षीरोदो मुनिशार्दूला येन संपरिवारितः । तत्र पुण्या जनपदास्तत्र न म्रियते जनः ॥ कुत एव हि दुर्भिक्षं क्षमातेजांयुता हि ते ।
शाकद्वीपस्य संक्षेपां यथावन्मुनिसत्तमाः । उक्त एष महाभागाः किमन्यत्कथयामि वः ।।
-
७
८
ऋषय ऊचु:
शाकद्वीपस्य संक्षेपो यथावदिह धार्मिक । उक्तस्त्वया महाप्राज्ञ विस्तरं ब्रूहि तत्त्वतः ॥ सूत उवाच -
तथैव पर्वता विमाः सप्तात्र मणिपर्वताः । रत्नाकरास्तथा नयस्तेषां नामानि वर्णये ॥ अतीव गुणवत्सर्वं तत्त्वं पृच्छ्थ धार्मिकाः । देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते || मागायतो महाभागा मैलयो नाम पर्वतः । ततो मेघाः प्रवर्तन्ते वर्षन्ति च सर्वशः ॥ ततः परेण मुनयो जलधारी महागिरिः । ततो नित्यमुपादत्ते वासवः परमं जलम् ॥ ततो वर्ष प्रभवति वर्षाकाले द्विजोत्तमाः । उच्चैगिरी रैवतको यत्र नित्यं प्रतिष्ठितम् ॥ रेवती दिवि नक्षत्रं पितामहकृतावधिः । उत्तरेण तु विप्रेन्द्राः श्यामो नाम महागिरिः ॥ नवमेयमभः प्रांशुः श्रीमानुज्ज्वलविग्रहः । यंत्र श्यामत्वमापन्नाः प्रजा मुदितमानसाः ॥ ऋषय ऊचु:सुमहान्संशयोऽस्माकं प्राप्तोऽयं सूत यस्तथा ( ? ) । प्रजाः कथं सूत सम्यक्संप्राप्ताः श्यामतामिह १९
११
१२
१३
१४
१५
१६
१७
१८
सूत उवाच -
सर्वेष्वेव महाप्राज्ञा द्वीपेषु मुनिपुङ्गवाः । गौरः कृष्णश्च पतगो त ( गस्त) योर्वर्णान्तरे द्विजाः ॥ २०
१. ढ. ध्यगे । गुरौं । २ ढ. म्बूद्वीपस्त्व ं । ३ ख. म. जलदो । ४ क. प्रभवन्ति । ५ क. यतः ।
Page #18
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासपणीत
[ आदिखण्डेश्यामो यस्मात्पवृत्तो वै तस्माच्छयामगिरिः स्मृतः । ततः परं मुनिश्रेष्ठा दुर्गशैलो महोदयः २१ केशरी केशरयुतो यतो वातः प्रवर्तते । तेषां योजनविष्कम्भो द्विगुणः पविभागशः॥ २२ वर्षाणि तेषु विपेन्द्राः संमोक्तानि मनीषिभिः । महामेरुर्महाकाशा जलदः कुमुदोत्तरः ॥ २३ जलधारो महामाज्ञाः सुकुमार इति स्मृतः। रैवतस्य तु कौमारः श्यामस्य मणिकाञ्चनः ॥ २४ केशरस्याथ मौदाकी परेण तु महान्सुमान् । परिवार्य तु विप्रेन्द्रा देयं इस्वत्वमेव च ॥ २५ जम्बूद्वीपेन संख्यातस्तस्य मध्ये महाद्रुमः । शाको नाम महापाज्ञाः प्रजास्तम्य महानुगाः २६ तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः । तत्र गच्छन्ति मिद्धाश्च चारणा देवनानि च ॥ २७ धार्मिकाश्च प्रजाः सर्वाश्चत्वारस्तत्र सत्तमाः । वर्णाः म्वकर्मनिरता न च स्तेनोऽत्र दृश्यने २८ दीर्घायुषो महाप्राज्ञा जरामृत्युविवर्जिताः । प्रजास्तत्र विवर्धन्ते वर्षास्थिव ममुद्रगाः॥ २० नद्यः पुण्यजलास्तत्र गङ्गा च बहुधा गता । सुकुमारी कुमारी च मीता शिवोदका तथा ॥ ३० महानदी च भो विप्रास्तथा मणिजला नदी । इ वर्धनिका चैव नदी मुनिवगः स्मृतां ॥ ३१ ततः प्रवृत्ताः पुण्योदा नद्यः पग्यशोभनाः । महस्राणां शतान्येव यतो वर्षति वामवः ॥ ३. न तासां नामधेयानि परिमाणं तथैव च । शक्यते परिमंग्च्या पुण्यास्ता हि मन्दुिगः ॥ ३३ ततः पुण्या जनपदाश्चत्वारो लोकविश्रुताः । मृगाश्च मशकाश्चैव मानमा मल्लकाम्तथा ॥ ३४ मृगाश्च ब्रह्मभूयिष्ठाः स्वकर्मनिरता द्विजाः । मशकेषु तु गजन्या धार्मिकाः मर्वकामदाः ॥ ३. मानमाश्च महाभागा वैश्यधर्मोपजीविनः । मर्वकामसमायुक्ताः शृग धर्मार्थनिश्चिताः ॥ ३६ शूद्रास्तु मल्लका नित्यं पुरुपा धर्मशीलिनः । न तत्र राजा विप्रेन्द्रा न दण्डो न च दण्डिकाः ॥ स्वधर्मेणैव धर्मज्ञास्ते रक्षन्ति परस्परम् । एतावदेव शक्यं तु तत्र द्वीपे प्रभाषितुम् । एतदेव च श्रांतव्यं शाकद्वीपे महाजमि ॥ ३८
इति श्रीमहापुराण पाद्म आदिग्वण्टेऽटमोऽध्यायः ॥ ८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-२०९
अथ नवमोऽध्यायः ।
सूत उवाचउत्तरेषु च भो विप्रा द्वीपेषु श्रूयत कथा । एवं तत्र महाभागा ध्रुवतस्तन्निबोधत ।। घृततोयः समुद्रोऽत्र दधिमण्डोदकाऽपरः । सुरोदः सागरश्चैव तथाऽन्यो दुग्धसागरः ॥ . परस्परेण द्विगुणाः सर्वे द्वीपा द्विजर्षभाः । पर्वताश्च महापाज्ञाः समुद्रः पग्विारिताः ॥ गौरस्तु मध्यमे द्वीपे गिरिमनःशिलो महान । पर्वतः पश्चिमे कृष्णा नारायणसखा द्विजाः ॥ ४ तत्र रत्नानि दिव्यानि स्वयं रक्षति केशवः । प्रसन्नश्वाभवत्तत्र प्रजानां व्यदधात्मुखम् ॥ शरद्वीपे कुशस्तम्भो मध्ये जनपदस्य ह । संपूज्यते शाल्मलिश्च द्वीप शाल्मलिके द्विजाः ॥ ६ क्रोश्चद्वीपे महाक्रोश्चो गिरी रत्नचयाकरः । संपूज्यते भी विप्रेन्द्राश्चातुर्वर्ण्यन नित्यदा ॥ ७ गोमन्तः पर्वतो विप्राः सुमहान्सर्वधातुकः । यत्र नित्यं निवसति श्रीमान्कमललोचनः ॥ ८
१ ख. अ. कुसुमार । २ ट. 'हान्पुमा' । ३ ८. 'स्तत्र स । ४ क. शिवोलवा । झ. शिवालुका। ५ ख. अ. 'ता ॥ ३१ ॥ एताश्चान्याश्च पु।
Page #19
--------------------------------------------------------------------------
________________
मोऽध्यायः ]
पद्मपुराणम् ।
क्षिभिः संगतो नित्यं प्रभुर्नारायणो हरिः । शरद्वीपे तु विप्रेन्द्राः पर्वतो विद्रुमैश्वितः ॥ नामा च सुदुर्धर्षो द्वितीयो हेमपर्वतः । द्युतिमान्नाम विप्रेन्द्रास्तृतीयः कुमुदो गिरिः ॥ चतुर्थः पुष्पवानाम पञ्चमस्तु कुशेशयः । षष्ठो हरिगिरिर्नाम षडेते पर्वतोत्तमाः ।। वैषामन्तरविष्कम्भोद्विगुणः पर्वभागशः । औद्भिदं प्रथमं वर्ष द्वितीयं रेणुमण्डलम् || तृतीयं सुरथं नाम चतुर्थ लैम्बनं स्मृतम् । धृतिमत्पञ्चमं वर्षे षष्ठं वर्ष प्रभाकरम् ॥ सप्तमं कापिलं वर्ष सप्तैते वर्षलम्बकाः । एतेषु देवगन्धर्वाः प्रजाश्च मुदिता द्विजाः ।। विहरन्ति रमन्ते च न तेषु म्रियते जनः ॥
१४
1
म तेषु दस्यत्रः सन्ति म्लेच्छजात्योऽपि वा द्विजाः । गौरः प्रायो जनः सर्वः सुकुमारश्च सत्तमाः १५ अविशिष्टेषु सर्वेषु वक्ष्यामि द्विजपुङ्गवाः । यथाश्रुतं महाप्राज्ञा वर्ण्यते शृणुत द्विजाः ।। १६ कवीपे महाभागाः क्रौञ्चो नाम महागिरिः । क्रौञ्चात्पगे वामनको वामनादन्धकारकः १७ अन्धकारात्पगे विमा मैनाकः पर्वतोत्तमः । मैनाकान्परता विमा गोविन्दो गिरिरुत्तमः ।। १८ [*गोविन्दात्परतचैव पुण्डरीको महागिरिः । पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः ] ॥ १९ पुरस्ताद्विगुणस्तेषां विष्कम्भो मुनिपुङ्गवाः । देशांस्तत्र प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ २० sarat कुशलो देश वामनस्य मनोनुगः । मनोनुगात्परो देश उष्णो नाम तपोधनाः ।। २१ उष्णात्परः प्रावरकः प्रावादन्धकारकः । अन्धकारकदेशातु मुनिदेशः परः स्मृतः ॥ सुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः । सिद्धचारणसंकीर्णो गौरः प्रायो जनः स्मृतः ॥ एते देशाः समाख्याता देवगन्धर्वसेविताः । पुष्करे पुष्करो नाम पर्वतो मणिरत्नवान् ।। तत्र नित्यं प्रसरति स्वयं देवः प्रजापतिः । पर्युपामन्ति ते नित्यं देवाः सर्वे महर्षयः ॥ वाग्भिर्मनोनुकूलाभिः पूजयन्तो द्विजोत्तमाः । जम्बुद्वीपात्प्रवर्तन्ते रत्नानि विविधानि च द्वीपेषु तेषु सर्वेषु प्रजानां मुनिसत्तमाः । विप्राणां ब्रह्मचर्येण सत्येन च दमेन च ॥ आरोग्यायुष्प्रमाणाभ्यां द्विगुणं द्विगुणं ततः । एते जनपदा विमा दीपेषु तेषु सत्तमाः ॥ उक्ता जनपदायेषु धर्मकः प्रवर्तते ॥
२८
२९
ईश्वरो दण्डमुद्यम्य स्वयमेव प्रजापतिः । द्वीपानेदान्मुनिवरस्तिप्रति सर्वदा || स राजा म शिवां विप्राः स पिता स पितामहः । गोपायति द्विजश्रेष्ठाः प्रजाः सद्विजपण्डिताः ॥ ३० भोजनमत्र विप्रेन्द्राः प्रजाः स्वयमुपस्थितम् । सिद्धमेव महाभागा भुञ्जते तद्धि नित्यदा ।। ३१ ततः परं महाशैलो दृश्यते लोकसंस्थितिः । चतुरस्री महाप्राज्ञाः सर्वतःपरिमण्डलः ।। तत्र तिष्ठन्ति विप्रेन्द्राश्चत्वारो लोकसंमताः । दिग्गजा हि मुनिश्रेष्ठा वामनैरावतादयः ॥ सुप्रतीकस्तथा विप्राः प्रभिन्नकरटामुखाः । तस्याहं परिमाणं तु न संख्यातुमिहोत्सहे ॥ असंख्यातः स नित्यं हि तिर्यगूर्ध्वमधस्तथा । तत्र वै वायवो वान्ति दिग्भ्यः सर्वाभ्य एव च ।। ३५ असंबन्धा मुनिश्रेष्ठास्तान्निगृह्णन्ति ते गजाः । पुष्करैः पद्मसंकाशैर्विकर्षन्ति महाप्रभैः ।। ३६ शतधा पुनरेवाऽऽशु ते तान्मुञ्चन्ति नित्यशः । श्वमद्भिर्मुखनासाभ्यां दिग्गजैरिव मारुताः ॥ ३७
३४
* एतच्चिहान्तर्गतः पाठः ख न पुस्तकयोरेव दृश्यते ।
१ ख. .अ ंशेरुकः । ष ं । २ ख. ञ. यं वेणु ं । ३ ख. ड. झ. ञ. ढ. लवनं । ४ ख. न. र्षभावकाः । ५ ख. ड. 'म नामतस्तन्निबोधत । की । ६क. रं समा नाम दृ ।
१३
१०
११
१२
१३
२२
२३
२४
२५
२६
२७
३२ ३३
Page #20
--------------------------------------------------------------------------
________________
महामानश्राव्यासपणात
[ आदिखण्डेआगच्छन्ति द्विजश्रेष्ठास्तत्र तिष्ठन्ति वै प्रजाः। यथोदिष्टं मया प्रोक्तं सनिर्माणमिदं जगत् ॥ १८ भुत्वेदं पृथिवीमानं पुण्यदं च मनोनुगम् । श्रीमांस्तरति विभेन्द्राः सिद्धार्थः साधुसंमतः ॥ आयुर्बलं च कीर्तिश्च तस्य तेजश्व वर्धते ॥ यः शृणोति समाख्यानं पर्वणीदं धृतव्रतः । पीयन्ते पितरस्तस्य तथैव च पितामहाः॥ ४०
इति श्रीमहापुराणे पान आदिखण्डे नवमोऽध्यायः ॥ ९ ॥
आदितः श्लोकानां समश्यङ्काः-३३९
अथ दशमोऽध्यायः ।
ऋषय ऊचु:पृथिव्या हि परिमाणं संस्थान मरितम्तथा । त्वत्तः श्रुत्वा महाभाग अमृतं पीतमेव च ॥ १ तत्र भूमौ च तीर्थानि पावनानीति नः श्रुतम् ।। आचक्ष्व नानि सर्वाणि यथाफलकराणि च ।। सविशेष महाप्राज्ञ श्रोतुमिच्छामहे तव ॥
सूत उवाचधन्यं पुण्यं महाख्यानं पृष्टमेव तपोधनाः । यथामति प्रवक्ष्यामि यथायोगं यथाश्रुतम् ॥ पुरातनं प्रवक्ष्यामि देवर्षे रदस्य हि । युधिष्ठिरेण संवादं शृणुत द्विजमत्तमाः ॥ हृतराज्याः पाण्डुपुत्रा वने तस्मिन्महारथाः । निवसन्ति महाभागा द्रौपद्या मह पाण्डवाः ॥ ५ अथापश्यन्महात्मानं देवर्षि तत्र नारदम् । दीप्यमानं श्रिया ब्राया दीप्ताग्निममतजमम् ॥ ६ स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुनन्दनः । दिवि भाति हि दीप्तीजा देवैरिव शतक्रतुः ॥ ७ यथा च देवान्सावित्री याज्ञसेनी तथा पतीन । न जहो धर्मतः पार्थान्मेरुंमप्रभा यथा ॥ ८ प्रतिगृह्य ततः पूजां नारदा भगवानृषिः । आश्वासयद्धर्मपुत्रं युक्तरूपमियण च ॥ उवाच च महात्मानं धर्मराज युधिष्ठिरम् । अहि धर्मभृतां श्रेष्ठ किं प्रार्थ्यं किं ददामि ते ॥ १० अथ धर्ममुतो राजा प्रणम्य भ्रातृभिः मह । उवाच प्राञ्जलिर्वाक्यं नारदं देवसंमितम् ॥ १? त्वयि तुष्टे महाभाग सर्वलोकाभिपूजिते । कृमित्यवमन्ये हि प्रमादात्तव सुव्रत ॥ यदि त्वयाऽनुग्राह्योऽस्मि भ्रातृभिः महितोऽनघ । मंदह में मुनिश्रेष्ठ हृदिस्थं छेत्तुमर्हमि ॥ १३ प्रदक्षिणां यः कुरुते पृथिवीं तीर्थतत्परः । किं फलं तस्य कान्स्येन तहह्मन्वक्तुमहमि ॥ १४
नारद उवाचशृणु राजन्नवहितो दिलीपेन यथा पुरा । वसिष्टस्य सकाशाद्वै सर्वमतदुपश्रुतम् ॥ पुरा भागीरथीतीरे दिलीपो राजसत्तमः । धर्म्य व्रतं समास्थाय न्यबसन्मुनिवत्तदा ॥ शुभे देशे महाराज पुण्ये देवर्षिपूजिते । गङ्गाद्वारे महातेजा देवगन्धर्वसविते ॥ स पितॄस्तर्पयामास देवांश्च परमद्युतिः । ऋषींश्च तर्पयामास विधिदृष्टेन कर्मणा ॥ कस्यचित्त्वथ कालस्य जपन्नेव महामनाः । ददर्श भूतसंकाशं वसिष्ठमृषिमुत्तमम् ॥ पुरोहितं स तं दृष्ट्वा दीप्यमानमिव श्रिया । प्रहर्षमतुलं लेभे विस्मयं परमं ययौ ।
१ ख. अ. 'न परि'। २. 'रुपृष्ठं प्र। ३. वदामि । ४ क. प्राज्ञं निर्वा ।
Page #21
--------------------------------------------------------------------------
________________
र एकादशोऽध्यायः ]
पद्मपुराणम् । पस्थितं महाराज पूजयामास भारत । स हि धर्मभृतां श्रेष्ठो विधिदृष्टेन कर्मणा ॥ २१ बिरसा चाय॑मादाय शुचिः प्रयतमानसः । नाम संकीर्तयामास तस्मिन्ब्रह्मर्षिसत्तमे ॥ २२ दिलीपोऽहं तु भद्रं ते दासोऽस्मि तव सुव्रत । तव संदर्शनादेव मुक्तोऽहं सर्वकिल्विषः॥ २३ एवमुक्ता महाराज दिलीपो द्विपदां वरः । वाग्यतः प्राञ्जलिर्भूखा तूष्णीमासीयुधिष्ठिर ॥ २४ तं दृष्ट्वा नियमेनाथ स्वाध्यायेन च कर्षितम् । दिलीपं नृपतिश्रेष्ठं मुनिः प्रीतमनाऽभवत् ॥ २५
इति श्रीमहापुराणे पान आदिखण्डे दशमोऽध्यायः ॥ १० ॥
आदितः श्लोकानां समष्ट्यङ्काः-३६४
अर्थकादशोऽध्यायः ।
------ - वसिष्ठ उवाच--- अनेन तव धर्मज्ञ प्रश्रयेण दमेन च । सत्यंन च महाभाग तुष्टोऽस्मि तव सर्वशः॥ ? यस्येदृशम्ते धर्माऽयं पितरस्तारितास्त्वया । तेन पश्यमि मां पुत्र याज्यश्चामि ममानघ ॥ २ प्रीतिर्मे वर्धते तेऽद्य बृहि किं करवाणि ते । यद्वक्ष्यमि नरश्रेष्ठ तस्य दाताऽस्मि तेऽनघ ॥ ३
दिलीप उवाचपीते खयि वमिष्ठाय मवेलोकाभिपूजिते । कृतमित्येव मन्ये हि यदहं पृष्टवान्मभुम् ।। यदि त्वहमनुग्राह्यम्तव धर्मभृतां वर । प्रक्ष्यामि हुन्स्छं संदेहं तन्मे त्वं वक्तुमर्हसि ॥ अस्ति मे भगवन्कश्चित्तार्थेभ्यो धर्ममंशयः । तदहं श्रोतुमिच्छामि पृथक्मंकीर्तनं त्वया ॥ प्रदक्षिणां यः पृथिवीं कगंति द्विजसत्तम । किं फलं तम्य विप्रर्षे नन्मे शूहि तपोधन ॥
वमिष्ठ उवाचकथयिष्यामि तदहमृषीणां यत्परायणम् । नदकाग्रमनाम्तान शृणु तीर्थषु यत्फलम् ॥ ८ यस्य हस्तौ च पादी च मनश्चैव सुसंयतम् । विद्या नपश्च कीर्तिश्च स तीर्थफलमभुते ॥ प्रतिग्रहादुपावृत्तः मंतुष्टो नियतः शुचिः । अहंकारनिवृत्तश्च स नीर्थफलमश्नुते ॥ १० अकल्किको निगहारोऽलब्धाहागे जितेन्द्रियः । विमुक्तः मर्वदापर्यः स तीर्थफलमभुते ॥ ११ अक्रांधनश्च गजेन्द्र सत्यशीलो दृढव्रतः । आन्मोपमश्च भनेषु म तीर्थफलमभुते ॥ ऋपिभिः क्रतवः प्रोक्ता वेदप्वपि यथाक्रमम् । फलं चैव यथातचं प्रेत्य चेह च मर्वशः॥ १३ न ते शक्या दरिद्रण यज्ञाः प्राप्तुं महीपते । बहूपकरणा यज्ञा नानासभारविस्तराः॥ १४ प्राप्यन्ते पार्थिवरते ममृद्धवा नरैः कचित् । न निधनरगणेरेकात्मभिरमाधनः ॥ १५ यो दरिद्ररपि विधिः शक्यः प्रामुं जनेश्वर । तुल्यो यज्ञफलैः पुण्यस्तं निबोध महीपते ॥ १६ ऋषीणां परमं गुह्यमिदं धर्मभृतां वर । तीथाभिगमनं पुण्यं यज्ञेरपि विशिष्यते ॥ अनुपाप्यातिरात्राणि तीर्थाभिगमनेन च । अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥ १८ अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणः । न तत्फलमवामोति तीर्थाभिगमनन यत् ॥ १९
* मधिराषः ।
१४.१. 'च--वेदवेदाङ्ग तत्त्वज्ञ म । २. 'रो जिताहा।
क. यज्ञं ।४ ख. म. 'पोष्य त्रिरा।
Page #22
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ आदिखण्डेनृलोके देवलोकस्य तीर्थ त्रैलोक्यविश्रुतम् । पुष्कर तीर्थमासाद्य देवदेवसमो भवेत् ॥ २० दश कोटिसहस्राणि तीर्थानां वै महीपते । सांनिध्यं पुष्करे येषां त्रिसंध्यं सूर्यवंशज॥ २१ आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः । गन्धर्वाप्सरसश्चैव तत्र संनिहिताः प्रभो ॥ २२ यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा । दिव्ययोगा महाराज पुण्येन महता द्विजाः ॥ २३ मनसाऽप्यभिकामस्य पुष्कराणि मनीषिणः । पुनन्ति सर्वपापानि नाकपृष्ठं म पूज्यते ॥ २४ अस्मिस्तीर्थे महाभाग नित्यमेव पितामहः । उवास परमप्रीतो देवदानवसमतः ॥ २५ पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः । सिद्धिं परमिकां प्राप्ताः पुण्येन महताऽन्विताः ॥ २६ तत्राभिषेकं यः कुर्यापितृदेवार्चने रतः। अश्वमेधादशगुणं प्रवदन्ति मनीषिणः ॥ २७ अप्येकं भोजयद्विपं पुष्करारण्यमाश्रितः । तेनाऽऽमोत्यजिताल्लोकान्ब्रह्मणः सदने स्थितान् २८ सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः । उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु पार्थिव ॥ २० जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषस्य वा । पुष्करे गतमात्रस्य सर्वमेव प्रणश्यति ॥ ३० यथा सुराणां सर्वेषामादिस्तु मधुसूदनः । तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥ ३॥ उष्ट्वा द्वादश वर्षाणि पुष्करे नियनः शुचिः । क्रतून्सर्वानवामोति ब्रह्मलोकं च गच्छति ॥ ३. यस्तु वर्षशतं पूर्णमग्निहोत्रमुपाचरेत् । कार्तिकी वा वसेदेकां पुष्करे सममेव तत् ॥ ३. दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः । दुष्करं पुष्कर दानं वस्तुं चैत्र सुदुष्करम् ॥ ३४ त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च। पुष्कराण्यादितीर्थानि न विग्रस्तत्र कारणम् ॥३. उष्ट्वा द्वादश वर्षाणि नियनो नियनाशनः । स मुक्तः सर्वपापेभ्यः सर्वक्रतुफलं लभेत् ॥ ३६ इति श्रीमहापुराणे पाद्म आदिखण्डे पुष्करनाथमाहात्म्यवर्णन नामकादशोऽध्यायः ॥ १५ ॥
आदितः श्लोकानां समष्टयङ्काः-४००
अथ द्वादशोऽध्याय ।
वसिष्ठ उवाचप्रदक्षिणमुपावृत्तो जम्बृमार्ग समाविशत् । जम्बुमार्ग समाविश्य पितृदेवपिपूजितम् । अश्वमेधमवानोति विष्णुलोकं च गच्छति ।। तत्रोप्य रजनीः पञ्च षष्ठे कालंऽश्नुवन्नरः । न दुर्गतिमवाप्नोति सिद्धिं चाऽऽग्नात्यनत्तमाम ॥: जम्बूमार्गादुपारत्तो गच्छेत्सुण्डलिकाश्रमम् । न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यत ।। ३ अगस्त्याश्रममासाद्य पितृदेवार्चने रतः । त्रिरात्रांपोषिता राजन्नग्निष्टोमफलं लभेत् ॥ शाकवृत्तिः फलैर्वाऽपि कोमारं विन्दते परम् । कन्याश्रमं समासाद्य श्रीपुष्टं लोकपूजितम् ।। ५ धर्मारण्यं हि तत्पुण्यमाद्यं च पार्थिवर्षभ । यत्र प्रविष्टमात्रा व पापेभ्यो विप्रमुच्यते ॥ ६ अर्चयित्वा पितृन्देवानियती नियताशनः । सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ प्रदक्षिणं ततः कृता ययातिपतनं व्रजेत् । हयमेधस्य यज्ञस्य फलं प्रामाति तत्र वे ॥ महाकालं ततो गच्छेनियतो नियताशनः । कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥
१ झ. षष्टकालक्ष्मिवान। ट. षष्टिकालं क्षमा नरः । २ झ. 'च्छेत्तन्दुलि । ट. 'च्छेदुद्दालका । ख. अ. 'च्छेत्तुण्ड. लिका । ३ ख. अ. श्रीजुष्टं।
Page #23
--------------------------------------------------------------------------
________________
त्रयोदशोऽध्यायः ] पमपुराणम् । की गच्छेत धर्मज्ञः स्थानं तीर्थमुमापतेः । नाना भद्रवट नाम त्रिषु लोकेषु विभुतम् ॥
माभिगम्य बीशानं गोसहस्रफलं लभेत् । महादेवप्रसादाच गाणपत्यमवामुयात् ॥ सामसपत्नं तु श्रिया युक्तं नरोत्तम । नर्मदा तु समासाद्य नदीं त्रैलोक्यविश्रुताम् ॥ वयित्वा पिन्तृदेवानग्निष्टोमफलं लभेत् ॥
इति श्रीमहापुराणे पाद्म आदिखण्डे द्वादशोऽध्यायः ॥ १२ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४१२
अथ त्रयोदशोऽध्यायः ।
युधिष्ठिर उवाचवसिष्ठेन दिलीपाय कथितं तीर्थमुत्तमम् । नर्मदेति च विख्यातं पापपर्वतदारणम् ॥ १ भूयश्च श्रोतुमिच्छामि तन्मे कथय नारद । नर्मदायाश्च माहात्म्यं वसिष्ठोक्तं द्विजोत्तम ॥ २ कथमेपा महापुण्या नदी सर्वत्र विश्रुता । नर्मदा नाम विख्याता तन्मम ब्रूहि नारद ॥ ३
नारद उवाचनर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी । ताग्येन्मर्वभूतानि स्थावराणि चराणि च ॥ ४ नर्मदायास्तु माहात्म्यं वमिष्टोक्तं मया श्रुतम् । नदेवद्धि महाराज सर्व हि कथयामि ते ॥ ५ पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ ६ त्रिभिः मारस्वतं तोयं मप्ताहेन नु यामुनम् । सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ कलिङ्गदेशे पश्चार्थे पर्वतेऽमरकण्टके । पुण्या च त्रिषु लोकेषु रमणीया मनोरमा । सदेवासुरगन्धर्वा ऋपयश्च तपोधनाः । तपस्तप्त्वा महाराज मिद्धिं च परमां गताः॥ ९ तत्र स्नात्वा महाराज नियमस्थो जितेन्द्रियः । उपोप्य रजनीमेकां कुलानां तारयेच्छतम् ॥ १० जनेश्वरे नरः स्नात्वा पिण्डं दत्त्वा यथाविधि । पितरस्तस्य तृप्यन्ति यावदाभूतमप्लवम् ॥ ११ पर्वतस्य समन्तातु रुद्रकोटिः प्रतिष्ठिना । म्नानं यः कुरुने नत्र गन्धमाल्यानुलेपनम् ॥ १२ मीतस्तस्य भवेत्सर्वो रुद्रकोटिन संशयः । पर्वते पश्चिमस्यान्ते स्वयं देवो महेश्वरः ॥ १३ तत्र स्नात्वा शुचिर्भवा ब्रह्मचारी जिंतन्द्रियः । पितृकार्य तु कुर्वीत विधिदृष्टेन कर्मणा ॥ १४ तिलोदकेन तत्रैव तर्पयेपितृदेवताः । आमप्तमं कुलं तस्य स्वर्ग तिष्ठति पाण्डव ॥ षष्टिवर्षसहस्राणि स्वर्गलोक महीयते । अप्सरांगणसंकीर्णो दिव्यस्त्रीपरिवारितः ॥ दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः । ततः स्वर्गा-परिभ्रष्टो जायते विपुले कुले । धनवान्दानशीलश्च धार्मिकश्चैव जायते ॥ पुनः स्मरति तत्तीर्थ गमनं तत्र कुर्वने । तारयित्वा कुलान्मप्त रुद्रलोकं म गच्छति ॥ योजनानां शतं मागं श्रूयते सरितोत्तमा । विस्तारेण तु राजेन्द्र योजनद्वगमन्तरम् ॥ १९ षष्टिस्तीर्थसहस्राणि षष्टिः कोट्यस्तथैव च । पर्वतस्य ममन्तात्तु तिष्ठन्त्यमरकण्टके ।। ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः । सर्वहिंमानिवृत्तश्च मर्वभूतहिते रतः ॥ एवं सर्वममाचारः क्षेत्रपालान्परिव्रजेत् । तस्य पुण्यफलं राजशृणुप्वावहितो हि मे ॥ २२
१ ख. अ. 'कामः सफल थि।२ ख. ञ, कलश रु ।
१५
Page #24
--------------------------------------------------------------------------
________________
[ आदिखण्डे
महामुनिश्रीव्यासप्रणीतंशतं वर्षसहस्राणां स्वर्गे मोदेत पाण्डव । अप्सरोगणसंकीर्णे दिव्यस्त्रीपरिवारिते ॥ २३ दिव्यगन्धानुलिप्तश्च दिव्यालंकारभूषितः । क्रीडते देवलोके तु दैवतैः सह मोदते ॥ २१ ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् । गृहं च लभतेऽसौ वै नानात्नविभूषितम् ॥ २५ स्तम्भैर्मणिमयैर्दिव्यैर्ववैडूर्यभूषितैः । आलेखसहितं दिव्यं दासीदाससमन्वितम् ॥ २६ मत्तमातङ्गशब्दैश्च हयानां हेषितेन च । क्षुभ्यते तस्य तवारमिन्द्रस्य भवनं यथा ॥ २७ राजराजेश्वरः श्रीमान्सर्वस्वीजनवल्लभः ॥ तस्मिन्गृह उषित्वा तु क्रीडाभोगसमन्वितः ॥ जीवेद्वर्षशतं साग्रं सर्वरोगविवर्जितः ॥ एवं भोगो भवेत्तस्य यो मृतोऽमरकण्टके । अग्निप्रवेशेऽथ जले तथा चैव अनाशने ॥ २० अनिवर्तिका गतिस्तस्य पर्वतस्याम्बरे यथा । पतनं पतते यस्तु मान (वो) मानवाधिप ॥ ३: कन्यास्त्रीणि सहस्राणि एकेकस्यापि चापरे । तिष्ठन्ति भवने तस्य प्रेषणं प्रार्थयन्ति च ॥ ३॥ दिव्यभोगसमुत्पन्नः क्रीडते कालमक्षयम् । पृथिव्यामासमुद्रायामीदृशो नैव जायते ॥ ३॥ ईशोऽयं नरश्रेष्ठ पर्वते सुरकण्टके । कोटितीर्थ तु विज्ञेयं पर्वतस्य तु पश्चिमे ॥ रुद्रो जालेश्वरो नाम त्रिषु लोकेषु विश्रुतः । तस्य पिण्डमदानेन संध्योपासनकर्मणा ॥ ३४ पितरो दश वर्षाणि तर्पितास्तु भवन्ति ते । दक्षिणे नर्मदायास्तु कपिलाख्या महानदी॥ ३० सरलार्जुनसंछन्ना नातिदूरे व्यवस्थिता । अस्ति पुण्या महाभागा त्रिषु लोकेषु विश्रुता ॥ ३६ तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर । पुराणे श्रूयते राजन्सर्व कोटिगुणं भवेत् ॥ ३७ तस्यास्तीरे तु ये वृक्षाः पतिताः कालपर्ययात् । नर्मदातोयसंयुक्तास्तेऽपि यान्ति परां गतिम् ॥ ३८ द्वितीया तु महाभागा विशल्यकरणा शुभा। तत्र तीरे नरः स्नात्वा विशल्यो भवति क्षणात् ॥ ३९ तत्र देवगणाः सर्वे सकिनरमहोरगाः। यक्षराक्षसगन्धर्वा ऋषयश्च तपोधनाः॥ ४० सर्वे समागतास्तत्र पर्वतेऽमरकण्टके । तेश्च सर्वैः समागम्य मुनिभिश्च तपोधनः ॥ ४१ नर्मदासंश्रिता पुण्या विशल्या नाम नामतः । उत्पादिता महाभागा सर्वपापप्रणाशिनी ॥ ४२ तत्र स्नात्वा नरो राजन्ब्रह्मचारी जितेन्द्रियः । उपोप्य रजनीमकां कुलानां तारयच्छतम् ॥ ४३ कपिला च विशल्या च श्रूयते राजसत्तम । ईश्वरेण पुरा प्राक्त लोकानां हितकाम्यया ॥ ४४ तत्र स्नाखा नरो राजन्नश्वमेधफलं लभेत् । अनशनं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।। ४५ सर्वपापविशुद्धात्मा इन्द्रलोकं स गच्छति । नर्मदायां तु राजेन्द्र पुराणे यच्छ्रतं मया ॥ ४६ तत्र तत्र नरः स्नात्वा अश्वमेधफलं लभेत् । ये वसन्त्युत्तर कृले इन्द्रलोके वसन्ति ते ॥ ४७ सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर । समं स्नानं च दानं च यथा मे शंकरोऽब्रवीत् ॥ ४८ परित्यजति यः प्राणान्पर्वतऽमरकण्टके । वर्षकोटिशतं साग्रमिन्द्रलोके महीयते ॥ ४९ नर्मदाया जलं पुण्यं फेनोर्मिसमलंकृतम् । पवित्रं शिरसा वन्धं सर्वपापैः प्रमुच्यते ।। ५० नर्मदा सर्वपुण्या च ब्रह्महत्यापहारिणी । अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥ ५१ एवं पुण्या च रम्या च नर्मदा पाण्डुनन्दन । त्रयाणामपि लोकानां पुनात्येपा महानदी ॥ ५२ वटेश्वरे महापुण्ये गङ्गाद्वारे तपोवने । एतेषु सर्वस्थानेषु येऽदिताः संशितव्रर्ताः ॥ ५३
१ क. 'वेतेषां ये मुताऽम । २ क. 'वेशोऽथ । ३ ख. न. 'ते 'उद्देशों । ४ ख. ज. पुण्या ह्येषा । ट. पुण्यताया म' । ५ ट. ये द्विजाः सं । ६ ख. म. ताः । ततो दशगुणं पुण्यं नर्मदायास्तु सं।
Page #25
--------------------------------------------------------------------------
________________
चतुर्दशोऽध्यायः ] पत्रपुराणम् । । दशगुणं पुण्यं नर्मदोद्वाससंगमे ॥
इति श्रीमहापुराणे पाम आदिखण्डे त्रयोदशोऽध्यायः ॥ १३ ॥ आदितः श्लोकानां समश्यकाः-४६६
अथ चतुर्दशोऽध्यायः ।
नारद उवाचनर्मदा तु नदी श्रेष्ठा पुण्या पुण्यतमा त्रिषु । मुनिभिस्तु महाभागैविभक्ता धर्मकादिभिः॥ १ सोपवीतमात्राणि पविभक्तानि पाण्डव । तेषु स्नात्वा तु राजेन्द्र सर्वपापैः प्रमुच्यते ॥ महेश्वरं परं तीर्थ त्रिषु लोकेषु विश्रुतम् । तस्योत्पत्ति कथयतः शृणु पाण्डवनन्दन ॥ इस मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः । स्तुवन्ति ते महात्मानं देवदेवं महेश्वरम् ॥ ४ स्तवमानास्तु संप्राप्ता यत्र देवो महेश्वरः । विज्ञापयन्ति देवेशं सेन्द्रास्ते तु मरुद्रणाः॥ अयोदिनान्विरूपाक्ष परित्रायस्व नः प्रभो ।।
ईश्वर उवाचसागतं तु मुनिश्रेष्ठाः किमर्थमिह चाऽऽगताः । किं दुःख को नु संतापः कुतो वा भयमागतम् ६ व्ययध्वं महाभागा एनदिच्छामि वेदितुम् । एवमुक्तास्तु रुद्रेणाकथयन्नमितव्रताः ॥ • ऋषय ऊचुःअपि घोरो महावीर्यो दानवो बलदर्पितः । वाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम् ८ जगने तु वसंदिव्यं भ्रमते तस्य तेजसा । तस्माद्भीना विरूपाक्ष त्वामेव शरणं गताः॥ ९ घायस्व महतो दुःखादेव त्वं हि परा गतिः । एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि ॥ १० पेन देवाः सुप्रसन्नाः सुंग्वमेधन्ति शंकर । परां निर्वृतिमायान्ति तत्मभो कर्तुमर्हसि ॥ ११
देव उवाचएतत्सर्व करिष्यामि मा विषादं करिष्यथ । अचिरेणेव कालेन कुर्या युप्मत्सुखावहम् ॥ १२ आश्वासयित्वा तान्सन्निर्मदातटमास्थितः । चिन्तयामास सर्वेशस्तद्वधं प्रति पाण्डव ॥ १३ कथं केन प्रकारेण हन्तव्यस्त्रिपुरो मया । एवं संचिन्त्य भगवान्नारदं स्मरते तदा ॥ स्मरणादेव संप्राप्तो नारदः ममुपस्थितः ॥
नारद उवाचआज्ञापय महादेव किमर्थं संस्मृतो यहम् । किं कार्य तु मया देव कर्तव्यं कथयस्व मे ॥ १५
ईश्वर उवाचगच्छ नारद तत्रैव यत्र तत्रिपुरं पुरम् । वाणस्य दानवेन्द्रस्य शीघ्रं गच्छाथ तत्कुरु ॥ १६ भर्तारो देवताभाश्च स्त्रियश्चाप्सरसोपमाः । तासां वै तेजसा विम भ्रमंते त्रिपुरं दिवि ॥ १७ अत्र गत्वा तु विमेन्द्र मन्त्रमन्यं प्रचोदय । देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः॥ स्त्रीणां हृदयनाशाय प्रविष्टस्तं पुरं प्रति ॥ शोभते तत्पुरं दिव्यं नानारत्नोपशोभितम् । शतयोजनविस्तीर्ण ततो द्विगुणमायतम् ॥ इतः पश्यति तत्रैव वाणं तु बलदर्पितम् । मालाकुण्डलकेयूरैर्मुकुटेन विराजितम् ॥
१ क. सन्दिव्यं । २ ख. अ. सुखं नन्दन्ति । ३ ट. सांप्रतं । ४ ८. 'म् । रत्नकु ।
Page #26
--------------------------------------------------------------------------
________________
महामुनिश्री व्यासप्रणीतं -
[ आदिखण्डे
हाररत्नैश्च संछन्नं चन्द्रकान्तिविभूषितम् । रसना तस्य रत्नाव्या कराः कनकमण्डिताः ॥ उत्थितो नारदं दृष्ट्वा दानवेन्द्रो महाबलः ॥
बाण उवाच
२३
स देवर्षिः स्वयं प्राप्तो मगृहं प्रति संप्रति । अर्घ्य पाद्यं यथान्यायं क्रियतां द्विजसत्तम ।। चिरात्समागतो विप्र स्थीयतामिदमासनम् । एवं संभावयित्वा तु नारदं समुपस्थितम् ॥ तस्य भार्या महादेवी अनौपम्या तु नामतः ।।
अनौपम्योवाच
भगवन्मानुषे लोके देवास्तुष्यन्ति केन वै । व्रतेन नियमेनापि दानेन तपसाऽथवा ।।
नारद उवाच -
२५
२६
२७
२८
तिलधेनुं च यो दद्याद्ब्राह्मणे वेदपारगे । ससागरा नवद्वीपा दत्ता भवति मेदिनी ।। सूर्यकोटिप्रतीकाशैर्विमानैः सार्वकामिकैः । मोदते चाक्षयं कालं सुचिरं कृतशासनः ।। आम्रातककपित्थानि कदलीवनमेव च । कदम्बचम्पकाशांका अनेकविविधद्रुमाः । अष्टमी च चतुर्थी च द्वादशी च तथा उभे । संक्रान्तिविपुत्रं चैव दिनच्छिद्रमुखं तथा ॥ पुण्यान्येतानि सर्वाणि उपवासन्ति याः स्त्रियः । तासां तु धर्मयुक्तानां स्वर्गे वामो न संशयः २९ कलिकालात्तु निर्मुक्ताः सर्वपापविवर्जिताः । उपवासरता नार्यो नोपसर्पन्ति तापमाः ॥ एवं श्रुत्वा तु सुश्रोणि यथेष्टं कर्तुमर्हसि । नारदस्य वचः श्रुत्वा राज्ञी वचनमब्रवीत् ।। प्रसादं कुरु विप्रेन्द्र दानं गृहण यथेप्सितम् । सुवर्णमणिरत्नानि वस्त्राण्याभरणानि च ॥ तत्ते दास्याम्यहं विप्र यच्चान्यदपि दुर्लभम् । प्रतिगृह द्विजश्रेष्ठ प्रीयेतां हरिशंकरौ ।।
३०
39
३२
33
नारद उवाच --
३५
अन्यस्मै दीयतां भद्रे क्षीणवृत्तिश्च यो द्विजः । वयं तु शीलसंपन्ना भक्तिस्तु क्रियते मम ॥ ३५ एवं तासां मनो हृत्वा सर्वासामुपदिश्य वा । जगाम भरतश्रेष्ठ स्वकीयं स्थानकं पुनः || अत्राऽऽकृष्टान्तरास्तास्तु अत्र त्वागतमानसाः । पुरि च्छिद्रं समुत्पन्नं बाणस्य तु महात्मनः ।। ३६ इति श्रीमहापुराणे पाद्म आदिखण्डे चतुर्दशोऽध्यायः ॥ १४ ॥ आदितः श्लोकानां समयङ्काः - ५०२
अथ पञ्चदशोऽध्यायः ।
नारद उवाच -
यन्मां पृच्छसि कौन्तेय तन्निबोधं च तच्छृणु ॥
एतस्मिन्नन्तरे रुद्रो नर्मदातटमास्थितः । नाम्ना महेश्वरं स्थानं त्रिषु लोकेषु विश्रुतम् || तस्मिन्स्थाने महादेवश्चिन्तयंत्र पुरं वधम् । गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम् ॥ ३ स्थानं कृत्वा तु वैशाखं विष्णुं कृत्वा शरोत्तमम् । अग्रे चाग्निं प्रतिष्ठाप्य मुखं वायुः समर्पितः ॥ ४ हयाश्च चतुरो वेदाः सर्वदेवमयं रथम् । चक्रगौ चाश्विनौ देवाँ अक्षे चक्रधरः स्वयम् | ५ स्वयमिन्द्रश्च चापान्ते बाणे वैश्रवणः स्थितः । यमस्तु दक्षिणे हस्ते वामे कालस्तु दारुणः ॥ ६
१ ख. ञ. कङ्कणम ं। २ ख. ञ. 'ध कृतक्षणः । ए
Page #27
--------------------------------------------------------------------------
________________
पञ्चदशोऽध्यायः ]
पद्मपुराणम् ।
२१
ሪ
1
९
१०
११
१५
१६
२० २१
चक्रयोस्त्वारके न्यस्ता गन्धर्वा लोकविश्रुताः । प्रजापती रथश्रेष्ठे ब्रह्मा चैव तु सारथिः ॥ ७ कृत्वा तु देवेशः सर्वदेवमयं रथम् । सोऽतिष्ठत्स्थाणुभूतो हि सहस्रं परिवत्सरान् ।। यदा त्रीणि समेतानि अन्तरिक्षचराणि वै । त्रिपुराणि त्रिशल्येन तदा तानि विभेद सः ॥ चरः प्रचोदितस्तत्र रुद्रेण त्रिपुरं प्रति । भ्रष्टतेजाः स्त्रियो जाता बलं तेषां व्यशीर्यत ।। उत्पाताश्च पुरे तस्मिन्प्रादुर्भूताः सहस्रशः । त्रिपुरस्य विनाशाय कालरूपोऽभवत्तदा ॥ अट्टहासं प्रमुञ्चन्ति भीताः कष्टमयास्तथा । निमेषोन्मेषणं चैव कुर्वन्ति चित्रकर्मणा ॥ १२ स्वमे पश्यन्ति चाऽऽत्मानं रक्ताम्बरविभूषितम् । स्वप्ने पश्यन्ति ते चैवं विपरीतानि यानि तु ।। १३ एतान्पश्यन्ति उत्पातांस्तत्र स्थाने तु ये जनाः । तेषां बलं च बुद्धिं च हरः क्रोधादनाशयत् ।। १४ संवर्तको नाम वायुर्युगान्तप्रतिमो महान् । समीरितोऽनलश्रेष्ठ उत्तमाङ्गेषु बाधति ॥ ज्वलन्ति पादपास्तत्र पतन्ति शिखराणि च । संवर्तव्याकुलीभूतं हाहाकारमचेतनम् । भोद्यानानि सर्वाणि क्षिप्रं तु प्रज्वलन्ति च । तेनैव दीपितं सर्व ज्वलते विशिखैः शिखैः ॥ १७ मा. आरामगण्डानि गृहाणि विविधानि च । दशदिक्षु प्रवृत्तोऽयं समिद्धो हव्यवाहनः ।। १८ मनःशिलाः प्रभायन्ते दिशो दश विभागतः । शिखासहस्त्रैरत्युग्रैः प्रज्वलन्ति हुताशनैः ॥ १९ सर्वे किंशुकसंप्रख्यं ज्वलितं दृश्यते पुरम् । गृहागृहान्तरं नैव गन्तुं धूमैर्न शक्यते ॥ हरकोपानलाद्दग्धं क्रन्दमानं सुदुःखितम् । प्रदीप्तं सर्वतो दिक्षु दद्यते त्रिपुरं पुरम् । प्रासादशिवराग्राणि विशीर्यन्ति महस्रशः । नार्नामाल्यविचित्राणि विमानान्यप्यनेकधा ।। २२ गृहाणि चैत्र रम्याणि दद्यन्ते दीप्तवह्निना । वाद्यतो द्रुमखण्डेषु जनस्थाने तथैव च ॥ २३ देवागारेषु सर्वेषु प्रज्वलन्ते ज्वलन्त्यपि । रुदन्ति चानलस्पृष्टाः क्रन्दन्ति विविधैः सुरैः ॥ २४ गिरिकूटनिभास्तत्र दृश्यन्तेऽङ्गारराशयः । स्तुवन्ति देवदेवेशं परित्रायस्व मां प्रभो । अन्योन्यं च परिष्वज्य हुताशनप्रपीडिताः । दह्यन्ते दानवास्तत्र शतशोऽथ सहस्रशः ।। हंसकारण्डवाकीर्णा नलिनी सहपङ्कजा । दद्यन्तेऽनलदग्धानि पुरोद्यानानि दीर्घिकाः ॥ अम्लानैः पङ्कजैश्छन्ना विस्तीर्णा योजनैः शतैः । गिरिकूटनिभास्तत्र प्रासादा रत्नभूषिताः २८ पतन्त्यनलनिर्दग्धा निस्तोया जलदा इव । म ह मीत्रालवृद्धेषु गोषु पक्षिषु वाजिषु ।। निर्दयों दहते बर्हिरकोपेन प्रेरितः । सपत्नाश्चैव सुप्ताश्च संसुप्ता बहवो जनाः ॥ पुत्रमालिङ्गय ते गाढं दद्यन्ते त्रिपुरारिणा । अथ तस्मिन्पुरं दीप्ते स्त्रियश्चाप्सरमोपमाः ॥ अग्निज्वाला तास्तत्र पतन्ति धरणीतले । काचिच्छ्यामा विशालाक्षी मुक्तावलिविभूषिता ।। ३२ धूमेनाssकुलिता सा तु [प्रतिबुद्धा शिखार्दिता । सुतं संचिन्त्यमाना सा पतिता धरणीतले।। ३३ काचित्सुवर्णवर्णाभा नीलरत्नैर्विभूषिता । धूमेनाऽऽकुलिता सा ] तु पतिता धरणीतले ।। ३४ अन्या गृहीतहस्ता तु सखी दहति बालके । अनेकदिव्यरूपाण्यादृष्ट्वा मदविमोहिता ॥ शिरसा प्राञ्जलिं कृत्वा विज्ञापयति पावकम् । यदि त्वमिच्छसे वैरं पुरुषेष्वपकारिषु ॥ स्त्रियः किमपराध्यन्ते गृहपञ्जरकोकिलाः । पाप निर्दय निर्लज्ज कस्ते कोपः स्त्रियोपरि ।। ३७ न दाक्षिण्यं न ते लज्जा न सत्यं शौचवर्तिता । अनेकरूपवर्णाढ्या उपालब्धो वदस्व ह ।। ३८
२५
२६
२७
२९
३०
३१
३५ ३६
* एतच्चिदान्तरगतः पाठः ख न पुस्तकयोरेव दृश्यते ।
१ ख. ञ. समारुतो । २ ख. झ ञ नारत्नवि' । ३ ख अ. सीदन्ति । ४ क उपलभ्या ।
Page #28
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ आदिखण्डेकिं त्वया न श्रुतं लोके अवध्याः सन्ति योषितः । किं तु तुभ्यं गुणा ह्येते दहन व्यर्दनं प्रति॥३९ न कारुण्यं दया वाऽपि दाक्षिण्यं वा स्त्रियोपरि। दयां कुर्वन्ति म्लेच्छाश्च देहन प्रेक्ष्य योषितः॥४० म्लेच्छानामपि कष्टोऽसि दुर्निवार्यो ह्यचेतनः । एते चैव गुणास्तुभ्यं दहनोत्सादनं प्रति ॥ ४१ आसामपि दुराचारः स्त्रीणां किंच निपातने । दुष्ट निघृण निर्लज हुताश मन्दभाग्यक ॥ ४२ निराश त्वं दुराचार बालान्दहसि निर्दय । एवं विलपमानां तां जल्पमानां बहुस्वरम् ॥ ४३ अन्याः(न्ये) क्रोशन्ति संक्रुद्धा बालशोकेन मोहिताः।दहते निर्दयो वह्निःसंक्रुद्धः सर्वशत्रुवत् ॥४४ पुष्करिण्या जले ज्वाला कूपेष्वपि तथैव च । अस्मान्संदह्य म्लेच्छ त्वं कां गतिं प्रापयिष्यसि ॥ एवं प्रलपतां तासां (तेषां ) वह्निर्वचनमब्रवीत् ।
४८ वैश्वानर उवाचस्ववशो नैव युष्माकं विनाशं तु करोम्यहम् । अहमादेशकर्ता वै नाहं कर्ताऽस्म्यनुग्रहम् ॥ ४६ अत्र क्रोधसमाविष्टो विचरामि यथेच्छया । ततो बाणो महातेजास्त्रिपुरं वीक्ष्य दीपितम् ॥ ४७ आसनस्थोऽब्रवीदेवमहं देवेविनाशितः । अल्पसारैर्दुराचारैरीश्वरस्य निवेदितः ॥ ४८ अपरीक्ष्य ह्यहं दग्धः शंकरेण महात्मना । नान्यः शक्तस्तु मां हन्तुं वजेयित्वा महेश्वरम् ॥ ४९ उत्थितः शिरसा कृत्वा लिङ्गं त्रिभुवनेश्वरम् । निर्गतः स पुरद्वारात्परित्यज्य सुहृत्स्वयम् ॥५० रत्नानि तु विचित्राणि स्त्रियो नानाविधास्तथा । गृहीत्वा शिरसा लिङ्गं न्यस्य नगरमण्डले ५१ स्तुवते देवदेवेशं त्रैलोक्याधिपतिं शिवम् । हर त्वयाऽहं निर्दग्धो यदि वध्योऽस्मि शंकर ॥ ५२ त्वत्मसादान्महादेव मा मे लिङ्गं विनश्यतु । अर्चितं हि महादेव भक्त्या परमया सदा॥ ५३ त्वया यद्यपि वध्योऽहं मा मे लिङ्ग विनश्यतु । प्राप्यमेतन्महादेव त्वत्पादग्रहणं मम ॥ ५४ जन्म जन्म महादेव त्वत्पादनिरतो यहम् । तोटकच्छन्दमा देवं स्तुत्वा तु परमेश्वरम् ॥ ५५
शिव शंकर सर्वकराय नमो भव भीम महेश्वर भीम नमः ॥ कुसुमायुध देहविनाशकर त्रिपुरान्तकरान्धकचूर्णकर ॥ प्रमदामिय कामविभक्त नमो हि नमः सुरमिद्धगणेनमितः ॥ हयवानरसिंहगजेन्द्रमुखैरनिहस्वसुदीर्घमुग्वेश्च गणः ॥ उपलब्धुमशक्यतरैरसुरैर्व्यथितो न शरीरशतैर्वहुभिः । प्रणतो भगवन्बहुभक्तिमताऽचलचन्द्रकलाधर देव नमः ।। सह पुत्रकल–कलापधनैः सततं जय देव अनुस्मरणम् । व्यथितोऽस्मि शरीरशतैर्बहुभिर्गमिताऽद्य महानरकस्य गतिः ॥
न निवर्तति यन्मम पापगतिः शुचिकर्मविशुद्धमपि त्यजति । अनुकम्पति दिग्भ्रमति भ्रमति भ्रम एष कुबुद्धि(दि) निवारयति ॥ यः पठेत्तोटकं दिव्यं प्रयतः शुचिमानसः । बाणस्यैव यथा रुद्रस्तस्यैव वरदो भवेत् ॥ ६? इमं स्तवं महादिव्यं श्रुत्वा देवो महेश्वरः । प्रसन्नस्तु तदा तस्य स्वयं देवो महेश्वरः ॥ ६२
ईश्वर उवाचन भेतव्यं त्वया वत्स सौवर्णे तिष्ठ दानव । पुत्रपौत्रः सपत्नीकर्याभिः स्वजनैः सह ॥ ६३
१क. च्छाऽपि द । २ क. दहनं। ३ क. प्रेष्य । ४ क. योषिताम् । ५ क. स्तुवतो । ६ ट. 'मो रिपुी । ७क. 'लास्तवदे। ८ट 'अगवादिध। ९ ख. अ. जहि दहि अ। १० ख. अ. 'मिताऽद्य महानरकस्य गतिम् । न ।
Page #29
--------------------------------------------------------------------------
________________
षोडशोऽध्यायः ]
पपपुराणम् । मभृति बाण त्वमवध्यत्रिदशैरपि । भूयस्तस्य वरो दत्तो देवदेवेन पाण्डव ॥ कायश्चाव्ययो लोके विचचार ह निर्भयः । ततो निवारयामास रुद्रः सप्तशिखं तथा ॥ ६५ सायं रक्षितं तस्य शंकरेण महात्मना । भ्रमते गगने नित्यं रुद्रतेजःप्रभावतः ॥ कोतु त्रिपुरं दग्धं शंकरेण महात्मना । ज्वालामालाप्रदीप्तं तु पतितं धरणीतले ॥
निपातितं तस्य श्रीशेले त्रिपुरान्तके । द्वितीय पातितं तत्र पर्वतेऽमरकण्ठके ॥ रुचे तु त्रिपुरे राजन्रुद्रकोटिः प्रतिष्ठिता । ज्वलन्तं पातितं तत्र तेन ज्वालेश्वरः स्मृतः ॥ ६९ अर्व तु प्रस्थिता तस्य दिव्या ज्वाला दिवं गता। हाहाकारस्तदा जातो देवासुरसकिंनरान्॥७० *शरं स्तम्भयेदुद्रो माहेश्वरे पुरोत्तमे । एवं व्रजेत यस्तस्मिन्पर्वतेऽमरकण्टके ॥ ७१ चतुर्दश भुवनानि स भुक्त्वा पाण्डुनन्दन । वर्षकोटिसहस्रं तु त्रिंशत्कोव्यस्तथाऽपराः॥ ७२ तो महीतलं प्राप्य राजा भवति धार्मिकः । पृथिवीमेकच्छत्रेण भुङ्क्ते नास्त्यत्र संशयः॥ ७३ एष पुण्यो महाराजै सर्वतोऽमरकण्टकः । चन्द्रसूर्योपरागेषु गच्छेद्योऽमरकण्टकम् ॥ अश्वमेधादशगुणं प्रवदन्ति मनीषिणः । स्वर्गलोकमवामोति दृष्ट्वा तत्र महेश्वरम् ॥ संनिहत्याऽऽगमिष्यन्ति राहुग्रस्ते दिवाकरे । तदेव निखिलं पुण्यं पर्वतेऽमरकण्टके ॥ ७६ पुण्डरीकस्य यज्ञस्य फलं पामोति मानवः । तत्र ज्वालेश्वरो नाम पर्वतेऽमरकण्टके ॥ सत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥
७७ ज्वालेश्वर महाराज यस्तु प्राणान्परित्यजेत् । चन्द्रसूर्योपरागे तु भक्त्याऽपि शृणु तत्फलम् ॥ ७८ भमरा नाम देवास्ते पर्वतेऽमरकण्टके । रुद्रलोकमवामोति यावदाभूतसंप्लवम् ॥ ७९ अमरेश्वरस्य देवस्य पर्वतस्य नटे जले । कोटिश ऋषिमुख्यास्ते तपस्तप्यन्ति सुव्रताः ॥ समन्तायोजनं राजन्क्षेत्रं चामरकण्टकम् ॥ अकामो वा सकामो वा नर्मदायाः शुभे जले । स्नात्वा मुच्येत पापेभ्यो रुद्रलोकं स गच्छति।।८१
इति श्रीमहापुराणे पाय आदिखण्डे पञ्चदशोऽध्यायः ॥ १५ ॥
आदितः श्लोकानां समष्टयङ्काः-५८३
अथ पोडशोऽध्यायः ।
सूत उवाचपृच्छन्ति ते महात्मानो नारदं हि महाजनाः । युधिष्ठिरपराः सर्व ऋषयश्च तपोधनाः ॥ १ आख्याहि भगवंस्तथ्यं कावेरीसंगमं महत् । लोकानां च हितार्थाय अस्माकं च विवृद्धये ॥ २ सदा पापरता ये तु नरा दुप्कृतिकारिणः । मुच्यन्ते सर्वपापेभ्यो गच्छन्ति परमं पदम् ॥ एतदिच्छाम विज्ञातुं भगवन्वक्तुमहसि ॥
नारद उवाचशृणुध्वं सहिताः सर्वे युधिष्ठिरपुरोगमाः । अत्र कृत्वा महायज्ञं कुबेरः सत्यविक्रमः ॥ ४ इदं तीर्थमनुप्राप्य साम्राज्यादधिकोऽभवत् । सिद्धि प्राप्तो महाराज तन्मे निगदतः शृणु ॥ ५ कावेरी नर्मदां यत्र संगता लोकविश्रुता । तत्र स्नात्वा शुचिर्भूत्वा कुबेरः सत्यविक्रमः॥ ६
१ क. 'थिव्याम । २ क. भुक्तं । ३ ट. 'ज पर्व । ४ क. 'गमिष्यामि ।
Page #30
--------------------------------------------------------------------------
________________
११
महामुनिश्रीव्यासप्रणीतं
[ आदिखण्डेतपस्तप्यति यक्षेन्द्रो दिव्यं वर्षशतं महत् । तस्य तुष्टो महादेवः प्रदद्याद्वरमुत्तमम् ॥ ७ भो भो यक्ष महासत्त्व वरं शूहि यथेप्सितम् । भूहि कार्य यथेष्टं तु यद्वा मनसि वर्तते ॥ ८
कुबेर उवाचयदि तुष्टोऽसि देवेश यदि देयो वरो मम । आदिकृञ्चैव सर्वेषां यक्षाणामधिपो भवेत् ॥ ९ कुबेरस्य वचः श्रुत्वा तुष्टो देवो महेश्वरः । एवमस्तु ततश्चोक्त्वा तत्रैवान्तरधीयत ॥ १० सोऽपि लब्धवरो यक्षः शीघ्रं यक्षकुलं गतः । पूजितः सर्वयक्षेन्द्ररभिषिक्तस्तु पार्थिवः ॥ कावेरीसंगमं तत्र सर्वपापप्रणाशनम् ॥ ये नरा नाभिजानन्ति वञ्चितास्ते न संशयः । तस्मात्सर्वप्रयत्नेन तत्र स्नायीन मानवः ॥ १२ कावेरी च महापुण्या नर्मदा च महानदी । तत्र स्नात्वा तु राजेन्द्र अर्चयेदृषभध्वजम् ॥ १३ अश्वमेधफलं प्राप्य रुद्रलोके महीयते । अग्निप्रवेशं यः कुर्याद्यश्च कुर्यादनाशनम् ॥ १४ अनिवर्तिका गतिस्तस्य यथा मे शंकरोऽब्रवीत् । सेव्यमानो वरस्त्रीभिर्मोदते दिवि रुद्रवत् ॥१. षष्टिवर्षसहस्राणि पष्टिकोव्यस्तथाऽपरे । मोदते रुद्रलोकस्था यत्र यत्रैव गच्छति ॥ १६ पुण्यक्षयात्परिभ्रष्टो राजा भवति धार्मिकः । भोगवान्धर्मशीलश्च महांश्चैव कुलोद्भवः ॥ १७ तत्र पीत्वा जलं सम्यक्वान्द्रायणफलं लभेत् । स्वर्ग गम्छन्ति ने मर्त्या ये पिबन्ति जलं शुभम् १८ गङ्गायमुनयोमध्ये यत्फलं याति मानवः । कावेरीसङ्गमे स्नात्वा तत्फलं तस्य जायते ॥ १० एवं तु तस्य राजेन्द्र कावेरीसंगमं महत् । पुण्यं महत्फलं तत्र सर्वपापप्रणाशनम् ।।
इति श्रीमहापुराणे पाद्म आदिखण्ड पोडशोऽध्यायः ॥ १६ ।
आदितः श्लोकानां समष्ट्यङ्काः-६०३
अथ सप्तदशोऽध्यायः ।
. .
. .
नारद उवाचउत्तरे नर्मदाकूले तीर्थ योजनविस्तृतम् । पत्रेश्वरति विख्यातं सर्वपापहरं परम् ।। तत्र स्नात्वा नरो राजन्दैवतैः सह मोदते । पञ्च वर्षसहस्राणि क्रीडते कामरूपधृक ।। गर्जनं तु ततो गच्छेद्यत्र मेघ उपस्थितः । इन्द्रजिन्नाम संप्राप्तं तस्य तीर्थप्रभावनः ।। मेघरावं ततो गच्छेद्यत्र मेघाभिगर्जितम् । मेघनादो गणस्तत्र वरसंपन्नतां गतः ॥ ततो गच्छेत राजेन्द्र ब्रह्मावर्तमिति स्मृतम् । तत्र संनिहिता ब्रह्मा नित्यमेव युधिष्ठिर ।। तत्र स्नानासु राजेन्द्र ब्रह्मलोके महीयते ॥ ततोगारेश्वरे तीर्थे नियतो नियताशनः । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्गोप्रदानफलं लभेत् ॥ ७ काञ्चीतीर्थ ततो गच्छेद्देवर्षिगणसवितम् । तत्र स्नात्वा नरो राजन्गोलोकं समवामुयात् ॥ ८ ततो गच्छेत्तु राजेन्द्र कुण्डलेश्वरमुत्तमम् । तत्र संनिहितो रुद्रस्तिष्ठते उमया सह ॥ तत्र स्नात्वा तु राजेन्द्र अवध्यस्त्रिदशेरपि ॥ पिप्पलेश्वरं ततो गच्छेत्सर्वपापप्रणाशनम् । तत्र गत्वा तु राजेन्द्र रुद्रलोके महीयते ॥ १०
१ ट. सूत्रेश्वरति ।
Page #31
--------------------------------------------------------------------------
________________
अष्टादशोऽध्यायः ] पपपुराणम् ।
गच्छेत राजेन्द्र विमलं विमलेश्वरम् । तत्र देवशिखा रम्या ईश्वरेण निपातिता ॥ । का प्राणान्परित्यज्य रुद्रलोकमवामुयात् ॥
११ तः पुष्करिणीं गच्छेत्तत्र स्नानं समाचरेत् । स्नानमात्रे नरस्तत्र इन्द्रस्यार्धासनं लभेत् ॥ १२ धर्मदा सरिता श्रेष्ठा रुद्रदेहाद्विनिःसृता । तारयेत्सर्वभूतानि स्थावराणि चराणि च ॥ १३ सर्वदेवातिदेवेन इश्वरेण महात्मना । कथिता ऋषिसंघेभ्यो अस्माकं च विशेषतः॥ १४ बुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी । रुद्रदेहाद्विनिष्क्रान्ना लोकानां हितकाम्यया ॥ १५ सर्वपापहरा नित्यं सर्वलोकनमस्कृता । संस्तुता देवगन्धर्वैरप्सरोभिस्तथैव च ॥ १६ नमः पुण्यजले आये नमः मागरगामिनि । नमोऽस्तु ते ऋषिगणैः शंकरदेहनिःसृते ॥ १७
नमोऽस्तु ते धर्मभृते वरानने नमोऽस्तु ते देवगणैकवन्दिते । _ नमोऽस्तु ते सर्वपवित्रपावने नमोऽस्तु ते सर्वजगत्सुपूजिते ॥ १८ यश्चेदं पठने स्तोत्रं निन्यं शुद्रेन मानवः । ब्राह्मणी वेदमामोनि क्षत्रियो विजयी भवेत् ॥ १९ वैश्यस्नु लभते लाभं शद्रश्चैव शुभां गनिम् । अन्नार्थी लभते यन्नं स्मरणादेव नित्यशः ॥ २० नर्मदा सेवते नित्यं स्वयं देवो महेश्वरः । तेन पुण्या नदी जया ब्रह्महत्यापहारिणी ॥ २१
इति श्रीमहापुगणे पाद्म आदिखण्डे मतदशोऽध्यायः ॥ १७ ॥
आदितः श्लोकानां समष्ट्यङ्काः--६२४
अथाष्टादशोऽध्यायः ।
नारद उवाचतदाप्रभृति ब्रह्माद्या ऋषयश्च नपांधनाः । मेवन्ने नर्मदा राजन्कामक्रोधविवर्जिताः ॥ १ तस्मिन्निपतितं दृष्ट्वा शलं देवम्य भूतले । तस्य पुण्यं समाग्व्यानं शंकरण महात्मना ॥ २ शूलभेदेति विख्यातं तीर्थ पुण्यतमं महत् । तत्र स्नात्वाऽच येहवं गोसहस्रफलं लभेत् ॥ ३ त्रिरात्रं कारयेद्यस्तु तम्मिस्तीर्थ नराधिप । अर्चयिन्वा महादेवं पुनर्जन्म न विद्यते ॥ ४ भीमेश्वरं ततो गच्छन्नमदश्वरमुत्तमम् । आदित्यश्वरं महापुण्यं तथाऽज्यमधुना ममम् ॥ ५ मल्लिकेश्वरं परित्यज्य पर्याप्तं जन्मतः फलम् । वरुणेश्वरं ततः पश्यत्री राजेश्वरमुत्तमम् ॥ ६ सर्वतीर्थफलं तस्य पञ्चायतनदशनात । तता गच्छत राजेन्द्र युद्धं व यत्र माधितम् ॥ कोटितीर्थ तु विख्यातमसुग यत्र योधिताः। यत्र ते निहना गजन्दानवा बलदर्पिताः॥ ८ तेषां शिरांसि गृह्यन्ते निहतास्त ममागताः। तेस्तु संस्थापितो देवः शूलपाणिमहेश्वरः॥ ९ कोटिविनिहता तत्र तेन कोटीश्वरः स्मृतः । दर्शनात्तस्य तीर्थस्य मदहः स्वर्गमावहत् ॥ १० तदा इन्द्रेण क्षुद्रत्वाद्ववकीलन यत्रितः । तदाप्रभृति लोकानां स्वर्गमत्वं निवारितम् ॥ ११ सघृतं श्रीफलं दत्त्वा गत्वा चान्ते प्रदक्षिणम् । मर्वतः मह देवेन शिरसाऽऽदाय धारयेत् ॥ १२
* एतस्मादग्रे 'युधिष्ठिर उवाच' दनि ख. अ पुस्तकानिरिक्रूप मत्रषु पुस्तकेषु दृश्यते। + एतस्मादग्रे ख. ज. पुस्तकानिरिक्तसर्वपुस्तकेषु 'नारद उवाच' इत्यधिकं दृश्यते ।
१ ट. छडवश्व ।
Page #32
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[१ आदिखण्डेसर्वकामेन संपूर्णो राजा भवति पाण्डव । मृतो रुद्रत्वमामोति न चेह जायते पुनः ॥ १॥ स्वर्ग गत्वा ततो राज्यं कृत्वाऽऽगत्य ततो दिवम् । महादेवं ततोपास्य त्रयोदश्यां हि मानवः ॥११ स्नातमात्रो नरस्तत्र सर्वयज्ञफलं लभेत् । ततो गच्छेत राजेन्द्र तीर्थ परमशोभनम् ॥ १५ नराणां पापनाशाय अगस्त्येश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्मुच्यते ब्रह्महत्यया ॥ १६ कार्तिकस्य तु मासस्य कृष्णपक्षचतुर्दशीम् । घृतेन स्नापयेदेवं समाधिस्थो जितेन्द्रियः॥ १७ एकविंशकुलोपेतो न मुच्येदेश्वरात्पदात् । यानं चोपानही छत्रं दद्याच घृतकाञ्चनम् ॥ भोजनं चैव विमाणां सर्वे कोटिगुणं भवेत् ॥ ततो गच्छेत राजेन्द्र रविस्तवमनुत्तमम् । तत्र स्नात्वा नरो राजसिंहासनगतिर्भवेत् ॥ १९ नर्मदादक्षिणे कूले तीर्थ शक्रस्य विश्रुतम् । उपोष्य रजनीमेका स्वानं तत्र समाचरेत् ॥ २० स्वानं कृत्वा यथान्यायमर्चयेत्तु जनार्दनम् । गोसहस्रफलं तस्य विष्णुलोकं स गच्छति ॥ २१ ऋषितीर्थ ततो गच्छेत्सर्वपापहरं नृणाम् । स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ २१ नारदस्य च तत्रैव तीर्थ परमशोभनम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ २३ देवतीर्थ ततो गच्छेद्ब्रह्मणा निर्मितं पुरा । तत्र स्नात्वा नरो राजन्ब्रह्मलोके महीयते ॥ २४ अमरकण्टक ततो गच्छेदमरस्थापितं पुरा । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ २ ततो गच्छेत राजेन्द्र वामनेश्वरमुत्तमम् । तत्र चाऽऽयतनं दृष्ट्वा मुच्यते ब्रह्महत्यया ॥ २६ ऋषितीर्थ ततो गच्छेत्त्वीशानेशं पुमान्धुवम् । वटेश्वरं ततो दृष्ट्वा पर्याप्तं जन्मनः फलम् ॥ २७ भीमेश्वरं ततो गच्छेत्सर्वव्याधिविनाशनम् । स्नातमात्रो नरो राजन्मर्वदुःखात्ममुच्यते ॥ २८ ततो गच्छेत राजेन्द्र वारणेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्सर्वदुःखात्प्रमुच्यते ॥ २९ सोमतीर्थ ततो गच्छेत्पश्येत चन्द्रमुत्तमम् । तत्र स्नात्वा नरो राजन्भक्त्या परमया युनः ॥ ३० तत्क्षणादिव्यदेहस्थः शिववन्मोदते चिरम् । षष्टिवर्षसहस्राणि शिवलोके महीयते ॥ ३१ ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् । अहोरात्रांपवासेन त्रिरात्रफलमाप्नुयात् ॥ तस्मिंस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति । यावन्ति तस्य रोमाणि तत्मसूतकुलस्य च ॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ यस्तु प्राणपरित्यागं तत्र कुर्यानराधिप । अक्षयं मांदत कालं यावच्चन्द्रदिवाकरौ ॥ ३४ नर्मदातटमाश्रित्य तिष्ठन्ति ये तु मानवाः । ते मृताः स्वर्गमायान्ति तथा सुकृतिनो यथा ॥ ३५ सुरभिकेश्वरं गच्छेन्नारकं कोटिकेश्वरम् । गङ्गावतरण तत्र दिने पुण्यो न संशयः ॥ ३६ नन्दितीर्थ ततो गच्छेत्स्नानं तत्र समाचरेत् । तुष्यते तस्य नन्दीशः सोमलांके महीयते ॥ ३७ ततो दीपेश्वरं गच्छेव्यासतीर्थ तपोवनम् । निवर्तिता पुरा तत्र व्यासभीता महानदी ॥ हुकारिता तु व्यासेन दक्षिणेन ततो गता ॥ प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । व्यासस्तत्र भवेत्मीतो वाञ्छितं लभते फलम् ॥३९ सूत्रेण वेष्टयेद्यस्तु दीसं देवं सवेदिकम् । क्रीडते अक्षयं कालं यथा रुद्रस्तथैव सः ॥ ४० ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् । संगमे तु नरः स्नात्वा मुच्यते सर्वपातकैः ॥ ४१ एरण्डी त्रिषु लोकेषु विख्याता पापनाशिनी । अथवाऽऽश्वयुजे मासि शुक्लपक्षस्य चाष्टमी।। ४२ शुचिर्भूत्वा नरः स्नात्वा सोपवासपरायणः । ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ॥ ४३
Page #33
--------------------------------------------------------------------------
________________
अष्टादशोऽध्यायः ]
परपुराणम् । डीसंगमे स्नात्वा भक्तिभावानुरञ्जितः। मूर्तिको शिरसि स्थाप्य अवगाय च वै जलम् ॥ होदकसंमिश्र मुच्यते सर्वकिल्विषः ॥ क्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ ४५
सुवर्णतिलके स्नात्वा दत्वा च काञ्चनम् । काञ्चनेन विमानेन रुद्रलोके महीयते ॥ ४६
स्वर्गच्युतः कालाद्राजा भवति वीर्यवान् । ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु संगमम् ॥ ४७ कोक्ये विश्रुतं दिव्यं तत्र संनिहितः शिवः । तत्र स्नात्वा नरो राजन्गाणपत्यमवाप्नुयात्।।४८ सन्दतीर्थ ततो गच्छेत्सर्वपापप्रणाशनम् । आ जन्मनः कृतं पापं स्नानमात्रायपोहति ॥ ४९ जागिरसं ततो गच्छेत्स्नानं तत्र समाचरेत् । गोसहस्रफलं तस्य रुद्रलोके महीयते ॥ ५० गलतीर्थ ततो गच्छेत्सर्वपापप्रणाशनम् । तत्र गत्वा तु राजेन्द्र स्नानं तत्र समाचरेत् ॥ सजन्मकृतैः पापैर्मुच्यते नात्र संशयः ॥ टेश्वरं ततो गच्छेत्सर्वतीर्थमनुत्तमम् । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ ५२ संगमेश्वरं ततो गच्छेत्सर्वपापहरं परम् । तत्र स्नात्वा नरो राजल्लभते नात्र संशयः ॥ ५१ बद्रतीर्थ समासाद्य दानं दद्यात्तु यो नरः । तस्य तीर्थप्रभावेण सर्व कोटिगुणं भवेत् ॥ ५४ अथ नारी भवेत्काली तत्र स्नानं समाचरेत् । गौरीतुल्या भवेत्सा तु रुद्रपत्नी न संशयः ॥५५ भङ्गारेश्वरं ततो गच्छेत्स्नानं नत्र समाचरेत् । स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥ ५६ भङ्गारकचतुर्थ्यां तु स्नानं तत्र समाचरेत् । अक्षयं मोदते कार्ल मुरारिकृतशासनः ॥ ५७ अयोनिसंगमे स्नात्वा न पश्येद्योनिमन्दिरम् । पाण्डवेश्वरकं गत्वा स्नानं तत्र समाचरेत् ॥ "अक्षयं मोदते कालमवध्यस्तु सुरासुरैः॥ विष्णुलोकं ततो गत्वा क्रीडाभोगसमन्वितः। तत्र भुक्त्वा महाभोगान्म] राजाऽभिजायते ॥५९ फैम्बोतिकेश्वरं गच्छेत्स्नानं तत्र समाचरेत् । उत्तरायणे संप्राप्ते यदिच्छेत्तस्य तद्भवेत् ॥ ६० चन्द्रभागां ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ६१ ततो गच्छेत्तु राजेन्द्र तीर्थ शक्रस्य विश्रुतम् । पूजितं देवराजेन देवैरपि नमस्कृतम् ॥ ६२ तत्र स्नात्वा नरो राजन्दानं दत्त्वा च काञ्चनम् । अथवा नीलवर्णाभं वृषभं यः समुत्सृजेत् ॥६१ वृषभस्य तु रोमाणि तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि नरो हरपुरे वसेत् ॥ ६४ ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् । अश्वानां श्वेतवर्णानां सहस्रेषु नराधिप ॥ स्वामी भवति मर्येषु तस्य तीर्थप्रभावतः ॥ ततो गच्छेत राजेन्द्र ब्रह्मावर्तमनुत्तमम् । तत्र स्नात्वा नरो राजस्तर्पयेत्पितृदेवताः ॥ ६६ उपोष्य रजनीमेको पिण्डं दत्त्वा यथाविधि । कन्यागते यथाऽऽदित्ये अक्षयं संचितं भवेत् ॥६७ ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्कपिलां यः प्रयच्छति ॥ ६८ संपूर्णा पृथिवीं दत्त्वा यत्फलं तदवाप्नुयात् । नर्मदेश्वरं परं तीर्थ न भूतं न भविष्यति ।। ६९ सत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् । तत्र सर्वगतो राजा पृथिव्यामभिजायते ॥ ७० सर्वलक्षणसंपूर्णः सर्वव्याधिविवर्जितः । नार्मदीयोत्तरे कूले तीर्थ परमशोभनम् ॥ ७१ नादिन्यायतनं रम्यमीश्वरेण तु भावितम् । तत्र स्नात्वा तु राजेन्द्र दानं दत्त्वा च शक्तितः।। ७२
-
१ख. प्र. शक्तिका । २८. वाटेश्वरं । ३८. 'लं मुचिरं कृ। ४ ट. कम्बोजिकेश्वरं ।
Page #34
--------------------------------------------------------------------------
________________
९८
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डे -
तस्य तीर्थप्रभावेण दत्तं भवति चाक्षयम् । दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मणः || मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ॥
७
७७
माघमासे तु संप्राप्ते शुक्लपक्षस्य सप्तमीम् । वसेदायतने यस्तु निरात्मा यो जितेन्द्रियः ॥ न जायते व्याधितश्च कालेऽन्धो बधिरस्तथा । सुभगो रूपसंपन्नः स्त्रीणां भवति वल्लभः ॥ ७५ इदं तीर्थं महापुण्यं मार्कण्डेयेन भाषितम् । ये न यान्ति च राजेन्द्र वश्चितास्ते न संशयः ॥ ७६ मासेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ॥ मोदते स्वर्गलोकस्थो यावदिन्द्राश्चतुर्दश । ततः समीपतः स्थित्वा नागेश्वरं तपोवनम् ॥ ७८ तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः । बहुभिर्नागकन्याभिः क्रीडते कालमक्षयम् ।। ७९ कुबेरभवनं गच्छेत्कुबेरो यत्र संस्थितः । कालेश्वरं परं तीर्थ कुबेरो यत्र तोषितः ॥ यत्र स्नात्वा तु राजेन्द्र सर्वसंपदमाप्नुयात् ।।
८०
८१
ረ
ራ
८६
८७
८९.
०.०
०५
००
ततः पश्चिमतो गच्छेन्मरुतालयमुत्तमम् । तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः ॥ काञ्चनं तु ततो दद्यादन्नं शक्त्या तु बुद्धिमान् । पुष्पकेण विमानेन वायुलोकं स गच्छति ॥ ८२ मेम तीर्थं ततो गच्छेत्माघमामे युधिष्ठिर । कृष्णपक्षे चतुर्दश्यां स्नानं तत्र ममाचरेत् ॥ नक्तं भोज्यं ततः कुर्यान्न गच्छेद्योनिसंकटम् । अहल्यातीर्थं ततो गच्छेत्स्नानं तत्र ममाचरेत् ||८४ स्नातमात्रो नरस्तत्र अप्सरैः मह मोदते । पारमेश्वरे तपस्तप्त्वा अहल्या मुक्तिमागमत् ।। चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी । कामदेवदिने तस्मिन्नहल्यां तु प्रपूजयेत् ॥ यत्र तत्र समुत्पन्नो नरस्तत्र प्रियो भवेत् । स्त्रीवल्लभो भवेच्छ्रीमान्कामदेव इवापरः ॥ अयोध्यां तु समासाद्य तीर्थे शक्रस्य विश्रुतम् । स्नातमात्री नरस्तत्र गोसहस्रफलं लभेत् ॥ ८८ सोमतीर्थ ततो गच्छेत्स्नानमात्रं समाचरेत् । स्नातमात्री नरस्तत्र सर्वपापैः प्रमुच्यते ।। सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् । त्रैलोक्यविश्रुतं राजन्मोमतीर्थ महाफलम् || यस्तु चान्द्रायणं कुर्यात्तस्मिंस्तीर्थे नराधिप । सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ।। अग्निप्रवेशे तु जलेऽप्यथवाऽपि अनाशने । सामतीर्थे मृतां यस्तु नासौ मर्त्येऽभिजायते ।। स्तम्भतीर्थ ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रा नरस्तत्र सोमलोके महीयते ॥ ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् । यांधनीपुरविख्यातं विष्णुतीर्थमनुत्तमम् ।। असुरा योषितास्तत्र वासुदेवेन कोटिशः । तत्र तीर्थं समुत्पन्नं विष्णुः प्रीतो भवेदिह ॥ अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति । ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् ॥ अमोहकमिति ख्यातं पितॄंस्तत्र तु तर्पयेत् । पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि ।। ९७ तत्र स्नात्वा नरो राजन्पतृपिण्डं तु दापयेत् । गजरूपाः शिलास्तत्र तोयमध्ये प्रतिष्ठिताः ९८ तस्मिंस्तु दापयेत्पिडं वैशाखे तु विशेषतः । तृप्यन्ति पितरस्तावद्यावत्तष्ठति मेदिनी ॥ ततो गच्छेत राजेन्द्र सिद्धेश्वरमनुत्तमम् । तत्र स्नात्वा तु राजेन्द्र गणपत्यन्तिकं व्रजेत् ।। १०० ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः । तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ।। १०१ नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । कामदेवः स्वयं तत्र तपस्तप्यत्यसौ महान् ॥ दिव्यं वर्षसहस्रं तु शंकरं पर्युपासते । समाधिपर्वदग्धस्तु शंकरेण महात्मना । श्वेतपर्वोपमश्चैव हुताशः शुक्लपर्वणि । एते दग्धास्तु ते सर्वे कुसुमेश्वरसंस्थिताः ।।
५.३
९.४
०५
९.६
1
१०२
१०३
१०४
१ ञ, ंयमतार्थ । २ ख. म. 'ते । तत्र ताथ त ं । ३ क. 'तास्तेन वा ।
16
Page #35
--------------------------------------------------------------------------
________________
एकोनविंशोऽध्यायः ] पपपुराणम् । ववर्षसहस्रेण तुष्टस्तेषां महेश्वरः । उमया सहितो रुद्रस्तेषां तुष्टो वरपदः ॥ मोक्षयित्वा तान्सन्निर्मदातटमाश्रितान् । तस्य तीर्थप्रभावेण पुनर्देवत्वमागतः ॥ १०६ सलसादान्महादेव तीर्थ च भवतूत्तमम् । अर्धयोजनविस्तीर्ण तीर्थ दिक्षु समन्ततः॥ १०७ शिस्तीर्थे नरः स्नात्वा उपवामपरायणः । कुसुमायुधरूपेण रुद्रलोके महीयते ॥ १०८ कैलानरे यमेनेव कामदेवेन वायवे । तपस्तप्तं तु राजेन्द्र तत्रैव च पुरागतैः॥ अन्योनस्य ममीपे तु नातिदूरे तु तस्य वै । स्नानं दानं च तत्रैव भोजनं पिण्डपातनम् ॥ ११० अभिवेशे जले वाऽपि अथवाऽपि अनाशने । अनिवर्तिका गतिस्तस्य मृतस्याप्ययोजने ॥१११ विम्बकेण तोयेन नापयेन्नरपुङ्गवः । अन्धोनमूले दत्त्वा तु पिण्डं चैव यथाविधि । पितरस्तस्य तृप्यन्ति यावञ्चन्द्रदिवाकरौ ॥ उत्तरायणे तु संप्राप्ते तत्र स्नानं करोति यः। पुरुषो वाऽङ्गना वाऽपि वमेदायतने शुचिः ॥ ११३ सिद्धेश्वरस्य देवस्य प्रभाने पूजयेन्नरः । मतां गतिमवामोति न तां सर्वैर्महामखैः॥ ११४ यदा च तीर्थकालेन रूपवान्सुभगो भवेत् । मयं भवति राजाऽसावाममुद्रान्तगोचरे ॥ ११५ क्षेत्रपालं न पश्येच दण्डपालं महावलम् । वृथा तस्य भवेद्यात्रा अदृष्ट्वा कर्णकुण्डलम् ॥ ११६ एतत्तीर्थफलं ज्ञात्वा सर्वे देवाः ममागताः। मुञ्चन्ति पुष्पवृष्टिं तु स्तुवन्ति कुमुमेश्वरम् ।। ११७
इति श्रीमहापुगणे पान आदिग्वण्डेऽष्टादशोऽध्यायः १८ ॥
आदिनः श्लोकानां समष्ट्यङ्काः-७४१
११२
अर्थकोनविशोऽध्यायः ।
नारद उवाचभार्गवेशं ततो गच्छेद्भक्त्या यत्र च विष्णुना । हुङ्कारितास्तु देवेन दानवाः प्रलयं गताः ॥ १ तत्र स्नात्वा तु राजेन्द्र सर्वपापैः प्रमुच्यते । शुक्रुतीर्थस्य चोत्पत्तिं शृणु त्वं पाण्डुनन्दन ॥ २ हिमवच्छिवरे रम्ये नानाधातुविचित्रिते । तरुणादित्यसंकाशे तप्तकाश्चनसंनिभे ॥ बज्रस्फटिकसोपाने चित्रपट्टशिलानले । जाम्बनदमये दिव्ये नानापुष्पोपशोभिते ॥ तत्राऽऽसीनं महादेवं सर्वशं प्रभुमव्ययम् । लोकानुग्राहकं शान्तं गणतन्दैः समावृतम् ॥ ५ स्कन्दनन्दिमहाकालीरभद्रगणादिभिः । उमया महितं देवं मार्कण्डः परिपृच्छति ॥ ६ देवदेव महादेव ब्रह्मविप्ण्विन्द्रसस्तुत । संसारभयभीतोऽहं सुखोपायं ब्रवीहि मे ॥ भगवन्भूतभव्येश सर्वपापप्रणाशनम् । तीर्थानां परमं तीर्थ तद्वदस्व महेश्वर ॥
ईश्वर उवाचशृणु विप्र महाप्राज्ञ सर्वशास्त्रविशारद । स्नानादि कुरु गच्छ त्वमृषिसंधैः समावृतः॥ मन्वत्रियाज्ञवल्क्याश्च काश्यपश्चैव अङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥ नारदो गौतमश्चैव पृच्छन्ते धर्मकाक्षिणः ॥ का कनखले पुण्या प्रयागं पुष्करं गया । कुरुक्षेत्र तथा पुण्यं राहुग्रस्ते दिवाकरे ॥ ११ दिवा वा यदि वा रात्रौ शुक्लतीर्थ महाफलम् । दर्शनान्स्पर्शनाच्चैव स्नानाध्यानात्तपोजनात् ॥१२
१८. 'राः । भृग्वाप।
" sr .
Page #36
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासपणीत
[ १ आदिखण्डे होमाश्चैवोपवासाच्च शुक्लतीर्थफलं महत् । शुक्लतीर्थ महापुण्यं ना तु संव्यवस्थितम् ॥ १॥ चाणिक्यो नाम राजर्षिः सिदि तत्र समागतः। एतत्क्षेत्रं समुत्पत्रं योजनावृत्तिसंस्थितम् ॥ १॥ शुक्लतीर्थ महापुण्यं सर्वपापपणाशनम् । पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ॥ १. अहमत्र ऋषिश्रेष्ठ तिष्ठामीत्युमया सह । वैशाखे विमले मासि कृष्णपक्षे चतुर्दशी ॥ १॥ कैलासाचापि निर्गम्य तत्र संनिहितो वहम् । देवकिंनरगन्धर्वाः सिद्धविद्याधरास्तथा ॥ १५ गणाश्चाप्सरसो नागाः सर्वदेवाः समागताः । गगनस्थास्तु तिष्ठन्ति विमानैः सर्वकामकैः ।। १८, शुक्लतीर्येषु राजेन्द्र आगता धर्मकाङ्गिणः । रजकेन यथा वस्त्रं शुक्लं भवति वारिणा ॥ १९ आजन्मसंचितं पापं शुक्लतीर्थ व्यपोहति । स्नानं दानं महापुण्यं मार्कण्ड ऋषिसत्तम । २० शुक्लतीर्थात्परं तीर्थ न भूतं न भविष्यति । पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ॥ २॥ अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति । तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः॥ देवदानेन या पुष्टिर्न सा ऋतुशतैरपि । कार्तिकस्य च मासस्य कृष्णपक्षे चतुर्दशी ॥ घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् । एकविंशकुलोपेतो न च्यवेच्चैश्वरात्पदात् ॥ २४ शुक्लतीर्थ परं तीर्थमृषिसिद्धनिषेवितम् । तत्र स्नात्वा ततो राजन्पुनर्जन्म न विद्यते ॥ २५ स्नात्वा वै शुक्लतीर्थेऽपि अर्चयेवृषभध्वजम् । जागरं कारयेत्तत्र नृत्यगीतादिमङ्गलैः ॥ २६ प्रभाते शुक्लतीर्थे तु स्नानं वै देवतार्चनम् । आचार्य भोजयेत्पश्चाच्छिवव्रतपरः शुचिः॥ २७ भोजनं च यथाशक्त्या वित्तशाठ्यं न कारयेत । प्रदक्षिणं ततः कृत्वा शनैर्देवान्तिकं व्रजेत्॥२८ एवं वै कुरुते यस्तु तस्य पुण्यफलं शृणु । दिव्ययानसमारूढः स्तूयमानोऽप्सरोगणैः ॥ २९ शिवतुल्यबलोपेतस्तिष्ठत्याभूतसंप्लवम् । शुक्लतीर्थे तु या नारी ददाति कनकं शुभम् ॥ ३० घृतेन स्नापयेद्देवं कुमारं चाभिपूजयेत् । एवं या कुरुते भक्त्या तस्याः पुण्यफलं शृणु ॥ ३१ मोदते देवलोकस्था यावदिन्द्राश्चतुर्दश । अयने वा चतुर्दश्यां संक्रान्तौ विषुवे तथा ॥ . ३२ स्नात्वा तु सोपवासः स निर्जितात्मा समाहितः । दानं दद्याद्यथाशक्त्या प्रीयेतां हरिशंकरौ॥३॥ शुक्लतीर्थप्रभावेण सर्व भवति चाक्षयम् । अनाथं दुर्गतं विषं नाथवन्तमथापि वा ॥ उद्वाहयति यस्तीर्थे तस्य पुण्यफलं शृणु ॥ यावत्तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ३.
इति श्रीमहापुराणे पाय आदिखण्ड ऊनविशोऽध्यायः ॥ १९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७७६
अथ विंशोऽध्यायः ।
नारद उवाचततस्तु नरकं गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र नरकं न च पश्यति ॥ ? अस्य तीर्थस्य माहात्म्यं शृणु त्वं पाण्डुनन्दन । तस्मिंस्तीर्थे तु राजेन्द्र यान्यस्थीनि विनिक्षिपेत्॥२ विलयं यान्ति सर्वाणि रूपवाञ्जायते नरः । गोतीर्थ तु ततो गच्छेदृष्ट्वा पापात्प्रमुच्यते ॥ ३ ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ ४ ज्येष्ठमासे तु समाप्ते चतुर्दश्यां विशेषतः। तत्रोपोष्य नरो भक्त्या कपिलां यः प्रयच्छति ॥ ५
Page #37
--------------------------------------------------------------------------
________________
वशोऽध्यायः ]
पद्मपुराणम् ।
३१
| दीप प्रज्वाल्य घृतेन स्नापयेच्छिवम् । सघृतं श्रीफलं दत्त्वा कृत्वा चान्ते प्रदक्षिणम् ॥ ६ भरणसंयुक्तां कपिलां यः प्रयच्छति । शिवतुल्यो नरो भूत्वा न चेह जायते पुनः ॥ ७ सरकदिने प्राप्ते चतुर्थ्यां तु विशेषतः । स्त्रापयित्वा शिवं भक्त्या ब्राह्मणेभ्यस्तु भोजनम् ॥ ८ रिकनवम्यां तु अमावास्यां तथैव च । स्नापयेत्तत्र यत्नेन रूपवान्सुभगो भवेत् ॥
११
१२
१३
१४
१५
१६
स्नापयेल्लिङ्गं पूजयेद्भक्तितो द्विजान् । पुष्पकेण विमानेन सहस्रैः परिवारितः ।। पदमत्रामोति नात्र वाऽभिगतं भवेत् । अक्षयं मोदते कालं यथा रुद्रस्तथैव च ।। तु कर्मसंयोगान्मर्त्यलोकमुपागतः । राजा भवति धर्मिष्ठो रूपवाञ्जायते बली । 'गच्छेत राजेन्द्र ऋषितीर्थमनुत्तमम् । घृणविन्दुऋषिर्नाम शापदग्धो व्यवस्थितः ।। तीर्थप्रभावेण पापमुक्तो भवेद्विजः । ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ॥ श्रावणे मामि संप्राप्ते कृष्णपक्षे चतुर्दशीम् । स्नातमात्री नरस्तत्र रुद्रलोके महीयते ॥ पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् । गणेश्वरसमीपे तु गङ्गावदनमुत्तमम् || अकामो वा सकामो वा तत्र स्नात्वा तु मानवः । आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ १७ सदा पर्व दिवसे स्नानं तत्र समाचरेत् । पितॄणां तर्पणं कृत्वा मुच्यते च ऋणत्रयात् ॥ प्रयागे यत्फलं दृष्टं शंकरेण महात्मना । तदेव निखिलं पुण्यं गङ्गाराहर्कसंगमे ।। संस्यैव पश्चिम स्थानं समीपे नातिदूरतः । दशाश्वमेधिकं नाम त्रिषु लोकेषु विश्रुतम् ॥ उपोप्य रजनीमेकां मासि भाद्रपदे तथा । अमावास्यां नरः स्नात्वा व्रजते यत्र शंकरः ।। २१ सदा पूर्व स्नानं तत्र समाचरेत् । पितॄणां तर्पणं कृत्वा अश्वमेधफलं लभेत् ॥ दशाश्वमेधात्पश्चिमतो भृगुर्ब्राह्मणसत्तमः । दिव्यं वर्षसहस्रं तु ईश्वरं पर्युपासते ।। बल्मीकावस्थितश्वासौ दक्षिणं च निकेतनम् । आश्चर्य तु महज्जातमुमायाः शंकरस्य च ॥ गौरी तु पृच्छते देवं कोऽयमेव तु संस्थितः । देवो वा दानवश्वाथ कथयस्व महेश्वर ॥ ईश्वर उवाच -
१८
१९
२०
२२
भृगुर्नाम द्विजश्रेष्ठ ऋषीणां प्रवरो मुनिः । ध्यायते मां समाधिस्थो वरं प्रार्थयते प्रिये ।। तत्र प्रहसिता देवी ईश्वरं प्रत्यभाषत ॥
२६
धूमवत्तु शिखा जाता ततोऽद्यापि न तुष्यसि । दुराराध्योऽसि तेन त्वं नात्र कार्या विचारणा ।। २७
ܕ
२३
२४
२५
देव उवाच -
२९ ३०
३१
न ज्ञायसे महादेवि अयं क्रोधेन चेष्टितः । दर्शयामि यथा तथ्यं प्रियं ते च करोम्यहम् || २८ स्मारितो देवदेवेन धर्मरूपो वृपस्तदा । स्मरणाद्देवदेवस्य वृषः शीघ्रमुपस्थितः ।। बदते मानुषीं वाचमादेशो दीयतां प्रभो । वल्मीकैश्छादितो विम एनं भूमौ निपातय ॥ योगस्थस्तु ततो ध्यायंस्ततस्तेन निपातितः । तत्क्षणात्क्रोधसंतप्तो हस्तमुत्क्षिप्तवान्वृषम् ॥ एवं संभाषमाणस्तु कुत्र गच्छसि भो वृष । अद्य त्वामथ पाप्मानं प्रत्यक्षं हन्म्यहं वृष ॥ तिस्तु तदा विप्रो अन्तरिक्षगतं वृषम् । आकाशे प्रेक्षते विम एतदद्भुतमुत्तमम् । ततः प्रहसिते रुद्र ऋषिरग्रे व्यवस्थितः । तृतीयं लोचनं दृष्ट्वा वैलक्ष्यात्पतितो भुवि ।। प्रणम्य दण्डवमाँ स्तुवते परमेश्वरं ।।
३२
३३
१ स्व. अ. च । दाप । २ ट म् । तृण । ३ क. धार्मिकस्तु ।
३४
Page #38
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीत- [१ आदिखण्डेपणिपत्य जगमार्य भवोद्भवं त्वामहं दिव्यरूपम् । भवभीतो भुवनपते प्रभूतं विज्ञापये किंचित् ३५ त्वगुणनिकरान्वक्तुं कःशक्तो भवति मानुषो नाथ । वासुकिरयं हि कदाचिद्वदनसहस्रं भवेद्यस्य ३६ भक्त्या तथाऽपि शंकर भुवनपते त्वत्स्तुतौ तु मुखरस्य।वन्द्य क्षमस्व भगवन्प्रसीद मे तव चरणपतितस्य सत्त्वं रजस्तमस्त्वं स्थित्युत्पत्तो विनाशने देव । त्वां मुक्त्वा भुवनपते भुवनेश्वर नैव दैवतं किंचित् ३८ यमनियमयज्ञदानैर्वेदाभ्यामावधारणोद्योगात् । त्वद्भक्तेः सर्वमिदं नाहति कलासहस्रांशेन ॥ ३९ उत्कृष्टरसरसायनखड्गाधनपादुकोदिसिद्धि।चिह्नानि भवत्प्रणतानां दृश्यन्त इह जन्मनि प्रकटम्। शाम्येन नमति यद्यपि ददामि त्वं धर्ममिच्छतां देव। भक्तिर्भवच्छेदकरी मोक्षाय विनिर्मिता नाथ। परदारपरस्वरतं परिभवपरिदुःखशोकसंतप्तम् । परवदनवीक्षणपरं परमेश्वर मां परित्राहि ॥ ४२ अलीकाभिमानदग्धं क्षणभङ्गुरविभवविलसितं देव । कृरं कुपथाभिमुखं पतितं मां त्राहि देवेश'४३ दीनेन्द्रियगणमा!बन्धुजनरेव पूरिता आशा। तुच्छा तथाऽपि शंकर किं मुहं मां विडम्बयसि'४४ दणां हरस्व शीघ्रं लक्ष्मी मां देहि हृदयवासिनीं नित्याम् । छिन्धि मदमोहपाशानुत्तारय मां महादेव ।। करुणाभ्युदयं नामस्तोत्रमिदं सिद्धिदं दिव्यम्।यःपठति भक्तियुक्तस्तस्य तु तुप्येद्भगोयेथा हि शिवः।
ईश्वर उवाचअहं तुष्टोऽस्मि ते विप्र प्रार्थयस्वेप्सितं वरम् । उमया सहितो देवो वरं तस्य हि दापयेत् (?)।।४७ भृगुरुवाच-यदि तुष्टोऽसि देवेश यदि देया वरो मम । रुद्रवेदी भदेवमेतत्संपादयस्व मे ॥ ४८
ईश्वर उवाचएवं भवतु विप्रेन्द्र क्रोधस्थानं भविष्यति । न पितापुत्रयोश्चैव एकवाक्यं भविष्यति ॥ ४९ तदामभृति ब्रह्माघाः सर्वे देवाः सकिनराः । उपासत भृगोस्तीर्थ तुष्टो यत्र महेश्वरः ॥ ५० दर्शनात्तस्य तीर्थस्य सद्यः पापात्प्रमुच्यते । अवशाः स्ववशाश्चापि म्रियन्ते तत्र जन्तवः ॥ ५१ गुपातिगृह्यस्य गतिस्तेषां निःसंशया भवेत् । एतत्क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥ ५२ तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः । औपानहं तदा युग्मं देयमन्नं च काधनम्।।५३ भोजनं च यथाशक्त्या अक्षयं तस्य तद्भवेत् । सर्योपरागं यो दद्यादानं चैव यथेच्छया ॥ ५१ तीर्थस्नानं तु यदानमक्षयं तस्य तद्भवेत् । चन्द्रसर्योपरागेप वृपोत्सर्गमनुत्तमम् ॥५५ न जानन्ति नरा मुढा विष्णुमायाविमोहिताः । नर्मदायां स्थितं दिव्यं वृपतीर्थ नराधिप ॥५६ भृगुतीथेस्य माहात्म्यं यः शृणोनि नरः सकृत् । विमुक्तः सर्वपापेभ्यो रुद्रलोकं स गच्छति ५७ ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम् । तत्र मात्वा नरां राजन्नुपवासपरायणः ॥ ५८ काश्चनेन विमानेन ब्रह्मलोके महीयते । धौतपापं तता गच्छद्धोतं यत्र वृपेण तु ॥ ५९ नर्मदायां स्थितं राजन्सर्वपातकनाशनम् । तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥ ६० तस्मिंस्तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः । चतुर्भुजस्विनेत्रस्तु रुद्रतुल्यवलो भवेत् ।। ६१ बसेकल्पायुतं साग्रं रुद्रतुल्यपराक्रमः । कालेन महता प्राप्तः पृथिव्यामकराइभवत् ॥ ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् । प्रयागं यत्फलं दृष्टं मार्कण्डयन भाषितम् ॥
६२
६३ तत्फलं लभते राजन्नातमात्रस्तु मानवः । मासि भाद्रपदे चैत्र शुक्लपक्षस्य चाष्टमीम् ॥ ६४
w
w
w
१ख अ. भतनाथं २ ख. ज. रपि हि । इट. 'नमिद्धा । 6 . 'कविवर्गम' । ख. 'काचिवरमि। ५ क. 'श्यन्ते ते हिज' ६ ट. का ॥ ४३ ॥ हाने । ७क, 'बद्दव । ८ ट. भारत।
Page #39
--------------------------------------------------------------------------
________________
२१ एकविंशोऽध्यायः ]
पद्मपुराणम् । उपोष्य रजनीमेकां तत्र स्नानं समाचरेत् । यमदूतैर्न बाध्यंत इन्द्रलोकं स गच्छति ॥ १५ ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः । हिरण्यद्वीपविख्यातं सर्वपापप्रणाशनम् ॥ तत्र स्नात्वा नरो राजन्धनवानरूपवान्भवेत् ॥ ततो गच्छेत राजेन्द्र तीर्थ कनखलं महत् । गेरुडेन तपस्तप्तं तस्मिंस्तीर्थे नराधिप ॥ विख्यातं सर्वलोकेषु योगिनी तत्र तिष्ठति । क्रीडते योगिभिः सार्ध शिवेन सह नृत्यति ॥ ६८ तत्र स्नात्वा नरो राजन्रुद्रलोके महीयते । ततो गच्छेत राजेन्द्र ईशतीर्थमनुत्तमम ॥ ६९ ईशस्तत्र विनिर्मुक्तो गत ऊर्च न संशयः । ततो गच्छेन राजेन्द्र सिद्धो यत्र जनार्दनः ॥ ७० वाराहं रूपमास्थाय अर्चितः परमेश्वरः । वाराहतीर्थे नरः स्नात्वा द्वादश्यां तु विशेषतः ॥ ७१ विष्णुलोकमवानोति नरकं तु न गच्छति । ततो गच्छेत राजेन्द्र सोमतीर्थमनुत्तमम् ॥ ७२ पौर्णमाम्यां विशेषेण तत्र स्नानं समाचरेत् । पणिपत्य च ईशानं बलिस्तस्य प्रसीदति ॥ ७३ हरिश्चन्द्रपुरं दिव्यमन्तरिक्ष तु दृश्यते । चक्रध्वजे समावृत्ते सुप्ते नागारिकेतने ॥ ७४ नमदातोयवेगेने रुरुकच्छोपमेविते (?)। तस्मिस्तीर्थे निवासं च विष्णुः शंकरमब्रवीत ॥ ७५ द्वीपेश्वरे नरः स्नात्वा लभेद्बहुसुवर्णकम् । ततो गच्छेत राजेन्द्र रुद्रकन्यासुसंगमम् ॥ ७६ स्नातमात्री नरस्तत्र देव्याः म्थानमवाप्नुयात् । देवतीर्थ ततो गच्छेत्सर्वदेवनमस्कृतम् ॥ ७७ तत्र स्नात्वा तु राजेन्द्र दैवतैः सह मोदते । नतो गच्छेत राजेन्द्र शिखितीर्थमनुत्तमम् ॥ ७८ तत्र वै दीयते दानं सर्व कोटिगुणं भवेत् । अपरपक्षेऽमावास्यां मनानं तत्र समाचरेत् ॥ ७९ ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता । भृगुतीर्थे तु राजेन्द्र तीर्थकोटियवस्थिता ॥ ८० अकामो वा सकामो वा तत्र स्नायीन मानवः । अश्वमेधमवामोनि दैवतैः सह मोदते ॥ ८१ नत्र सिद्धिमवामांति भृगस्तु मुनिपुङ्गवः । अवतारः कृतस्तेन शंकरण महात्मना ॥
इति श्रीमहापुराणे पाद्म आदिखण्डे विंशतितमोऽध्यायः ॥ २० ॥
आदितः श्लोकानां समष्ट्यङ्काः-८५८
अर्थकविशोऽध्यायः ।
नारद उवाचततो गच्छेत राजेन्द्र विहङ्गेश्वरमुत्तमम् । दर्शनात्तस्य राजेन्द्र मुच्यते सर्वपातकैः ॥ १ तनो गच्छेत राजेन्द्र नर्मदेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ॥ २ अश्वतीर्थ नतो गच्छेन्स्नानं तत्र समाचरेत् । मुभगो दर्शनीयश्च भोगवाजायते नरः॥ ३ पितामहं ततो गच्छेद्रह्मणा निर्मितं पुरा । तत्र स्नात्वा नरो भक्त्या पितृपिण्डं तु दापयेत् ॥४ तिलद विमिश्रं तु उदकं तु प्रदापयेत् । तस्य तीर्थप्रभावेण सर्व भवति चाक्षयम् ॥ सावित्रीतीर्थमासाद्य यस्तु स्नानं समाचरेत् । विधूय सर्वपापानि ब्रह्मलोके महीयते ॥ ६ मनोहरं च तत्रैव तीर्थ परमशोभनम् । तत्र स्नात्वा नरो गजन्पितृलोके महीयते ॥ ततो गच्छेत राजेन्द्र मानसं तीर्थमुत्तमम् । तत्र स्नात्वा नरो राजनरुद्रलोके महीयते ॥
१ क. गच्छ तेन । ट. राक्षकंन । झ. गमनेन । २ ख. ज. "न्द्र हंमती' । ३ ख अ. 'म् । हसास्तत्र विनिर्मुक्ता गता ऊ । ४ ख. भ. शक्रध्वजे । ५ ख. अ. 'न तरून्संप्रावयिष्यति । त।
Page #40
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[१ आदिखण्डेततो गच्छेत राजेन्द्र क्रतुतीर्थमनुत्तमम् । विख्यातं त्रिषु लोकेषु सर्वपापप्रणाशनम् ॥ यान्यान्मार्थयते कामान्पशुपुत्रधनानि च । मामुयात्तानि सर्वाणि तत्र स्नात्वा नराधिप॥ १० ततो गच्छेत राजेन्द्र त्रिदशद्योति विश्रुतम् । तत्र ता ऋषिकन्यास्तु तपोऽतप्यन्त सुव्रताः ॥ ११ भर्ता भवतु सर्वासामीश्वरः प्रभुरव्ययः । प्रीतस्तासां महादेवो दण्डिरूपधरो हरः॥ १२ विकृताननबीभत्सस्तच तीर्थमुपागतः । तत्र कन्या महाराज वराय परमेश्वरः ॥ १३ कन्यासंघ वरयतः (?) कन्यादानं प्रयच्छति । तीर्थ तत्र महाराज दशकन्येति विश्रुतम् ॥ तत्र सात्वाऽर्चयेद्देवं सर्वपापैः प्रमुच्यते ॥ ततो गच्छेत राजेन्द्र स्वर्गबिन्दुरिति श्रुतम् ॥ तत्र स्नात्वा नरो राजन्दुर्गतिं च न पश्यति ॥ १५ अप्सरेशं ततो गच्छेत्स्नानं तत्र समाचरेत् ॥ क्रीडते नागलोकस्थः अप्सरैः सह मोदते ॥ १६ सतो गच्छेत राजेन्द्र नरकं तीर्थनुत्तमम् । तत्र स्नात्वाऽर्चयेद्देवं नरकं च न गच्छति ॥ १७ भारभूतं ततो गच्छेदुपवासपरायणः । एतत्तीर्थ समासाद्य अवतारं तु शांभवम् ॥ अर्चयित्वा विरूपाक्षं रुद्रलोके महीयते ।। तमिस्तीर्थे नरः स्नात्वा भारभूते महात्मनः । यत्र तत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः ॥ १९ कार्तिकस्य तु मासस्य अर्चयित्वा महेश्वरम् । अश्वमेधाच्छतगुणं प्रवदन्ति मनीपिणः ॥ २० दीपकानां शतं कृत्वा घृतपूर्ण तु दापयेत् । विमानः सूर्यसंकाव्रिजते यत्र शंकरः ।। वृषभं यः प्रयच्छेत शङ्खकुन्देन्दुसंनिभम् । वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ २२ चरुमेकं तु यो दद्यात्तस्मिंस्तीर्थे नराधिप । पायसं मधुसंयुक्तं भक्ष्याणि विविधानि च ॥ २३ यथाशक्त्या तु राजेन्द्र भोजयेत्स हदक्षिणम् । तस्य तीर्थप्रभावेण सर्व कोटिगुणं भवेत् ॥ २४ नर्मदाया जलं सिक्त्वा अर्चयित्वा वृषध्वजम् । दुर्गतिं च न पश्यन्ति तस्य तीर्थप्रभावतः ।।२५ एतत्तीर्थ समासाद्य यस्तु प्राणान्परित्यजेत् । सर्वपापविशुद्धात्मा बजने यत्र शंकरः ॥ २६ जलप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप । हंसयुक्तन यानेन रुद्रलोकं म गच्छति ॥ २७ यावञ्चन्द्रश्च सूर्यश्च हिमांश्च महोदधिः । गङ्गाद्याः सरिता यावत्तावत्स्वर्गे महीयते ।। २८ अनाशकं तु यः कुर्यात्तस्मिस्तीथ नराधिप । गर्भवास तु राजेन्द्र न पुनजोयत नरः ॥ २९ ततो गच्छेत राजेन्द्र अटवीतीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्निन्द्रस्यार्धासनं लभेत् ॥ ३० रातीर्थ ततो गच्छेत्सर्वपापप्रणाशनम् । तत्रापि स्नातमात्रस्य ध्रुवं गाणेश्वरी गतिः॥ ३१ एरण्डीनर्मदायाश्च संगम लोकविश्रुतम् । तत्र तीर्थ महापुण्यं सर्वपापप्रणाशनम् ।। ३२ उपवासपरां भूत्वा नित्यं ब्रह्मपरायणः । तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ॥ ३३ ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम् । जमदग्निरिति ख्यातं सिद्धां यत्र जनार्दनः ॥ ३४ यत्रेष्ट्वा बहुभिर्यहरिन्द्रा देवाधिपोऽभवत् । तत्र स्नात्वा नरो राजनर्मदोदधिसंगमे ॥ ३५ त्रिगुणस्याश्वमेघस्य फलं पामोति मानवः । पश्चिमोदधिसायुज्यं मुक्तिद्वारविघाटनम् ॥ ३६ तत्र देवाः सगन्धर्वा ऋषयः सिद्धचारणाः । आराधयन्ति देवेशं त्रिसंध्यं विमलेश्वरम् ॥ ३७ सर्वपापविशुद्धात्मा रुद्रलोके महीयते । विमलेश्वरपरं तीर्थ न भृतं न भविष्यति ॥ ३८ तत्रोपवासं कृत्वा ये पश्यन्ति विमलेश्वरम् । सर्वपापविशुद्धात्मा (?) रुद्रलोकं ब्रजन्ति ते ॥३९
१४. देवश्चण्डरू । २ ख. अ. परमेश्वरम् । ३ क. 'न्या ऋद्धि च य संवत्कन्या । ४ ख. अ. अमरः । ५ क. एवं तीर्थ । ६ ट, स्पृट्वा । ७ ख.ज. तच्च ।
Page #41
--------------------------------------------------------------------------
________________
२२ द्वात्रिंशोऽध्यायः ]
पद्मपुराणम् ।
३५
४०
४१
1
४२
ततो गच्छेत राजेन्द्र केशिनीतीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्नुपवासपरायणः ॥ उपोष्य रजनीमेकां नियतो नियताशनः । तत्र तीर्थप्रभावेण मुच्यते ब्रह्महत्यया ॥ सर्वतीर्थाभिषेकं च यः पश्येत्सागरेश्वरम् | योजनाभ्यन्तरे तिष्ठेदावर्तसंस्थितः शिवः ।। तं दृष्ट्वा सर्वतीर्थानि दृष्टानि स्युर्न संशयः । सर्वपापविनिर्मुक्तो यत्र रुद्रः स गच्छति ॥ ४३ नर्मदा संगमं यावद्यावच्चामरकण्टकम् । तत्रान्तरे महाराज तीर्थकोट्यो देश स्थिताः ॥ तीर्थाटनचर्या ऋषिकोटिनिषेविताः । साग्निहोत्रैश्च दिव्यज्ञैः सर्वैर्ज्ञानपरायणैः ॥ सेवितास्तेन राजेन्द्र ईप्सितार्थप्रदायिकाः । यश्चेदं वै पठेन्नित्यं शृणुयाद्वाऽपि भक्तितः ॥ तंतु तीर्थानि सर्वाणि अभिषिञ्चन्ति पाण्डव ।।
४४
४५
४६
४७
नर्मदा च सदा प्रीता भवेद्वै नात्र संशयः । प्रीतस्तस्य भवेदुद्रो मार्कण्डेयो महामुनिः ।। वन्ध्या च लभते पुत्रान्दुर्भगा सुभगा भवेत् । कुमारी लभते भर्ता यच्च यो वाञ्छते फलम् ।। ४८ तदेव लभते सर्व नात्र कार्या विचारणा । ब्राह्मणो वेदमाप्रोति क्षत्रियो विजयी भवेत् ।। ४९ वैश्यस्तु लभते धान्यं शूद्रः प्राप्नोति सद्गतिम् ।। मूर्खस्तु लभते विद्यां त्रिसंध्यं यः पठेन्नरः । नरकं च न पश्येत वियोनिं च न गच्छति ।। ५१
५०
इति श्रीमहापुराणे पाच आदिखण्डे एकविशोऽध्यायः ॥ २१ ॥ आदितः श्लोकानां समथ्र्यङ्काः
अथ द्वात्रिंशोऽध्यायः ।
-९०९
नारद उवाच -
एवं ते कथितं राजन्मदातीर्थमुत्तमम् । पुरा गन्धर्वकन्यानां शापजं भयमुल्बणम् ॥ नाशितं तन्महाराज रेवाजलकणाग्निना । रेवाजलकणस्पर्शान्मुक्तो भवति मानवः ।। युधिष्ठिर उवाच
भगवन्ब्रूहि कन्याभिः शापांऽलम्भि कथं कुतः । कस्यापत्यानि तास्तासां नाम किं कीदृशं वयः ॥ ३ कथं रेवाजलस्पर्शाद्विपाकाच्छासंभवात् । विमुक्ताः कुत्र ताः सतुः सर्व मे कथय प्रभो ॥ ४ नर्मदातीर्थमाहात्म्यं चमत्कारकरं भवेत् । श्रवणादपि पापानां मलनाशनमुच्यते ।। नर्मदा नर्मदाशब्दां येन केनचिदुच्यते । तस्य स्याच्छाश्वती मुक्तिर्यावदाचन्द्रतारकम् ॥ व्याहृतं भवता पूर्व रेवामाहात्म्यमुत्तमम् । तथाऽपि चरितं साधो यदेतत्तन्निगद्यताम् ॥ अर्थ चोसमवाता या सेवितव्या मनीषिभिः । अतः पृच्छामि विमेन्द्र रेवामाहात्म्यमुत्तमम् ॥ इतिहासं वद विभो कन्यानां चरितांज्ज्वलम् ||
८
नारद उवाच -
भ्रूयतां राजशार्दूल धर्मगर्भा परा कथा । यथाऽरणिर्वह्निगर्भा धर्मस्तु ब्रह्मसूरिव ॥ गन्धर्वः शुकसंगीतिस्तस्य कन्या प्रमोहिनी । सुशीलस्य सुशीला च सुखरा स्वरवेदिनः ॥ १० सुतारा चन्द्रकान्तस्य चन्द्रिका सुप्रभस्य च । इमानि वरनामानि तासामप्सरसां नृप । ११
१ क. दकस्थि । २ ख. अ. 'तीर्थ निरन्तर्ये ऋषिकोटिनिषेवितम् । सा । ३ क. 'ता मानवान्नात्र । ४ ख. म. 'द्विकाराच्छा ं । ५ स्न. ञ. 'थ देवैः सेविता । ६ न. न. स्त्वं ब्रह्मचिन्तक । गरौं । ट. र्मः सर्वगतः स हि । गरौं ।
Page #42
--------------------------------------------------------------------------
________________
[ १ आदिखण्डे
महामुनिश्रीव्यासप्रणीतकुमार्यः पञ्च सर्वास्ता वयमा संभगाः पुनः । भाषन्ते च मिथस्तास्तु भगिन्य इव सर्वदा ॥१२ चन्द्रादिव विनिष्क्रान्ताश्चन्द्रिका इव सोज्ज्वलाः। चन्द्राननाः सुकेश्यश्च चन्द्रकान्ता इवोज्ज्वलाः। देवेष्वेता विलासिन्यः कौमुद्यः कैरवेष्विव । लावण्यपिण्डसंभूता बहुरूपा मनोहराः॥ १४ उद्भिशकुचपभिन्यः केतक्य इव माधवं । उन्मीलधौवनैः कान्ता वल्लीव नवपल्लवैः॥ १५ हेमगौराश्च हेमामा हेमाभरणभूषिताः । हेमचम्पकमालिन्यो हेमच्छविसुवाससः ॥ १६ खरग्रामवलीहासु(?) विविधामूर्छनासु च । तालवाद्यविनादेषु वेणुवीणावादने ॥ १७ मृदानादसंभिन्नलास्यमध्यलयेषु च । चित्रादिषु विनोदेषु कलासु च विशारदाः ॥ १८ एवंभूताश्च ताः कन्या मुमुहुः क्रीडनैवरैः । पितृभिर्लालिताः सर्वाश्वेश्च धनदालये ॥ १९ कौतुकादेकदा पश्च मिलित्वा मासि माधवे। कन्या मन्दारपुप्पाणि विचिन्वत्यो वनाद्वनम् ।। २०
गौरी समाराधयितुं सुराङ्गनाः कदाचिदच्छोदसरोवरं ययुः। हेमाम्बुजानि प्रवराणि ताः पुनस्तस्मादुपादाय वरात्पलैः सह ॥ वैडूर्यशुद्धस्फटिकप्रकुट्टिमे स्नात्वा तु घट्टे परिधाय चाम्बरम् । मोनेन च स्थाण्डलपिण्डिकामयीं सुवर्णमुक्ताभरणां विनिर्ममुः ॥ समर्चितां चन्दनगन्धकुड़कुमैरभ्यर्च्य गौरी वरपङ्कजादिभिः । नानोपहारैश्च सुभक्तिभाविता लास्यप्रयांगैननृतुः कुमारिकाः ॥ गान्धर्वमाश्रित्य परं स्वरं ततो गेयं सभावध्वनिभिः समूर्छनम् । एणीदृशस्ताः प्रजगुः कलाक्षरं तारपद्धं गतिभिश्च मुस्वरम् ॥ तस्मिन्सुभावे रसवर्षहर्षे कन्यास्वलंनिर्भरचित्तवृत्तिषु । अच्छोदतीर्थे प्रवरे तदाऽऽगतः स्नातुं मुनेर्वेदनिधेः सुतोऽग्रजः ॥ रूपेण निःसीमतरो वराननः प्रफुल्लपद्मायतलांचना युवा । विस्तीर्णवक्षाः सुभुजोऽतिसुन्दरः श्यामच्छविः काम इवापरो हि सः ॥ २६ स ब्रह्मचारी मुशिखो हि शोभते दण्डेन युक्तो धनुपेव मन्मथः ।
एणाजिनप्रावरणः समुद्रधृग्धेमाभमोञ्जीकटिमेखलः परः ।। तं दृष्ट्वा ब्राह्मणं वालास्तास्तत्र सरसस्तंट । जहषुः कौतुकाविष्टा अयं ना भविताऽतिथिः ॥ २८ संमुक्तगीतनृत्यास्तास्तस्याऽऽलोकनलालसाः। हरिण्या लुब्धकेनेव विद्धाः कामेन सायकैः।। २९ पश्य पश्यति जल्पन्त्यो मुग्धाः पञ्च ससंभ्रमम् । तस्मिन्त्रिप्रवरे यूनि कामदेवभ्रमं ययुः ॥ ३० पुनः पुनस्तमभ्यर्च्य नयनैः पङ्कजेरिव । पश्चाद्विचार(?)मारब्धमप्सरोभिः परस्परम् ॥ ३१ यद्ययं कामदेवो हि रांतहीनः कथं भवेत् । अन्यथा ह्यश्विनी देवी तावुभौ युगचारिणौ ॥ ३२ गन्धर्वः किनरो वाऽथ सिद्धो वा कामरूपधृक । ऋपिपुत्रोऽथ वा कश्चित्कश्चिद्वा मनुजोत्तमः॥३३ अस्ति वा कश्चिदेवायं धात्रा सृष्टो हि नः कृते । यथा भाग्यवतामर्थे निधानं पूर्वकर्मभिः ॥ ३४ तथाऽस्माकं कुमारीणां गौर्याऽऽनीतो वरोत्तमः । करुणाजलकल्लोललब्धाकृतचित्तया ॥ ३५ पया वृतस्त्वया चायं त्वया वृतस्तथाऽनया । एवं पञ्चसु कन्यासु वदन्तीषु नृपोत्तम ॥ ३६ श्रुत्वा तद्वचनं तत्र कृतमाध्याह्निकक्रियः । आलोच्य हृदये सोऽपि विनमंतद्विचिन्तितम् ॥ ३७
१. ससमा गणैः । भा २ ख. म. यः। चिन्तयामास मेधावी कि कृत्वा सक्रतं भवेत । गाधिसंभवपराशरादयः कणुदेवलमुखाश्च ये द्विजाः ॥ ते'।
Page #43
--------------------------------------------------------------------------
________________
२२ द्वाविंशोऽध्यायः ]
पद्मपुराणम् ।
ब्रह्मविष्णुगिरिशादयः सुरा येऽपि सिद्धमुनयः पुरातनाः । dsपि योगबलिनो विमोहिता लीलया तदबलाभिरद्भुतम् ॥ योषितां नयनतीक्ष्णसायकै भ्रूलता सुदृढ चापनिर्गतैः । धन्विना मकरकेतुना हतः कस्य नो पतति वा मनोमृगः ॥ तावदेव नयधीविराजते तावदेव जनता भयं भवेत् । तावदेव धृत्तचित्तता भृशं तावदेव गणना कुलस्य च ॥ तावदेव तपसः प्रगल्भता तावदेव समवेतता नृणाम् । यावदेव ललितेक्षणासवैर्माद्यतेऽद्भुतमदैर्न पूरुषः ॥ मोहयन्ति मदयन्ति रागिणं योषितः स्वललितैर्मनोहरैः । मोहयन्ति मदयन्ति मामिमा धर्मरक्षणपरं हि स्वैर्गुणैः ॥ मांमरक्तमलमूत्रनिर्मिते योषितां वपुषि निर्गुणेऽशुचौ । कामिनस्तु परिकल्प्य चारुतामाविशन्ति सुविमूढचेतसः ॥ दारुणा हि परिकीर्तिताऽङ्गना साधुभिर्विमलबुद्धिभिर्बुधैः । यावदेव न समीपगास्त्विमास्तावदेव हि गृहं व्रजाम्यहम् ॥ समीपं तस्य यावन्न आगच्छन्ति वरस्त्रियः । वैष्णवेन प्रभावेण तावदन्तर्दधे द्विजः ॥ तस्य योगबलाद्भुप गतस्यादर्शनं तदा । दृष्ट्वा तदद्भुतं कर्म वैष्णवब्रह्मचारिणः ॥ वित्रस्तनयना बालाः कुरङ्गय इव कातराः । संक्रान्तनयनाः जुन्या ददृशुस्ता दिशो दश ।। ४७
४४
४५
४६
३७
* एतच्चान्तर्गतं . पुस्तके |
१८. सर्जका । २ ख. अ. कुतो । ३ क. वेदा । प । ४ ख. अ. था । दुःखदत्वं न प्रयान्ति ।
३८
३९
४०
४१
४२
४३
कन्या ऊच:
४९
इन्द्रजालं स्फुटं वेत्ति मायां जानाति वा पुनः । दृष्टोऽप्यदृष्टरूपोऽभूदित्यूचुस्ताः परस्परम् ॥ ४८ व्याप्तं च हृदयं तासां तदैव विरहाग्निना । ज्वलद्दावानलेनेव सुस्निग्धं सर्वकाननम् ॥ त्यजेन्द्रजालिका विद्यां कान्त दर्शय सत्वरम् । आत्मानं न हि ते युक्तं प्राग्ग्रासे मक्षिकोपमम् ||५० हा कष्टं दर्शितः कस्माद्धात्रा त्वं घटितः कुतः । ज्ञोतं महानुसंतापहेतुर्नस्त्वं विनिर्मितः ॥ ५१ कच्चित्ते निर्दयं चेतः कच्चिदस्मासु नो मतिः । कच्चित्क्रूरोऽसि हे कान्त कच्चिन्मुष्णासि नो मनः ।। ५२ कच्चिन्न प्रत्ययोऽस्मासु कच्चिदस्मान्परीक्षसं । कच्चिन्निर्ममताशीलः कच्चिन्मायाविशारदः ।। ५३ कच्चिच्चित्ते प्रवेष्टुं च वेत्सि विज्ञानलाघवम् । कच्चिन्निष्क्रमणोपायं न जानासि कुतः पुनः ॥५४ कच्चिद्विनाऽपराधं तु किमस्मासु प्रकुप्यसे । कच्चिदुःखं न जानासि परेषां विमलम्भनम् ।। ५५ त्वदर्शनं विना नष्टा हृदयेश्वर सांप्रतम् । न जीवामोऽथ जीवामः पुनस्त्वद्दर्शनाशया ॥ ५६ वयं च नीयन्तां तत्र शीघ्रं यत्र गतो भवान् । त्वदर्शनहरो धाता व्यधान्मोदाङ्कुरच्छिदाम् ।। ५७ सर्वथा दर्शनं देहि करुणो भव सर्वथ । पर्यन्तं न प्रपश्यन्ति कस्यचित्सज्जना जनाः ॥ ५८ इत्थं विलप्य ताः कन्याः प्रतीक्ष्य च बहुक्षणम् । पितुर्भयागृहं गन्तुं शीघ्रमारेभिरे ततः ॥ ५९ तत्प्रेमनिगडैर्ब्रद्धा भृशं विरहविक्लवाः । कथंचिद्धैर्यमालम्ब्य ताः स्वं स्वं गृहमागताः ॥ ६० आगत्य पतिताः सर्वा मातॄणां तु समीपतः । किमेतन्मातृभिः पृष्टाः कुतः कालात्ययोऽभवत् । । ६ १ [कन्या ऊचुः]—
Page #44
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासमणीतं
[ आदिखण्डेकीडन्त्यः किंनरीभिस्तु सार्थ संगतकं यदा। संस्थितास्तेन न ज्ञावो दिवसोऽच्योदसरोवरे॥६२ पपि श्रान्ता वयं मातः संतापस्तेन नस्तनौ । मोहेन महता वक्तुं न केनाप्युत्सहामहे ॥ ६३
[* नारद उवाचइत्युक्त्वा लुठितास्तत्र मणिभूमौ कुमारिकाः। आकारं मोषवन्स्यस्ता मुग्धा जल्पन्ति मातृभिः।।६४ काचिभर्तयति क्रीडामयूर न मुदा तदा । म पाठयति से कीरं पञ्जरेऽन्या कुतहलात् ।। ६५ लालयेनकुलं नान्या नोल्लापयति सारिकाम् । अपराऽतीव संमुग्धा नैव खेलति सारसैः॥६६ भेजिरे न विनोदं ता रेमिरे नैव मन्दिरे । ऊचिरे वान्धवर्नालं वीणाबाचं न चक्रिरे ॥ ६७ कल्पद्रुमप्रसूनं यत्सर्व तच्चानलोपमम् । मन्दारकुमुमामोदि न पधर्मधुरं मधु ॥ ६८ योगिन्य इव ताः कन्या नासाग्रन्यस्तलोचनाः । अलक्ष्यध्यानसंतानाः पुरुषोत्तममानसाः॥६९ चन्द्रकान्तमणिच्छन्ने स्रवद्वारिणि कन्दरे । क्षणं वातायने स्थित्वा जलयगृहे क्षणम् ॥७० रचयन्ति क्षणं शय्यां दीर्घिकाम्भोजिनीदलेः। वीज्यमानाः सखीभिस्ताः शीतलेनलिनीदलैः॥७१ इत्यं युगसमां रात्रिमनयंस्ता वरस्त्रियः । कथंचिद्धारणं कृत्वा विहलाः मज्वरा इव ॥ ७२ प्रातोममणिं दृष्ट्वा मन्यमानाः स्वजीवितम् । विज्ञाप्य मातरं स्वां स्वां गौरी पूजयितुं गताः ॥७३ स्नात्वा तेन विधानेन पुष्पेधूपैस्तथा पुनः। विधाय पूजनं देव्या गायन्त्यस्तत्र ताः स्थिताः।।७४ एतस्मिन्नन्तरे विप्रः स्नातुं सोऽपि समागतः । पितुराश्रमतस्तस्मादच्छोदेऽत्र सरोवरे ॥ ७५ मित्रं दृष्ट्वैव राज्यन्ते पअिन्य इव कन्यकाः । उत्फुल्लनयना जातास्तं दृष्ट्वा ब्रह्मचारिणम् ॥७६ गत्वा तत्रैव ताः कन्याः समीपं ब्रह्मचारिणः । सव्यापसव्यबन्धेन भुजपाशं च चक्रिर ।। ७७ गतोऽसि प्रिय पूर्वेधुर्गन्तुमद्य न लभ्यते । वृतस्त्वं ननमम्माभिर्नात्र नेऽस्ति विचारणा ॥ ७८ इत्युक्तो ब्राह्मणः प्राह प्रहसन्बाहुपाशगः । युप्माभिरुच्यते भद्रमनुकलं प्रियं वचः॥ ७९ प्रथमाश्रमनिष्ठस्य किं तु नश्येत मे व्रतम् । विद्याभ्यमनशीलस्य निष्ठतश्च गुगः कुले ॥ ८० आश्रमे यत्र यो धर्मो रक्षणीयः स पण्डितेः । विवाहोऽयमतो मन्ये न धर्म इनि कन्यकाः।। ८१ आकर्ण्य विश्वाक्यानि विप्रमूवरस्त्रियः । सकलध्वनि सात्कण्ठाः कोकिला इव माधव ॥ ८२ धर्मादर्थोऽर्थतः कामः कामात्सुखफलोदयः । इत्येवं निश्चयज्ञास्त वणेयन्ति विपश्चितः ॥ ८३ स कामो धर्मबाहुल्यात्पुरतस्ते समुत्थितः । सेव्यतां विविधौगः स्वच्छा भूमिरियं यतः॥८४ श्रुत्वा तद्वचनं तासां प्राह गंभीरया गिरा । तथ्यं वा वचनं किं तु ममाप्यावश्यकं व्रतम् ॥ ८५ माप्यानुज्ञां गुरोः कुर्वे विवाहकर्म नान्यथा । इत्युक्ताः पुनरूचुस्ताः स्फुटं मूढोऽसि सुन्दर ॥८६
सिद्धौषधं ब्रह्मधिया रसायनं सिद्धिनिधिः साधुकला वराङ्गनाः।। मन्त्रस्तथा सिद्धरसश्च धर्मतो मुने निषेव्याः सुधिया समागताः॥ ८७ कार्य तु देवायदि सिद्धिमागतं तस्मिन्नुपेक्षां न च यान्ति नीतिगाः॥
यस्मादुपेक्षा न पुनः फलपदा तस्मान दीर्धीकरणं प्रशस्यते ॥ विषादप्यमृतं ग्रामममेध्यादपि काश्चनम् । नीचादप्युत्तमा विद्या स्त्रीरत्नं दुष्कुलादपि ॥ ८९
८८
* ट. पुस्तक एवायं पाठः।
ख. म. सहतिके । २ ख. म. 'चित्तर्पय । ३ इ.च.ट. द. ने तव ।ख अ. 'ने सब । ४ क. तु नाद्यापि मे । ५ क. 'स्य नाभूत्पारं गु।
Page #45
--------------------------------------------------------------------------
________________
२३ त्रयोविंशोऽध्यायः ]
पद्मपुराणम् ।
९०
सान्द्रानुरागाः कुलजन्मनिर्मलाः स्नेहार्द्रचित्ताः सुगिरः स्वयंवराः । कन्याः सुरूपाः खलु चारुयौवना धन्या लभन्तेऽत्र नरास्तु नेतरे ॥ $ वयं सुरसुन्दर्यः क भवांस्तापसो बदुः । दुर्घटस्य विधानेन मन्ये धातैव पण्डितः ॥ ९१ तस्मादस्मादि (नि)दानीं तु स्वीकुर्यान्मङ्गलं भवान् । गान्धर्वेण विवाहेन अन्यथा नोपजीवनम् ॥ ९२ श्रुत्वा वाक्यं ततः प्राह ब्राह्मणो धर्मवित्तमः । भो मृगाक्ष्यः कथं त्याज्यो धर्मो धर्मधनैर्नरैः ॥९३ धर्मश्वाश्च कामश्च मोक्षचतुष्टयम् । यथोक्तं फलदं ज्ञेयं विपरीतं तु निष्फलम् ॥ ९४ नाकाsहं व्रती कुर्यामतो दारपरिग्रहम् । न क्रिया फलमामोति क्रियाकालं न वेत्ति यः ॥ ९५ यतो धर्मविचारेऽस्मिन्प्रसक्तं मम मानमम् । तस्माच्छृणुत हे कन्या न समीहे स्वयंवरम् ॥ ९६ एवं ज्ञात्वाऽऽशयं तस्य समीक्ष्यैव परस्परम् । करात्करं विमुच्याथ जग्राहाङ्घ्रि प्रमोहिनी ॥१७ भुजौ जगृहतुस्तस्य सुशीला सुस्वरा तथा । आलिलिङ्ग सुतारा च वक्त्रं चुम्बति चन्द्रिका ॥ ९८ Farst fafaarisar प्रलयानलसंनिभः । शशाप ब्रह्मचारी ताः क्रोधेनात्यन्तमूर्च्छितः ।। ९९ पिशाच्य इव मां लग्नास्तत्पिशाच्या भविष्यथ । एवं तेनाऽऽशु शप्तास्तास्तं त्यक्त्वा पुरतः स्थिताः ॥ किमेतच्चेष्टितं पापं ह्यनागसि विचेष्टया । प्रियंकृतोऽप्रियं कृत्वा धिक्त्वां धर्मकृतान्तकः ॥ १०१ अनुरक्तेषु भक्तेषु मित्रेषु द्रोहकारिणः । पुंसो लोकोभयोः सौख्यं नाशमेतीति नः श्रुतम् ॥१०२ तस्मात्रमपि नः शापात्पिशाचो भव सत्त्वरम् । इत्युक्त्वाऽपि च ता बाला निःश्वसत्यैः क्षुधाकुलाः॥ तदैवान्योन्यसंरम्भास्तस्मिन्सरसि पार्थिव । ताः कन्या ब्रह्मचारी च सर्वे पैशाच्यमागताः ।। १०४ स पिशाचः पिशाच्यस्ताः क्रन्दमानाः सुदारुणम् । क्षपयन्ति विपाकांस्तान्पूर्वोपात्तस्य कर्मणः १०५ स्वकाले प्रभवत्येव पूर्वोपात्तं शुभाशुभम् । स्वच्छायाभिव (?) दुवारं देवानामपि पार्थिव ॥ १०६ क्रन्दन्ति पितरस्तासां मातरस्तत्र तत्र च । भ्रातरश्चैव बालानां देव हि दुरतिक्रमम् ।। १०७ अत ऊर्ध्वं पिशाचास्त आहारार्थं सुदुःखिताः । इतस्ततश्च धावन्तो वसन्ति सरसस्तटे ।। १०८ इति श्रीमहापुराणे पाच आदिसण्डे द्वाविशोऽध्यायः ।। २२ ।। आदित. लोकानां समयङ्काः - १११७
अथ त्रयोविशोऽध्यायः ।
३९
नारद उवाच --
१
एवं बहुतिथे काले लोमशो मुनिसत्तमः । आगतश्च महाभागस्तत्र यादृच्छिको मुनिः ॥ तं दृष्ट्वा ब्राह्मणं सर्वे पिशाचाः क्षुत्समाकुलाः । धावन्तो यत्तकामास्ते मिलित्वा यूथवर्तिनः ॥ २ दह्यमानाः सुतीत्रेण तेजसा लोमशस्य तु । असमर्थाः पुनः स्थातुं ते सर्वे दूरतः स्थिताः || ३ तत्र पूर्वकर्मबलात्पिशाचः स ह वै द्विजः । समीक्ष्य लोमशं राजन्साष्टाङ्गं प्रणिपत्य च ॥ ४ उवाच सूनृतां वाचं बद्ध्वा शिरसि चाञ्जलिम् । महाभाग्योदये विम साधूनां संगतिर्भवेत् ॥ ५ गङ्गादिपुण्यतीर्थेषु यो नरः स्नाति सर्वदा । यः करोति सतां सङ्गं तयोः सत्सङ्गमो वरः ।। ६ गुरूणां सङ्गमो विप्र दृष्टादृष्टफलो भुवि । स्वर्गदो रोगहारी च किं तमोपहरो मतः ॥
I
७
५ क "कृत्योमय कृत्वा तां धर्मकृतां तव । अ । २ ख. म. 'यः कुधा । ३ क च । आप्रसादं च बा ं । ४ ख. ञ. ंन्तां वक्तुका । ५ ख. अ. 'त्वा पांथ व ।
Page #46
--------------------------------------------------------------------------
________________
४०
महामुनिश्रीव्यासपणीत- [ १ आदिखण्डेइत्युक्त्वा कथयामास पूर्ववृत्तान्तमद्भुतम् । इमा गन्धर्वकन्यास्ता मुने सोऽहं द्विजात्मजः ॥ ८ सर्वे पिशाचरूपेण मिथःशापविमोहिताः । दीनाननाः सुतिष्ठामस्तवाग्रे मुनिसत्तम ॥ ९ त्वदर्शनेन बालानां निस्तारो नो भविष्यति । सूर्योदये तमःस्तोमः किं न नश्येत पुष्कलः॥१० श्रुत्वैतल्लोमशो वाक्यं कृपार्टीकृतमानसः । प्रत्युवाच महातेजा दुःखितं तं मुनेः सुतम् ॥ ११ मत्मसादाच सर्वेषां स्मृतिः सपदि जायताम् । धर्मे च वर्ततां येन मिथः शापो लयं व्रजेत् ॥ १२
पिशाच उवाच-- महर्षे कथ्यतां धर्मो मुच्येम येन किल्विषात् । नायं कालो विलम्बस्य शापाग्निदारुणो यतः ॥ १३
लोमश उवाचमया साधे प्रकुर्वन्तु स्वास्नानं विधानतः । शापान्मोक्ष्यति वो रेवा नान्यथा निष्कृतिर्भवेत् ॥ १४ भृणुष्वावहितो विप्र पापनाशो ध्रुवो नृणाम् । रेवास्नानेन जायेत इति मे निश्चिता मतिः ॥ १५ सप्तजन्मकृतं पापं वर्तमानं च पातकम् । रेवास्नानं दहेत्सर्व तूलराशिमिवानलः ॥ १६ प्रायश्चितं न पश्यन्ति यस्मिन्पापे पिशाचक । तत्सर्व नर्मदातोये स्नानमात्रेण नश्यति ॥ १७ जानकृनर्मदानानमतो मोक्षफला हि सा । हिमवत्पुण्यतीर्थानि सर्वपापहराणि वै ॥ १८ इन्द्रलोकमदं हीदं निर्मितं ब्रह्मवादिभिः । सर्वकामफला रेवा मोक्षदा परिकीर्तिता ॥ १९ पापघ्नी पापहरणी सर्वकामफलप्रदा । विष्णुलोकद आप्लावो नार्मदः पापनाशनः ॥ २० यामुनः सूर्यलोकाय भवेदाप्लाव उत्तमः । सारस्वतोऽयविध्वंसी ब्रह्मलोकफलपदः ॥ २१ विशालफलदा प्रोक्ता विशाला हि पिशाचक । पापेन्धनदवाग्निस्तु गर्भहेतुक्रियापहः ॥ २२ विष्णुलोकाय मोक्षाय नार्मदः परिकीर्तितः । शरयर्गण्डकी सिन्धुश्चन्द्रभागा च कौशिकी ॥२३ तापी गोदावरी भीमा पयोष्णी कृष्णवेणिका । कावेरी तुङ्गभद्रा च अन्याश्चापि समुद्रगाः ॥२४ तासु रेवा परा प्रोक्ता विष्णुलोकप्रदायिनी । रेवा तु प्राप्यते पुण्यः पूर्वजन्मकृतद्विज ॥ अपुनर्भवदं तत्र मजनं मुनिपुत्रक ॥
गायन्ति देवाः सततं निविष्टा रेवा को मजनदा हि नो भवेत् । स्नाता नरा यत्र न गर्भवेदनां पश्यन्ति तिष्ठन्ति च विष्णुसंनिधौ ॥ २६ मजन्ति ये प्रत्यहमत्र मानवा रेवासुताये बहुपापकञ्चकाः। मज्जन्ति ते नो निरयेषु धर्मतः स्वर्गे तु ते चारु चरन्ति देववत् ॥ तीव्रतैर्दानतपाभिरध्वरैः सार्धं विधात्रा तुलया धृता पुरा ।
रेवा पिशाचाऽऽशु तयोर्द्वयोरभूदेवा वरा तत्र च मोक्षसाधिका ।। नान्द उवाचएतरङ्गत्वा वचस्तस्य लोमशस्य पिशाचकाः । तेन सार्धं ययुः शीघ्रं रेवामन्जनहेतवे ॥ २९ ततो देवात्ममुत्पन्नो रेवारोधसि मारुतः । तेषां प्रवाहस्पृष्टानां गात्र जलकणपदः ॥ ३० रेवाजलकणस्पर्शात्पैशाच्यात्ते विमोचिताः । तत्क्षणादिव्यवपुषः प्रशशंसुश्च नर्मदाम् ॥ ३१ ततो लोनशवाक्येन ताश्च गन्धर्वकन्यकाः । परिणीताः सुखं तेन विप्रण नर्मदातटे ॥ उचास सचिरं कालं स्नानपानावगाहनः । अर्चित्वा नर्मदामत्र विष्णुलोकं गताश्च ते ॥
३२
३३ ५ क. किंनु लीयेत पुष्करे । श्रृं। २ ट. धर्मश्चावजितो ये नामि । ३ इ. ढ. 'तते ये । ४ ख. प्र. 'दा
इगिता हि।
Page #47
--------------------------------------------------------------------------
________________
२४ चतुर्विंशोऽध्यायः ] पद्मपुराणम् । एवं ते कथितो राजन्नर्मदागुणसंश्रयः । इतिहासो महापुण्यः श्रवणात्पापनाशनः ॥
इति श्रीमहापुराणे पान आदिखण्डे त्रयोविंशो .ध्यायः ॥ २३ ॥
आदितः श्लोकानां समष्टयङ्काः-११५१
अथ चतुर्विशोऽध्यायः ।
युधिष्ठिर उवाचअथान्यानि तु तीर्थानि वसिष्ठोक्तानि मे वद । श्रुत्वा यानि च पापानि विलयं यान्ति नारद॥१
नारद उवाचशृणुष्वात्र हि तीर्थानि वसिष्ठोक्तानि पार्थिव । दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः ॥ अग्निष्टोममवाप्नोति विमानं चाधिरोहति ॥ चर्मण्वती समासाद्य नियतो नियताशनः । रन्तिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेत् ॥ ३ ततो गच्छेत धर्मज्ञ हिमवत्सुनमव॒दम् । पृथिव्या यत्र वै च्छिदं पूर्वमासीधुधिष्ठिर ॥ तत्राऽऽश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः । नत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ॥ पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी नराधिप । कपिलानां नरव्याघ्र शतस्य फलमानुयात् ॥ ६ नतो गच्छंत धर्मज्ञ प्रभासं लोकविश्रुतम् । यत्र मंनिहितो नित्यं स्वयमेव हुताशनः ॥ ७ देवतानां सुखं वीर अनलोऽनिलमारथिः । तस्मिस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः ॥ अग्निष्टोमातिरात्राभ्यां फलं पामोति मानवः ॥
८ ततो गत्वा सरस्वत्याः सागरस्य च संगमम् । गोमहस्रफलं प्राप्य स्वर्गलोके महीयते ॥ . दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ । तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः॥ त्रिरात्रमुषितस्तत्र तर्पयेपितृदेवताः । विराजति यथा सोमो वाजिमेधं च विन्दति ॥ ११ वरदानं ततो गच्छेत्तीर्थ भरतसत्तम । विष्णोर्दुर्वाससा यत्र वरो दत्तो युधिष्ठिर ॥ १२ वरदान नरः स्नात्वा गांसहस्रफलं लभेत् । ततो द्वारवतीं गच्छन्नियतो नियताशनः ॥ १३ पिण्डारके नरः स्नात्वा लभेदहसुवर्णकम् । तस्मिस्तीर्थे महाराज पद्मलक्षणलक्षिताः॥ १४ अन्या(द्या)ऽपि मुद्रा दृश्यन्ते तदद्भुतमरिंदम । त्रिशूलाङ्गानि पानि दृश्यन्ते कुरुनन्दन ॥ १५ महादेवस्य सांनिध्यं तत्रैव भरतर्षभ । सागरस्य च सिन्धोश्व संगमं प्राप्य भारत ॥ १६ तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः । तर्पयित्वा पितृन्देवानृषींश्च भरतर्षभ ॥ पामोति वारुणं लोकं दीप्यमानः स्वतेजसा । शङ्ककर्णेश्वरं देवमर्चयित्वा युधिष्ठिर । अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ प्रदक्षिणमुपादृत्य गच्छेत भरतर्षभ । तीर्थ कुरुवरश्रेष्ठ त्रिषु लोकेषु विश्रुतम् ॥ तिमीति नाना विख्यातं सर्वपापप्रमोचनम् । यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् ॥ २० तत्र स्नात्वाऽर्चयित्वा च रुद्रं देवगणेतम् । जन्मप्रभृति पापानि कृतानि नुदते नरः ॥ २१ तिमिरत्र नरश्रेष्ठ सर्वदेवैरभिष्टुतः। तत्र स्नात्वा नरश्रेष्ठ हयमेधमवाप्नुयात् ॥ जित्वा तत्र महामाज विष्णुना दितिनन्दनम् । पुरा शौचं कृतं राजन्हत्वा दैवतकण्टकम् ॥ २३ ततो गच्छेत धर्मज्ञ वसुधारामभिष्टुताम् । गमनादेव तस्यां हि हयमेधमवामुयात् ॥ २४
Page #48
--------------------------------------------------------------------------
________________
४२
महामुनिश्रीव्यासप्रणीतं -
[ आदिखण्डे -
२५
२६
२७
२८
२९
३०
३१
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः । तर्पयित्वा पितॄन्देवान्विष्णुलोके महीयते || तीर्थं चाप्यपरं तत्र वसूनां भरतर्षभ । तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ॥ सिन्धुतममिति ख्यातं सर्वपापप्रणाशनम् । तत्र स्नात्वा नरश्रेष्ठ लभेद्बहुसुवर्णकम् || ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः । ब्रह्मलोकमवामोति सुकृती विरजा नरः ॥ कुमारिकाणां शक्रस्य तीर्थ सिद्धनिषेवितम् । तत्र स्नात्वा नरश्रेष्ठ शक्रलोकमवाप्नुयात् ॥ रेणुकायाश्च तत्रैव तीर्थ देवनिषेवितम् । स्नात्वा तत्र भवेद्विप्रो विमलचन्द्रमा इव ॥ अथ पञ्चनदं गत्वा नियतो नियताशनः । पञ्चयज्ञानवामोति क्रमशो ये तु कीर्तिताः ॥ ततो गच्छेत धर्मज्ञ भीमायाः स्थानमुत्तमम् । तत्र स्नात्वा न योन्यां वै नरो भरतसत्तम ।। ३२ देव्याः पुत्रो भवेद्राजंस्तत्र कुण्डलविग्रहः । गवां शतसहस्रस्य फलं चैवाऽऽमुयान्महत् ॥ ३३ गिरिकु समासाद्य त्रिषु लोकेषु विश्रुतम् । पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥ ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् । अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः || वत्र स्नात्वा नरश्रेष्ठ वाजपेयमवामुयात् । सर्वपापविशुद्धात्मा गच्छेत्परमिकां गतिम् ।। इति श्रीमहापुराणे पाद्म आदिखण्डे चतुविंशोऽध्यायः ॥ २४ ॥ आदितः श्लोकानां समश्यङ्काः - ११८७
अथ पaविशsध्याय ।
३४
३५
३६
नारद उवाच -
वितस्तां च समासाद्य संतर्प्य पितृदेवताः । नरः फलमवामीति वाजपयस्य भारत ।। काश्मीरेष्वेव नागस्य भवनं तक्षकस्य च । वितस्ताख्यमिति ख्यातं सर्वपापप्रमोचनम् ॥ तत्र स्नात्वा नरो नूनं वाजपेयमवानुयात् । सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥ ततो गच्छेत मलदं त्रिषु लोकेषु विश्रुतम् । पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि ।। चरुं सप्तार्चिषे राजन्यथाशक्ति निवेदयेत् । पितॄणामक्षयं दानं प्रवदन्ति मनीषिणः ॥ गर्वा शतसहस्त्रेण राजसूयशतेन च । अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्वरुः ॥ सतो निलो राजेन्द्र रुद्रास्पदमथाऽऽविशेत् । अभिगम्य महादेवमश्वमेधफलं लभेत् ।। मणिमन्तं समासाद्य ब्रह्मचारी समाहितः । एकरात्रोषितो राजन्नग्निष्टोमफलं लभेत् ॥ अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् । प्रसूतिर्यत्र विप्राणां श्रूयते भरतर्षभ ॥ त्रिशूलपाणेः स्थानं च यत्र लोकेषु विश्रुतम् । देविकायां नरः स्नात्वा अभ्यर्च्य च महेश्वरम् ॥ १० यथाशक्ति नरस्तत्र निवेद्य भरतर्षभ । सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् || कामाख्यं तत्र रूद्रस्य तीर्थ देवर्षिसंमतम् । तत्र स्नात्वा नरः क्षिप्रं सिद्धिमामोति भारत ।। १२ यजनं याजनं गत्वा तथैत्र ब्रह्मवालकम् । पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः ।। अर्धयोजनविस्तारां पञ्चयोजनमायताम् । एतावदेविकामाहुः पुण्यां देवर्षिसंमताम् || ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् । यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः ।। दीर्घसत्रमुपासन्ते दीक्षिता नियतव्रताः । गमनादेव राजेन्द्र दीर्घसत्रमरिंदम ||
११
१३
१४
१५
१६
१८. वालुक ।
9
४
५
८
Page #49
--------------------------------------------------------------------------
________________
२६ षड्रिंशोऽध्यायः ]
पद्मपुराणम् । राजसूयाश्वमेधाभ्यां फलं पामोति मानवः । ततो विनाशनं गच्छेभियतो नियताशनः ॥ १७ गच्छत्यन्तहिता यत्र मेरुपृष्ठे सरस्वती । चमसे च शिवो दे नागोद्भेदे च दृश्यते ॥ १८ स्नात्वा तु चपसोद्भेदे अग्निष्टोमफलं लभेत् । शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत्।। १९ मागो दे नरः स्नात्वा नागलोकमवामुयात् । शर्शयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् ॥ २० शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत । सरखत्यां महाभाग अनुसंवत्सरं हि ते ॥ २१ स्नायन्ते भरतश्रेष्ठ हेत्तां वै कार्तिकी सदा । तत्र स्नात्वा नरव्याघ्र द्योतते शिववत्सदा ॥ २२ गोसहस्रफलं चैव प्रामुयाद्भरतर्षभ । कुमारकोटिमासाद्य नियतः कुरुनन्दन ॥ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः । गवामयुतमामोति कुलं चैव समुद्धरेत् ॥ २४ ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः । पुरा यत्र महाराज ऋषिकोटिः समाहिता ॥ २५ हर्षेण च समाविष्टा देवदर्शनकाङ्क्षया । अहं पूर्वमहं पूर्व द्रक्ष्यामि वृषभध्वजम् ॥ २६ एवं संस्थिता राजभूषयः किल भारत । ततो योगीश्वरेणापि योगामस्थाय भूपते ॥ २७ तेषां मन्युमशान्त्यर्थमृषीणां भावितात्मनाम् ।। सृष्टा तु कोटी रुद्राणामृषीणामग्रतः स्थिता ॥२८ मया पूर्व हरो दृष्ट इति ते मेनिरे पृथक् । तेषां तुष्टो महादेव ऋपीणामुग्रतेजसाम् ॥ भक्त्या परमया राजन्वरं तेषां प्रदत्तवान् ॥ अग्रप्रभृति युष्माकं धर्मवृद्धिर्भविष्यनि । तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ॥ ३० अश्वमेधमवामोति कुलं चैव समुद्धरेत् ॥ ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् ॥ ३१ सरस्वत्यां महापुण्यमुपासीत जनार्दनम् । यत्र ब्रह्मादयो देवा ऋपयः सिद्धचारणाः ॥ ३२ अभिगच्छन्ति राजेन्द्र चैत्र शुक्लचतुर्दशीम् ॥ तत्र स्नात्वा नरव्याघ्र विन्देद्बहुसुवर्णकम् ॥ ५ सर्वपापविशुद्धान्मा शिवलोकं च गच्छति । ऋपीणां यत्र सत्राणि समाप्तानि नराधिप ।। तत्रावसानमासाद्य गोसहस्रफलं लभेत् ॥
इति श्रीमहापुगणे पाद्म आदिखण्डे पञ्चविंशोऽध्यायः ॥ २५ ॥
श्लोकानामादिनः समश्यङ्काः-१२२१
-
-
--
-
अय पतिशोऽध्याय ।
नारद उवाचसतो गच्छेन राजेन्द्र कुरुक्षेत्रमभिष्टुतम् । पापेभ्यो विप्रमुच्यन्ते तद्गातः सर्वजन्तवः ॥ १ कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।। य एवं सततं ब्रूयात्सर्वपापैः प्रमुच्यते ॥ तत्र मासं वसेद्धीरः सरस्वत्यां नराधिप । यत्र ब्रह्मादया देवा यत्र ब्रह्मर्षिचारणाः ॥ ३ गन्धर्वाप्सरसो यक्षाः पन्नगाश्च महीपते । ब्रह्मक्षेत्रं महापुण्यमभिगच्छन्ति भारत ॥ ४ मनसाऽप्यभिकामस्य कुरुक्षेत्रे युधिष्ठिर । पापानि विप्रणश्यन्ति ब्रह्मलोकं च मच्छति ॥ ५ गत्वा हि श्रद्धया युक्तः कुरुक्षेत्रं कुरूद्वह । राजसूयाश्वमेधाभ्यां फलं पामोति मानवः॥ ६ ततो मत्तर्णकं राजन्द्वारपालं महाबलम् । यं वै समभिवाद्यैव गोसहस्रफलं लभेत् ।।
ar po mrt & wa
स. म. शपानं। ३ ख.
१ ख. अ. 'ती। रममाण: शिवस्तत्र शिवोद्भद च दृश्यते। स्नात्वा तत्र शिवोद्भदे । हता वै कातिके म । ४ क. पर्वतर ।
Page #50
--------------------------------------------------------------------------
________________
४४
महामुनिश्रीव्यासप्रणीतं -
[ आदिखण्डे
ततो गच्छेत धर्मज्ञ विष्णोः स्थानमनुत्तमम् । सततं नाम राजेन्द्र यत्र संनिहितो हरिः ॥ ८ तत्र स्नात्वा च दृष्ट्वा च त्रिलोकप्रभवं हरिम् । अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ।। ९ ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् । अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति मानवः ।। १० पृथिव्यास्तीर्थमासाद्य गोसहस्रफलं लभेत् । ततः शाल्बिकिनिं गत्वा तीर्थसेवी नराधिप ।। ११ दशाश्वमेधिके स्नात्वा तदेव लभते फलम् । सेपिर्नदीं समासाद्य नागानां तीर्थमुत्तमम् ।। १२ अग्निष्टोममवाप्रोति नागलोकं च गच्छति । ततो गच्छेत धर्मज्ञ द्वारपालमतर्णकम् || तत्रोष्य रजनीमेकां गोसहस्रफलं लभेत् ।।
ततः पश्ञ्चनदं गत्वा नियतो नियताशनः । कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ।। अश्विनोस्तीर्थमागम्य रूपवानभिजायते । ततो गच्छेत धर्मज्ञ वाराहं तीर्थमुत्तमम् ॥ विष्णुर्वराहरूपेण पुरा यत्र स्थितोऽभवत् । तत्र स्थित्वा नरव्याघ्र अग्निष्टोमफलं लभेत् ।। १६ ततो जयिन्यां राजेन्द्र सोमतीर्थ समाविशेत् । स्नात्वा फलमवाप्नोति राजसूयस्य मानवः || १७ एैकत्वंसे नरः स्नात्वा गोसहस्रफलं लभेत् । कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह || पुण्डरीकमवाप्नोति कृतशौचो भवेच्च सः ।।
१३
१४
ܕ
१८
१९
ततो मुञ्जर्ट नाम महादेवस्य धीमतः । तत्रोष्य रजनीमेकां गाणपत्यमवाप्नुयात् ।। तत्रैव च महाराज पैम्पो लोकपरिश्रुताम् । स्नात्वाऽभिगम्य राजेन्द्र सर्वकामानवाप्नुयात् ॥ २० कुरुक्षेत्रस्य तद्वारं विश्रुतं भरतर्षभ । प्रदक्षिणमुपादृत्य तीर्थसेवी समावृतः ॥ संस्मृ(स्रु)ते पुष्कराणां तु स्नात्वाऽर्च्य पितृदेवताः । जामदग्न्येन रामेण आहृते वै महात्मना ॥ कृतकृत्यो भवेद्राजन्नश्वमेधं च विन्दति ॥
२१
२२
२९
ततो रामहदं गच्छेत्तीर्थसेवी नराधिप । यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा । क्षत्रमुत्सार्य वीर्येण हृदाः पञ्च निषेविताः । पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् ॥ पितरस्तर्पिताः सर्वे तथैव प्रपितामहाः । ततस्ते पितरः प्रीता राममूचुर्महीपते । राम राम महाभाग मीताः स्म तव भार्गव । अनया पितृभक्त्या च विक्रमेण च तेऽनघ वरं वृणीष्व भद्रं ते किमिच्छसि महामते । एवमुक्तः स राजेन्द्र रामः प्रवदतां वरः || २७ अब्रवीत्प्राञ्जलिर्वाक्यं पितृन्स गगने स्थितान् । भवन्तो यदि मे मीता यद्यनुग्राह्यता मयि ।। २८ पितृप्रसादादिच्छेयं तपसाऽऽप्यायनं पुनः । यच्च रोषाभिभूतेन क्षत्रमुत्सादितं मया ॥ ततश्च पापान्मुच्येयं युष्माकं तेजसा यहम् । हृदाश्च तीर्थभूता मे भवेयुर्भुवि विश्रुताः ।। एतच्छ्रुत्वा शुभं वाक्यं रामस्य पितरस्तदा । प्रत्यूचुः परमप्रीता रामं तोषसमन्विताः ।। तपस्ते वर्धतां भूयः पितृभक्त्या विशेषतः । यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ॥ ततश्च पापान्मुक्तस्त्वं निहतास्ते स्वकर्मणा । हृदाश्च तव तीर्थत्वं गमिष्यन्ति न संशयः ॥ हृदेष्वेतेषु यः स्नात्वा पितॄन्संतर्पयिष्यति । पितरस्तस्य वै प्रीता दास्यन्ति भुवि दुर्लभम् ईप्सितं मनसः कामं स्वर्गलोकं च शाश्वतम् । एवं दत्त्वा वरं राजन्रामस्य पितरस्तदा ॥ आमच्य भार्गवं मीतास्तत्रैवान्तर्दधुस्ततः । एवं रामहृदाः पुण्या भार्गवस्य महात्मनः ॥ स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुभवतः । राममभ्यर्च्य राजेन्द्र लभेद्वहुसुवर्णकम् ।।
२३
२४
२५
।। २६
३०
३१
१ क. सपिर्नवी । झ. सपि वीं । २ ट. एक दिवसे । ३ म. ट. मुञ्जः । ४ ख. जपान. जया ट, जायां । ५. "स्मृत्य एष्कराणां त खात्वाऽप्स पि ।
३२
३३
॥ ३४
३५
३६
३७
Page #51
--------------------------------------------------------------------------
________________
२६ षड्विंशोऽध्यायः ]
पमपुराणम् । वंशमूलं समासाद्य तीर्थसेवी कुलदह । स्ववंशमुद्धरेद्राजन्नात्वा वै वंशमूलके । कायशोधनमासाद्य तीर्थ भरतसत्तम । शरीरशुद्धिमामोति स्नातस्तस्मिन संशयः॥ ३९ शुद्धदेहस्तु संयाति शुभाल्लोकाननुत्तमान् । ततो गच्छेत राजेन्द्र तीर्थ त्रैलोक्यदुर्लभम् ॥ ४० लोका यत्रोद्धृताः पूर्व विष्णुना प्रभविष्णुना । लोकोद्धारं समासाद्य तीर्थ त्रैलोक्यविश्रुतम् ॥४१ स्नात्वा तीर्थवरे राजल्लौकानुद्धरते स्वकान् । श्रीतीर्थ च समासाद्य विन्दते श्रियमुत्तमाम् ॥ ४२ कपिलातीर्थमासाद्य ब्रह्मचारी समाहितः । तत्र स्नात्वाऽर्चयित्वा च देवानिह पितूंस्तथा॥ ४१ कपिलानां सहस्रस्य फलं विन्दति मानवः । सूर्यतीर्थ समासाद्य स्नात्वा नियतमानसः॥ ४४ अर्चयित्वा पितृन्देवानुपवासपरायणः । अग्निष्टोममवामोति सूर्यलोकं च गच्छति ॥ ४५ गवां भवनमासाद्य तीर्थसेवी यथाक्रमम् । तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥ ४६ गङ्गातीर्थ समासाद्य तीर्थसेवी नराधिप(?)। केव्या(?)स्तीर्थे नरः स्नात्वा लभते वीर्यमुत्तमम् ४७ ततो गच्छेत राजेन्द्र द्वारपालं लवर्णकम् । तस्य तीर्थ सरस्वत्यां यथेन्द्रस्य महात्मनः ॥ ४८ तत्र स्नात्वा नरो राजनग्निष्टोमफलं लभेत् ॥ नतो गच्छेन धर्मज्ञ ब्रह्मावर्त नराधिप । ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकमवाप्नुयात् ॥ ५० ततो गच्छेन धर्मज्ञ सुतीर्थकमनुत्तमम् । यत्र संनिहिना नित्यं पितरो दैवतैः मह ॥ नत्राभिषेकं कुर्वीत पितृदेवाचने रतः । अश्वमेधमवानोति पितृलोकं च गच्छति ।। ततोऽन्यतीर्थ धर्मज्ञ समासाद्य यथाक्रमम् । काशीश्वरस्य नीर्थेषु स्नात्वा भरतसत्तम । सर्वव्याधिविनिमुक्तो ब्रह्मलोके महीयते ।। मातृतीर्थ च नत्रैव यत्र स्नानस्य पार्थिव । प्रजा विवर्धते राजन्स्वर्गतिं समवामुयात् ॥ ततः शीतवनं गच्छन्नियतो नियताशनः । तीर्थे नत्र महाराज महदन्यत्र दुर्लभम् ।। पुनाति दर्शनादेव देण्डेनकं नराधिप ॥ केशानभ्यर्च्य वै तस्मिन्पूतो भवति भारत । तत्र तीर्थवरं चान्यत्नातलोकार्तिहं स्मृतम् ॥ ५६ तत्र विप्रा नरव्याघ्र विद्वांसस्तत्वतत्पराः । गतिं गच्छन्ति परमां स्नात्वा भरतसत्तम ।। ५७ स्वर्णलामापनयन नीर्थे भरतसत्तम । प्राणायामनिर्हरन्ति स्वलोमानि द्विजोत्तमाः॥ ५८ पृतात्मानश्च राजेन्द्र प्रयान्ति परमां गतिम् । दशाश्वमोधिके चैव तस्मिंस्तीर्थे महीपते ॥ ५९ तत्र स्नात्वा नरव्याघ्र गच्छन्ति परमां गतिम् । ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् ॥६० तत्र कृष्णा मृगा राजन्व्याधेन शरपीडिताः । विगाद्य तस्मिन्सरसि मानुषत्वमुपागताः ॥ ६१ तस्मिंस्तीर्थे नरः स्नात्वा ब्रह्मचारी समाहितः । सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ ६२ मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते । आपगा नाम विख्याता नदी सिद्धनिषेविता ॥ ६३ श्यामाकभोजनं तत्र यः प्रयच्छति मानवः । देवान्पितॄन्समुद्दिश्य तस्य धर्मफलं महत् ॥ ६४ एकस्मिन्भाजिते विप्रे कोटिर्भवति भोजिता । तत्र स्नात्वाऽचेयित्वा च देवतानि पितूंस्तथा ६५ उपिन्वा रजनीमकामग्निष्टोमफलं लभेत् । ततो गच्छेत धर्मज्ञ ब्रह्मणः स्थानमुत्तमम् ।। ६६ ब्रह्मानुस्वरमित्येवं प्रकाशं भुवि भारत । तत्र सप्तर्षिकुण्डेषु स्नातस्य भरतर्षभ ॥ ६७
१ अ. कोन्यास्तीथें । ट. कन्यास्तीर्थे । २ ८. 'जन्दुर्गति न च गच्छति । त' । ३ ख. अ. दण्डेकं च न । ४ अ.
'शानावप्य वै।५ तीर्थ नरः सात्वा विष्णलोक च गच्छति । त। ६ट. म । नखलों । ७ ख. प्र. या तिष्ठति निय च ।
Page #52
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ आदिखण्डेकेदारे चैव राजेन्द्र कपिलस्य महात्मनः । ब्रह्माणमभिगम्याथ शुचिः प्रयतमानसः ॥ ६८ सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते । कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् ॥ ६९ अन्तर्धानमवामोति तपसा दग्धकिस्विषः । ततो गच्छेत राजेन्द्र सेवकं लोकविश्रुतम् ॥ ७० कृष्णपक्षे चतुर्दश्यामभिगम्य वृषध्वजम् । लभते सर्वकामान्हि स्वर्गलोकं च गच्छति ॥ । तिनः कोव्यश्च तीर्थानी सैवरे(?)कुरुनन्दन । रुद्रकोव्यां तथा कूपे हदेषु च समन्तकः ॥ ७२ इलास्पदं च तत्रैव तीर्थ भरतसत्तम । तत्र स्नात्वाऽर्चयित्वा च दैवतानि पितनपि । न दुर्गतिमवामोति वाजपेयं च विन्दति ॥ किंदाने च नरः सात्वा किंयज्ञे च महीपते । अप्रमेयमनामोति दानं यज्ञं तथैव च ॥ ७४ कैफस्यां वायुपस्पृश्य श्रवधानो जितेन्द्रियः । अग्निष्टोमस्य यबस्य फलं पामोति मानवः ॥ ७५ संरकस्य तु पूर्वेण नारदस्य महात्मनः । कुरुश्रेष्ठ शुभं तीर्थ रामजन्मेति विश्रुतम् ॥ ७६ तत्र तीर्थे नरः स्नात्वा पाणांचोत्सृज्य भारत । नारदेनाभ्यनुज्ञातो लोकानामोति दुर्लभान् ।। ७७ शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत् । तत्र स्नात्वा नरो राजन्पुण्डरीकफलं लभेत् ॥ ७८ ततत्रिविष्टपं गच्छेत्रिषु लोकेषु विश्रुतम् । तत्र वैतरणी पुण्या नदी पापप्रमोचनी ॥ ७९ तत्र स्नात्वाऽचयित्वा च शूलपाणि वृषध्वजम् । सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥ ८० सतो गच्छेत राजेन्द्र फलेकीवनमुत्तमम् । तत्र देवाः सदा राजन्फैलकीवनमाश्रिताः॥ ८१ तपश्चरन्ति विपुलं बहुवर्षसहस्रकम् । दृषद्वत्यां नरः स्मात्वा तर्पयित्वा च देवताः। अमिष्टोमातिरात्राभ्यां फलं विन्दति मानवः ॥ तीर्थे च सर्वदेवानां स्नात्वा भरतसत्तम । गोसहस्रस्य राजेन्द्र फलमामोति मानवः॥ ८३ पाणिख्याते नरः स्नात्वा तर्पयित्वा च देवताः । अवामुते राजसूयमृषिलोकं च गच्छति ॥ ८४ ततो गच्छेत धर्मज्ञ मिश्रकं लोकविश्रुतम् । तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना ॥ ८५ व्यासेन नृपशार्दूल द्विजार्थमिति नः श्रुतम् । सर्वतीर्थेषु स नाति मिश्रके स्नाति यो नरः॥८६ ततो व्यासवनं गच्छेनियतो नियताशनः । मनोजवे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ८७ गत्वा मधुवटीं चापि देव्याः स्थानं नरः शुचिः। तत्र स्नात्वाऽर्चयदेवान्पितंश्च नियतः शुचिः॥ स देव्या समनुज्ञातो गोसहस्रफलं लभेत् ॥
८८ कौशिक्याः संगमे यस्तु दृषद्वत्याश्च भारत । स्नातो वे नियताहारः सर्वपापैः प्रमुच्यते ॥ ८९ सतो व्यासस्थली नाम यत्र व्यासेन धीमता । पुत्रशोकाभितप्तेन देहत्यागाय निश्चयः ॥ ९० कृतो देवैश्च राजेन्द्र पुनरुत्थापितस्तथा । अभिगम्य स्थली तस्य गांसहस्रफलं लभेत् ॥ ९१ ऋणान्तं कूपमासाथ तिलपस्थं प्रदाय च । गच्छेत परमां सिद्धिमृणैर्मुक्तो नरेश्वर ॥ घेदीतीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ अहश्च सुदिनश्चैव द्वे तीर्थे तु सुदुर्लभे । तयोः स्नात्वा नरश्रेष्ठ सूर्यलोकमवाप्नुयात् ॥ ९३ मगधूमं ततो गच्छेत्रिषु लोकेषु विश्रुतम् । तत्र रुद्रपदे स्नात्वा समभ्यर्च्य च मानवः ॥ ९४ शूलपाणिं महात्मानमश्वमेधफलं लभेत् । कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ९५
१ ख. अ. 'न्द्र शिवं त्रैलोक्यवि । २ इ. च. ढ. सवक । झ. ट. सर्वक । ३ ट. नां साधं च कु। ४ ख. अ. सर्वा हि कु'। कु. ढ. सबरं । ५ क. 'कोटीत । ६ ख. भ. 'दे पश्चममन्तक । इ। . ट कृपस्थ । ८ ख. प्र. शंकरस्य । ९ क. 'लग्रीव । १० क. लडाव । ११ स्त्र.अ. 'णिखाते । १२ अ देवीतीर्थे ।
Page #53
--------------------------------------------------------------------------
________________
१७
२७ सप्तविंशोऽध्यायः ]
पद्मपुराणम् । अथ वामनकं गत्वा त्रिषु लोकेषु विश्रुतम् । तत्र विष्णुपदे स्नात्वा समभ्यर्थ्य च वामनन् ॥९६ सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् । कुलंपुने नरः स्नात्वा पुनाति स्वकुलं नरः ॥ ९७ पवनस्य ह्रदं गत्वा मरुतां तीर्थमुत्तमम् । तत्र स्नात्वा नरव्याघ्र वायुलोके महीयते ॥ ९८ अमराणां हृदे स्नात्वा समभ्यामराधिपम् । अमराणां प्रभाषेन स्वर्गलोके महीयते ॥ ९९ शालिहोत्रस्य राजेन्द्र शालिसूर्ये यथाविधि । स्नात्वा नरवरश्रेष्ठ गोसहस्रफलं लभेत् ॥ १०० श्रीकजं च सरस्वत्यां तीर्थ भरतसत्तम । तत्र नात्वा नरो राजन्नाग्निष्टोमफलं लभेत् ॥ १०१ ततो नैमिषिकुजं च समासाघ सुदुर्लभम । ऋषयः किल राजेन्द्र नैमिषेयास्तपोधनाः ॥ १०२ तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रे गताः पुरा । ततः कुञ्जः सरस्वत्यां कृतो भरतसत्तम ॥ १०३ ऋषीणामवकाशः स्याद्यथा तुष्टिकरो महान् । तस्मिन्कुञ्ज नरः स्नात्वा गोसहस्रफलं लभेत् ॥
इति श्रीमहापुराणे पाम आदिखण्डे पविंशोऽध्यायः ॥ २६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१३२५
अथ सप्तविंशोऽध्यायः ।
%D
.
9
नारद उवाचसनो गच्छेत धर्मज्ञ कन्यातीर्थमनुत्तमम् । कन्यातीर्थे नरः स्नात्वा अमिष्टोमफलं लभेत् ।। १ ततो गच्छेन्नरव्याघ्र ब्रह्मणः स्थानमुत्तमम् । तत्र वर्णावरः सात्वा ब्राह्मण्यं लभते नरः॥ ब्राह्मणस्तु विशुद्धात्मा गच्छेत परमां गतिम् ।। नतो गच्छेन्नरव्याघ्र सोमतीर्थमनुत्तमम् । नत्र स्नात्वा नरो राजन्सोमलोकमवाप्नुयात् ।।। सप्तसारस्वतं तीर्थ ततो गच्छेन्नराधिप । यत्र मङ्कणकः सिद्धो ब्रह्मपिर्लोकविश्रुतः ॥ ४ पुरा मङ्कणको राजन्कुशाग्रेणेति विश्रुतम् । क्षतः किल करे राजस्तस्य शाकरसोऽस्रवत् ॥ ५ स वै शाकरसं दृष्ट्वा हर्षाविष्टो महातपाः । प्रनृत्तः किल विपिविस्मयोत्फुल्ललोचनः ॥ ६ ततस्तस्मिन्मनृत्ते वै स्थावरं जङ्गमं च यत् । प्रनृत्तमुभयं वीर तेजसा तस्य मोहितम् ॥ ब्रह्मादिभिस्ततो देवऋषिभिश्च तपोधनः । विज्ञप्तो वै ऋपरर्थे महादेवो नराधिप । नायं नृत्येद्यथा देव तथा त्वं कर्तुमर्हसि ।।। ततो देवो मुनि दृष्ट्वा हर्पाविष्टन चेतसा । नृत्यन्तमब्रवीचैनं सुराणां हितकाम्यया ॥ अहो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् । हर्षस्थानं किमर्थं वा तवाद्य मुनिपुङ्गव ॥
ऋषिरुवाच-- तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम । किं मे नान्यः समो ब्रह्मन्क्षताच्छाकरसोऽस्रवत् ॥ ११ यं दृष्ट्वा संपनृत्तोऽहं हर्षेण महताऽन्वितः । तं प्रहस्याब्रवीदेव ऋषि रागेण मोहितम् ॥ १२ अहं तु विस्मयं विष न गच्छामीह पश्य माम् । एवमुक्त्वा नरश्रेष्ठ महादेवेन वै तदा ॥ ११ अङ्गुल्यग्रेण राजेन्द्र स्वाङ्गुष्ठस्ताडितोऽनघ । ततो भस्म क्षताद्राजनिःसृतं हि(हे)मसंनिभम् ॥१४ तदृष्ट्वा वीडितो राजन्स मुनिः पादयोर्गतः । नान्यं देवमहं मन्ये रुद्रात्परतरं महत् ॥ १५ सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् । त्वया सृष्टमिदं विश्वं त्रैलोक्यं सचराचरम् ॥ १६
१ ख. ञ, ट. 'म। कुशाग्रेण स मे ब्रह्मन्कराच्छा
।
Page #54
--------------------------------------------------------------------------
________________
६
महामुनिश्रीव्यासमणीत
[ आदिखण्डस्वामेव भगवन् सर्वे प्रविशन्ति युगक्षये । देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ॥ १७ त्पयि सर्वेश दृश्यन्ते मुरा ब्रह्मादयोऽनघ । सर्वस्त्वमसि लोकानां कर्ता कारयिताऽन्वहम् ॥१८ स्वत्प्रसादात्सुराः सर्वे मोदन्तीहाकुतोभयाः। एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् ॥ १९ स्वत्मसादान्महादेव तपो मे न क्षरेत वै । ततो देवः प्रहृष्टात्मा ब्रह्मर्षिमिदमब्रवीत् ॥ २० सपस्ते वर्धतां विष मत्मसादात्सहस्रधा । आश्रमे चेह वत्स्यामि त्वया सार्ध महामुने ॥ २१ सप्तसारस्वते स्नात्वा अर्चयिष्यन्ति ये तु माम् । न तेषां दुर्लभं किंचिदिह लोके परत्र वा ॥ २२ गच्छेत्सारस्वतं चापि लोकं नास्त्यत्र संशयः । एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ॥ २३ ततस्त्वौशनसं गच्छेत्रिषु लोकेषु विश्रुतम् । यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ २४ कार्तिकेयश्च भगवास्त्रिसंध्यं किल भारत । सांनिध्यमकरोत्तत्र भार्गवप्रियकाम्यया ॥ २५ कपालमोचनं तीर्थ सर्वपापप्रणाशनम् । तत्र स्नात्वा नरव्याघ्र सर्वपापैः प्रमुच्यते ॥ अमितीर्थ ततो गच्छेत्स्नात्वा च भरतर्षभ । अग्निलोकमवाप्नोति कुलं चैव समुद्धरेत् ॥ २७ विश्वामित्रस्य तत्रैव तीर्थ भरतसत्तम । तत्र स्नात्वा महाराज ब्राह्मण्यमभिजायते ॥ ब्रह्मयोनि समासाद्य शुचिः प्रयतमानसः। तत्र स्नात्वा नरव्याघ्र ब्रह्मलोकं प्रपद्यते ॥ २९ पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः । ततो गच्छेत राजेन्द्र तीर्थ त्रैलोक्यविश्रुतम् ।। ३० पृथूदकमिति ख्यातं कार्तिकेयस्य वै नृप । तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ ३१ 'अज्ञानाज्ज्ञानतो वाऽपि स्त्रिया वा पुरुपेण वा । यत्किचिदशुभं कर्म कृतं मानुपबुद्धिना॥ तत्सर्व नश्यते तत्र स्नातमात्रस्य भारत ॥ अश्वमेधफलं चापि लभते स्वर्गमेव च । पुण्यमाहुः कुरुक्षेत्रं कुरुक्षेत्रात्सरस्वतीम् ॥ ३३ सरस्वत्याश्च तीर्थानि तीर्थेभ्यश्च पृथदकम् । उत्तमे सर्वतीर्थानां यस्त्यजेदात्मनस्तनुम् ॥ ३४ पृथूदके जप्यपरो नैव संसरणं लभेत् । गीतं सनत्कुमारेण व्यासेन च महा मना ॥ वेदे च नियतं राजन्नभिगच्छेत्पृथूदकम् । पृथूदकात्पुण्यतमं नान्यत्तीर्थ नरोत्तम ॥ ३६ एतन्मेध्यं पवित्रं च पावनं च म संशयः। तत्र स्नात्वा दिवं यान्ति अपि पापकृतो जनाः ॥ ३७ पृथूदके नरश्रेष्ठ प्राहुरवं मनीषिणः । मधुपूरं तु तत्रैव तीर्थ भरतसत्तम ।। तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ ततो गच्छेन्नरश्रेष्ठ तीर्थ देव्यां यथाक्रमम् । सरस्वत्यारुणायाश्च संगमं लोकविश्रुतम् ॥ त्रिरात्रोपोषितः स्नात्वा मुच्यते ब्रह्महत्यया ॥ अग्निष्टोमातिरात्राभ्यां फलं चैव समश्नुते । पुनात्यासप्तमं चैव कुलं नास्त्यत्र संशयः ॥ ४० अवकीर्ण च तत्रैव तीर्थ कुरुकुलोदह । विप्राणामनुकम्पार्थ दर्भिणा निर्मितं पुरा ।। ४१ व्रतोपनयनाभ्यां चाप्युपवासेन वा द्विजः । क्रियामत्रैश्च संयुक्तो ब्राह्मणः स्यान्न संशयः॥ ४२ क्रियामत्रविहीनोऽपि तत्र स्नात्वा नरर्षभ । चीर्णव्रतो भवेद्विप्रो दृष्टमेतत्पुरातनम् ॥ ४३ समुद्राश्चापि चत्वारः समानीताश्च दर्मिणा । तत्र स्नात्वा नरव्याघ्र न दुर्गतिमवाप्नुयात् ॥ ४४ फलानि गोसहस्राणां चतुर्णा विन्दते च सः। ततो गच्छेत राजेन्द्र तीर्थ शतसहस्रकम् ॥ ४५ साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते । उभयोहि नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ४६ दानं वाऽप्युपवासो वा सहस्रगुणितो भवेत् । ततो गच्छेत राजेन्द्र रेणुकातीर्थमुत्तमम् ॥ ४७ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः । सर्वपापविशुद्धात्मा अमिष्टोमफलं लभेत् ॥
Page #55
--------------------------------------------------------------------------
________________
२७ सप्तविंशोऽध्यायः ]
पमपुराणम् । विमोचन उपस्पृश्य जितमन्युर्जितेन्द्रियः । प्रतिग्रहकृतैः पापैः सर्वैः संपरिमुच्यते ॥ ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः । पुण्येन महता युक्तः स्वर्गलोके महीयते ॥ ५० यत्र योगेश्वरः स्थाणुः स्वयमेव वृषध्वजः । तमर्चयित्वा देवेशं गमनादेव सिध्यति ॥ ५१ तेजसं वारुणं तीर्थ दीप्यते स्वेन तेजसा । यत्र ब्रह्मादिभिर्देवैषिभिश्च तपोधनैः ॥ सैनापत्ये च देवानामभिषिक्तो गुहस्तदा । तैजसस्य तु पूर्वेण कुरुतीर्थ कुरूद्वह ॥ कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः । सर्वपापविशुद्धात्मा रुद्रलोकं प्रपद्यते ॥ ५४ स्वर्गद्वारं ततो गच्छेनियतो नियताशनः । अग्निष्टोममवामोति ब्रह्मलोकं च गच्छति ॥ ५५ ततो गच्छेदनरकं तीर्थसेवी नराधिप । तत्र स्नात्वा नरो राजन्न दुर्गतिमवामुयात् ॥ ५६ नत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते । अध्यास्ते पुरुषव्याघ्र नारायणपुरोगमैः ॥ सांनिध्यं चैव राजेन्द्र रुद्रवेद्यां कुरूदह । अभिगम्य तु तां देवीं न दुर्गतिमवामुयात् ॥ ५८ तत्रैव च महाराज विश्वेश्वरमुमापतिम् । अभिगम्य महादेवं मुच्यते सर्वकिल्विषैः॥ ५९ नारायणं चाभिगम्य पद्मनाभमरिंदम । शोभमानो महाराज विष्णुलोकं प्रपद्यते ॥ नीर्थेषु सर्वदेवानां स्नातमात्रो नराधिप । सर्वदुःश्वपरित्यक्तो द्योतते शिववत्सदा ॥ ६१ ततस्त्वस्थिपुरं गच्छेत्तीथसंवी नराधिप । पावनं तीर्थमासाद्य तपेयेत्पितृदेवताः ॥ अग्निष्टोमस्य यज्ञस्य फलमामाति भारत ॥ गङ्गाहदश्च तत्रैव कूपश्च भरतर्षभ । तिस्रः काव्यस्तु तीर्थानां तस्मिन्कूपे महीपते ॥ तत्र स्नात्वा नरो राजन्ब्रह्मलोकं प्रपद्यते ।।
६३ आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् । गनि परामवामोति कुलं चैव समुद्धरेत् ॥ ६४ ततः स्थाणुवटं गच्छेत्रिपु लोकेपु विश्रुतम् । तत्र स्नात्वा स्थितो रात्रि रुद्रलोकमवामुयात् ॥६५ बदरीणां वनं गच्छेद्वसिष्ठस्याऽऽश्रमं ततः । बदरी भक्ष्यते यत्र त्रिरात्रोपोपितैनरैः ॥ ६६ सम्यग्द्वादश वर्षाणि बदरी भक्षयेत्तु यः । त्रिरात्रोपोपितश्चैव भवेत्तुल्यो नराधिप ॥ ६७ इन्द्रमार्ग समासाद्य तीर्थमंत्री नराधिप । अहोरात्रांपवासेन स्वर्गलोके महीयते ॥ ६८ एकरात्रं समासाद्य एकरात्रो पितो नरः । नियतः सत्यवादी च ब्रह्मलोके महीयते ॥ ६९ तथा गच्छेच्च राजेन्द्र तीर्थ त्रैलोक्यविश्रुतम् । आदित्यस्याऽऽश्रमो यत्र तेजोराशेर्महात्मनः॥७० तस्मिंस्तीर्थ नरः स्नात्वा पूजयित्वा विभावसुम् । आदित्यलोकं व्रजति कुलं चैव समुद्धरेत्।।७१ सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूदह । सोमलोकमवामोति नरो नास्त्यत्र संशयः॥ ७२ ततो गच्छेत धर्मज्ञ दधीचस्य नराधिप । तीर्थ पुण्यतमं राजन्पावनं लोकविश्रुतम् ॥ ७३ यत्र सारस्वतो जातः सिद्धिरादतपसो निधिः। तस्मिंस्तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ॥ सारस्वती गैतिं चैव लभते नात्र संशयः । ततः कन्याश्रमं गत्वा नियतो ब्रह्मचर्यया ॥ ७५ त्रिरात्रमुपितो राजनुपवासपरायणः । लभेत्कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति ॥ ७६ ततो गच्छेत धर्मज्ञ तीर्थ संनिहितामपि । यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः॥ मासि मासि समेष्यन्ति पुण्येन महतान्विताः॥ संनिहितायामुपस्पृश्य राहुग्रस्ते दिवाकरे । अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ॥ ७४
१ ट. नवतुल्यो। २ क. 'तः सो द्धिरास्तप । ट. 'तः सोऽङ्गिरास्तप'। ३ क. मति । ४ ख. अ. 'हितीम' ५ ख. ज. 'हित्यामु।
७७
Page #56
--------------------------------------------------------------------------
________________
५० महामुनिश्रीव्यासपणीनं
[ १ आदिखण्डेपृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च । उदपानाश्च विप्राश्च पुण्यान्यायतनानि च ।। ७९ निःसंशयममावास्यां समेप्यन्ति नराधिप । मासि मासि नरव्याघ्र संनिहितायां जनेश्वर ॥ ८० तीर्थसंनयनादेव संनिहिता भुवि विश्रुता । तत्र स्नात्वा च पीत्वा च स्वर्गलोके महीयते ॥ ८१ अमावास्यां तथा चैव राहुग्रस्ते दिवाकरे । यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु ॥ ८२ अश्वमेधसहस्रस्य सम्यगिष्टस्य यत्फलम् । स्नान एव तदामोति कृत्वा श्राद्धं च मानवः ॥ ८६ यत्किचिदुप्कृतं कर्म स्त्रिया वा पुरुपस्य वा । स्नातमात्रस्य तत्सर्व नश्यते नात्र संशयः ।। पनवर्णन यानेन ब्रह्मगकं स गच्छति ॥ अभिवाद्य सतो गत्वा द्वारपालं मचक्रुकम् । गङ्गाह्रदश्च नत्रैव तीर्थ भरतसत्तम ।। तत्र स्नायीत धर्मज्ञ ब्रह्मचारी समाहितः । गजसूयाश्वमेधाभ्यां फलं विन्दति मानवः ॥ ८६ पृथिव्यां नेमिपं पुण्यमन्तरिक्षे च पुष्करम् । त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ॥ ८७ पांशवांऽपि कुरुक्षेत्र वायुनाऽतिसमीरिताः । अपि दुष्कृतकर्माणं नयन्ति पग्मां गतिम् ॥ ८८ दक्षिणेन सरस्वत्या उत्तरेण सरस्वतीम् । यं वमन्ति कुरुक्षेत्र ते वसन्ति त्रिविष्टपे ॥ ८० कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्र वसाम्यहम् । अप्यवं वाचमुन्मृज्य म्वर्गलोके महीयते ॥ १० ब्रह्मवैद्यां कुरुक्षेत्रं पुण्यं ब्रह्मर्पिसेवितम् । तम्मिन्वमन्नि ये गजन्न ने शांच्याः कथंचन ।। ११
तरण्डकारण्डकयोर्यदन्तरं गमहदानां च मंचक्रुकम्य च । एतत्कुरुक्षेत्रसमन्तपञ्चकं पितामहम्योत्तरदिरुच्यने ।।
इति श्रीमहापुराण पाद्म भादिम्वण्टे मप्रांशी गाय ॥ ७ ॥ आदिनः श्लोकानां समथ्यङ्काः-१११७
अथाशविगोऽध्यायः ।
नारद उवाचततो गच्छेत धर्मज्ञ धर्मतीर्थ पुगतनम् । यत्र धर्मो महाभागस्तप्तवानुत्तमं नपः ।। तेन तीर्थ कृतं पुण्यं स्वन नाम्ना च चिह्निनम् । तत्र स्नात्वा नगं राजधर्मशीलः समाहितः ।। आसप्तमं कुलं चैव पुनीत नात्र संशयः । तता गच्छत धर्मज्ञ कलापवनमुत्तमम् ॥ ३ कृच्छेण महता गत्वा तत्र नान्या समाहितः । अनिष्टोममवाप्नोति विष्णुलोकं च गच्छनि ।। ४ सौगन्धिकं वनं राजंस्तता गच्छेत मानवः । यत्र ब्रह्मादया देवा ऋपयश्च नराधनाः ।। सिद्धचारणगन्धर्वाः किंनराः समहाग्गाः । तद्वनं प्रविशन्नंव सर्वपापैः प्रमुच्यने ।।। ततो हि सा मरिच्छेपा नदीनामुत्तमा नदी । प्लक्षादेवी स्मृता राजन्महापुण्या सरम्बती ॥ ७ तत्राभिषेकं कुर्वीत वल्मीकान्निःसृत जले । अर्चयित्वा पितन्दवानश्वमधफलं लभेत् ॥ ८ ईशानाध्युषितं नाम तत्र तीर्थ सुदुर्लभम् । षड्गुणं याति पातेषु वल्मीकादिति निश्चयः ॥ ९ कपिलानां सहस्रं च वाजिमेधं च विन्दति । तत्र स्नात्वा नरव्याघ्र दृष्टमेतत्पुरातनैः ॥ १० मुगन्धा शतकुम्भा च पश्चयज्ञं च भारत । अभिगम्य नरश्रेष्ठ स्वर्गलोके महीयते ॥ ११
१स. म. मंनिहित्यां । २ स्व. म. संहिता । ३ ट. 'ल वस्तक'। ४ ख. अ. मतणक'। ५ क. 'प्यका वा क. 'भेदि कु' । ख. म. मतकस्य । ८ ट. 'ज्ञ काराप । ९ ख. ज. शान्यां पितं । १० स. अ. पानीग।
Page #57
--------------------------------------------------------------------------
________________
२९ एकोनत्रिंशोऽध्यायः ]
पद्मपुराणम् । त्रिशूलपानं तत्रैव तीर्थमासाद्य दुर्लभम् । तत्राभिषेक कुर्वीत पितृदेवार्चने रतः ॥ १२ गाणपत्यं च लभते देहं त्यक्त्वा न संशयः । ततो राजगृहं गच्छेद्देव्याः स्थानं सुदुर्लभम् ॥१३ शाकंभरीति विग्व्याता त्रिषु लोकेपु विश्रुता । दिव्यं वर्षसहस्रं हि शाकेन किल भारत ॥ १४ आहारं सा कृतवती मासि मासि नराधिप । ऋषयोऽभ्यागतास्तत्र देव्या भक्तास्तपोषनाः।।१५ आतिथ्यं च कृतं तेषां शाकेन किल भारत । ततः शाकंभरीत्येवं नाम तस्याः प्रतिष्ठितम् ॥ १६ शाकंभरी समासाद्य ब्रह्मचारी समाहितः । त्रिरात्रमुपितः शाकं भक्षयेनियतः शुचिः ॥ १७ शाकाहारम्य यन्सम्यग्वादशभिः फलम् । तन्फलं तस्य भवति देव्याश्छन्देन भारत ॥ १८ ननो गच्छेन्सुवर्णाग्व्यं त्रिषु लोकेषु विश्रुनं । यत्र विष्णुः प्रसादार्थ रुद्रमाराधयत्पुरा ॥ १९ वरांश्च सुबहल्लभे देवैरपि मुदुर्लभान् । उक्तश्च त्रिपुग्नेन परितुष्टेन भारत ॥ २० अपि चाऽऽत्मा प्रियतरो लोक कृष्ण भविष्यति । वन्मग्वं च जगत्कृत्स्नं भविष्यति न संशयः॥ २१ नत्राभिगम्य गजेन्द्र पूजयित्वा वृषध्वजम् । अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥ २२ धूमवन्वी नतां गच्छत्रिगत्रमुपितो नरः । मनसा प्रार्थितान्कामाल्भते नात्र संशयः॥ २३ दव्यास्तु दक्षिणार्धेन ग्थावों नगधिपं । नत्राऽऽगत्य तु धर्मज्ञ श्राधानो जिनेन्द्रियः॥ २४ महादेवप्रमादाहै गच्छेत परमां गतिम् । प्रदक्षिणमुपादृत्य गच्छेन भरतर्षभ ॥ धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम् । नत्र नात्वा नरव्याघ्र न शोचनि नराधिप ॥ २६ नतो गच्छन्नग्व्याघ्र नमस्कृत्य महागिरिम् । म्वर्गद्वारण तत्तुल्यं गङ्गाद्वारं न संशयः॥ नवाभिपंकं कुवीत कोटितीर्थे ममाहिनः । लभते पुण्डरीकं तु कुलं चैव समुद्धरेत् ॥ २८ उष्यका रजनी नत्र गोसहस्रफलं लभत । मप्तगङ्ग त्रिगङ्ग च शकावर्ने च तर्पयन् ॥ देवान्पितश्च विधिवत्पुण्यलोके महीयते ॥ नतः कनग्वले म्नान्वा त्रिगत्रोपापिता नरः । अश्वमेधमवानोति स्वर्गलोकं च गच्छति ॥ ३० कपिलावटं तु गच्छेत तीथसंवी नराधिप । उप्येकां रजनी नत्र गोसहस्रफलं लभेत् ॥ ३१ नागगजम्य गजेन्द्र कपिलस्य महात्मनः । तीर्थ कुरुवरश्रेष्ठ सर्वलोकेपु विश्रुतम् ॥ ३२ तत्राभिपकं कुर्वीत नागतीर्थे नराधिप । कपिलानां सहस्रस्य फलं प्रामाति मानवः ॥ ३३ नतो ललितिकां गच्छच्छन्तनास्तीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्न दुर्गनिमवामुयात् ॥ ३४
इति श्रीमहापुगणे पाद्म आदिखण्देऽयाविशोऽध्यायः ॥ २८ ॥ आदितः श्लोकानां समथ्यङ्काः-१४५१
अथकोनत्रिशोऽध्यायः ।
नारद उवाचननो गच्छेत राजेन्द्र कालिन्दीतीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्न दुर्गतिमवामुयात् ॥ ? पुष्करे तु कुरुक्षेत्रे ब्रह्मावर्ते पृथदके । अविमुक्त सवर्णाख्ये यत्फलं नो लभेन्नरः॥ २ तत्फलं समवानोति यमनायां नरोत्तम । स्वर्गभोगेऽतिरागो वे येषां मनसि वर्तते ॥ ३
१ट व्या वाक्येन । २ ख. अ. वेद्यास्त । ३ ख. अ. उपायुनो । ४ ख.अ,'प। यात्रांगृहातधा५ख.ललितकां। म. ललितक।
Page #58
--------------------------------------------------------------------------
________________
.
.
महामुनिश्रीव्यासपणीत
[ १ आदिखण्डेयमुनायां विशेषेण स्नानदानेन सत्तम । आयुरारोग्यसंपत्तौ रूपयौवनतागुणे ॥ ४ येषां मनोरथस्तैस्तु न त्याज्यं यामुनं जलम् । ये बिभ्यति नरकादेर्दारिद्याद्ये त्रसन्ति च ॥ सर्वथा तैः प्रयत्नेन सत्र कार्य निमज्जनम् ॥ दारिद्यपापदौर्भाग्यपङ्कमक्षालनाय वै । ऋते वै यामुनं तोयं न चान्योऽस्ति युधिष्ठर ॥ श्रदाहीनानि कर्माणि मतान्यर्धफलानि वै । फलं ददाति संपूर्ण यामुनं स्नानमात्रतः ॥ ७ अकामो वा सकामो वा यामुने सलिले नृप । इहामुत्र च दुःखानि मज्जनानव पश्यति ॥ ८ पक्षद्वये यथा चन्द्रः क्षीयते वर्धते यथा । पातकं नश्यते तत्र स्नानात्पुण्यं विवर्धते ॥ ९ यथान्धौ सुखमायान्ति रत्नानि विविधानि च। आयुवित्तं कलत्राणि संपदः संभवन्ति च ॥ १० कामधेनुर्यथा कामं चिन्तामणिविचिन्तितम् । ददाति यमुनास्नानं तद्वन्सर्व मनोरथम् ।। ११ कृते तपः परं ज्ञानं त्रेतायां यजनं तथा । द्वापरं च कलौ दानं कालिन्दी सर्वदा शुभा ॥ १२ सर्वेषां सर्ववर्णानामाश्रमाणां च भूपते । यामुने मजनं धर्म धाराभिः खलु वर्पति ॥ अस्मिन्वै भारते वर्षे कर्मभूमो विशेपतः । कालिन्यस्नायिनां नृणां निष्फलं जन्म कीर्तितम् १४ नेश्वर्य गगने यच्चान्द्रेऽमायां तु मण्डले । तद्वन्न भाति सत्कर्म यमुनामजनं विना ॥ १५ व्रतैर्दानैस्तपोभिश्च न तथा प्रीयते हरिः । तत्र मज्जनमात्रेण यथा प्रीणाति केशवः ॥ १६ न समं विद्यते किंचित्तेजः सौरण तेजसा । तद्वन्न यमुनास्नानसमानाः क्रतुजाः क्रियाः॥ १७ प्रीतये वासुदेवस्य सर्वपापापनुत्तये । कालिन्या मजनं कुर्यात्स्वर्गलोकाय मानवः ॥ किं रक्षितेन देहेन सुपुष्टेन बलीयसा । अध्रुवण सुदहन यमुनामजनं विना ।। अस्थिस्तम्भं स्नायुबन्धं मांसक्षतजलेपनम् । चविनद्धं दुर्गन्धपूर्ण मूत्रपुरीपयोः ॥ जराशोकविपद्याप्तं रोगमन्दिरमातुरम् । रागमूलमनित्यं च सर्वदोपसमाश्रयम् ।। परोपतापपापार्तिपरद्रोहपरेषिकम् । लोलुपं पिशुनं रं कृतघ्नं क्षणिकं तथा ।। निष्ठुरं दुर्धरं दुष्टं दोपत्रयविदूषितम् । अशुचि चापि दुर्गन्धि तापत्रयविमोहितम् ।। निसर्गतोऽधर्मरतं तृष्णाशतसमाकुलम् । कामक्रोधमहालोभनरकद्वारसंस्थितम् ।। कृमिवर्चस्तु भस्मादिपरिणामगुणावहम् । ईदृक्शरीरं व्यर्थं हि यमुनामजनं विना ।। बुबुदा इव तोयेषु प्रत्यण्डा इव पक्षिपु । जायन्ते मरणायैव यमुनास्नानवर्जिताः ॥ अवैष्णवो हतो विमो हतं श्राद्धमपिण्डितम् । अब्रह्मण्यं हतं क्षत्रमनाचारहतं कुलम् ।। २७ सदम्भश्च हतो धर्मः क्रोधेनैव हतं तपः । अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ।। २८ परभक्त्या हता नारी ब्रह्मचारी मदाद्धतः। अदीप्तऽनौ हता हामी हता भक्तिः समायिका।। २९ उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता । शूद्रभिक्षाहता यांगः कृपणस्य हतं धनम् ।।३० अनभ्यासहता विद्या हतो बोधो विरोधकृत । जीवनार्थं हतं तीर्थ जीवनार्थ हतं व्रतम् ॥ ३१ असत्या च हता वाणी तथा पेशुन्यवादिनी । षट्कर्णगो हतो मत्रो व्यग्रचित्ता हतो जपः॥३२ हतमश्रोत्रिये दानं हतो लोकश्च नास्तिकः । अश्रद्धया हतं सर्व यत्कृतं पारलौकिकम् ॥ ३३ इहलोको हतो नृणां दरिद्राणां यथा नृप । मनुष्याणां हतं जन्म कालिन्दीमज्जनं विना ॥ ३४ उपपातकसर्वाणि पातकानि महान्ति च । भस्मी भवन्ति सर्वाणि यमुनामजनानृप ॥ ३५
१८. 'म् । विस्तीर्ण गगनं यच्चन्द्रमुडुहुमण्डलम् । त । २ क. 'वेणाऽऽशुदै । ३ ट. 'जसंयुतम् । ४ट. '। रजस्वल । ५ अ. 'मपण्डि' । ६ट. गर्वभक्त्या । ७ ट. 'री तया हतः । ८ ख. अ. 'द्रभक्षो हतो ।
Page #59
--------------------------------------------------------------------------
________________
३० त्रिंशोऽध्यायः]
पद्मपुराणम् । वेपन्ते सर्वपापानि यमुनायां गते नरे । नाशके सर्वपापानां यदि स्नास्यन्ति वारिणि ॥ १६ पावका इव दीप्यन्ते यमुनायां नरोत्तमाः। विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चन्द्रमाः ॥ ३७ आईशुष्कलघुस्थूल वाअनाकर्मभिः कृतम् । तत्र स्नानं दहेत्पापं पावकः समिधो यथा ॥ १८ पामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत् । स्नानमात्रेण नश्येत यमुनायां नृपोत्तम ॥ १९ निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्धताम् । संदेहो नात्र कर्तव्यः स्नाने वै यमुनाजले ४० सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तो यथा नृप । सर्वेषां सर्वदा देवी यमुना पापनाशिका ॥ ४१ एष एव परो मत्र एतच्च परमं तपः । प्रायश्चित्तं परं चैव यमुनास्नानमुत्तमम् ॥ ४२ नृणां जन्मान्तराभ्यासात्कालिन्दीमज्जने मतिः। अध्यात्मज्ञानकोशल्यं जन्माभ्यासायथा नृप ४३ संसारकदेमालेपप्रक्षालनविशारदम् । पावनं पावनानां च यमुनास्नानमुत्तमम् ॥ ४४ स्नातास्तत्र च ये राजन्सर्वकामफलप्रदे । शुभांश्च भुञ्जते भोगांश्चन्द्रसूर्यग्रहोपमान् ॥ ४५ यमुना मोक्षदा प्रोक्ता मथुरासंगता यदि । मथुरायां च कालिन्दी पुण्याधिकविवर्धिनी ॥ ४६ अन्यत्र यमुना पुण्या महापातकहारिणी । विष्णुभक्तिमदा देवी मथुरासंगता भवेत् ॥ १७ भक्तिभावेन संयुक्तः कालिन्यां यदि मज्जयेत् । कल्पकोटिसहस्राणि वसते संनिधौ हरेः॥४८ मुक्ति प्रयान्ति मनुजा नूनं सांग्व्येन वर्जिताः। पितरस्तस्य तृप्यन्ति तृप्ताः कल्पशदिवि ॥४९ ये पिबन्ति नरा राजन्यमुनासलिलं शुभम् । पञ्चगव्यमहौस्तु सेवितः किं प्रयोजनम् ॥ ५० कोटितीर्थसहस्रेस्तु मेवितः किं प्रयोजनम् । तत्र दानं च होमश्च सर्व कोटिगुणं भवेत् ॥ ५१
इति श्रीमहापुराणे पाद्म आदिखण्डे उनत्रिशोऽध्यायः ॥ २९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१५०२
अथ त्रिशोऽध्याय ।
नारद उवाचअत्र ते वर्णयिष्यामि इतिहासं पुरातनं । पुरा कृतयुगे राजनिषधे नगरे वरे ॥ १ आसीद्वैश्यः कुवेराभो नामतो हेमकुण्डलः । कुलीनः सक्रियो देवद्विजपावकपूजकः ॥ २ कृषिवाणिज्यकर्ताऽसो बहुधा क्रयविक्रयी । गोघोटकमहिप्यादिपशुपोषणतत्परः॥ पयोदधीनि तक्राणि गोमयानि तृणानि च । काष्ठानि फलमूलानि लवणार्दादिपिप्पलीम् ॥ ४ धान्यानि शाकतैलानि वस्त्राणि विविधानि च । धातूनिक्षुविकारांश्च विक्रीणीते स सर्वदा ॥५ इत्थं नानाविधैर्वैश्य उपायरपरैस्तथा । उपार्जयामास सदा अष्टो हाटककोटयः॥ ६ एवं महाधनः सोऽथ हाऽऽकर्णपलितोऽभवत् । पश्चाद्विचार्य संसारक्षणिकत्वं स्वचेतसि ॥ ७ तद्धनस्य षडंशेन धर्मकार्य चकार सः । विष्णोरायतनं चक्रे गृहं चक्रे शिवस्य च ॥ तडागं खानयामास विपुलं सागरोपमम् । वाप्यश्च पुष्करिण्यश्च बहुधा तेन कारिताः॥ ९ वटाश्वत्थाम्रककोल्लजम्बूनिम्बादिकाननम् । आरोपितं स्वसत्त्वेन तथा पुष्पवनं शुभम् ॥ १० उदयास्तमनं यावदन्नपानं चकार सः । पुरादहिश्चतुर्दिक्षु प्रपां चक्रेऽतिशोभनाम् ॥ ११ पुराणेषु प्रसिद्धानि यानि दानानि भूपते । ददौ तानि स धर्मात्मा नित्यं दानपरस्तदा ॥ १२ यावज्जांवकृते पापे प्रायश्चित्तमथाकरोत् । देवपूजापरो नित्यं नित्यं चातिथिपूजकः ॥ १३ तस्येत्थं वर्तमानस्य संजातो द्वौ सुतौ नृप । तो सुप्रसिद्धनामानी श्रीकुण्डलविकुण्डली ॥ १४
Page #60
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं -
[ १ आदिखण्डे
५४
१६
१७
१९
२३
२४
ሪ
तयोर्मूर्ध्नि गृहं त्यक्त्वा जगाम तपसे वनम् । तत्राऽऽराध्य परं देवं गाविन्दं वरदं प्रभुम् ।। १५ तपःक्लिष्टशरीरोऽसौ वासुदेवमनाः सदा । प्राप्तः स वैष्णवं लोकं यत्र गत्वा न शोचति ॥ अथ तस्य सुतौ राजन्महामानसुमन्त्रितौ । तरुणौ रूपसंपन्ना धनगर्वेण गविता | दुःशीलो व्यसनासक्तौ धर्मकर्माद्यदर्शकों । न वाक्यं चाऽऽगता मातृवृद्धानां वचनं तथा ।। १८ कुमार्ग दुरात्मानी पितृमित्रनिषेधको अधर्मनिरतो दुष्टौ परदाराभिगामिनी || गीतवादित्रनिरता वीणावेणुविनोदिनी । वारस्त्रीशतसंयुक्ता गायन्तौ चेरतुस्तदा || चाटुकारजनैर्युक्तौ बिम्बोष्ठीषु विशारदौ । सुवेषां चारुवसना चारुचन्दनरूषिता ॥ तथा सुगन्धमाल्यायौ कस्तुरीलक्ष्मलक्षितौ । नानालंकारशी भाज्या मौक्तिका हारहारिणां ॥२२ गजवाजिरथॉन क्रीडन्ता तात्रितस्ततः । मधुपानममायुक्तां परस्त्रीरतिमांहिता ॥ नाशयन्तौ पितृद्रव्यं सहस्रं ददतुः शतम् । तस्थतुः स्वगृह रम्ये नित्यं भोगपरायणौ ॥ इत्थं तु तद्धनं ताभ्यां विनियुक्तममयैः । वारस्त्रीविटशैलमलचारणवन्दिषु || अपात्रे तद्धनं दत्तं क्षिप्तं बीजमिवापरं । न सत्पात्रे च तदृत्तं न ब्राह्मणमुखे हुतम् ।। नार्चितो भूतभृद्विष्णुः सर्वपापप्रणाशनः । उभयोरेव तद्रव्यमचिग्ण क्षयं ययौ ॥ ततस्ताँ दुःखमापन कार्पण्यं परमं गतौ । शोचमानां तुमुद्यन्ता पीडादुःखपीडिता || तयोस्तुनिष्ठता नास्ति यज्यते तदा । स्वजनैवान्धवः सर्वैः सवरूपजीविभिः ॥ द्रव्याभावे परित्यक्तौ चिन्त्यमानौ ततः पुरं । पश्चाचार्य समारब्धं ताभ्यां च नगरे नृप ।। ३० राजती लोकतां भीताँ स्वपुरान्निःसृतौ तदा । चक्रतुर्वनवामं तो सर्वेषामुपपीडिता । जन्नतुः सततं मृढौ शितैर्वाणैर्विषापितः । नानापक्षिवराहांश्च हरिणान्गहितांस्तथा || शशकाञ्शल्लकान्गोधाञ्श्वापदार्थतन्त्रहन | महावला भिसङ्गावाटकभुजां सदा || एवं मांसमयाहारौ पापाहारों परंतप । कदाचिद्र्धरं प्राप्ती ह्येकोऽन्यश्च वनं गतः ॥ शार्दूलेन हतो ज्येष्ठः कनिष्ठः सर्पदंशितः । एकस्मिन्दिवसे राजन्पापिष्ठां निधनं गतौ ॥ यमदूतस्ततो बद्ध्वा पाशैनीता यमालयम् । गत्वाऽभिजगदुः सर्वे ते इताः पापिनावुभा ।। ३६ धर्मराज नरवेतावानीता तव शासनात् । आज्ञां देहि स्वभृत्येषु प्रसीद करवाम किम् || आलोच्य चित्रगुप्तेन तदा दृताञ्जगौ यमः । एकस्तु नीयतां वीर निरयं तीव्रवेदनम् || अपरः स्थाप्यतां स्वर्गे यत्र भांगा अनुत्तमाः । कृतान्ताज्ञां ततः श्रुत्वा दुतश्व क्षिप्रकारिभिः ३९ निक्षिप्तो रोरवे घोरे यो ज्येष्ठां हि नराधिप । तेषां दृतवरः कश्चिदुवाच मधुरं वचः ।। ४० विकुण्डल मया सार्धमेहि स्वर्ग ददामि ते । भुव भांगात्सुदिव्यांस्त्वमर्जितान्स्वेन कर्मणा ४४
२९
३१
३५
३७ ३८
इति श्रीमहापुराणे पान आदिखण्डे त्रिशोऽध्यायः ॥ ३० ॥ आदितः लोकानां समश्यङ्काः -- १०४३ अथैकविशोऽध्यायः ।
नारद उवाच --
ततो हृष्टमनाः सोऽथ दतं पप्रच्छ तं पथि । संदेहं हृदि कृत्वा तु विस्मयं परमं गतः ।। बिचारयन्हृदि स्वर्गः कस्य हेतोः फलं मम ।।
१ . ब. र्मादिक । २ ट. 'क्ती विटगोष्टीवि' । ३ ख. स. प. विडालकान । ना ।
ܘ
ܕ:
२६
२७
३२
33
३४
Page #61
--------------------------------------------------------------------------
________________
o
३१ एकत्रिंशोऽध्यायः ]
पद्मपुराणम् । विकुण्डल उवाचहे दूतवर पृच्छामि संशयं त्वामहं परम् । आवां जातो कुले तुल्ये तुल्यं कर्म तथा कृतम् ॥ २ दुर्मन्युरपि तुल्योऽभूत्तुल्यो दृष्टो यमस्तथा । कथं स नरके क्षिप्तस्तुल्यकर्मा ममाग्रजः ॥ ३ ममाभवत्कथं नाकमिति मे छिन्धि संशयम् । देवदून न पश्यामि मम स्वर्गस्य कारणम् ॥ १
देवदूत उवाचमाता पिता सुतो जाया स्वमा भ्राता विकुण्डल । जन्महनोरियं संज्ञा जन्तोः कर्मोपभुक्तये॥५ एकस्मिन्पादपे यद्वच्छकुनानां ममागमः । यद्यत्ममीहितं कर्म कुरुते पूर्वभावितः ॥ ६ नस्य तस्य फलं भुने कर्मणः पुरुषः सदा । सत्यं वदामि ने प्रीत्या नरैः कर्म शुभाशुभम् ॥ ७ स्वकृतं भुज्यते वेश्य काले काले पुनः पुनः । एकः करोति कर्माणि एकस्तत्फलमभुते ॥ ८ अन्यो न लिप्यने वैश्य कर्मणाऽन्यस्य कुत्रचिन् । अपतन्नरके पापैस्तव भ्राता सुदारुणैः ॥ त्वं च धर्मण धर्मज्ञ स्वर्ग प्रामापि शाश्वतम् ।।
विकुण्डल उवाचआवाल्यान्मम पापेषु न पुण्य पु ग्तं मनः । अस्मिञ्जन्मनि हे दून दुप्कृतं हि कृतं मया ॥ १० देवदत न जानामि सुकृतं कर्म चाऽऽन्मनः । यदि जानासि मत्पुण्यं तन्मे त्वं कृपया वद ॥ ११
देवदूत उवाचशृणु वैश्य प्रवक्ष्यामि यच्चया पुण्यमजिनम् । जानामि तदहं सर्व न त्वं वेन्सि सुनिश्चितम् ॥१२ हर्गिमत्रसुतो विप्रः स्वमित्रों वेदपारगः । आमीनम्याऽऽश्रमः पुण्यो यमुनादक्षिणे तटे ॥ १३ नेन मग्न्यं वनं तस्मिंस्तव जातं विशां वर । तन्मङ्गन त्वया स्नानं माघमासद्वयं तथा ॥ १४ कालिन्दीपुण्यपानीय मर्वपापहरं वरं । नत्तीर्थे लोकविख्याने नाम्ना पापप्रणाशने ॥ १५ एकंन सर्वपापेभ्यो विमुक्तम्त्वं विशांपते । द्वितीय माघपुण्येन प्राप्तः स्वर्गस्त्वयाऽनघ ॥ १६ त्वं तत्पुण्यप्रभावन भादस्व सततं दिपि । नरकपु नव भ्राता महतीं नाम यातनाम् ॥ १७ छिद्यमानोऽमिपत्रंश्च भिद्यमानन्तु मुद्गरैः । चूर्ण्यमानः शिलापृष्ठं नामाङ्गारेषु भर्जितः ॥ १८ इति दुतवचः श्रुत्वा भ्रातृदुःवन दुःखितः । पुलकाङ्किनसर्वाङ्गो दीनोऽसौ विनयान्वितः ।। १९ उवाच नं देवदृतं मधुरं निपुणं वचः । मंत्री सप्तपदी साधो मतां भवनि सन्फला ॥ २० मित्रभावं विचिन्त्य त्वं मामुपाकर्तुमर्हसि । त्वत्ता हि श्रोतुमिच्छामि मर्वज्ञस्त्वं मतो मम ॥ २१ यमलोकं न पश्यन्ति कर्मणा केन मानवाः । गच्छन्ति निरयं येन तन्मे त्वं कृपया वद ॥ २२
देवदृत उवाचसम्यक्पृष्टं त्वया वैश्य नष्पापोऽसि साम्पतम् । विशुद्ध हृदय पुंसां बुद्धिः श्रेयसि जायते ॥२३ यद्यप्यवसगे नास्ति मम संवापरस्य वै । तथाऽपि च तव स्नहात्प्रवक्ष्यामि यथामति ॥ २४ कर्मणा मनमा वाचा सर्वावस्थासु मर्वदा । परपीडां न कुर्वन्ति न ते यान्ति यमालयम् ॥ २५ न बंदर्न च दानश्च न तपोभिन चाध्वरैः । कचित्स्वर्गति यान्ति पुरुषाः प्राणिहिंसकाः ॥ २६ अहिंसा परमो धर्मो ह्याहिमेव परं तपः । अहिंमा परमं दानमित्याहुर्मुनयः सदा ॥ २७ मशकान्सरीसृपान्देशान्यूकाद्यान्मानवांस्तथा । आत्मौपम्येन पश्यन्ति मानवा ये दयालकः॥२८ तप्ताङ्गारमयस्कीलं मादं प्रेततरङ्गिणीम् । दुर्गतिं नैव गच्छन्ति कृतान्तस्य च ते नराः॥ २९
१ क. 'मः । योऽपापो यो हि यत्कर्म ।
Page #62
--------------------------------------------------------------------------
________________
५६
महामुनिश्रीव्यासप्रणीतं -
[ १ आदिखण्डे
३५
३८
४०
४२
४३
भूतानि येऽत्र हिंसन्ति जलस्थलचराणि च । जीवनार्थं च ते यान्ति कालसूत्रं च दुर्गतिम् ॥ ३० श्वमांसभोजनास्तत्र पूयशोणितपायिनः । मज्जन्तश्च वसापङ्के दष्टाः कीटैरधोमुखैः ।। ३१ परस्परं च खादन्तो ध्वान्ते चान्योन्यघातिनः । वसन्ति कल्पानेकांस्ते रुदन्तो दारुणं रवम् ।। ३२ नरकान्निःसृता वैश्य स्थावराः स्युश्चिरं तु ते । ततो गच्छन्ति ते क्रूरास्तिर्यग्योनिशतेषु च ।। ३३ पश्चाद्भवन्ति जातान्धाः काणाः कुब्नाश्च पङ्गवः । दरिद्राश्वाङ्गहीनाश्च मानुषाः प्राणिहिंसकाः ३४ तस्माद्वैश्य परत्रेह कर्मणा मनसा गिरा । लोकद्वयसुखप्रेप्सुर्धर्मज्ञो न तदाचरेत् ॥ लोकद्वये न विन्दन्ति सुखानि प्राणिहिंसकाः । ये न हिंसन्ति भूतानि न ते विभ्यति कुत्रचित् ३६ प्रविशन्ति यथा नद्यः समुद्रमृजुवक्रयाः । सर्वे धर्मा अहिंसायां प्रविशन्ति तथा दृढम् ॥ ३७ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । अभयं येन भूतेभ्यो दत्तमत्र विशां वर । ये नियोगांश्च शास्त्रोक्तान्धर्माधर्मविमिश्रितान् । पालयन्तीह ये वैश्य न ते यान्ति यमालयम् ।। ३९ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । स्वधर्मनिरताः सर्वे नाकपृष्ठे वसन्ति ते ॥ यथोक्तचारिणः सर्वे वर्णाश्रमसमन्विताः । नरा जितेन्द्रिया यान्ति ब्रह्मलोकं तु शाश्वतम् ||४१ इष्टापूर्तरता ये च पञ्चयज्ञरताश्च ये । दयान्विताश्च ये नित्यं नेक्षन्ते ते यमालयम् ॥ इन्द्रियार्थनिवृत्ता ये समर्था वेदवादिनः । अग्निपूजारता नित्यं ते विप्राः स्वर्गगामिनः ॥ अदीनवदनाः शूराः शत्रुभिः परिवेष्टिताः । आहवेषु त्रिपन्ना ये तेषां मार्गो दिवाकरः ॥ अनाथस्त्रीद्विजार्थे च शरणागतपालने । प्राणांस्त्यजन्ति ये वैश्य न व्यवन्ति दिवस्तु ते ।। ४५ पङ्ग्बन्धबालवृद्धांश्च रोग्यनाथदरिद्रितान् । ये पुष्णन्ति सदा वैश्य ते मोदन्ते सदा दिवि ॥४६ गां दृष्ट्वा पङ्कनिर्मग्नां रोगमनं द्विजं तथा । उद्धरन्ति नरा ये च तेषां लोकोऽश्वमेधिनाम् ॥ ४७ गोग्रासं ये प्रयच्छन्ति ये शुश्रूषन्ति गाः सदा । ये नाऽऽरोहन्ति गोपृष्ठे ते स्वर्लोकनिवासिनः ४८ गर्तमात्रं तु ये चकुर्यत्र गौरतृषा भवेत् । यमलोकमहद्वैव ते यान्ति स्वर्गतिं नराः ॥ ४९ अग्निपूजादेवपूजागुरुपूजार ताश्च ये । द्विजपूजारता नित्यं ते विप्राः स्वर्गगामिनः ॥ वापीकूपतडागादौ धर्मस्यान्तो न विद्यते । पिवन्ति स्वच्छया यत्र जलस्थलचराः सदा ।। ५१ नित्यं दानपरः सोऽत्र कथ्यते विबुधैरपि । यथा यथा च पानीयं पिवन्ति प्राणिनो भृशम् ॥ ५२ तथा तथाऽक्षयः स्वर्गो धर्मबुद्धया विशां वर । प्राणिनां जीवनं वारि प्राणा वारिणि संस्थिताः५३ तित्यस्नानेन पूयन्ते येऽपि पातकिनी नराः । प्रातः स्नानं हरेद्वेश्य बाह्याभ्यन्तरजं मलम् ।। ५४ प्रातः स्नानेन निष्पापो नरो न निरयं व्रजेत् । स्नानं विना तु यो भुझे मलाशी स सदा नरः५५ अस्नायी यो नरस्तस्य विमुखाः पितृदेवताः । स्नानहीनां नरः पापः स्नानहीनो नरोऽशुचिः ॥ अस्नायी नरकं भुक्त्वा पुंस्कीटादिषु जायते ॥
४४
५०
५६
ये पुनः स्रोतसि स्नानमाचरन्तीह पर्वणि । ते नैव नरकं यान्ति न जायन्ते कुयोनिषु ॥ ५७ दुःस्वमा दुष्टचिन्ताश्च वन्ध्या भवन्ति सर्वदा । प्रातः स्नानेन शुद्धानां पुरुषाणां विशां वर ।।५८ तिलांश्च तिलपात्रं च तिलमस्थं यथाविधि । दत्त्वा प्रेतेपतेर्भूमौ न व्रजन्ति नराः कचित् ॥ ५९ पृथिवीं काञ्चनं गां च दत्त्वा दानानि षोडश । गत्वा न विनिवर्तन्ते स्वर्गलोकाद्विकुण्डल || ६० पुण्यासु तिथिषु प्राज्ञो व्यतीपाते च संक्रमे । स्नात्वा दत्त्वा च यत्किंचिन्नैव मज्जति दुर्गतौ ।। ६१
१ ख. ञ. म् । कृमियोनिशतं गत्वा स्था । २ क. 'यी नांप्रतस्त ं । ३ ख ज पुष्कसादिषु । ८. पुरीषादिषु । ४८. 'तगतिं भूयो न ।
Page #63
--------------------------------------------------------------------------
________________
३१ एकत्रिंशोऽध्यायः ]
पद्मपुराणम् । नैवाऽऽक्रामन्ति दातारो दारुणं रौरवं पथम् । इह लोके न जायन्ते कुले धनविवर्जिते ॥ ६२ सत्यवादी सदामोनी प्रियवादी च यो नरः । अक्रोधनः समाचारो नातिवाद्यनसूयकः ॥ ६१ सदा दाक्षिण्यसंपन्नः सदा भूतदयान्वितः । गोप्ता च परमर्माणां वक्ता परगुणस्य च ॥ ६४ परस्वं तृणमात्रं च मनसाऽपि न यो हरेत् । न पश्यन्ति विशां श्रेष्ठ येते नरकयातनाम् ॥ ६५ परापवादी पाखण्डः पापेभ्योऽपि मतोऽधिकः । पच्यते नरके तावद्यावदाभूतसंप्लवम् ॥ ६६ वक्ता परुषवाक्याना मन्तव्यो नरकागतः । संदेहो न विशां श्रेष्ठ पुनर्याति च दुर्गतिम् ॥ ६७ न तीथेने तपोभिश्च कृतघ्नस्य च निष्कृतिः। सहते यातनां घोरां स नरो नरके चिरम् ॥ ६८ पृथिव्यां यानि तीर्थानि तेषु मज्जति यो नरः । जितेन्द्रियो जिताहारो न स याति यमालयम्६९ न तीर्थे पातकं कुयोन च तीर्थोपजीवनम् । तीर्थे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः ॥७० दुर्जरं पातकं तीर्थे दुर्जरश्च प्रतिग्रहः। तीर्थे च दुर्जरं सर्वमेतत्किनरकं व्रजेत् ॥ सकृद्गगाभसि स्नातः पूतो गाङ्गेयवारिणा । न नरो नरकं याति अपि पातकराशिकृत् ॥ ७२ व्रतदानतपोयज्ञाः पवित्राणीतराणि च । गङ्गाविन्द्वभिषिक्तस्य न समा इति नः श्रुतम् ॥ ७३ अन्यतीर्थसमां गङ्गां यो ब्रवीति नराधमः । म याति नरकं वैश्य दारुणं रौरवं महत् ॥ ७४ धर्मद्रवं झपां वीजं वैकुण्ठचरणच्युतम् । धृतं मूर्ति महेशेन यद्गाङ्गममलं जलम् ॥ तब्रह्मैव न संदेहो निर्गुणं प्रकृतेः परम् । तेन किं समतां गच्छेदपि ब्रह्माण्डगोचरे ।। गङ्गा गङ्गेति यो ब्रूयायोजनानां शनैरपि । नरो न नरकं याति किं तया सदृशं भवेत् ॥ ७७ नान्येन दह्यते सद्यः क्रिया नरकदायिनी । गङ्गाम्भसि प्रयत्नेन स्नातव्यं तेन मानवैः॥ ७८ प्रतिग्रहनिवृत्तो यः प्रतिग्रहक्षमोऽपि सन् । म द्विजो द्योतते वैश्य तारारूपश्चिरं दिवि ॥ ७९ गामुद्धरन्ति ये पङ्काये रक्षन्ति च रोगिणः । म्रियन्ते गीगृहे ये च तेषां नमसि तारकाः॥८० यमलोकं न पश्यन्ति प्राणायामपरायणाः । अपि दुष्कृतकर्माणस्तरेव हतकिल्विषाः॥ ८१ दिवसे दिवसे वैश्य प्राणायामास्तु पोडश । अपि ब्रह्महणं माक्षात्पुनन्त्यहरहः कृताः॥ ८२ तपांमि पानि तप्यन्ते व्रतानि नियमाश्च ये । गोमहस्रपदानं च प्राणायामस्तु तत्समः॥ ८१ अबिन्दुं यः कुशाग्रेण मासे मासे नरः पिवेत् । संवत्सरशतं मागं प्राणायामस्तु तत्समः ॥ ८४ पातकं तु महद्यच्च तथा क्षुद्रोपपातकम् । प्राणायामैः क्षणान्सर्व भस्मसात्कुरुते नरः॥ ८५ मातृवत्परदारान्ये मन्यन्ते वै नरोत्तमाः । न ते यान्ति नरश्रेष्ठ कदाचिद्यमयातनाम् ॥ ८६ मनसाऽपि परेषां यः कलत्राणि न सेवते । सह लोकदयेनास्ति तेन वैश्य धरा धृता ॥ ८७ तस्माद्धान्वितैस्त्याज्यं परदारोपसेवनम् । नयन्ति परदारास्तु नरकानेकविंशतिम् ॥ ८८ लाभो न जायते येषां परदारेषु मानसे । ते यान्ति देवलोकं तु न यमं वैश्यसत्तम ॥ ८९ शश्वत्क्रोधनिदानेषु यः क्रोधेन न जीयते । जितस्वर्गः स मन्तव्यः पुरुषोऽक्रोधनो भुवि ॥९० मातरं पितरं पुत्र आराधयति देववत । अप्राप्ते वार्धके काले न याति च यमालयम् ॥ ९१ पितुश्चाधिकभावेन येऽर्चयन्ति गुरुं नराः। भवन्त्यतिथयो लोके ब्रह्मणस्ते विशां वर ॥ ९२ इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात् । शीलभङ्गे च नारीणां यमलोकः सुदारुणः ॥९३ शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसाविवर्जनात । शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः॥९४ शद्रस्य पाकयज्ञेन निषिद्धाचरणेन च । दुर्गतिर्विहिता वैश्य तस्य सा नारकी गतिः॥ ९५
१८. भातृहण ।
Page #64
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासमणीवं
[ १ आदिखण्डेविचारयन्ति ये शास्त्र वेदाभ्यासरताच ये । पुराण संहितां ये च श्रावयन्ति पठन्ति च ॥ ९६ व्याकुर्वन्ति स्मृतिं ये च ये धर्मप्रतिबोधकाः । वेदान्तेषु निषण्णा ये तैरियं जगती धृता ॥ ९७ सत्तदभ्यासमाहात्म्यैः सर्वे ते हतकिल्विषाः । गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते।।९८ ज्ञानमहाय यो दद्याद्वेदशास्त्रसमुद्भवम् । अपि वेदास्तमर्चन्ति भवबन्धविदारणम् ॥ ९९ श्रूयतामद्भुतं ह्येतद्रहस्यं वैश्यसत्तम । संमतं धर्मराजस्य सर्वलोकामृतपदम् ॥ १०० न यमं यमलोकंच ने भूतान्योरदर्शनान् । पश्यन्ति वैष्णवा नूनं सत्यं सत्यं मयोदितम् ॥१०१ पाहास्मान्यमुनाभ्राता सदैव हि पुनः पुनः। भवद्भिवैष्णवास्त्याज्या न ते स्युर्मम गोचराः॥ १०२ स्मरन्ति ये सकृद्भूताः प्रसङ्गेनापि केशवम्।ते विध्वस्ताखिलापौघा यान्ति विष्णोः परं पदम् ॥१०३ दुराचारो दुष्कृतोऽपि सदाचाररतोऽपि यः। भवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः॥१०४ वैष्णवो यन्हे भुक्ते येषां वैष्णवसंगतिः। तेऽपि वः परिवार्याः स्युस्तत्सङ्गहतकिल्बिषाः ॥१०५ इत्यं वैश्यानुशास्त्यस्मान्देवो दण्डधरः सदा। अतो नो वैष्णवा यान्ति राजधानी यमस्य तु ॥ १०६ विष्णुभक्तिं विना नणां पापिष्टानां विशां वर। उपायो नास्ति नास्त्यन्यःसंततु नरकाम्बुधिम् १०७ श्वपाकमपि नेक्षेत लोकेष्टं वैश्य वैष्णवम् । वैष्णवो वर्णबाह्योऽपि पुनाति भुवनत्रयम् ॥ १०८
एतावताऽलमघनिर्हरणाय पुंमां संकीर्तनं भगवतो गुणकर्मनाम्नाम् ।
विक्रुश्य पुत्रमघवान्यदजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ॥१०९ नरके तु चिरं मग्नाः पूर्वे ये च कुलद्वये । तदैव यान्ति ते स्वर्ग यदाऽर्चन्ति मुदा हरिम् ॥ ११० विष्णुभक्तस्य ये दासा वैष्णवानभुजश्च ये । ते तु क्रतुभुजां वैश्य गतिं यान्ति निराकुलाः ॥१११ प्रार्थयेद्वेष्णवस्यान्नं प्रयत्नेन विचक्षणः । सर्वपापविशुद्ध्यर्थ तदभावे जलं पिबेत ॥ ११२ गोविन्देति जपन्मन्नं कुत्रचिन्त्रियते यदि । स नरो न यमं पश्येत्तं च नक्षामहे वयम् ॥ ११३ साङ्गं समुद्रं सध्यानं सऋषिच्छन्ददैवतम् । दीक्षया विधिवन्मत्रं जपेद्वै द्वादशाक्षरम् ॥ ११४ अष्टाक्षरेण मत्रेण ये जपन्ति नरोत्तमाः। तान्दृष्ट्वा ब्रह्महा शुध्येद्वाजते विष्णुवत्स्वयम् ॥ ११५ शनिश्चक्रिणो भूत्वा ब्रह्माभ्यन्तरगामिनः । वसन्ति वैष्णवे लोके विष्णुरूपेण ते नराः॥११६ हृदि सूर्ये जले वाऽथ प्रतिमास्थण्डिलेऽपि च । समभ्यर्च्य हरिं यान्ति नरास्तद्वैष्णवं पदम् ॥११७ अथवा सर्वदा पूज्यो वासुदेवो मुमुक्षुभिः । शालग्रामे मणी चक्र वज्रकीटविनिर्मिते ॥ ११८ अधिष्ठानं हि तद्विष्णोः सर्वपापप्रणाशनम् । सर्वपुण्यप्रदं वैश्य सर्वेषामपि मुक्तिदम् ॥ ११९ यः पूजयेद्धरिं चक्रे शालग्रामशिलोद्भवे । राजसूयसहस्रेण तनष्टं प्रतिवासरे ॥ १२० सदा नमन्ति वेदान्ता ब्रह्म निर्वाणमच्युतम् । तत्प्रसादो भवेन्नृणां शालग्रामशिलार्चनात्।। १२१ महाकाष्ठस्थितो बहिर्मुखस्थाने प्रकाशते । यथा तथा हरिर्व्यापी शालग्रामे प्रकाशते ॥ १२२ अपि पापसमाचाराः कर्मण्यनधिकारिणः। शालग्रामार्चका वैश्य नैव यान्ति यमालयम् ॥ १२३ न तथा रमते लक्ष्म्यां न तथा स्वपुरे हरिः। शालग्रामशिलाचक्र यथा स रमते सदा ॥ १२४ अमिहोत्रं कृतं तेन दत्ता पृथ्वी ससागरा । येनार्चितो हरिश्चक्रे शालग्रामशिलोद्भवे ॥ १२५ शिला द्वादश भो वैश्य शालग्रामशिलोद्भवाः । विधिवत्पूजिता येन तस्य पुण्यं वदामि ते १२६ कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः । यत्स्यावादशकालेषु दिननैकेन तद्भवेत् ॥ १२७ यः पुनः पूजयेद्भक्त्या शालग्रामशिलांशतम् । उषित्वा स हरेर्लोके चक्रवर्तीह जायते ॥ १२८
१ स. ज. न दूता। २ स. अ. 'लातलम् ।
Page #65
--------------------------------------------------------------------------
________________
३१ एकत्रिंशोऽध्यायः ] पद्मपुराणम् । कामैः क्रोधैः प्रलोभैश्च व्याप्तो योऽत्र नराधमः । सोऽपि याति हरेर्लोक शालग्रामशिलार्चनात्१२९ यः पूजयेच्च गोविन्दं शालग्रामे मुदा नरः । आभूतसंप्लवं यावन स प्रच्यवते दिवः ॥ १३० विना तीर्थेविना दानविना यज्ञैविना मंतिम् । मुक्तिं याम्ति नरा वैश्य शालग्रामाशलार्चनात् १३१ नरकं गर्भवासं च तिर्यक्त्वं कृमियोनिताम् । न याति वैश्य पापोऽपि शालग्रामशिलार्चकः १३२ दीक्षाविधानमत्रज्ञो यश्चक्रे बलिमाहरेत् । गङ्गागोदावरीरेवा नद्यो मुक्तिमदाश्च याः॥ निवसन्तीह ताः सर्वाः शालग्रामशिलाजले ॥ नैवेद्यविविधैः पुष्पधूपदीपैविलेपनैः ।। गीतवादित्रस्तोत्राद्यैः शालग्रामशिलार्चनम् ॥ १३४ कुरुते मानवो यस्तु कलौ भक्तिपरायणः । कल्पकोटिसहस्राणि रमते संनिधौ हरेः॥ १३५ लिङ्गैस्तु कोटिभिर्यत्फलं पूजितैस्तुतैः । शालग्रामशिलायास्तु टेकेनाहा ह तत्फलम् ॥ १३६ सदभ्यचित लिङ्गे शालग्रामधिलोद्भवे । मुक्तिं प्रयान्ति मनुजा नूनं सांख्येन वर्जिताः॥१३७ शालग्रामशिलारूपी यत्र तिष्ठति केशवः । तत्र देवाः सुरा यक्षा भुवनानि चतुर्दश ॥ १३८ शालग्रामशिलायां तु यः श्राद्धं कुरुते नरः । पितरस्तस्य तिष्ठन्ति तृप्ताः कल्पशप्तं दिवि॥ १३९ ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् । पञ्चगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम् ॥१४० कोटितीर्थसहस्रेस्तु सेवितैः किं प्रयोजनं । तोयं यदि पिवेत्पुण्यं शालग्रामशिलाङ्गजम् ॥ १४१ शालग्रामशिला यत्र तत्तीर्थ योजनत्रयम् । तत्र दानं च होमं च सर्व कोटिगुणं भवेत् ॥ १४२ शालग्रामशिलातोयं यः पिवेद्विन्दुना समम् ॥ मातृस्तन्यं पुनर्नव स पिवद्विष्णुभानरः॥ १४३ शालग्रामसमीपे तु कोशमात्रं समन्ततः । कीटकोऽपि मृतो याति वैकुण्ठं भुवनं परम् ॥ १४४ शालग्रामशिलाचक्रं यो दद्यादानमुत्तमम् । भूचक्रं तन दत्तं स्यात्सशैलवनकाननम् ॥ १४५ शालग्रामशिलाया यो मूल्यमुत्पादयनरः। विक्रेता चानुमन्ता यः परीक्षासु च मोदते ॥ १४६ ते सर्वे नरकं यान्ति यावदाभतसंप्लवम् । अतस्तं वर्जयेद्वेश्य चक्रस्य क्रयविक्रयम् ॥ १४७ बहुनोक्तेन किं वैश्य कर्तव्यं पापभीरुणा । स्मरणं वासुदेवस्य सर्वपापहरं हरेः॥ १४८ तपस्तप्त्वा नरो घोरमरण्ये नियतेन्द्रियः॥ यत्फलं समवामोति तन्नत्वा गरुडध्वजम् ॥ १४९ कृत्वाऽपि बहुशः पापं नरा मोहसमन्विनः । न याति नरकं नत्वा सर्वपापहरं हरिं ॥ १५० पृथिव्यां यानि तीथानि पुण्यान्यायतनानि च । तानि मर्वाण्यवानोति विष्णोर्नामानुकीर्जनात् १५१ देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणाः। न तेषां यमसालोक्यं न ते स्युर्नरकोकमः॥ १५२ वेपणवः पुरुषो वेश्य शिवनिन्दा करोति यः। न विन्देवैष्णवं लोकं स याति नरकं महत् १५३ उपोष्यैकादशीमेकां प्रसङ्गनापि मानवः । न याति यातनां यामीमिति लोमशतः श्रुतम् ॥ १५४ नेदृशं पावनं किंचित्रिषु लोकेषु विद्यते । उभयं पद्मनाभस्य दिनं पातकनाशनम् ।। १५५ तावत्पापानि देहेऽस्मिन्वसन्तीह विशां वर । यावन्नोपवसेज्जन्तुः पद्मनाभदिनं शुभम् ।। १५६ अश्वमेधसहस्राणि राजस्यशतानि च । एकादश्युपवासस्य कलां नाईन्ति पोडशीम् ॥ १५७ एकादशेन्द्रियैः पापं यत्कृतं वैश्य मानवैः । एकादश्युपवासेन तत्सर्वं क्लियं व्रजेत् ॥ १५८ एकादशीसमं किंचित्पुण्यं लोके न विद्यते । व्याजेनापि कृता यैस्तु वशं यान्ति न भास्करेः१५९ स्वर्गमोक्षपदा ह्येषा शरीरारोग्यदायिनी । सुकलत्रपदा ह्येषा जीवत्पुत्रप्रदायिनी ॥ १६० न गङ्गा न गया वैश्य न काशी न च पुष्करम् । न चापि वैष्णवं क्षेत्रं तुल्यं हरिदिनेन तु॥१६१
१ ख. अ. व्रतैः । २ ख. ज 'मामेति लोकं स वैष्णवम् ।
Page #66
--------------------------------------------------------------------------
________________
१६३
महामुनिश्रीव्यासप्रणीतं
[१ आदिखण्डेयमुना चन्द्रभागा न तुल्या हरिदिनेन तु । अनायासेन येनात्र प्राप्यते वैष्णवं पदम् ॥ १६२ रात्रौ नागरणं कृत्वा समुपोप्य हरेर्दिने । दश वै पैतृके पक्षे मातृके दश पूर्वजाः॥ भियाया दश ये वैश्य तानुद्धरति निश्चितम् ॥ द्वंद्वसङ्गं परित्यक्त्वा नागारिकृतकेतनाः । स्रग्विणः पीतवसनाः प्रयान्ति हरिमन्दिरम् ॥ १६४ बालत्वे यौवने वाऽपि वार्धके वा विशां वर । उपोप्यैकादशीं नृनं नैति पापोऽतिदुर्गतिम् १६५ उपोप्येह त्रिरात्राणि कृत्वा वा तीर्थमज्जनम् । दत्त्वा हेमतिलान्गाश्च स्वर्ग यान्तीह मानवाः१६६ तीर्ये स्नान्ति न ये वैश्य न दत्तं काश्चनं च यः। नैव तप्तं तपः किंचित्ते स्युः सर्वत्र दुःखिताः१६७ संक्षिप्य कथितं धर्म नरकस्य निरूपणम् । अद्रोहः सर्वभूतंपु वाङ्मनःकायकर्मभिः ॥ १६८ इन्द्रियाणां निरोधश्च दानं च हरिसेवनम् । वर्णाश्रमक्रियाणां च पालनं विधितः सदा ॥१६९ स्वर्गार्थी सर्वदा वैश्य तपो दानं न कीर्तयेत् । यथाशक्ति तथा दद्यादात्मनो हितकाम्यया १७० उपानद्वस्त्रदत्तानि पत्रं मूलं फलं जलम् । अवन्ध्यं दिवसं कार्य दरिद्रणापि वेश्यक ॥ १७१ इह लोके परे चैव न दत्तं नापतिष्ठते । दातारो नेव पश्यन्ति तां तां वे यमयातनाम् ॥ दीर्घायुषो धनाढ्याश्च भवन्तीह पुनः पुनः॥ किमत्र बहुनोक्तेन यान्त्यधर्मेण दुर्गतिम् । आरोहन्ति दिवं धर्मेनराः सर्वत्र सर्वदा ॥ १७३ तेन पालत्वमारभ्य कर्तव्यो धर्मसंग्रहः । इति ते कथितं सर्व किमन्यच्छ्रोतुमिच्छास ॥ १७४
वैश्य उवाचश्रुत्वा त्वद्वचनं सौम्य प्रसन्नं चित्तमेव मे । गङ्गादं पापहं सद्यः पापहारि सतां वचः॥ १७५ उपकर्तुं प्रियं वक्तुं गुणो नैसर्गिकः सताम् । शीतांशुः क्रियते केन शीतलोऽमृतमण्डलः ॥ १७६ देवदूत ततो ब्रूहि कारुण्यान्मम पृच्छतः । नरकानिप्कृतिः सद्यो भ्रातुर्मे जायते कथम् ॥१७७ इति तस्य वचः श्रुत्वा देवदूतो जगाद ह । ध्यानं दृष्ट्वा क्षणं ध्यात्वा तन्मैत्रीरज्जुबन्धनः।।१७८ यत्ते वैश्याष्टमे पुण्यं त्वया जन्मनि संचितम् । तद्धात्र दीयतां सर्व स्वर्ग तस्य यदीच्छसि ॥१७९
विकुण्डल उवाचकिं तत्पुण्यं कथं जातं किं जन्म च पुरातनम् । तत्सर्व कथ्यतां दूत ततो दास्यामि सत्वरम् १८०
देवदूत उवाचभृणु वैश्य प्रवक्ष्यामि तत्पुण्यं च सहेतुकम् । पुरा मधुवने पुण्य ऋपिरासीच शाकुनिः ॥ १८१ तपोध्यपनसंपन्नस्तंजसा ब्रह्मणा समः । जज्ञिरे तस्य रेवत्यां नव पुत्रा ग्रहा इव ॥ १८२ ध्रुवः शाली बुधस्तारो ज्योतिप्मानुत पञ्चमः । अग्निहोत्ररता ह्यते गृहधर्मेपु रेमिरे ॥ १८३ निर्मोहो जितकामश्च ध्यानकाष्ठो गुणाधिकः। एतं गृहविरक्ताश्च चत्वारा द्विजसूनवः ॥ १८४ चतुर्थाश्रममापन्नाः सर्वकामविनिस्पृहाः । ग्रामकवासिनः सर्वे निःसङ्गा निष्परिग्रहाः॥ १४५ निराशा निष्पयत्नाश्च समलोष्टाश्मकाञ्चनाः। येन केनचिदाच्छन्ना येन केनचिदासि(शि)ताः १८६ सायंगृहास्तथा नित्यं नित्यं ध्यानपरायणाः । जितनिद्रा जिताहारा वातशीतसहिष्णवः ॥ १८७ पश्वन्तो विष्णुरूपेण जगत्मने चराचरम् । चरन्ति लीलया पृथ्वी तेऽन्योन्यं मानमास्थिताः१८८ न कुर्वन्ति क्रियां कांचिदर्थमात्रं हि योगिनः । दृष्टज्ञाना असंदहाश्चिद्विकारविशारदाः ॥ १८९ एवं ते तव विप्रस्य पूर्वमष्टमजन्मनि । तिष्ठता मध्यदेशेषु पुत्रदारकुटुम्बिनः ॥ १९०
१ ट. 'त्वा अब्रवीद्वाक्यमुत्तमम् । य । २ ख. अ. 'नकोशा गु। ३ ट. 'दल्पमा ।
Page #67
--------------------------------------------------------------------------
________________
३२ द्वात्रिंशोऽध्यायः ]
पद्मपुराणम् ।
६१
१९१
१९२
गेहं तावकमाजग्मुर्मध्याह्ने क्षुत्पिपासिताः । वैश्वदेवान्तरे काले त्वया दृष्टा गृहाङ्गणे ।। सगद्गदं माश्रुनेत्रं सहर्षं च ससंभ्रमम् । दण्डवत्प्रणिपातेन बहुमानपुरःसरम् || प्रणम्य चरणैर्मूर्ध्ना कृत्वा पाणियुगाञ्जलिम् । तदाऽभिनन्दिताः सर्वे त्वया सूतृतया गिरा ।। १९३ अद्य मे सफलं जन्म जीवितं सफलं तथा । अद्य विष्णुः प्रसन्नो मे सनाथोऽथास्मि पावनः १९४ धन्योऽस्य गृहं धन्यं धन्या अग्र कुटुम्बिनः । ममाद्य पितरो धन्या धन्या गावः श्रुतं धनम् ॥ यदृष्टौ भवतां पादौ तापत्रयहरौ मया । भवतां दर्शनं यस्माद्धन्यस्यैव हरेरिव ॥ १९६ एवं संपूज्य कृत्वा तु पादप्रक्षालनं तथा । धृतं मूर्ध्नि विशां श्रेष्ठ श्रद्धया परया तदा ॥ १९७ यत्र पादोदकं वैश्य श्रद्धया शिरमा धृतम् । गन्धपुष्पाक्षतैर्धूपैदीपैर्भावपुरःसरम् ।। १९८ संपूज्य सुन्दरानेन भोजिता यतयस्तथा । तृप्ताः परमहंसास्ते विश्रान्ता मन्दिरे निशि ।। १९९ ध्यायन्तश्च परं ब्रह्म यज्ज्योतिर्ज्योतिषां मतम् । तेषामातिथ्यजं पुण्यं जातं यते विशां वर । २०० न तद्वक्त्रसहस्त्रेण वक्तुं शक्नोम्यहं खलु । भूतानां प्राणिनः श्रेष्ठाः प्राणिनां मतिजीविनः ॥ मतिमत्सु नराः श्रेष्ठा नरेषु ब्रह्मजातयः ॥
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः || अत एव सुपूज्यास्ते तस्माच्छ्रेष्ठा जगत्रये । तत्संगतिर्विशां श्रेष्ठ महापातकनाशिनी ॥ विश्रान्ता गृहिणो गेहे संतुष्टा ब्रह्मवेदिनः । आजन्मसंचितं पापं नाशयन्तीक्षणेन वै ॥ संचितं यनृहस्थस्य पापमामरणान्तिकम् । विनिर्दहति तत्सर्वमेकरात्रोपिनो यतिः ।। स्वभ्रात्रे देहि तत्पुण्यं नरकाद्येन मुच्यते । इति दूतवचः श्रुत्वा ददौ पुण्यं स सत्वरम् || हृष्टेन चेतसा भ्राता निरयात्सोऽपिनिर्गतः ||
२०६
देवैस्तौ पुष्पवर्षेण पूजितौ च दिवं गतौ । ताभ्यां संपूजितः सम्यग्गतो दूतो यथागतः || २०७ अखिलभुवनबोधं देवदूतस्य वाक्यं निगमवचनतुल्यं वैश्यपुत्रो निशम्य । स्वकृतसुकृतदानाद्धातरं तारयित्वा सुरपतिवरलोकं तेन सार्धं जगाम ॥
इतिहासमिमं राजन्यः पठेच्छृणुयादपि । स गोसहस्रदानस्य विशोको लभते फलम् ॥ इति श्रीमहापुराणे पाच आदिखण्ड एकत्रिंशोऽध्यायः ॥ ३१ ॥ आदितः लोकानां समथ्र्यङ्काः
अथ द्वात्रिंशोऽध्यायः ।
-
- १७५२
२०१
२०२
२०३
२०४
२०६
नारद उवाच -
ततो गच्छेत राजेन्द्र सुगन्धं लोकविश्रुतम् । सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ।। रुद्रावर्त ततो गच्छेत्तीर्थसेवी नराधिप । तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ।। गङ्गायाश्च नरश्रेष्ठ सरस्वत्याश्च संगमे । स्नातोऽश्वमेधमाप्नोति स्वर्गलोकं च गच्छति ॥ तत्र कर्णहूदे स्नात्वा देवमभ्यर्च्य शंकरम् । न दुर्गतिमवाप्नोति स्वर्गलोकं च गच्छति ।। ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् । गोसहस्रमवाप्रोति स्वर्गलोकं च गच्छति ॥ अरुन्धतीवढं गच्छेत्तीर्थमेवी नराधिप । सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः || गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति ।।
1
१. या भवता जलम् । ग. २ ख ज 'नः । यतयश्च सु ।
२०८
२०९
a. r
Page #68
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेब्रह्मावर्स ततो गच्छेब्रह्मचारी समाहितः । अश्वमेधमवामोति स्वर्गलोकं च गच्छति ॥ ७ यमुमामभवं गच्छेत्समुपस्पृश्य यामुनम् । अश्वमेधफलं लब्ध्वा ब्रह्मलोके महीयते ॥ ८ दर्वीसंक्रमणं प्राप्य तीर्थ त्रैलोक्यविश्रुतम् । अश्वमेधमवामोति स्वर्गलोकं च गच्छति ॥ ९ सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् । तत्रोप्य रजनीः पश्च दद्याद्वहुसुवणेकम् ॥ १० अथ देवीं समासाद्य नरः परमदुर्गमम् । अश्वमेधमवामांति गच्छेच्चोशनसीं गतिम् ॥ ११ ऋषिकुल्यां समासाद्य वसिष्ठं चैव भारत । वसिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः ॥ १२ ऋषिकुल्यां नरः स्नात्वा ऋपिलोकं प्रपद्यते । यदि तत्र वसेन्मासं शाकाहारो नराधिप ॥ १३ भृगुतुङ्ग समासाद्य वाजिमेधफलं लभेत् । गत्वा वीरममोक्षं च सर्वपापैः प्रमुच्यते ॥ १४ कृत्तिकामघयोश्चैव तीर्थमासाद्य दुर्लभम् । अग्निष्टोमातिरात्राभ्यां फलं प्रामोति पुण्यकृत् ॥ १५ ततः संध्यां समासाद्य विद्यातीर्थमनुत्तमम् । उपस्पृशेत्स विद्यानां सर्वासां परमो भवेत् ॥ १६ महाश्रमे वसेद्रात्रि सर्वपापप्रमोचने । एककालं निराहारी लोकान्संवसते शुभान् ॥ षष्ठकालोपवासेने मासमुष्य महालये । तीणस्तारयते जन्तून्दश पूर्वान्दशापरान् ॥ १८ दृष्ट्वा महेश्वरं पुण्यं परं सुरनमस्कृतम् । कृतार्थः सर्वकृत्येषु न शोचन्मरणं कचित् ॥ सर्वपापविशुद्धात्मा विन्द्याद सुवर्णकम् ॥ अथ वेतसिकां गच्छेत्पितामहनिषेविताम् । अश्वमेधमवामोति गतिं च परमां ब्रजेत् ॥ २० अथ सुन्दरिका तीर्थ प्राप्य सिद्धनिपविताम् । रूपस्य भागी भवति दृष्टमेतत्पुरातनः ॥ २१ ततो ब्राह्मणिकां गत्वा ब्रह्मचारी समाहितः । पद्मवर्णेन यानन ब्रह्मलोकं प्रपद्यते ॥ २२ सतश्च नैमिषं गच्छेत्पुण्यं द्विजनिषेवितम् । तत्र नित्यं निवसति ब्रह्मा देवगणः सह ॥ २३ नैमिषं प्रार्थयानस्य पापस्याध प्रणश्यति । प्रविष्टमानस्तु नरः सर्वपापात्प्रमुच्यते ॥ २४ तत्र मासं वसेद्धीरो नैमिषे तीर्थतत्परः। पृथिव्यां यानि तीर्थानि नैमिप तानि भारत ॥ २५ अभिषेकं सत्र कृत्वा नियता नियताशनः । राजसूयस्य यज्ञस्य फलं प्रामाति मानवः ॥ २६ धुनात्यासप्तमं चैव कुलं भरतसत्तम । यस्त्यजन्नमिपं प्राणानुपवासपरायणः॥ स मोदेत्स्वगेलोकस्थ एवमाहुमेनीपिणः । नित्यं मध्यं च पुण्यं च नमिष नृपसत्तम ।। २८ गणोद्भेदं समासाद्य त्रिरात्रोपोषितो नरः । वानपेयमवामीति ब्रह्मभृतां भवेत्सदा ॥ सरस्वतीं समासाद्य तर्पयेत्पितृदेवताः। सारस्वतेषु लोकेषु मांदत नात्र संशयः ॥ ततश्च बहुदां गच्छेत्तीर्थसेवी नराधिप । तत्रोप्य रजनीमकां स्वर्गलोके महीयते ॥ देवसत्रस्य यज्ञस्य फलं पामोति मानवः ॥ ततश्च रजनी मच्छेत्पुण्यां पुण्यजनैताम् । पितृदेवार्चनरती वाजपेयमवाप्नुयात् ।। विमलाशोकमासाद्य विराजति यथा शशी । तत्रोष्य रजनीमेकां स्वर्गलोके महीयते ॥ ३३ गोमतारं ततो गच्छेत्सरयूतीर्थमुत्तमम् । यत्र रामो गतः स्वर्ग सभृत्यवलवाहनः ॥ देहं त्यक्त्वा पुरा राजस्तस्य तीर्थस्य तेजसा । रामस्य च प्रसादेन व्यवसायाच्च भारत ॥ ३५ तस्पिस्तीर्थे नरः स्नात्वा गोमतारे नराधिपं । सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ ३६ रामतीर्थे नरः स्नात्वा गोमत्यां कुरुनन्दन । अश्वमेधमवामोति पुनाति स्वकुलं नरः॥ ३७
१ ख. म. 'न नरः पुण्यो महाश्रमे । ती । २ ख. अ. महाश्रमं । ३ क. गवामयस्य । ४ ख. इ. स. ट. ढ. बाहुदा । ५ट, गेहं।
Page #69
--------------------------------------------------------------------------
________________
३३ त्रयस्त्रिंशोऽध्यायः ]
पद्मपुराणम् । शतसाहस्रक तत्र तीर्य भरतसत्तम । तत्रोपस्पर्शनं कृत्वा नियतो नियताशनः ॥ गोसहस्रफलं पुण्यमामोति भरतर्षभ ॥
२८ ततो गच्छेत धर्मज्ञ ऊर्ध्वस्थानमनुत्तमम् । कोटितीर्थे नरः स्नात्वा अर्चयित्वा गुहं नृप ॥ ३९ गोसहस्रफलं विन्यात्तेजस्वी चापि जायते । ततो वाराणसी गत्वा अर्चयित्वा वृषध्वजम् ॥४० कपिलानां इदे स्नात्वा राजसूयफलं लभेत् । मार्कण्डेयस्य राजेन्द्र तीर्थमासाद्य दुर्लभम् ॥ ४१ गोमतीगङ्गयोश्चैव संगमे लोकविश्रुते । अनिष्टोममवानोति कुलं चैव समुद्धरेत् ॥ १२
इति श्रीमहापुराणे पाद्म आदिखण्डे द्वात्रिंशोऽध्यायः ॥ ३२ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१७९४
अथ त्रयस्त्रिंशोऽध्यायः । युधिष्ठिर उवाचवाराणस्याश्च माहात्म्यं संक्षेपात्कथितं त्वया । विस्तरेण मुने ब्रूहि तदा प्रीणाति मे मनः ॥ १
नारद उवाचअत्रेतिहासं वक्ष्यामि वाराणस्या गुणाश्रयम् । यस्य श्रवणमात्रेण मुच्यते ब्रह्महत्यया ॥ २ मेरुशृङ्गे पुरा देवमीशानं त्रिपुरद्विपम् । दिव्यासनगता देवी महादेवमपृच्छत ॥
देव्युवाचदेवदेव महादेव भक्तानामातिनाशन । कथं न्वां पुरुपो देवमचिरादेव पश्यति ॥ ४ सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः। आयासबहुला लोके यानि चान्यानि शंकर॥५ येन विश्रान्तचित्तानां योगिनां कर्मिणामपि । दृश्यो हि भगवान्सूक्ष्मः सर्वेपामथ देहिनाम् ॥६ एतद्गृह्यतमं ज्ञानं गूढं ब्रह्मादिसेवितम् । हिताय सर्वभूतानां हि कामाङ्गनाशन ॥
ईश्वर उवाचअवाच्यमबविज्ञानं ज्ञानम बहिष्कृतम् । वक्ष्ये तव यथातत्त्वं यदुक्तं परमर्पिभिः । परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी । सर्वेषामेव भूतानां संसारार्णवतारिणी ॥ तत्र भक्त्या महादेवि मदीयं व्रतमास्थिताः । निवसन्ति महात्मानः परं नियममास्थिताः॥१० उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् । ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥ ११ स्थानान्तरपवित्राणि तीर्थान्यायतनानि च । श्मशानसंस्थितान्येव दिव्यभूमिगतानि च ॥ १२ भूलॊके नैव संलग्नमन्तरिक्षे ममालयम् । अमुक्तास्तन्न पश्यन्ति मुक्ताः पश्यन्ति चेतसा ॥ १३ श्मशानमेतद्विख्यातमविमुक्तमिति श्रुतं । कालो भृत्वा जगदिदं संहराम्यत्र सुन्दरि ॥ १४ देवीदं सर्वगुह्यानां स्थानं प्रियतरं मम । मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति च ॥ १५ दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् । ध्यानमध्ययनं ज्ञानं सर्व तत्राक्षयं भवेत् ॥ १६ जन्मान्तरसहस्रेषु यत्पापं पूर्वसंचितम् । अविमुक्तं प्रषिष्टस्य तत्सर्वं व्रजति क्षयम् ॥ . १७ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च वर्णसंकराः। खियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः१८ कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः । काले संनिधनं प्राप्ता अविमुक्ते वरानने ॥ १९ चन्द्रार्धमोलयत्यक्षा महापभवाहनाः। शिवे मम पुरे देवि जायन्ते तत्र मानवाः॥ २०
१ ख. ज. ट
मध्यापनं ।
Page #70
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीत
[ १ आदिखण्डेनाविमुक्त मृतः कश्चिमरकं याति किल्विषी । ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥२१ मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् । अर्चनाचरणे मुक्खा वाराणस्यां वसेनरः॥ २२ दुर्लभा तपसा चापि मृतस्य परमेश्वरि । यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥ २३ प्रसादाजायते सम्याम शैलेन्द्रनन्दिनि । अप्रद्धा न पश्यन्ति मम मायाविमोडिताः॥ २४ विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः । हन्यमानोऽपि यो विद्वान्वसेद्विन्नशतैरपि ॥ २५ स याति परमं स्थानं यत्र गत्वा न शोचति । जन्ममृत्युजरामुक्तं परं यान्ति शिवालयम् ॥ २६ अपुनर्मरणामां हि सा गतिर्मोक्षकाक्षिणाम् । यां प्राप्य कृतकृत्यं स्यादिति मन्यन्ति पण्डिताः२७ न दानैर्न तपोभिश्व न यज्ञैनापि विद्यया । प्राप्यते गतिरुत्कृष्टा याऽविमुक्तं तु लभ्यते ॥ २८ नानावर्णा विवर्णाश्च चाण्डालाद्या जुगुप्सिताः। किल्विपैः पूर्णदेहाश्च विशिष्टः पातकस्तथा॥२९ भेषजं परमं तेषामविमुक्तं विदुर्बुधाः । अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् ॥ ३० अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् । कृत्वा वै नैष्ठिकी दीक्षामविमुक्ते वसन्ति ये ॥ तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम् ॥ प्रयागं नैमिषारण्यं श्रीशैलोऽथ महाबलम् । केदारं भद्रकर्ण तु गया पुष्करमेव च ॥ ३२ कुरुक्षेत्रं भद्रकोटिनर्मदाऽऽम्रातकेश्वरी । शालग्रामं च कुजानं कोकामुखमनुत्तमम् ॥ प्रभासं विजयेशानं गोकर्ण भद्रकर्णकम् ॥ एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह । न यास्यन्ति परं तत्त्वं वाराणस्यां यथा मृताः॥ पाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी । प्रविष्टा नाशयेन्पापं जन्मान्तरशनः कृतम् ॥ ३५ अन्यत्र सुलभा गङ्गा श्राद्धं दानं तपो जपः । ब्रतानि सर्वमेवेनद्वाराणस्यां सुदुर्लभम् ॥ ३६ जपेच्च जुहुयानित्यं ददात्यर्चयतेऽमरान् । वायुभक्षश्च सततं वाराणस्यां स्थितो नरः ॥ ३७ यदि पापो यदि शठो यदि वाऽधार्मिको नरः । वाराणसी समासाद्य पुनाति सकलं कुलम् ३८ वाराणस्यां येऽर्चयन्ति महादेवं स्तुवन्ति वै। सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः॥ ३९ अन्यत्र योगज्ञानाभ्यां संन्यासादथ वाऽन्यतः । प्राप्यते तत्परं स्थानं सहस्रणव जन्मनाम् ।।४० ये भका देवदेवेशि वाराणस्यां वसम्ति वे । ते विन्दन्ति परं मोक्षमकेनेव तु जन्मना ॥ ४५ यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना । अविमुक्तं तदासाद्य नान्यदिच्छेत्तपोवनम् ॥ ४२ यतो मयाऽविमुक्तं तदविमुक्तं ततः स्मृतम् । तदेव गुह्यं गुह्यानांमतद्विज्ञानमुच्यते ॥ शानाज्ञानाभिनिष्ठानां परमानन्दामिच्छताम् । या गतिविदिता सुभ्रः साऽविमुक्ते मृतस्य तु ॥४४ यानि चैवाविमुक्तान्ये देशे दृष्टानि कृत्स्नशः। पुरी वाराणसी तभ्यः स्थानेभ्यो ह्यधिका शुभा॥ यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः । व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकं ॥ ४६ यत्तत्परतरं तत्त्वमविमुक्तमिति श्रुतम् । एकेन जन्मना देवि वाराणस्यां तदामुयात् ।। ४७ भूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि । यथाऽविमुक्तमादित्ये वाराणस्यां व्यवस्थितम् ॥ ४८ चरणायास्तथा चास्या मध्ये वाराणसी पुरी । तत्रैव संस्थितं तत्त्वं नित्यमवं विमुक्तकम् ॥ ४९ पाराणस्याः परं स्थानं न भूतं न भविष्यति । यत्र नारायणो देवो महादेवो दिवीश्वरः॥ ५० तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः । उपासते मां सततं देवदेवः पितामहः॥ ५१ महापातकिनो देवि ये तेभ्यः पापकृत्तमाः । वाराणसी समासाद्य ते यान्ति परमां गतिम् ॥५२
१८. 'क्तमित्येव वा।
.
M
Page #71
--------------------------------------------------------------------------
________________
३४ चतुस्त्रिंशोऽध्यायः ]
पद्मपुराणम् । तस्मान्मुमुक्षुनियतो वसेद्वै मरणान्तकम् । वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ॥ ५३ किंतु विना भविष्यन्ति पापोपहतचेतसः । ततो नैवाऽऽचरेत्पापं कायेन मनसा गिरा॥ ५४ एतद्रहस्यं देवानां पुराणानां च सुव्रते । अविमुक्ताश्रयज्ञानं न कश्चिद्वेत्ति तत्त्वतः ॥ ५५
नारद उवाचदेवतानामृषीणां च शृण्वतां परमेष्टिनाम् । देवदेवेन कथितं सर्वपापविनाशनम् ॥ ५६ यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः । यथेश्वराणां गिरिशः स्थानानामेतदुत्तमम् ॥ ५७ यैः समाराधितो रुद्रः पूर्वस्मिन्नेकजन्मनि । ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् ॥ ५८ कलिकल्मषसंभूता येषामपहता मतिः । न तेषां वेदितुं शक्यं स्थानं तत्परमेष्ठिनः ॥ ५९ ये स्मरन्ति सदा कालं वदन्ति च पुरीमिमाम् । तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥६० यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः। नाशयेत्तानि सर्वाणि देवः कालतनुः शिवः॥ ६१ आगच्छेत्तदिदं स्थानं सेवितं मोक्षकाङक्षिभिः । मृतानां च पुनर्जन्म न भूयो भवसागरे ॥ ६२ तस्मात्सर्वप्रयत्नेन वाराणस्यां वसेन्नरः। योगी वाऽप्यथवाऽयोगी पापी वा पुण्यकृत्तमः ॥ ६३ न लोकवचनात्पित्रोन चैव गुरुवादनः । मनिने क्रमणीया स्यादविमुक्तगति प्रति ॥
इति श्रीमहापुगणे पान आदिग्पण्डे वाराणमीमाहात्म्ये त्रयस्त्रिंशोऽध्यायः ॥३३॥
आदिनः श्लोकानां समयङ्काः-१८५७
अथ चतुस्त्रिंशोऽध्याय ।
नारद उवाचतत्रदं विमलं लिङ्गमाङ्कारं नाम शोभनम् । यस्य स्मरणमात्रेण मुच्यने सर्वपातकः ॥ एनन्परतरं ज्ञानं पञ्चायननमुत्तमम् । मेवितं मुनिभिनित्यं वाराणस्यां विमोक्षणम् ॥ तत्र साक्षान्महादेवः पञ्चायतनविग्रहः । रमत भगवान्द्रो जन्तूनामपवर्गदः ॥ यत्तत्पाशुपतं ज्ञानं पञ्चायतनमुच्यते । तदेतद्विमलं लिङ्गमोङ्कारं ममुपस्थिनम् ॥ शान्त्यतीता तथा शान्तिर्विद्या चैवापरावरा । प्रतिष्ठा च निवृत्तिश्च पश्चात्म लिङ्गमश्वरम् ॥ ५ पञ्चानामपि देवानां ब्रह्मादीनां समाश्रयम् । ओङ्कारवोधकं लिङ्गं पश्चायतनमुच्यते ॥ संस्मरेदेश्वरं लिङ्गं पञ्चायतनमव्ययम् । देहान्ने तत्परं ज्योतिरानन्दं विशते बुधः ॥ तत्र देवर्षयः पूर्व सिद्धा ब्रह्मर्पयस्तथा । उपास्य देवमीशानमापुरन्तः परं पदम् ॥ मत्स्योदर्यास्तटे पुण्ये स्थानं गुह्यतमं शुभम् । गोचर्ममात्रं राजेन्द्र ओंकारेश्वरमुत्तमम् ॥ कृत्तिवासेश्वरं लिङ्गं मध्यमेश्वरमुत्तमम् । विश्वेश्वरं तथोंकारं कन्दपेश्वरमेव च ॥ एतानि गुह्यलिङ्गानि वाराणस्यां युधिष्ठिर । न कश्चिदिह जानाति विना शंभीरनुग्रहात् ॥ ११ कृत्तिवासेश्वरस्यैव माहात्म्यं शृणु पार्थिव । तस्मिन्स्थाने पुरा दैत्यो हस्ती भूखा शिवान्तिकम् ॥१२ ब्राह्मणान्हन्तुमायातो यत्र नित्यमुपासते । तेषां लिङ्गान्महादेवः प्रादुरासीत्रिलोचनः ॥ रक्षणार्थ महादेवो भक्तानां भक्तवत्सलः । हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः॥ १४ वासस्तस्याकरोत्कृतिं कृत्तिवासेश्वरस्ततः । तत्र सिद्धिं परां प्राप्ता मुनयो हि युधिष्ठिर ॥ १५
१ ट. देव्य दे।
Page #72
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेतेनैव च शरीरेण प्राप्तास्तत्परमं पदम् । विद्याविद्येश्वरा रुद्राः शिवा ये च प्रकीर्तिताः॥ १६ कृत्तिवासेश्वरं लिङ्गं नित्यमाश्रित्य संस्थिताः । ज्ञाखा कलियुगं घोरमधर्मबहुलं जनाः ॥ कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः॥ जन्मान्तरसहस्रेण मोक्षोऽन्यत्राऽऽप्यते न वा । एकेन जन्मना मोक्षः कृत्तिवासेऽत्र लभ्यते ॥१८ आलयं सर्वसिद्धानामेतत्स्थानं वदन्ति हि । गोपितं देवदेवेन महादेवेन शंभुना ॥ १९ युगे युगे पत्र दान्ता ब्राह्मणा वेदपारगाः । उपासते महात्मानं जपन्ति शतरुद्रियम् ॥ २० स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् । ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥ २१
गायन्ति सिद्धाः किल गीतकानि वाराणमीं ये निवसन्ति विप्राः। तेषामथेकेन भवेन मुक्तिर्ये कृत्तिवामं शरणं प्रपन्नाः ॥ संप्राप्य लोके जगतामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म ॥ ध्याने समाधाय जपन्ति रुद्रं ध्यायन्ति चित्ते यतयो महेशम् ।। आराधयन्ति प्रभुमीशितारं वाराणसीमध्यगता मुनीन्द्राः । यजन्ति यज्ञैरभिसंधिहीनाः स्तुवन्ति रुद्रं प्रणमन्ति शंभुम् ।। नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुगणम् । स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् । इति श्रीमहापुराणे पान आदिखण्डे वाराणसीमाहात्म्ये चतृस्त्रिशोऽध्यायः ॥ ३ ॥
आदितः श्लोकानां समष्टयङ्काः-१८८२
अथ पश्चत्रिशोऽध्यायः ।
नारद उवाचअथान्यत्तत्र वै लिङ्ग कपर्दीश्वरमव्ययम् । स्नात्वा तत्र विधानेन तर्पयित्वा पितृभूप ॥ मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विन्दति ॥ पिशाचमोचनं नाम तीर्थमन्यत्ततः स्थितम् । तत्राऽऽश्चर्यमयो देवो मुक्तिदः सर्वदोपहा ॥ २ कश्चित्यो जगामेदं शार्दूलो घोररूपधृक् । मृगीमेका भक्षयन्तं कपर्दीश्वरमुत्तमम् ॥ ३ तब सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् । धावमाना सुसंभ्रान्ता व्याघ्रस्य वशमागता ॥ ४ तो विदार्य नखैस्तीक्ष्णः शार्दूलः स महाबलः । जगाम चान्यविजनं देशं दृष्ट्वा मुनीश्वरान् ॥ ५ मृतमात्रा च सा बाला कपर्दीशाग्रतो भृगी । अदृश्यत महाज्वाला व्याम्नि सूर्यसमप्रभा ॥ ६ त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कितमूर्धजा । वृषाधिरूढा पुरुपस्तादृशेरव संता ॥ पुष्पवृष्टिं विमुश्चन्ति खेचरास्तत्समन्ततः । गणेश्वरी स्वयं भूत्वा न दृष्टा तत्क्षणात्ततः॥ ८ दृष्ट्वा तदाश्चर्यवरं प्रशशंसुः सुरादयः । तन्महेशस्य वै लिङ्ग कपर्दीश्वरमुत्तमम् ॥ स्मृत्वैवाशेषपापौघात्क्षिप्रमेव विमुच्यते । कामक्रोधादयो दोषा वाराणसीनिवासिनाम् ॥ १० विघ्नाः सर्वे विनश्यन्ति कपर्दीश्वरपूजनात् । तस्मात्सदैव द्रष्टव्यं कपर्दीश्वरमुत्तमम् ॥ ११ पूजितन्यं प्रयत्नेन स्तोतव्यं वैदिकैः स्तवैः । ध्यायतां चात्र नियतं योगिनां शान्तचेतसाम्॥१२ १८. 'सिद्धीना'। २ ख. ज. ध्यातव्यं चात्र नियतं योगिभिः शान्तचित्तकैः । जप्तव्यं स्नालकब्रह्म कपर्दीशसमीपतः । ।
Page #73
--------------------------------------------------------------------------
________________
६७
३५ पञ्चत्रिंशोऽध्यायः ] पद्मपुराणम् । जायते योगसिद्धिः सा षण्मासेन न संशयः । ब्रह्महत्यादयः पापा विनश्यन्त्यस्य पूजनात् ॥१३ पिशाचमोचने कुण्डे स्नातस्य तु समासतः। तस्मिन्क्षेत्रे पुरा विप्रस्तपस्वी संशितव्रतः ॥ १४ शङ्ककणे इति ख्यातः पूजयामास शंकरम् । जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम् ।। १५ पुष्पधूपादिभिः स्तोत्रैर्नमस्कारैः प्रदक्षिणैः । उपासीतात्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम्॥१६ कदाचिदागतं प्रेतं पश्यति स्म क्षुधाऽन्वितम् । अस्थिचर्मपिनद्धाङ्गं निश्वसन्तं मुहुर्मुहुः ॥ १७ मं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः । प्रोवाच को भवान्कस्माद्देशादेशमिमं श्रितः ॥ १८ सस्मै पिशाचः क्षुधया पीड्यमानोऽब्रवीद्वचः। पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः॥ पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः॥ न पूजिता मया देवा गावोऽप्यतिथयस्तथा । न कदाचित्कृतं पुण्यमल्पं वाऽनल्पमेव वा ॥ २० एकदा भगवान्देवो गोवृषेश्वरवाहनः । विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टो नमस्कृतः ॥ २१ सदाऽचिरेण कालेन पश्चत्वमहमागतः । न दृष्टं तन्महाघोरं यमस्य सदनं मुने ॥ २२ पिपासयाऽधुनाऽऽक्रान्तो न जानामि हिनाहितम् । यदि कंचित्समुद्धर्तुमुपायं पश्यसि प्रभो॥ २३ कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः। इत्युक्तः शङ्कुकर्णोऽथ पिशाचमिदमब्रवीत् ॥ २४ त्वादशो न हि लोकेऽस्मिन्विद्यते पुण्यकृत्तमः। यत्त्वया भगवान्पूर्व दृष्टो विश्वेश्वरः शिवः॥२५ संस्पृष्टो वन्दितो भुयः कोऽन्यस्त्वत्सदृशो भुवि । तेन कर्मविपाकेन देशमेतं समागतः ॥ २६ स्नानं कुरुष्व शीघं त्वमस्मिन्कुण्डे समाहितः । येनेमां कुत्सितां योनि क्षिप्रमेव महास्यसि ॥२७
स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रम् । स्मृत्वा कपर्दीश्वरमीशितारं चक्रे समाधाय मनोऽवगाहम् ।। तदाऽवगाढी मुनिसंनिधाने ममार दिव्याभरणोपपन्नः । अदृश्यताप्रतिमो विमाने शशाङ्कचिह्नीकृतचारुपीलिः ॥ विभाति रुद्रैः सहितो दिविष्ठः समावृतो योगिभिरप्रमेयैः । सवालखिल्यादिभिरेप देवो यथोदये भानुरशेपदेवः ॥ स्तुवन्ति सिद्धा दिवि देवसंघा नृत्यन्ति दिव्याप्मरमोऽभिरामाः। मुश्चन्ति दृष्टिं कुसुमाम्बुमिश्रां गन्धर्वविद्याधरकिंनराद्याः ॥ संस्तूयमानोऽथ मुनीन्द्रसंघेरवाप्य वोधं भगवत्प्रसादात् । समाविशन्मण्डलमेतदव्यं त्रयीमयं यत्र विभाति रुद्रः॥ दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम् ।
विचिन्त्य रुद्रं कविमेकमग्निं प्रणम्य तुष्टाव कपर्दिनं तम् ॥ शङ्ककर्ण उवाच
कपर्दिनं त्वां परतः परस्तागोप्तारमेकं पुरुषं पुराणम् । व्रजामि योगेश्वरमीशितारमादित्यमग्निं कपिलाधिरूढम् ॥ त्वां ब्रह्मसारं हृदि संनिविष्टं हिरण्मयं योगिनमादिमन्तम् । बजामि रुद्रं शरणं दिविष्ठं महामुनि ब्रह्ममयं पवित्रम् ॥ सहस्रपादाक्षिशिरोभियुक्तं सहस्ररूपं तमसः परस्तात् । तं ब्रह्मपारं प्रणमामि शंभुं हिरण्यगर्भादिपति त्रिनेत्रम् ॥
Page #74
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेयत्र प्रसृतिर्जगतो विनाशो येनाऽऽवृतं सर्वमिदं शिवेन । तं ब्रह्मपारं भगवन्तमीशं प्रणम्य नित्यं शरणं प्रपद्ये ॥ अलिङ्गमालोकविहीनरूपं स्वयंप्रभुं चित्पतिमेकरूपम् । तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति ।। यं योगिनस्त्यक्तसवीजयोगा लब्ध्वा समाधि परमात्मभूताः। पश्यन्ति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं भवतः स्वरूपम् ।। न यत्र नामादिविशेषकृप्तिन संदृशे तिष्ठति यत्स्वरूपम् । तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयंभुवं त्वां शरणं प्रपद्ये ॥ यद्वेदवादाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् । पश्यन्त्यनेकं भवतः स्वरूपं तं ब्रह्मपारं प्रणतोऽस्मि निन्यम् ।। यतः प्रधानं पुरुपः पुराणो विभर्ति तेजः प्रणमन्ति देवाः। नमामि तं ज्योतिषि संनिविष्टं कालं बृहन्तं भवतः स्वरूपम् ॥ वजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुराणम् ।
शिवं प्रपद्ये हरमिन्दुमोलि पिनाकिनं त्वां शरणं व्रजामि ॥ स्तुखवं शङ्ककर्णोऽपि भगवन्तं कपर्दिनम् । पपात दण्डवद्भमो प्रोच्चरन्प्रणवं परम् ॥ ४४ तत्क्षणात्परमं लिङ्गं प्रादुर्भुतं शिवात्मकम् । ज्ञानमानन्दमत्यन्तं कोटिज्वालाग्निसंनिभम् ॥ ४५ शङ्ककर्णोऽथ मुक्तात्मा तदात्मा सर्वगोऽमलः । विलिल्ये विमले लिङ्गे तदतमिवाभवत् ।। ४६ एतद्रहस्यमाख्यातं माहात्म्यं ते कपर्दिनः । न कश्चिद्वेत्ति तमसा विद्वानप्यत्र मुह्यति ॥ ४७ य इमां शृणुयानित्यं कथां पापप्रणाशिनीं । त्यक्तपापी विशुद्धात्मा रुद्रसामीप्यमामुयात् ॥ ४८ पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् । प्रातमध्याह्नसमये स योग प्राप्नुयात्परम् ॥ ४९ इति श्रीमहापुराणे पाद्म आदिखण्डे वाराणसीमाहात्म्ये पश्चत्रिंशोऽध्यायः ॥ ३५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-१९३१
अध षत्रिशोऽध्याय.।
- ..
नारद उवाचवाराणस्यां महाराज मध्यमेशं परात्परम् । तस्मिन्स्थाने महादेवा देव्या सह महेश्वरः॥ ? रमते भगवान्नित्यं रुदैश्च परिवारितः । तत्र पूर्व हषीकेशा विश्वात्मा देवकीसुतः ॥ उवास वत्सरं कृष्णः सदा पाशुपतयुतः । भस्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः ॥ आराधयन्हरिः शंभुं कृत्वा पाशुपतं व्रतम् ॥ तस्य ते बहवः शिष्या ब्रह्मचर्यपरायणाः । लब्ध्वा तद्वदनाज्ज्ञानं दृष्टवन्तो महेश्वरम् ॥ ४ तस्य देवो महादेवः प्रत्यक्ष नीललोहितः । ददा कृष्णस्य भगवान्वरदो वरमुत्तमम् ॥ येऽर्चयन्ति च गोविन्दं मद्भक्ता विधिपूर्वकम् । तेषां तदेश्वरं ज्ञानमुत्पत्स्यति जगन्मयम् ॥ ६ नमस्योऽर्चयितव्यश्च ध्यातव्यो मत्परर्जनः । भविष्यन्ति न संदेही मत्प्रसादाविजातयः ॥ ७ येऽत्र द्रक्ष्यन्ति देवेशं स्नात्वा देवं पिनाकिनम् । ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति ॥ ८ पाणांस्त्यक्ष्यन्ति ये माः पापकर्मरता अपि। ते यान्ति तत्परं स्थानं नात्र कार्या विचारणा॥९
< --
Page #75
--------------------------------------------------------------------------
________________
३७ सप्तत्रिंशोऽध्यायः ]
पद्मपुराणम् । धन्यास्तु खलु ते विज्ञा मन्दाकिन्यां कृतोदकाः । अर्चयित्वा महादेवं मध्यमेश्वरमीश्वरम् ॥ १० ज्ञानं दानं तपः श्राद्ध पिण्डनिर्वपणं त्विह । एकैकशः कृतं कर्म पुनात्यासप्तमं कुलम् ॥ ११ संनिहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे । यत्फलं लभते मर्त्यस्तस्मादशगुणं खिह ॥ १२ एवमुक्त महाराज माहात्म्यं मध्यमेश्वरे । यः शृणोति परं भक्त्या स याति परमं पदम् ॥ १३ इति श्रीमहापुराणे पाद्म आदिखण्डे वाराणमीमाहात्म्ये षट्त्रिंशोऽध्यायः ॥ ३६ ॥ आदितः श्लोकानां समष्ट्यङ्काः-१९४४
अथ मप्तत्रिशोऽध्यायः । नारद उवाचअन्यानि च महागज तीर्थानि पावनानि तु । वाराणस्यां स्थितानीह संशृणुष्व युधिष्ठिर ॥ १ पयागादधिकं तीर्थ प्रयागं परमं शुभम् । विश्वरूपं तथा तीर्थ तालतीर्थमनुत्तमम् ॥ आकाशाख्यं महातीर्थ तीर्थ चवाऽऽर्षभं परम् । सुनीलं च महातीर्थ गोरीतीर्थमनुत्तमम् ॥ ३ प्राजापत्यं तथा तीर्थ स्वर्गद्वारं तथैव च । जम्बुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम् ॥ ४ गयातीर्थ परं तीर्थ तीर्थ चैत्र महानदी । नारायणं परं तीर्थ वायुतीर्थमनुत्तमम् ॥ ज्ञानतीर्थ परं गुह्यं वाराहं तीर्थमुत्तमम् । यमतीर्थ महापुण्यं तीर्थ संमूर्तिकं शुभम् ॥ अग्मितीर्थ महाराज कलशेश्वरमुत्तमम् । नागतीर्थ मोमतीर्थ सूर्यतीर्थ तथैव च ।। पर्वताग्व्यं महागुह्यं मणिकर्ण्यमनुत्तमम् । घटोत्कचं तीर्थवरं श्रीतीर्थ च पितामहम् ॥ गङ्गातीर्थ तु देवेशं ययातेस्तीर्थमुत्तमम् । कापिलं चव सोमेशं ब्रह्मतीर्थमनुत्तमम् ।। तत्र लिङ्गं पुराणीयं स्थातुं ब्रह्मा यथाऽऽ(दाऽऽ)गतः। तदानी स्थापयामास विष्णुस्तल्लिामैश्वरम्।। सतः स्नात्वा ममागम्य ब्रह्मा प्रोवाच तं हरिम् । मयाऽऽनीतमिदं लिङ्गं कस्मात्स्थापितवानसि। नमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिदृढा मम । तस्मात्प्रतिष्ठितं लिङ्गं नाम्ना तत्र भविष्यति ॥ १२ भृतेश्वरं वथा तीर्थ तीर्थ धर्मसमुद्भवम् । गन्धर्वतीर्थ सुशुभं वादेयं तीर्थमुत्तमम् ॥ १३ दौर्वामिकं व्योमतीर्थं चन्द्रतीर्थ युधिष्ठिर । चिन्ताङ्गदेश्वरं तीर्थ पुण्यं विद्याधरेश्वरम् ॥ १४ केदारं तीर्थमुग्राख्यं कालंजरमनुत्तमम् । सारस्वतं प्रभासं च रुद्रकर्णह्रदं शुभम् ॥ कोकिलाग्यं महातीर्थ तीर्थ चैव महालयम् । हिरण्यगर्भ गोप्रेक्षं तीर्थ चैवमनुत्तमम् ॥ १६ उपशान्तं शिवं चैव व्याघेश्वरमनुत्तमम् । त्रिलोचनं महातीर्थ लोकार्क चोत्तराइयम् ।। कपालमोचनं नीर्थ ब्रह्महत्याविनाशनम् । शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम् ॥ एवमादीनि तीर्थानि वाराणस्यां स्थितानि वै । न शक्यं विस्तराद्वक्तुं कल्पकोटिशतैरपि । १९ इति श्रीमहापुराणे पाद्म आदिखण्डे वाराणसीमाहात्म्ये सप्तत्रिंशोऽध्यायः ॥ ३७॥
आदितः श्लोकानां समष्टयङ्काः-१९६३
अथाष्टात्रिंशोऽध्यायः ।
नारद उवाचवाराणस्याश्च माहात्म्यं तस्यां तीर्थानि च प्रभो। कथितानि समासेन तीर्थान्यन्यानि संशृणु ॥१
१ ख. अ. 'या विनिमितं लि।
Page #76
--------------------------------------------------------------------------
________________
rm" i9 ...
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेततो गयां समासाद्य ब्रह्मचारी समाहितः । अश्वमेधमवामोति गमनादेव भारत ॥ यत्राक्षय्यवटो नाम त्रिषु लोकेषु विश्रुतः । पितृणां तत्र वै दत्तमक्षयं भवति प्रभो ॥ महानद्यामुपस्पृश्य तर्पयेपितृदेवताः । अक्षयानामुयाल्लोकान्कुलं चैव समुद्धरेत् ॥ ततो ब्रह्मसरो गच्छेद्ब्रह्मारण्योपसेवितम् । पुण्डरीकमवामोति प्रभातमिव शर्वरी ॥ सरसि ब्रह्मणा तत्र यूपश्रेष्ठः समुच्छ्रितः । यूपं प्रदक्षिणं कृखा वाजपेयफलं लभेत् ॥ ततो गच्छेत राजेन्द्र धेनुकं लोकविश्रुतम् । एकरात्रीषितो राजन्प्रयच्छत्तिलधेनुकाम् ॥ ७ सर्वपापविशुद्धात्मा सोमलोकं व्रजेद्धृवम् । तत्र चिह्न महाराज अद्यापि हि न संशयः॥ ८ कपिला सहवत्सा वै पर्वते विचरत्युत । सवत्सायाः पदान्यस्या दृश्यन्तेऽद्यापि भारत ॥ ९ तेषपस्पृश्य राजेन्द्र पदेषु नृपसत्तम । यत्किंचिदशुभं पापं तत्प्रणश्यति भारत ॥ १० ततो गृध्रवटं गच्छेत्स्थानं देवस्य शूलिनः । स्नायात्तु भस्मना तत्र संगम्य वृषभध्वजम् ॥ ११ ब्राह्मणेन भवेच्चीर्ण व्रतं द्वादशवार्षिकम् । इतरेषां तु वर्णानां सर्वपापं प्रणश्यति ॥ गच्छेत तत उद्यन्तं पर्वतं गीतनादितम् । सावित्रं तु पदं तत्र दृश्यते भरतर्षभ ॥ सत्र संध्यामुपासीत ब्राह्मणः संशितव्रतः । उपास्ता हि भवेत्संध्या तेन द्वादशवार्षिकी ॥ १४ योनिद्वारं च तत्रैव विश्रुतं भरतर्षभ । तत्राभिगम्य मुच्येत पुरुषो योनिसंकटात् ॥ १५ शुक्लकृष्णावुभी पक्षो गयायो यो वसेन्नरः । पुनात्यासप्तमं राजन्कुलं नास्त्यत्र संशयः ॥ १६ एष्ठव्या बहवः पुत्रा यद्यप्येको गयां व्रजेत् । यजेत वाऽश्वमेधेन नीलं वा वृपमुत्सृजेत् ॥ १७ खतः फल्गुं व्रजेद्राजस्तीर्थसेवी नराधिप । अश्वमेधमवाप्नोति सिद्धिं च परमां व्रजेत् ॥ १८ ततो गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः । यत्र धर्मो महाराज नित्यमास्ते युधिष्ठिर ॥ १९ धर्म तत्राभिसंगम्य वाजिमंधफलं लभेत् । ततो गच्छेत राजेन्द्र ब्रह्मणस्तीर्थमुत्तमम् ॥ २० तत्राभिगम्य ब्रह्माणमर्चयेन्नियनव्रतः । राजसूयाश्वमेधाभ्यां फलं प्रामानि भारत ॥ २१ ततो राजगृहं गच्छेत्तीर्थसेवी नराधिप । उपस्पृश्य ततस्तत्र कक्षीवानिव मादत ॥ यक्षिण्या नैत्यकं तत्र प्रागग्निः पुरुषः शुचिः । यक्षिण्यास्तु प्रसादन मुच्यते ब्रह्महत्यया ॥ २३ मणिनागं ततो गच्छेगोसहस्रफलं लभेत् । नत्यकं भुञ्जत यस्तु मणिनागस्य मानवः ॥ २४ दष्टस्याऽऽशीविषेणास्य न विषं क्रमते नृप । तत्रोप्य रजनीमेकां सर्वपापैः प्रमुच्यते ॥ २५ ततो गच्छेत ब्रह्मर्षेौतमस्य वनं नृप । अहल्याया हृद स्नात्वा ब्रजंत परमां गतिम् ॥ २६ अभिगम्य श्रियं राजन्विन्दते श्रियमुत्तमाम् । तत्रादपानी धर्मज्ञ त्रिपु लोकेपु विश्रुतः ॥ तत्राभिषेकं कुर्वीत वाजिमेधमवाप्नुयात् ॥
२७ जनकस्य तु राजर्षेः कूपस्त्रिदशपूजितः । तत्राभिषेकं कृत्वा तु विष्णुलोकमवाप्नुयात् ॥ २८ ततो विनाशनं गच्छेत्सर्वपापप्रमोचनम् । वाजिमेधमवामोति सोमलोकं च गच्छति ॥ २९ गण्डकी च समासाद्य सर्वतीर्थजलोद्भवाम् । वाजपेयमवामोति सूर्यलोकं च गच्छति ॥ ३० ततो ध्रुवस्य धर्मज्ञ समाविश्य तपोवनम् । गुह्यकेषु महाभाग मोदते नात्र संशयः ॥ ३१ कर्मदा तु समासाद्य नदी सिद्धनिषेविताम् । पुण्डरीकमवामीति सोमलोकं च गच्छति ॥ ३२ ततो विशालामासाद्य नदीं त्रैलोक्यविश्रुताम् । अग्निष्टोममवामोति स्वर्गलोकं च गच्छति ॥ ३३ अथ माहेश्वरी धारां समासाद्य नराधिप । अश्वमेधमवामोति कुलं चैव समुद्धरेत् ॥ ३४
१ ट. वाजिमेधम' । २ ख. न. नर्मदां । ट. सर्वदा ।
.
.
.
-
Page #77
--------------------------------------------------------------------------
________________
३८ अष्टात्रिंशोऽध्यायः ] पद्मपुराणम् । दिवौकसां पुष्करिणी समासाद्य नरः शुचिः । न दुर्गतिमवानोति वाजपेयं च विन्दति ॥ ३५ माहेश्वरपदं गच्छेब्रह्मचारी समाहितः । माहेश्वरपदे स्नात्वा वाजिमेधफलं लभेत् ॥ तत्र कोटिस्तु तीर्थानां विश्रुता भरतर्षभ । कर्मरूपेण राजेन्द्र असुरेण दुरात्मना।। हियमाणा हृता राजन्विष्णुना प्रभविष्णुना। तत्राभिषेकं कुर्वीत तीर्थकोव्यां नराधिप ॥ पुण्डरीकमवामोति विष्णुलोकं च गच्छति ॥ ततो गच्छेन्नरश्रेष्ठ स्थानं नारायणस्य च । सदा संनिहितो यत्र हरिवसति भारत ॥ यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः। आदित्या वमवो रुद्रा जनार्दनमुपासते ॥ शालग्राम इति ख्यातो विष्णोरमृतकर्मणः। अभिगम्य त्रिलोकेशं वरदं विष्णुमच्युतम् ॥ ४१ अश्वमेधमवामोति विष्णुलोकं च गच्छनि । तत्रोदपानो धर्मज्ञ सर्वपापविमोचनः॥ ४२ समुद्रास्तत्र चत्वारः कृपे संनिहिताः सदा । तत्रोपस्पृश्य राजेन्द्र न दुर्गतिमवानुयात् ॥ अभिगम्य महादेवं वरदं विष्णुमव्ययम् । विराजते यथा सोम ऋणैर्मुक्तो युधिष्ठिर ॥ ४४ जातिस्मर उपस्पृश्य शुचिः प्रयतमानसः । जानिस्मरत्वं प्रामोति स्नात्वा तत्र न संशयः ॥ ४५ वटेश्वरपुरं गत्वा अर्चयित्वा च केशवम् । ईप्सिताल्लँभते लोकानुपवासान्न संशयः ॥ ४६ ततस्तु वामनं गत्वा सर्वपापप्रमोचनम् । अभिवाद्य हरिं देवं न दुर्गतिमवामुयात् ॥ ४७ भरतस्याऽऽश्रमं गत्वा सर्वपापप्रमोचनम् । कोशिकीं तत्र सेवेत महापातकनाशिनीम् ॥ राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ ततो गच्छेत धर्मज्ञ चम्पकारण्यमुत्तमम् । तत्रोप्य रजनीमेकां गोसहस्रफलं लभेत् ।। अथ गोविन्दमासाद्य तीर्थ परममंमतम् । उपोप्य रजनीमेकामग्निष्टोमफलं लभेत् ॥ तत्र विश्वेश्वरं दृष्ट्वा देव्या मह महाद्युतिम् । मित्रावरुणयोर्लोकान्मामुयाद्भरतर्षभ । त्रिरात्रोपोपितस्तत्र अग्निष्टोमफलं लभेत् ॥ कन्योसंवेधमासाद्य नियतो नियताशनः । मनोः प्रजापतेर्लोकानामांति भरतर्षभ । कन्यायां ये प्रयच्छन्ति दानमण्वपि भारत । तदक्षयमिति प्राक्रपयः संशितव्रताः॥ ५३ निष्ठावासं ममासाद्य त्रिषु लोकेषु विश्रुतम् । अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥ ५४ ये तु दानं प्रयच्छन्ति निष्ठायाः मंगमे नराः । ते सान्ति नरशार्दूल ब्रह्मलोकमनामयम् ॥ ५५ तत्राऽऽश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतः । तत्राभिपेकं कुर्वाणो वाजपेयमवामुयात् ॥ ५६ देवकूटं समासाद्य देवर्षिगणमेवितम् । अश्वमेधमवामोति कुलं चैव समुद्धरेत् ॥ ततो गच्छेत राजेन्द्र कौशिकस्य मुनेईदम् । यत्र सिद्धिं परां पाप विश्वामित्रोऽथ कौशिकः ५८ तत्र मासं वसेद्धीरः कौशिक्यां भरतर्षभ । अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति॥ ५९ सर्वतीर्थवरं चैव यः सेवेत महाहदम् । न दुर्गतिमवाप्नोति विन्द्याबहुमुवर्णकम् ॥ ६० कुमारमभिगम्याथ वीराश्रमनिवासिनम् । अश्वमेधमवामोति शकलोकं च गच्छति ॥ ६१ नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् । नरमेधस्य यत्पुण्यं तत्मामोति कुरूद्वह ॥ ६२ कालिकासंगमे स्नात्वा कौशिक्यारुणयोर्यतः । त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ॥ ६३ उर्वशीतीर्थमासाद्य तथा सोमाश्रमं बुधः । कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ॥ ६४ तथा कोकामुखे स्नात्वा ब्रह्मचारी समाहितः । जातिस्मरत्वं प्रामोति दृष्टमेतत्पुरातनैः॥ ६५
१ ट. गोष्टं समा । २ ख. ज. 'न्यावमथमा ।
Page #78
--------------------------------------------------------------------------
________________
७२
महामुनिश्रीव्यासप्रणीतं—
सन्नदीं समासाद्य कृतार्थो भवति द्विजः । सर्वपापविशुद्धात्मा स्वर्गलोकं च गच्छति । ऋषभदीपमासाद्य सेव्य क्रौञ्चनिषूदनम् । सरस्वत्यामुपस्पृश्य विमानस्थो विराजते ॥ औद्यानकं महाराज तीर्थ मुनिनिषेवितम् । तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते || ब्रह्मतीर्थं समासाद्य पुण्यं ब्रह्मर्षिसेवितम् । वाजपेयमवाप्नोति नरो नास्त्यत्र संशयः ॥ ततश्चम्पां समासाद्य भागीरथ्यां कृतोदकः । दण्डार्पणं समासाद्य गोसहस्रफलं लभेत् ॥ mini ततो गच्छेत्पुण्यां पुण्यनिषेविताम् । वाजपेयमवाप्रोति विमानस्थश्च पूज्यते ॥ इति श्रीमहापुराणे पाच आदिखण्डे गयादितीर्थमाहात्म्यकथन नामाष्टात्रिंशोऽभ्याय. ॥ ३८ ॥ आदितः श्लोकानां समश्यङ्काः – २०३४
[ १ आदिखण्डे
resioचत्वारिंशोऽध्याय ।
मारद उवाच --
अथ संध्यां समासाद्ये संविद्यां तीर्थमुत्तमम् । उपस्पृश्य नरो विद्वान्भवेन्नास्त्यत्र संशयः ॥ रामस्य च प्रसादेन तीर्थराजं कृतं पुरा । तल्लौहित्यं समासाविन्यासुवर्णकम् || करतोयां समासाद्य त्रिरात्रोपोषितो नरः । अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ॥ गङ्गायास्त्वथ राजेन्द्र सागरस्य च मंगमे । अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ गङ्गायास्तु परं द्वीपं प्राप्य यः स्नाति भारत । त्रिरात्रोपोषितो राजन्सर्वकाममवामुयात् ॥ ततो वैतरणीं गत्वा नदीं पापप्रमोचनीम् । विरजं तीर्थमासाद्य विराजति यथा शशी ।। भावे च कुलं गत्वा सर्वपापं व्यपोहति । गोसहस्रफलं लब्ध्वा पुनाति स्वकुलं नरः ॥ शोणस्य ज्योतिरथ्याश्च सङ्गमे निवस शुचिः । तर्पयित्वा पितॄन्देवानग्निष्टोमफलं लभेत् ।। शोणस्य नर्मदायाश्च प्रभवे कुरुपुङ्गव । वंशगुल्ममुपस्पृश्य वाजिमेधफलं लभेत् ॥ ऋषभं तीर्थमासाद्य कोशलायां नराधिप । वाजिमेधमवाप्नोति त्रिरात्रांपापिता नरः ॥ कोशलायां समासाद्य कालतीर्थमुपस्पृशेत् । वृषभैकादशगुणं लभते नात्र संशयः || पुष्पषत्यामुपस्पृश्य त्रिरात्रोपोषितो नरः । गोमहस्रफलं विन्द्यात्कुलं चैव समुद्धरेत् || ततो बदरिकातीर्थे स्नात्वा प्रयतमानसः । दीर्घायुष्यमवाप्नोति स्वर्गलोकं च गच्छति ॥ ततो महेन्द्रमासाद्य जामदग्न्यनिषेवितम् । रामतीर्थे नरः स्नात्वा वाजिमेधफलं लभेत् ॥ मतङ्गस्य तु केदारं तत्रैव भरतर्षभ । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ श्रीपर्वतं समासाद्य नदीतीरमुपस्पृशेत् । अश्वमेधमवाप्रांति परां सिद्धिं च गच्छति ॥ श्रीपर्वते महादेवो देव्या सह महाद्युतिः । न्यवसत्परमप्रीतो ब्रह्मा च त्रिदशैर्वृतः । तत्र देवहदे स्नात्वा शुचिः प्रयतमानसः । अश्वमेधमवाप्नोति परां सिद्धिं च गच्छति ॥ ऋषभं पर्वतं गत्वा भाण्डेषु सुरपूजितम् । वाजपेयमवाप्रांति नाकपृष्ठे च मोदते ॥ ततो गच्छेत कावेरीं हृतामप्सरसां गणैः । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ तत्र तीर्थे समुद्रस्य कन्यातीर्थमुपस्पृशेत् । तत्रोपस्पृश्य राजेन्द्र सर्वपापैः प्रमुच्यते ॥
६६
६७
६८
६९
७०
७१
9
२
3
४
ም
६
७
८
५५
3
१४
१५
१६
१७
१८
१९
२०
२१
१८. लावटिकां । २ ख. अ. द्य विद्यातीर्थमनुत्त। ३ ८. सद्विद्यां । ४ ख. ञ. विराज । ५ ग व प्रभव मेकले ग ६ ख. ञ. नतच्गस्य । ७ ख. अ. तिः । रमते पर । ८८. पाण्डेषु ।
Page #79
--------------------------------------------------------------------------
________________
३९ एकोनचत्वारिंशोऽध्यायः ]
पद्मपुराणम् ।
७३
२२ २३
अथ गोकर्णमासाद्य त्रिषु लोकेषु विश्रुतम् । समुद्रमध्ये राजेन्द्र सर्वलोकनमस्कृतम् ॥ यत्र ब्रह्मादयो देवा मुनयश्च तपोधनाः । भूतयक्षाः पिशाचाश्च किंनराः समहोरगाः ॥ सिद्धचारणगन्धर्वा मानुषाः पन्नगास्तथा । सरितः सागराः शैला उपासत उमापतिम् ॥ २४ तत्रेशानं समभ्यर्च्य त्रिरात्रोपोषितो नरः । दशाश्वमेधानाप्नोति गाणपत्यं च विन्दति ॥ २५ उपोप्य द्वादशं रात्रं कृतार्थो जायते नरः । तस्मिन्नेव तु गायत्र्याः स्थानं त्रैलोक्यविश्रुतम् ॥ २६ त्रिरात्रमुषितस्तत्र गोसहस्रफलं लभेत् । निदर्शनं च प्रत्यक्षं ब्राह्मणानां नराधिप । गायत्री पठते यस्तु योनिसंकरजी द्विजः । गाथा वा गीतिका वाणी तस्य संपद्यते नृप ।। २८ अब्राह्मणस्य पठतः सावित्री तूपनश्यति । संवर्तस्य तु विप्रर्षेर्वापीमासाद्य दुर्लभाम् ।। रूपस्य भागी भवति सुभगश्चाभिजायते ॥
२७
1
२९
३०
३२
३५
३६
३७
३८
ततो वर्णोचमासाद्य तर्पयेत्पितृदेवताः । मयुरहंससंयुक्तं विमानं लभते नरः ॥ ततो गोदावरी प्राप्य नित्यसिद्धनिषेविताम् । गवामयमवासोति वायुलोकं च गच्छति ॥ वेणायाः संगमे स्नात्वा वाजपेयफलं लभेत् । वरदासंगमे स्नात्वा गोसहस्रफलं लभेत् ॥ ब्रह्मस्थूणां समासा त्रिरात्रोपोषितो नरः । गोसहस्रफलं विन्द्यात्स्वर्गलोकं च गच्छति ॥ ३३ कुब्जावनं समासाद्य ब्रह्मचारी समाहितः । त्रिरात्रोपोषितः स्नात्वा गोसहस्रफलं लभेत् ॥ ३४ ततो देवहदे स्नात्वा कृष्णवर्णजलोद्भवे । ज्योतिर्मादे चैव तथा कन्याश्रमे नृप । यत्र क्रतुशतैरिष्ट्वा देवराजो दिवं गतः । अग्निष्टोमशतं विन्यासनादेव तत्र तु ॥ सर्वदेवहदे स्नात्वा गोसहस्रफलं लभेत् । जानिमात्र स्नात्वा भवेज्जातिस्मरो नरः ॥ नतो वापीं महापुण्यां पयोष्णीं सरितां वराम् । पितृदेवार्चनरतो गोसहस्रफलं लभेत् ।। दण्डकारण्यमासाद्य महाराज उपस्पृशेत् । सरभङ्गाथमं गत्वा शुकस्य च महात्मनः ॥ न दुर्गतिमवामोति पुनाति स्वकुलं नरः ॥ ततः सूर्यारिकं गच्छेज्जमदग्निनिषेवितम् । रामतीर्थे नरः स्नात्वा विन्धादुसुवर्णकम् ॥ सप्तगोदावरी स्नात्वा नियतो नियताशनः । महापुण्यमत्रानोति देवलोकं च गच्छति ॥ ततो देवपथं गच्छेन्नियतो नियताशनः । देवसत्रस्य यत्पुण्यं तदवामांति मानवः तुङ्गकारण्यमासाद्य ब्रह्मचारी जितेन्द्रियः । वेदानध्यापयत्तत्र मुनीन्सारखतः पुरा ॥ as वेदान्नस्तु मुनेरङ्गिरसः सुतः । उपविष्टो महर्षीणामुत्तरीयेषु भारत । ओंकारेण यथान्यायं सम्यगुच्चारितेन ह । येन यत्पूर्वमभ्यस्तं तस्य तत्समुपस्थितम् ॥ ऋपयस्तत्र देवाथ वरुणोऽग्निः प्रजापतिः । हरिर्नारायणो देवो महादेवस्तथैव च ॥ पितामहश्च भगवान्देवैः सह महाद्युतिः । भृगुं नियोजयामास याजनार्थे महाद्युतिम् ॥ ततः स चक्रे भगवानृषीणां विधिवत्तदा । सर्वेषां पुनराधानं वेददृष्टेन कर्मणा ॥ आज्यभागेन वै तत्र तर्पितास्तु यथाविधि । देवास्त्रिभुवनं याता ऋषयश्च यथासुखम् ॥ तदरण्यं प्रविष्टस्य तुङ्गकं राजसत्तम । पापं विनश्यते मद्यः स्त्रिया वै पुरुषस्य वा ॥ तत्र मासं वसेद्धीरो नियतो नियताशनः । ब्रह्मलोकं व्रजेद्राजन्पुनीते च कुलं पुनः ॥ मेधावनं समासाद्य पितृदेवांश्च तर्पयेत् । अग्निष्टोममवाप्नोति स्मृतिं मेधां च विन्दति ॥
३९
४०
४१
४२
४३
४४
४५
४६
४७
४८
४९
५०
५१
५२
१८. योऽनिशं कण्ठतो द्वि । २ ८. तो वेणां समा । ३. मू । राजसूय । ४. प्णवेणज । ५ ख. म. सूर्यार्यकं । ८. गुर्दारकं ।
१०
Page #80
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेक्षेत्र कालंजरं गत्वा गोसहस्रफलं लभेत् । आत्मानं साधयेत्तत्र गिरी कालंजरे नृप । खर्गलोके महीयेत नरो नास्त्यत्र संशयः॥ ततो गिरिवरश्रेष्ठे चित्रकूटे विशां पते । मन्दाकिनी समासाद्य नदी पापप्रमोचनीम् ॥ ५४ अत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः । अश्वमेधमवामोति गतिं च परमां व्रजेत् ॥ ५५ ततो गच्छेत राजेन्द्र भर्तृस्थानमनुत्तमम् । यत्र देवो महासेनो नित्यं संनिहितो नृप ॥ ५६ पुमांस्तत्र नरश्रेष्ठ गमनादेव सिध्यति । कोटितीर्थे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ ५७ प्रदक्षिणमुपावृत्य शिवस्थानं व्रजेन्नरः । अभिगम्य महादेवं विराजति यथा शशी ॥ ५८ तत्र कूपो महाराज विश्रुतो भरतर्षभ । समुद्रा यत्र चत्वारो निवसन्ति युधिष्टिर ॥ ५९ तत्रोपस्पृश्य राजेन्द्र कृत्वा चापि प्रदक्षिणम् । नियतात्मा नरः पूतो गच्छेत परमां गतिम् ॥ ६० ततो गच्छेत्कुरुश्रेष्ठ शृङ्गवेरपुरं महत् । यत्र तीर्णो महापाज्ञो गमा दाशरथिः पुरा ॥ ६१ गमायां तु नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः। विधूतपाप्मा भवति वाजपेयं च विन्दति ॥६२ ततो मुञ्जवटं गच्छेत्स्थानं देवस्य धीमतः । अभिगम्य महादेवमभ्यर्च्य च नराधिप ॥ प्रदक्षिणमुपावृत्य गाणपत्यमवाप्नुयात् ॥ ततो गच्छेत राजेन्द्र प्रयागमृषिसंस्तुतम् । यत्र ब्रह्मादया देवा दिशश्च सदिगीश्वराः॥ ६४ लोकपालाश्च सिद्धाश्च निरताः पितरस्तथा । सनत्कुमारप्रमुग्यास्तथैव च महर्पयः॥ सथा नागाः सुपर्णाश्च सिद्धाः शुक्रधरास्तथा । सरितः सागराश्चैव गन्धर्वाप्मरसस्तथा । हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ।। तत्र त्रीण्यपि कुण्डानि तयोर्मध्येन जाह्नवी । प्रयागान्समनिक्रान्ता सर्वतीर्थपुरस्कृता ।। तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता । यमुना गङ्गया सार्थ संगता लोकभाविनी ।। गहायमुनयोमध्ये पृथिव्या जघनं स्मृतम् । प्रयागं जघनस्यान्तमुपस्थमृषयो विदुः ।।। प्रयागं सुप्रतिष्ठानं कम्बलाश्वतरावुभौ ॥ तीर्थ भोगवती चैव वेदी प्रोक्ता प्रजापतः । तत्र वंदाश्च यज्ञाश्च मूर्तिमन्तां युधिष्ठिर ।।। प्रजापतिमुपासन्त ऋषयश्च महानघाः । यजन्त ऋतुभिर्देवांस्तथा चक्रधरा नृप ।।। ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत । प्रयागं सर्वतीर्थेभ्यः प्रभावणाधिकं प्रभो ।। श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि । मृर्धकानमनाद्वाऽपि सर्वपापः प्रमुच्यते ॥ तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः । पुण्यं सुमहदामानि राजसूयाश्वमेधयोः ॥ एषा यजनभूमिर्हि देवानामपि तत्कथा । दत्तं तत्र स्वल्पमपि महद्भवति भारत ।। न देववचनात्तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागमरणं प्रति ॥ दशतीर्थसहस्राणि पष्टिकोव्यस्तथा पराः । येषां सांनिध्यमत्रव कीर्तितं कुरुनन्दन ।। चातुर्विद्ये च यत्पुण्यं सत्यवादिषु चैव यत् । स्नात एव तदामोति गङ्गायमुनसंगमे ॥ ततो भोगवती नाम वासुकेतार्थमुत्तमम् । तत्राभिषेकं यः कुर्यात्सोऽश्वमेधमवामुयात् ॥ ७९ तत्र हंसप्रपतनं तीर्य त्रैलोक्यविश्रुतम् । दशाश्वमधिकं चैव गङ्गायां कुरुनन्दन ॥ कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाहिता । विशेषो वै कनखले प्रयागं परमं महत् ॥ यद्यकार्यशतं कृत्वा कृतं गमावसेवनम् । सर्व तत्तस्य गङ्गापो दहत्यनिरिवेन्धनम् ॥ ८२ ११. ततः । २ ख. म. 'न्द्र गुहस्था' । ३ ख. अ. 'श्व विद्यावतध'। ४ ट. कपावनी । ५ ट. पि । मृत्तिका ।।
.: ००
७६
७८
Page #81
--------------------------------------------------------------------------
________________
३९ एकोनचत्वारिंशोऽध्यायः ] पद्मपुराणम् । सर्व दहति गङ्गापस्तूलराशिमिवानलः । सर्वे कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम् ।। द्वापरे तु कुरुक्षेत्रं गङ्गा कलियुगे स्मृता । पुष्करे तु तपस्तप्येहानं दद्यान्महालये ॥ मलये त्वग्निमारोहेगुतुङ्गे त्वनाशनम् । पुष्करे तु कुरुक्षेत्रे गङ्गापोमध्यमेषु च ॥ सद्यस्तारयते जन्तुः सप्तसप्तावरांस्तथा ॥ पुनाति कीर्तिता पापं दृष्टा तत्र (भद्र) प्रयच्छति । अवगाढा च पीता च पुनात्यासप्तमं कुलम् ८६ यावदस्थि मनुष्यस्य गङ्गायाः स्पृशते जलम् । तावत्स पुरुषो राजन्स्वर्गलोके महीयते ॥ ८७ यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च । उपास्य पुण्यं लब्ध्वा च भवति परलोकभाक् ॥ ८८ न गङ्गासदृशं तीर्थ न देवः केशवात्परः । ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः॥ ८९ यत्र गङ्गा महाराज स देशस्तत्तपोवनम् । सिद्धक्षेत्रं च विज्ञेयं गङ्गातीरसमाश्रितम् ॥ ९० इदं सत्यं द्विजातीनां साधूनां मानसेषु च । मुक्तिं चैव जपेत्कर्णे शिष्टस्यानुगतस्य च ॥ ९१ इदं धर्म्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम् । इदं पुण्यतमं रम्यं पावनं धर्ममुत्तमम् ।। महाशिषमिदं गुह्यं सर्वपापप्रमोचनम् । अधीत्य द्विजमध्ये च निर्मलत्वमवामुयात् ।। श्रीमत्स्वग्ये महापुण्यं सपनशमनं शिवम् । मेधाजननमग्यं वै तीथेवंशानुकीतनम् ॥ ९४ अपुत्रो लभते पुत्रमधनो धनमामुयात् । महीं विजयते राजा वेश्यो धनमवामुयात् ।। शूद्रो वाऽथेप्सितान्कामान्ब्राह्मणः पारगः पठन् । यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः । जानीः संस्मरते बहीर्नाकपृष्ठे च मोदते ॥ ९६ गम्यान्यपि च तीर्थानि कीर्तितान्यगमान्यपि । मनसाऽप्यभिगच्छेत सर्वतीर्थमभीप्सया ॥ ९७ एतानि वसुभिः साध्यैरादिन्यैर्मरुदश्चिभिः । ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः॥ ९८ एवं त्वमपि कौरव्य विधिनाऽनेन सुव्रत । वन तीर्थानि नियतः पुण्यं पुण्येन वर्धते ॥ ९९ भावितैः कारणैः पूर्वमास्तिक्याच्छ्रतिदर्शनात् । प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः॥ नावतो नाकृतात्मा च नाशुचिर्न च तस्करः । स्नाती तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥१०१ त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना । पितरस्तपितास्तात सर्वे च प्रपितामहाः ॥ पितामहपुरोगाश्च देवाः सर्षिगणास्तथा ।
[*वसिष्ठ उवाच-] लं च धर्मेण धर्मज्ञ नित्यमेवाभितोषितः । दिलीप कीर्ति महती प्राप्स्यसे भुवि शाश्वतीम् ॥१०३
नारद उवाचएवमुक्त्वाऽभ्यनुज्ञाप्य वसिष्ठो भगवानृषिः। प्रातः प्रीतेन मनसा तत्रैवान्तरधीयत ॥ १०४ दिलीपः कुरुशार्दूल शास्त्रतत्त्वार्थदर्शनात् । वसिष्ठवचनाच्चैव पृथिवीमनुचक्रमे ॥ एवमेषा महाभाग प्रतिष्ठाने प्रतिष्ठिता । तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी ॥ १०६ अनेन विधिना यस्तु पृथिवीं पर्यटिष्यति । अश्वमेधशतं सायं फलं प्रेत्यैष भोक्ष्यते ॥ १०७ ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् । दिलीपः पार्थ नृपतिर्यथा पूर्वमवाप्तवान् । नेता च त्वमृषीन्यस्मात्तस्मात्तेऽष्टगुणं फलम् ॥
१०८ रक्षोगणविकीर्णानि तीर्थान्येतानि भारत । न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन ॥ १०९
___ * इदं ख. अ. पुस्तकयोरेव। १ ख. ज. गायोध्यापुरेषु । २ ख. म. महर्षीणामि । ३ ख. म. 'न् । सेवसे त्व।
१०२
Page #82
--------------------------------------------------------------------------
________________
७६
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेइदं देवर्षिचरितं सर्वतीर्थानुसंश्रितम् । यः पठेत्कल्य उत्थाय सर्वपापैः प्रमुच्यते ॥ ११० ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ कश्यपः।आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गोतमः१११ असिनो देवलश्चैव मार्कण्डेयोऽथ गालवः । भरद्वाजस्य शिष्यश्च मुनिरुद्दालकस्तथा ॥ ११२ शौनकः सह पुत्रेण व्यासश्च नेपतां वरः । दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः॥ ११३ एते ऋपिवराः सर्वे त्वत्प्रतीक्ष्यास्तपोधनाः । एभिः सह महाभाग तीर्थान्येतान्यनुव्रज ॥ प्राप्स्यसे महती कीर्ति यथा राजा महाभिपः ॥ यथा ययानिर्धर्मात्मा यथा राजा पुरूरवाः । तथा त्वं कुरुशाईल स्वेन धर्मेण शोभसे ॥ ११५ यथा भगीरथो राजा यथा रामश्च विश्रुतः । यथा व वृत्रहा सर्वान्मपन्नानदहन्पुरा ॥ ११६ अलोक्यं पालयामास देवगडिगतज्वरः । तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि ॥ ११७ स्वधर्मेणार्जितामुर्वी प्राप्य राजीवलोचन । ख्याति यास्यसि वीर्यण कार्तवीर्यार्जुनो यथा॥११८
सूत उवाचएवमाभाग्य राजानं नारदो भगवानृषिः । अनुज्ञाप्य महाराज तत्रैवान्तरधीयत ।। ११९ गुधिष्ठिरोऽपि धर्मात्मा ऋषिभिः सह सुव्रतः । जगामाग्विलतीर्थानि सादरः पृथिवीपतिः १२० मयोक्तामृषयः सर्वे तीर्थयात्राश्रयां कथाम् । यः पठेच्छणुयाद्वाऽपि स मुक्तः मर्वपातकः॥१२१ मयोक्तमखिलं तत्वं किं भूयः श्रोतुमिच्छथ । ऋषीणां पुण्यकीतीनां नावक्तव्यं ममास्ति वै।।१२२ इति श्रीमहापुराणे पाद्म आदिखण्डे नानाविधनार्थकथन नामकोनचत्वारिंशोऽध्याय ॥ ३९ ॥
आदितः श्लोकानां समष्टयङ्काः--२१५६
अथ चत्वारिशोऽध्यायः।
सूत उवाचएवमुक्तानि तीर्थानि विष्णुदेहानि सुव्रताः। एपामन्यतमासङ्गान्मुक्ता भवति मानवः ॥ ? तीर्थानुश्रवणं धन्यं धन्यं तीर्थनिषेवणम् । पापगशिनिपाताय नान्यांपायः कलौ युगे ।। २ वासं कुर्यामहं तीर्थे तीर्थम्पर्शमहं तथा । एवं योऽनुदिनं बृते स यानि परमं महत् ।। ३ पापानि तस्य नश्यन्ति तीर्थालापनमात्रतः । तीर्थानि खलु धन्यानि धन्यसेव्यानि सुव्रताः ॥ ४ तीर्थानां सेविनां देव सेवितो भवति प्रभुः । नारायणो जगकर्ता नास्ति तीर्थात्परं पदम् ॥ ५ ब्रामणस्तुलसी चैव अश्वत्थस्तीर्थसंचयः । विष्णुश्च परमंशानः सेव्य एव सदा नृभिः॥ ६ ब्राह्मणानां विशेषेण सेवनं मुनिपुङ्गवाः । सर्वतीर्थावगाहादेरधिकं विदुरग्रजाः ॥ तस्मानि(वि)जपदं साक्षात्सर्वतीर्थमयं शुभम् । भजेतानुदिनं विद्वांस्तत्र तीर्थाधिकं भवेत् ॥ ८ अश्वत्थस्य तुलस्याश्च गवां सूर्यात्प्रदक्षिणात् । सर्वतीर्थफलं प्राप्य विष्णुलोके महीयते ॥ ९ तस्माहुष्कृतकर्माणि नाशयेत्तीर्थसंवनात् । अन्यथा नरकं याति कर्म भोगाद्धि शाम्यति ॥ १० पापिना नरके वासः मुकृती स्वर्गमभुते । तस्मात्पुण्यं निषेवेत तीर्थ खलु विचक्षणः ॥ ११
ऋषय ऊचुःभ्रुतानि किल तीर्थानि समाहात्म्यानि सुव्रत । इदानीं श्रोतुमिच्छामः प्रयागस्य विशेषकम्॥१२
१ ख. अ. जपतां । २ ख. अ. भगारथः ।
Page #83
--------------------------------------------------------------------------
________________
४० चत्वारिंशोऽध्यायः ] पत्रपुराणम् । प्रयागं तु पुरा प्रोक्तं संक्षेपात्सूत यत्त्वया । विशेषाच्छ्रोतुमिच्छामः सूत नः कथ्यतामिति ॥ १३
सूत उवाचसाधु पृष्टं महाभागाः प्रयागं प्रति सुव्रताः । हन्ताहं तत्प्रवक्ष्यामि प्रयागस्योपवर्णनम् ॥ १४ मार्कण्डेयेन कथितं यत्पुरा पाण्डुसनवे । भारते च तदा वृत्ते प्राप्तराज्ये पृथासुते ॥ १५ एतस्मिन्नन्तरे राजा कुन्तीपुत्रो युधिष्ठिरः । भ्रातृशोकेन संतप्तश्चिन्तयंस्तु पुनः पुनः॥ १६ आसीहुर्योधनो राजा एकादशचमपतिः । अस्मान्संतप्य बहुशः सर्वे ते निधनं गताः॥ १७ वासुदेवं समाश्रित्य पञ्च शेषास्तु पाण्डवाः । कथं द्रोणं च भीष्मं च कर्ण चैत्र महाबलम् ॥ १८ दुर्योधनं च राजानं भ्रातृपुत्रममन्वितम् । राजानो निहताः मर्वे ये चान्ये शूरमानिनः ॥ १९ विना राज्येन कर्तव्यं किं भोगैर्जीवितेन वा। धिकष्टमिति संचिन्त्य राजा विकुलतां गतः॥ २० निश्चेष्टोऽथ निरुत्साहः किंचित्तिष्ठत्यधोमुखः । लब्धमंज्ञो यदा राजा चिन्तयानः पुनः पुनः२१ कं चरे विधिना योगं नियमं तीथमेव वा । येनाहं शीघ्रमामुच्ये महापातककिल्बिषात् ॥ २२ यत्र स्नात्वा नरो याति विष्णुलोकमनुत्तमम् । कथं पृच्छामि वै कृष्णं येनेदं कारितं महत् ॥ २३ धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम् । व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः॥ २४ एवं वैलव्यमापन्नो धर्मपुत्रो युधिष्ठिरः । रुदन्तः पाण्डवाः सर्वे भ्रातृशोकपरिप्लुताः॥ २५ ये च तत्र महात्मानः समेताः पाण्डवाश्रिताः। कुन्ती च द्रौपदी चैव ये च तत्र समागताः॥ भूमौ निपतिताः सर्वे रोदमानाः समन्ततः ।। वाराणस्यां तु मार्कण्डस्तेन ज्ञानी युधिष्ठिरः । यथा विक्रवमापनो रोदमानः सुदुःखितः ॥ २७ अचिरणव कालेन मार्कण्डस्तु महातपाः । हस्तिनापुरसंप्राप्तो राजद्वारे स तिष्ठति ॥ २८ द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथिलवान्द्रुतम् । त्वां द्रष्टु कामो मार्कण्डो द्वारे तिष्ठत्यसौ मुनिः ।। त्वरितो धर्मपुत्रस्तु द्वारमेत्याऽऽह तत्परः॥
२९ युधिष्ठिर उवाचस्वागतं ते महाप्राज्ञ स्वागतं ते महामुने । अद्य मे सफलं जन्म अद्य मे पावितं कुलम् ॥ अद्य मे पितरस्तृप्तास्त्वयि दृष्टे महामुने ।। सिंहासन उपस्थाप्य पादशौचार्चनादिभिः । युधिष्ठिरां महात्मा वै पूजयामास तं मुनिम् ।। ३१ ततस्तमूचे मार्कण्डः पूजितोऽहं त्वया विभो । आख्याहि त्वरितो राजन्किमर्थ त्वरितं त्वया ।। केन वा विक्लवीभूतः कथयस्व ममाग्रतः ।।
युधिष्ठिर उवाचअस्माकं चैव यवृत्तं राज्यस्यार्थे महामुने । एतत्सर्व विदित्वा तु भगवानिह चाऽऽगतः ॥ ३३
मार्कण्डेय उवाचशृणु राजन्महाबाहो यत्र धर्मो व्यवस्थितः । नैव दृष्टं रणे पापं युध्यमानस्य धीमतः ॥ ३४ किं पुरा राजधर्मेण क्षत्रियस्य विशेषतः । तदेवं हृदये कृत्वा तस्मात्पापं न चिन्तयेत् ॥ ३५ ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम् । पृच्छामि त्वां मुनिश्रेष्ठ सदा त्रैकाल्यदर्शनम् ॥ कथय त्वं समासेन मुच्येऽहं येन किल्बिषात् ॥
१ क. ततः स तुष्टो मा।
Page #84
--------------------------------------------------------------------------
________________
७८
महामुनिश्रीव्यासप्रणीतं
[१ आदिखण्डेमार्कण्डेय उवाचशृणु राजन्महाभाग यन्मां पृच्छसि भारत । एवं मांख्यं च योगं च तीर्थ चैव युधिष्ठिर ॥ ३७ किं पुनर्बाह्मणैः पुण्यैः कीर्तितं वै पुरा विभो । प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम् ॥ ३८
इति श्रीमहापुराणे पाय आदिखण्डे चत्वारिंशोऽध्यायः ॥ ४० ॥ आदितः श्लोकानां समष्टयङ्काः--२१९४
---- -- अधकचत्वारिंशोऽध्यायः ।
युधिष्ठिर उवाचभगवश्रोतुमिच्छामि पुरा कल्पे यथा स्थितम् । कथं प्रयागगमनं नराणां तत्र कीदृशम् ॥ १ मृतानां का गतिस्तत्र स्नातानां चैव किं फलम् । ये वमन्ति प्रयागे तु हि तेषां च किं फलम् ॥ एतन्मे सर्वमाख्याहि परं कौतूहलं हि मे ।।
मार्कण्डेय उवाचकथयिप्यामि ते वत्स नाथेष्टं यच्च यत्फलम् । पुरा ऋषीणां विप्राणां कथ्यमानं मया श्रुतम् ।।३ आमयागात्प्रतिष्टानाद्धर्मकीवासुकीहदात् । कम्बलाश्वतरो नागा नागाश्च बहुमलिकाः ॥ ४ एतत्पजापतिक्षेत्रं त्रिषु लोकेषु विश्रुतम् । अत्र सात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः॥ ५ तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः । अन्ये च बहवस्तीथोः सर्वपापहराः शुभाः॥ ६ न शक्याः कथितुं राजन्बहुवर्षशनैरपि । संक्षेपेण प्रवक्ष्यामि प्रयागस्य च कीर्तनम् ॥ ७ पष्टिधनुःसहस्राणि परिरक्षन्ति जाहवीम् । यमुनां रक्षति सदा सविता सप्तवाहनः ।। प्रयागं तु विशेषेण स्वयं रक्षति वासवः । मण्डलं रक्षति हरिदेवैः सह सुसंमतम् ॥ तं वटं रक्षते नित्यं शूलपाणिमहेश्वरः । स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥ अधर्मेण वृतो लोको नैव गच्छति सत्पदम् ॥ स्वल्पमल्पतरं पापं यदा तस्य नराधिप । प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् ।। दर्शनात्तस्य तीर्थस्य नामसंकीर्तनादपि । मृत्तिकालभनाद्वाऽपि नरः पापाद्विमुच्यते ॥ १२ पश्च कुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी । प्रयागे तु प्रविष्टस्य पापं नश्यति तत्क्षणात् ॥ १३ योजनानां सहस्रेषु गङ्गां स्मरति यो नरः । अपि दुष्कृतकर्माऽसो लभते परमां गतिम् ॥ १४ कीर्तनान्मुच्यते पादृष्ट्वा भद्राणि पश्यति । अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम् ॥ १५ सत्यवादी जितक्रोधो अहिसां परमां स्थितः । धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः ॥ १६ गङ्गायमुनयोर्मध्ये स्नातो मुच्यत किल्बिषात् । मनसा चिन्तितान्कामान्सम्यक्पामोति पुष्कलान् ॥ ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम् । ब्रह्मचारी वसेन्मासं पितृदेवांश्च तर्पयत् ॥ ईप्सिताल्लँभते कामान्यत्र तत्राभिजायते ।। तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगा॥ १९ तत्र संनिहितो नित्यं साक्षाद्देवो महेश्वरः । दुष्पापं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर ॥ २०
१ख. ज. "त्स प्रयागस्य च य । २ख. ज. सदसि ।
१८
Page #85
--------------------------------------------------------------------------
________________
४२ द्विचत्वारिंशोऽध्यायः ]
पद्मपुराणम् ।
देवदानवगन्धर्वा ऋषयः सिद्धचारणाः । तत्रोपस्पृश्य राजेन्द्र स्वर्गलोके सुखं गताः ।।
इति श्रीमहापुराणे पाच आदिखण्ड एकचत्वारिंशोऽध्यायः ॥ ४१ ॥ आदितः श्लोकानां समथ्र्यङ्काः – २२१५
अथ द्विचत्वारिंशोऽध्यायः ।
७९
२१
मार्कण्डेय उवाच
१
३
४
७
८
१० ११
१२
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । प्रयागे सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ आर्तानां च दरिद्राणां निश्चितव्यवसायिनाम् । स्थानं मुक्त्वा प्रयागं तु नाक्षयं तु कदाचन ॥ २ गङ्गायमुनमासाद्य यस्तु प्राणान्परित्यजेत् । दीप्तकाश्चनवर्णाभे विमाने सूर्यवर्चसि ॥ धरमांमध्ये स्वर्गे मोदेन मानवः । ईप्सिता भने कामान्वदन्ति ऋषिपुंगवाः ॥ सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः । वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणैः ॥ गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते । यावन स्मरते जन्म तावत्स्वर्गे महीयते ॥ तत्र स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः । हिरण्यरत्नमंपूर्ण समृद्धे जायते कुले ॥ तदेव स्मरते तीर्थ स्मरणात्तत्र गच्छति । देशस्थो यदि वाऽरण्ये विदेशे यदि वा गृहे ॥ प्रयागं स्मरमात्रोऽपि यस्तु प्राणान्परित्यजेत् । स ब्रह्मलोकमाशांति वदन्ति ऋषिपुंगवाः ॥ ९ सर्वकामफला वृक्षा मही यत्र हिरण्मयी । ऋषयो मुनयः सिद्धा यत्र लोके प्रगच्छति ॥ स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्त शुभे । मद ऋषिभिः सार्धं स्वकृतेनेह कर्मणा ॥ सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः । ततः स्वर्गात्परिभ्रष्ट जम्वृद्वीपपतिर्भवेत् ॥ ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः । गुणवान्वित्तसंपन्नो भवतीह न संशयः ॥ कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः । गङ्गायमुनयोर्मध्ये यस्तु दानं प्रयच्छति ।। सुवर्णमणिमुक्तां वा यदि वान्यं प्रतिग्रहम् । स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा ।। निष्फलं तस्य तत्तीर्थं यावत्तत्फलमश्रुते । एवं तीर्थे न गृह्णीयात्पुण्येष्वायतनेषु च ॥ निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् । कपिलां पाउलावणं प्रयागे यः प्रयच्छति ॥ १७ स्वर्णगृह रौप्यखुरां चलकण्ठीं पयस्विनीम् । प्रयागे श्रोत्रियं साधुं ग्राहयित्वा यथाविधि ।। १८ शुक्लाम्रधरं शान्तं धर्मज्ञं वेदपारगम् । सा गौस्तम्मै च दातव्या गङ्गायमुनसंगमे ॥ वासांसि च महाहाणि रत्नानि विविधानि च । यावद्रोमाणि तस्या गोः सन्ति गात्रेषु सत्तम २० तावद्वर्षसहस्राणि स्वर्गलोके महीयते । यत्रासौ लभते जन्म सा गौस्तत्राभिजायते ॥ I न च पश्यत्यसौ घोरं नरकं तेन कर्मणा । उत्तरान्स कुरून्प्राप्य मोदते कालमक्षयम् ॥ २२ गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् । पुत्रान्दारांस्तथा भृत्यान्गौरेका प्रतिनारयेत् ॥ २३ तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते । दुर्गमे विपमे धीरे महापातकसंभवे । गौरव रक्षां कुरुते तस्माद्देया द्विजातये ।।
१३
१४
१५
१६
१९
२१
इति श्रीमहापुराणे पाद्म आदिखण्डे विचत्वारिंशोऽध्यायः ॥ ४२ ॥ आदितः श्लोकानां समथ्यङ्काः – २२३९
१ क. के महीयते । इ । २ क. योगहा ।
२४
Page #86
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डे
अथ त्रिचत्वारिंशोऽध्यायः ।
..
..
बुधिष्ठिर उवाचयथा प्रवानस्य पुने माहात्म्यं कथितं स्वया । तथा यथा प्रमुच्येऽहं सर्वपापर्न संशयः॥ १ भगपन्केन विधिना गन्तव्यं धर्मनिश्चयैः । प्रयागे यो विधिः प्रोक्तस्तं मे धूहि महामुने ॥ २
मार्कण्डेय उपाचकथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् । यो गच्छेत कुरुश्रेष्ठ प्रयागं देवसंयुतम् ।। पलीवर्दै समारूढः शृणु तस्यापि यत्फलम् ॥ बसते नरके घोरे गवां क्रोधे सुदारुणे । सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः ॥ ४ यस्तु पुत्रांस्तथा बालान्नापयेत्पाययेत्तथा । यथाऽऽत्मनस्तथा मन्दिानं विप्रेषु दापयेत् ॥ [* ऐश्वर्यं लभते चायं ब्रह्मलोके महीयते ॥ ऐश्वर्यलोभान्मोहाद्वा गच्छेद्यानेन यो नरः । निष्फलं तस्य तत्तीर्थ तस्माद्यानं परित्यजेत् ॥ ६ गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति । आर्षेण तु विधानेन यथाविभवमंभवम् । नं पश्यति यमं घोरं नरकं तेन कर्मणा । उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम् ।। ८ पुत्रांस्तु दारालँभते धार्मिकान्नयसंयुतान् । तत्र दानं प्रदातव्यं यथाविभवमंभवम् ॥ तेन तीर्थफलेनैव वर्धते नात्र संशयः । स्वर्गे तिष्ठति राजेन्द्र यावदाभूतसंप्लवम् ॥ १० वटमूलं समाश्रित्य यस्तु प्राणान्परित्यजेत् । सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ॥ ११ तत्र ते द्वादशाऽऽदित्यास्तपन्ति रुद्रमाश्रिताः । निर्दहन्ति जगत्सर्वे वटमूलं न दह्यते ॥ १२ नष्टचन्द्रार्कपवनं यदा चैकार्णवं जगत् । स्वपित्यत्रैव वै विष्णुरिज्यमानः पुनः पुनः ॥ १३ देवदानवगन्धर्वा ऋषयः सिद्धचारणाः । मदा मेवन्ति तत्तीर्थ गङ्गायमुनमंगमे ॥ तत्र गच्छन्ति राजेन्द्र प्रयागे संयुतं च यत् । तत्र ब्रह्मादयो देवा दिशश्चैव दिगीश्वराः ॥ १५ लोकपालाश्च साध्याश्च पितरो लोकममताः । सनत्कुमारप्रमुखास्तथैव परमर्पयः ॥ १६ अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयः परे । तथा नागाश्च सिद्धाश्च सुपर्णाः खेचराश्च ये ॥ १७ सरितः सागराः शैला नागा विद्याधरास्तथा । हरिश्च भगवानास्त प्रजापतिपुरस्कृतः ॥ १८ गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ॥ १० ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत । श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि ॥ मृत्तिकालम्भनाद्वाऽपि नरः पापात्प्रमुच्यते ॥ तत्राभिषेक यः कुर्यात्संगमे संशितव्रतः । तुल्यं फलमवामीति राजसूयाश्वमेधयांः ॥ न वेदवचनात्तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागगमनं प्रति ॥ दश तीर्थसहस्राणि पष्टिकोव्यस्तथाऽपराः । येषां सांनिध्यमत्रव कीर्तनात्कुरुनन्दन ॥ २३ या गतिर्योगयुक्तस्य सदुत्थस्य मनीपिणः । सा गतिस्त्यजतः प्राणान्गङ्गायमुनसंगमे ॥ २४ ते न जीवन्ति लोकेऽस्मिन्यत्र यत्र युधिष्ठिर । ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥ २५ एवं दृष्ट्वा तु तत्तीर्थ प्रयागं परमं पदम् । मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ २६
* अयं पाटः ख. अ. पुस्तकयोरेव। १ख. अ. 'ते। कामाल्लोभाद्भयान्मोहादच्छे । २ट. न च पश्यति त घो ।
..
Page #87
--------------------------------------------------------------------------
________________
४३ त्रिचत्वारिंशोऽध्यायः ] पद्मपुराणम् । कम्बलाश्वतरौ नागौ यमुनादक्षिणे तटे । तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥ २७ तत्र गत्वा तु तत्स्थानं महादेवस्य धीमतः । नरस्तारयते सर्वान्दशातीतान्दशापरान् ॥ २८ कृत्वाऽभिषेकं तु नरः सोऽश्वमेधफलं लभेत् । स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम् ॥ २९ पूर्वपार्धे तु गङ्गायास्त्रिषु लोकेषु भारत । कूपं चैव तु सामुद्रं प्रतिष्ठानं च विश्रुतम् ॥ ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति । सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥ उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः । हंसप्रपतनं नाम तीर्थ त्रैलोक्यविश्रुतम् ॥ अश्वमेधफलं तस्मिन्नातमात्रस्य भारत । यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ॥ उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे । सलिलस्तर्पयेद्यस्तु पितृस्तत्र विमत्सरः ॥ पष्टिवर्पसहस्राणि षष्टिवर्षशतानि च । सेवते पितृभिः सार्ध स्वर्गलोकं नराधिप ॥ पूज्यते सततं तत्र ऋषिगन्धर्वकिंनरैः । ततः स्वर्गपरिभ्रष्टः क्षीणकर्मा दिवश्च्युतः॥ ३६ उर्वशीसदृशीनां तु कन्यानां लभते शतम् । गवां शतसहस्राणां भोक्ता भवति भूमिप ॥ ३७ काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते । भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थ लभते पुनः ॥ ३८ कुशासनधरो नित्य नियतः संयतेन्द्रियः । एककालं तु भुञ्जानो मासं भोगपतिर्भवेत् ॥ ३९ सुवर्णालंकृतानां तु नारीणां लभते शतम् । पृथिव्याः मसमुद्राया महाभोगपतिर्भवेत् ॥ ४० दशग्रामसहस्राणां भोक्ता भवति भूमिप । काञ्चीनपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते ॥ ४१ धनधान्यसमायुक्तो दाता भवति नित्यशः।स भुक्त्वा विपुलान्भोगांस्तत्तीर्थ स्मरते पुनः॥४२ अथ तस्मिन्वटे रम्ये ब्रह्मचारी जितेन्द्रियः । उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवामुयात् ॥ ४३ कोटितीर्थ समासाद्य यस्तु प्राणान्परित्यजेत् । कोटिवर्षसहस्राणि स्वर्गलोके महीयते ॥ ४४ ततः स्वगोत्परिभ्रष्टः क्षीणकमो दिवश्च्युतः । सुवर्णमणिमुक्तान्ये कुले भवति रूपवान् ॥ ४५ ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु । दशाश्वमेधिकं तत्र तीर्थ तत्रापरं भवेत् ॥ ४६ कृत्वाऽभिषेकं तु नरः मोऽश्वमेधफलं लभेत् । धनान्यो रूपवान्दक्षो दाता भवति धार्मिकः ४७ चतुर्वेदेषु यत्पुण्यं सत्यवादेषु यत्फलम् । अहिंसायां तु यो धर्मो गमनादेव तद्भवेत् ॥ ४८ कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाद्यते । कुरुक्षेत्राद्दशगुणा यत्र सिन्ध्या समागता ॥ ४९ यत्र गङ्गा महाभागा बहुनीर्थतपोधना । सिद्धक्षेत्रं हि तज्ज्ञयं नात्र कार्या विचारणा ॥ ५० क्षितौ तारयत मत्यानागांस्तारयतऽप्यधः। दिवि तारयते देवांस्तन सा त्रिपथा स्मृता ॥ ५१ यावदस्थीनि गङ्गायां तिष्ठन्ति तस्य देहिनः । तावद्वर्पसहस्राणि स्वर्गलोके महीयते ॥ ५२ तीथानां तु परं तीर्थ नदीनामुत्तमा नदी । मोक्षदा सर्वभूतानां महापातकिनामपि ॥ ५३ सर्वत्र सुलभा गङ्गा त्रिपु स्थान दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे ॥ तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ सर्वेषां चैव भूतानां पापोपहतचेतसाम् । गतिरन्यत्र मानां नास्ति गङ्गासमागतिः॥ ५५ पवित्राणां पवित्रं या मङ्गलानां च मङ्गलम् । महेश्वरशिरांभ्रष्टा सर्वपापहरा शुभा ॥ ५६
इति श्रीमहापुगणे पाद्म आदिखण्डे प्रयागमाहात्म्ये त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
आदितः श्लोकानां समष्टयङ्काः-२२९५
Page #88
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[१ आदिखण्डेअथ चतुश्चत्वारिंशोऽध्यायः । मार्कण्डेय उवाचशृणु राजन्मयागस्य माहात्म्यं पुनरेव तु । यच्छ्रत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ? मानसं नाम तत्तीर्थ गङ्गायामुत्तरे तटे । त्रिरात्रोपोषितो भूत्वा सर्वकामानवामुयात् ॥ २ गोभूहिरण्यदानेन यत्फलं प्रामुयानरैः । एतत्फलमवामोति तत्तीर्थ स्मरते पुनः॥ ३ अकामो वा सकामो वा गङ्गायां यो विपद्यते । मृतस्तु भवति स्वर्गे नरकं न च पश्यति ॥ ४ अप्सरोगणसंगीतैः सुप्तोऽसौ प्रतिबुध्यते । हंससारसयुक्तेन विमानेन स गच्छति ॥ ५ बहुवर्षाणि राजेन्द्र पदमहस्राणि भुञ्जते । ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः॥ ६ मुवर्णमणिमुक्ताब्यो जायते तु महाकुले । षष्टितीर्थसहस्राणि षष्टितीर्थशतानि च ॥ माघे मासि गमिप्यन्ति गङ्गायमुनसंगमे ॥ गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । प्रयागे माघमासे तु यह स्नातस्य तत्फलम् ॥ ८ गङ्गायमुनयोर्मध्ये पश्चानि यस्तु साधयेत् । अहीनाङ्गो विरोगश्च पञ्चेन्द्रियममन्वितः ॥ ९ यावन्ति रोमकूपाणि तस्य गात्रस्य देहिनः । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ १० ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् । स भुक्त्वा विपुलान्भोगांस्तत्तीर्थ भजते पुनः ॥ ११ जलप्रवेशं यः कुर्यात्संगमे लोकविश्रुते । राहग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः॥ १२ सोमलोकमवामोति सोमेन मह मोदते । षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥ १३ स्वर्गलोकमवामोति ऋषिगन्धर्वसेवितः । परिभ्रष्टस्तु राजेन्द्र समृद्ध जायते कुले ॥ १४ अधःशिरास्तु यो ज्वालामर्ध्वपादः पिबन्नरः । शतं वर्षसहस्राणि स्वर्गलोक महीयते ॥ १५ परिभ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः । भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थ भजते नरः॥ १६ यस्तु देहं विकर्तित्वा शकुनिभ्यः प्रयच्छति । विहगैरुपभुक्तस्य शृणु तस्यापि यत्फलम् ॥ १७ शतं वर्षसहस्राणां सोमलोके महीयते । ततः स्वर्गात्परिभ्रष्टो राजा भवति धार्मिकः ॥ १८ गुणवानरूपसंपन्नो विद्वान्सुप्रियदेहवान् । भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थ भजते पुनः ॥ १९ यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे । ऋणप्रमोचनं नाम तीर्थ तत्परमं स्मृतम् ॥ २० एकरात्रोषितो भूत्वा ऋणः सर्वैः प्रमुच्यते । सूर्यलोकमवाप्नोति अनृणी च सदा भवेत् ॥ २१ इति श्रीमहापुराणे पाद्म आदिखण्ड प्रयागमाहात्म्ये चतुश्चत्वारिशोऽध्यायः ॥ ४ ॥
आदितः श्लोकानां समष्ट्यङ्काः-२३१६
अथ पञ्चचत्वारिंशोऽध्यायः । युधिष्ठिर उवाचएतच्छ्रुत्वा प्रयागस्य यत्त्वया कीर्तनं कृतम् । विशुद्धमेतबृदयं प्रयागस्य तु कीर्तनात् ॥ अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम् ॥
मार्कण्डेय उवाचशृणु राजन्मयागे तु अनाशकफलं विभो । पामोति पुरुषो धीमा श्रद्दधानश्च यादृशम् ।। २
१ ख. म. 'रः । स तत्फ'। २ ख. म. 'ते तु यः । अ।
Page #89
--------------------------------------------------------------------------
________________
४५ पञ्चचत्वारिंशोऽध्यायः ]
पद्मपुराणम् ।
अहीनाङ्गो विरोगश्च पञ्चेन्द्रियसमन्वितः । अश्वमेधफलं तस्य गच्छतस्तु पदे पदे ॥ कुलानि तारयेद्राजन्दश पूर्वान्दशापरान् । मुच्यते सर्वपापेभ्यो गच्छेत परमं पदम् ।। युधिष्ठिर उवाच
महाभागोऽसि धर्मज्ञ दानं वदसि मे प्रभो । अल्पेनैव प्रदानेन बहून्धर्मानवामुयात् ॥ अश्वमेधस्तु बहुभिः सुकृतैः प्राप्यते इह । एतं मे संशयं ब्रूहि परं कौतूहलं हि मे ॥ मार्कण्डेय उवाच
शृणु राजन्महावीर यदुक्तं पद्मयोनिना । ऋषीणां संनिधौ पूर्व कथ्यमानं मया श्रुतम् || पञ्चयोजनविस्तीर्ण प्रयागस्य तु मण्डलम् । संप्रविष्टस्य तद्भूमावश्वमेधः पदे पदे || व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश । नरस्तारयते सर्वान्यस्तु प्राणान्परित्यजेत् ।। एवं ज्ञात्वा तु राजेन्द्र सदा श्रद्धापरो भवेत् । अश्रद्दधानाः पुरुषाः पापोपहतचेतसः || न प्राप्नुवन्ति तत्स्थानं प्रयागं देवनिर्मितम् ॥
युधिष्ठिर उवाच
स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः । कथं तीर्थफलं तेषां कथं पुण्यमवाप्नुयुः ॥ विक्रयं सर्वभाण्डानां कार्याकार्यमजानतः । प्रयागे का गतिस्तस्य एवं ब्रूहि महामुने ॥ मार्कण्डेय उवाच
शृणु राजन्महागुह्यं सर्वपापप्रणाशनम् । मासं वसंस्तु राजेन्द्र प्रयागे नियतेन्द्रियः ।। मुच्यते सर्वपापेभ्यो यथाऽऽदिष्टं स्वयंभुवा ॥
१३
शुचिस्तु प्रयतो भूत्वाऽहिंसकः श्रद्धयाऽन्वितः । मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम् ||१४ विश्रम्भघातकानां तु प्रयागे शृणु तत्फलम् । त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत् ।। १५ त्रिभिर्मासैः प्रमुच्येत प्रयागात्तु न संशयः । अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् ॥ १६ सर्वकामसमृद्धस्तु स्वर्गलोके महीयते । स्थानं स लभते नित्यं धनधान्यसमाकुलम् ॥ एवं ज्ञानेन संपूर्णः सदा भवति भोगवान । तारिताः पितरस्तेन नरकात्मपितामहाः ॥ धर्मानुसारि तत्त्वज्ञ पृच्छतस्ते पुनः पुनः । त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम् ।। १९ युधिष्ठिर उवाच
१७ १८
अद्य मे सफलं जन्म अद्य मे सफलं कुलम् । मीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेव तेऽद्य वै ॥ त्वद्दर्शनात्तु धर्मात्मन्मुक्तोऽहं सर्वपातकैः ॥
८३
३
४
७
८
११
१२
मार्कण्डेय उवाच -
दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम् | कीर्तनाद्वर्धते पुण्यं श्रुतं पापप्रणाशनम् ।। २१ युधिष्ठिर उवाच
यमुनायां तु किं पुण्यं किं फलं तु महामुने । एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम् ।। २२ मार्कण्डेय उवाच
२३ २४
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगा ॥ येनैव निःसृता गङ्गा तेनैव यमुनाऽऽगता । योजनानां सहस्रेषु कीर्तनात्पापनाशिनी ॥ तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर । कीर्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति ।। २५ अवगाढा च पीता च पुनात्यासप्तमं कुलम् । प्राणांस्त्यजति यस्त्वत्र स याति परमां गतिम् ॥ २६
Page #90
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं—
अग्नितीर्थमिति ख्यातं यमुनादक्षिणे तटे । पश्चिमे धर्मराजस्य तीर्थ हरवरं स्मृतम् ॥ तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।।
२७
२८
एवं तीर्थसहस्राणि यमुना दक्षिणे तटे । उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः ॥ तीर्थ तु विरजं नाम यत्र देवाः सवासवाः । उपासते स्म संध्यां तु नित्यकालं युधिष्ठिर ।। २९ देवाः सेवन्ति तत्तीर्थं ये चान्ये विदुषी (?) जनाः। श्रद्धादानपरो भूत्वा कुरु तीर्थाभिषेचनम् ॥ ३० अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः । तेषु स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।। ३१ गङ्गा च यमुना चैव उभे तुल्यफले स्मृते । केवलं श्रेष्ठभावेन गङ्गा सर्वत्र पूज्यते ॥ एवं कुरुष्व कौन्तेय सर्वतीर्थाभिषेचनम् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ यस्त्विदं कल्य उत्थाय पठते च शृणोति वा । मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ ३४ इति श्रीमहापुराणे पाच आदिखण्डे यमुनामाहात्म्ये पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥ आदितः श्लोकानां समष्ट्यङ्काः -- २३५०
३२
३३
अथ षट्चत्वारिंशोऽध्यायः ।
८४
[ १ आदिखण्डे
युधिष्ठिर उवाच
1
11 २
३
श्रुतं मे ब्रह्मणा प्रोक्तं पुराणं पुण्यसंमितम् । तार्थानां तु सहस्राणि शतानि नियुतानि च ॥ १ सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता । पृथिव्यां नैमिपं पुण्यमन्तरिक्षे च पुष्करम् 1 प्रयागमपि लोकानां कुरुक्षेत्रं विशिष्यते । सर्वाणि संपरित्यज्य कथमेकं प्रशंससि ।। अप्रमाणमिदं प्रोक्तमश्रद्धेयमनुत्तमम् । गतिं च परमां दिव्यां भोगांश्चैव यथेप्सितान् ॥ किमर्थमल्पयोगेन बहुधर्मे प्रशंससि । एतं मे संशयं ब्रूहि यथादृष्टं यथाश्रुतम् ।।
४
मार्कण्डेय उवाच
अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि तद्भवेत् । नरस्य श्रद्दधानस्य पापोपहतचेतसः ॥ अश्रद्दधानो ह्यशुचिर्दुर्मतिस्त्यक्तमङ्गलः ॥
७
८
॥
९
1
एते पातकिनः सर्वे तेनेदं भाषितं मया । शृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम् ॥ प्रत्यक्षं च परोक्षं च यथाऽन्यत्संभविष्यति । यथैवान्यन्मया दृष्टं पुरा राजन्यथाश्रुतम् ॥ शास्त्रं प्रमाणं कृत्वा तु पूज्यते योगमात्मनः । क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात् जन्मान्तरसहस्रेभ्यो योगो लभ्येत मानवैः । यथा युगसहस्रेण योगो लभ्येत मानवैः || १० यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति । तेन दानेन दत्तेन योगी लभ्येत मानवैः ।। ११ प्रयागे तु मृतस्येदं सर्वे भवति नान्यथा । प्रधानहेतुं वक्ष्यामि श्रद्दधत्सु च भारत ।। यथा सर्वेषु भूतेषु सर्वत्रैव तु दृश्यते । ब्रह्म नैवास्ति वै किंचिद्यद्वक्तुं त्विदमुच्यते ।। यथा सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते । एवं सर्वेषु लोकेषु प्रयागः पूज्यते बुधैः ।। पूज्यते तीर्थराजश्च सत्यमेतद्युधिष्ठिर । ब्रह्माऽपि स्मरते नित्यं प्रयागं तीर्थमुत्तमम् | तीर्थराजमनुप्राप्य नैवान्यत्किचिदिच्छति । को हि देवत्वमासाद्य मानुषत्वं चिकीर्षति ॥ १६ अनेनैवानुमानेन त्वं ज्ञास्यसि युधिष्ठिर । यथा पुण्यमपुण्यं वा तथैव कथितं मया ।।
१२
१३
१४
१५
१७
१ क. एवं ।
Page #91
--------------------------------------------------------------------------
________________
४७ सप्तचत्वारिंशोऽध्यायः ] पद्मपुराणम् ।
युधिष्ठिर उवाचश्रुतं तद्यत्त्वया प्रोक्तं विस्मितोऽहं पुनः पुनः । कथं योगेन तत्प्राप्तिः स्वर्गलोकस्तु कर्मणा ॥१८ तदा च लभते भोगान्गां च तत्कर्मणां फलम् । तानि कर्माणि पृच्छामि पुनः प्राप्यते मही १९
मार्कण्डेय उवाचशुणु राजन्महाबाहो यथोक्तकर्मणा मही । गामग्निं ब्राह्मणं शास्त्रं काश्चनं सलिलं स्त्रियः ॥ २० मातरं पितरं चैव यो निन्दति नराधिप । नैतेषामूर्ध्वगमनमेवमाह प्रजापतिः ॥ २१ एवं योगस्य संप्राप्तिः स्थानं परमदुर्लभम् । गच्छन्ति नरकं घोरं ये नराः पापकारिणः ॥ २२ हस्त्यश्वं गामनड्वाहं मणिमुक्तादि काञ्चनम् । परोक्षं हरते यस्तु पश्चादानं प्रयच्छति ॥ २३ न ते गच्छन्ति वै स्वर्ग दातारो यत्र भोगिनः । अनेन कर्मणा युक्ताः पच्यन्ते नरकेऽधमाः २४ एवं योगं च धर्म च दातारं च युधिष्ठिर । यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम् ॥ निरुक्तं तु प्रवक्ष्यामि यथाऽयं स्वयमाप्नुयात् ॥
इति श्रीमहापुराणे पाद्य आदिखण्ड प्रयागमाहात्म्ये पटचत्वारिंशोऽध्यायः ॥ ४६॥
आदितः श्लोकानां समष्ट्यङ्काः-२३७५
अथ सप्तचत्वारिंशोऽध्यायः ।
मार्कण्डेय उवाचशृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । नैमिपं पुष्करं चैव गोतीर्थ सिन्धुसागरम् ॥ १ कुरुक्षेत्रं गया चैव गङ्गासागरमेव च । एते चान्ये च बहवो ये च पुण्याः शिलोचयाः॥ २ दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथा पर । प्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः ॥ ३ त्रीणि वाऽप्यग्निकुण्डानि येषां मध्ये तु जाह्नवी । प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ॥ ४ तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । गङ्गा यमुनया साध संस्थिता लोकभाविनी ॥ ५ गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल कलां नाहन्ति षोडशीम् ॥ ६ तिस्रः कोठ्योर्धकोटी च तीर्थानां वायुरब्रवीत् । दिवि भुव्यन्तरिक्षे च तत्सर्व जाह्नवी स्मृता॥७ प्रयागं समधिष्ठानं कम्बलाश्वतरावुभौ । भागवत्यथ या चैव वेदिरेषा प्रजापतेः॥ तत्र देवाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर । पूजयन्ति प्रयागं ते ऋषयश्च तपोधनाः॥ यजन्ते क्रतुभिर्देवांस्तथा बहुधना नृपाः । ततः पुण्यतमो नास्ति त्रिषु लोकेषु भारत ॥ १० प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो । दश तीर्थसहस्राणि तिस्रः कोट्यस्तथा पराः॥११ यत्र गङ्गा महाभागा स देशस्तत्तपोवनम् । सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ १२ इति सत्यं द्विजातीनां साधूनामात्मजस्य वा । मुहृदां च जपात्कणे शिष्यस्यानुगतस्य वा ॥१३ इदं धन्यमिदं स्वयमिदं सेव्यमिदं सुखम् । इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ १४ महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम् । अधीत्य द्विजोऽध्ययनं निघूलत्वमवामुयात् ॥ १५ यश्चेदं शृणुयानित्यं तीर्थ पुण्यं सदा शुचिः । जातिस्मरत्वं लभते नाकपृष्ठे च मोदते ॥ १६ माप्यन्ते तानि तीर्थानि सद्भिः शिष्टार्थदर्शिभिः । स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव १७ त्वया तु सम्यक्पृष्टेन कथितं तु मया विभो । पितरस्तारिताः सर्वे तारिताश्च पितामहाः॥१८ प्रयागस्य तु सर्वे ते कलां नार्हन्ति षोडशीम् । एवं ज्ञानं च योगं च तीर्थ चैव युधिष्ठिर ॥१९
Page #92
--------------------------------------------------------------------------
________________
महामुनिश्रीन्यासमणीत
[१ आदिखण्डेबहुक्लेशेन युज्यन्ते ततो यान्ति परां गतिम् । प्रयागस्मरणाल्लोकः स्वर्गलोकं स गच्छति ॥ २० इति श्रीमहापुराणे पान आदिखण्डे प्रयागमाहात्म्ये सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
आदितः श्लोकानां समष्ट्यङ्काः-२३९५
अथाष्टाचत्वारिंशोऽध्यायः । युधिष्ठिर उवाचकथा सर्वा त्वियं प्रोक्ता प्रयागस्य महामुने । एवं मे सर्वमाख्याहि यथा हि मम तारयेत् ॥ १
मार्कण्डेय उवाचशृणु राजन्प्रवक्ष्यामि प्रोक्तं सर्वमिदं जगत् । ब्रह्मा विष्णुस्तथेशानो देवता प्रभुरव्ययः॥ २ ब्रह्मा सृजति भूतानि स्थावरं जगमं च यत्। तान्येतानि परो लोके विष्णुः पालयति प्रजाः॥३ कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत् । न ददाति च नाऽऽदत्ते न कदाचिद्विनश्यति ॥ ४ ईश्वरः सर्वभूतानां यः पश्यति स पश्यति । उत्तरेण प्रतिष्ठानो दिदानी ब्रह्म तिष्ठति ॥ ५ महेश्वरो वटे भूत्वा तिष्ठते परमेश्वरः । ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।। ६ रक्षन्ति परमं नित्यं पापकर्मपरायणान् । ये तु चान्ये च तिष्ठन्ति ते यान्ति परमां गतिम् ॥ ७
युधिष्ठिर उवाचअप्याह मे यथातत्वं यथेषां तिष्ठते श्रुतम् । केन वा कारणेनेव तिष्ठन्ति लोकसंमनाः ॥ ८
मार्कण्डेय उवाचप्रयागे निवसन्त्येते ब्रह्मविष्णुमहेश्वराः । कारणं तु प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर ॥ ९ पञ्चयोजनविस्तीर्ण प्रयागस्य तु मण्डलम् । तिष्ठन्ति रक्षणार्थाय पापकर्मनिवारणाः ॥ १० तस्मिंस्तु स्वल्पकं पापं नरके पातयिष्यति । एवं ब्रह्मा च विष्णुश्च प्रयागे स महेश्वरः ॥ ११ सप्त द्वीपाः समुद्राश्च पर्वताश्च महीतले । ध्रियमाणाश्च तिष्ठन्ति यावदाभूतसंप्लवम् ॥ १२ ये चान्ये बहवः सर्वे तिष्ठन्ति च युधिष्ठिर । पृथिवीस्थानमारभ्य निर्मितं दैवतैत्रिभिः ॥ १३ प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम् । एतत्पुण्यं पवित्रं च प्रयागं तु युधिष्ठिर । खराज्यं कुरु राजेन्द्र भ्रातृभिः सहितो भव ।। इति श्रीमहापुराणे पाद्म दिखण्डे प्रयागमाहात्म्येऽष्टाचत्वारिंशोऽध्यायः ॥ ४८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-२४०९
अर्थकोनपञ्चाशत्तमोऽध्यायः ।
सूत उवाचभ्रातृभिः सहिताः सर्वे पाण्डवा धर्मनिश्चयाः । ब्राह्मणेभ्यो नमस्कृत्वा गुरुदेवांस्त्वतर्पयन् ॥१ वासुदेवोऽपि तत्रैव क्षणेनाभ्यागतस्तदा । पाण्डवैः सहितैः सर्वैः पूज्यमानः स माधवः ॥ २ कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः । अभिषिक्तः स्वराज्ये तु धर्मपुत्रो युधिष्ठिरः ॥ ३ एतस्मिनन्तरे चैव मार्कण्डेयो महात्मवान् । ततः स्वस्तीति चोक्त्वा वै क्षणादाश्रममागतः ॥ ४ युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः महितस्तु सः। महादानं ददौ चाथ धर्मपुत्रो युधिष्ठिरः ।। ५
१ स. न. न कदाचिच्च वर्धेत न । २ ट. 'नाद्देवानां ब्र।
Page #93
--------------------------------------------------------------------------
________________
५० पञ्चाशत्तमोऽध्यायः]
पमपुराणम् । पस्त्विदं कल्यमुत्थाय पठते वा शृणोति वा । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥
वासुदेव उवाचमम वाक्यं तु कर्तव्यं तव स्नेहाइवीम्यहम् । नित्यं संस्मर त्वं राजन्प्रयागं विगतज्वरः॥ ७ प्रयागं संस्मरन्नित्यं सहास्माभियुधिष्ठिर । स्वयं प्राप्स्यसि राजेन्द्र स्वर्गलोकं तु शाश्वतम् ॥ ८ प्रयागमनुगच्छेदा वसते वाऽपि यो नरः । सर्वपापविशुद्धात्मा स्वर्गलोकं स गच्छति ॥ ९ प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः । अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥ अकोपनश्च राजेन्द्र सत्यवादी दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमभुते ॥ ऋषिभिः क्रतवः प्रोक्ता देवैश्वापि यथाक्रमम् । न हि शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ॥ १२ वहूपकरणो यज्ञो नानासंभारविभ्रमः । प्राप्यते विविधैरथैः समृद्धैर्वा नरैः कचित् ॥ १३ यो दरिदैरपि बुधैः शक्यः प्राप्तुं नरेश्वर । ततो यज्ञः फलैः पुण्यैस्तं निबोध जनेश्वर ॥ १४ ऋषीणां परमं गुह्यमिदं भरतसत्तम । तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ दश कोटिसहस्राणि त्रिंशत्कोव्यस्तथा परे । माघमासे तु गङ्गायां गमिष्यन्ति नरर्षभ ॥ १६ स्वस्थो भव महाराज भुक्ष्व राज्यमकण्टकम् । पुनद्रेक्ष्यसि राजेन्द्र यजमानो विशेषतः॥ १७ इति श्रीमहापुराणे पाद्म आदिखण्डे प्रयागमाहात्म्यकथनं नामोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥
आदितः श्लोकानां समष्टयङ्काः-२४२६
अथ पञ्चाशत्तमोऽध्यायः ।
ऋषय ऊचु:भवता कथितं सर्व यत्किचिन्पृष्टमेव च । इदानीमपि पृच्छाम एकं वद महामते ॥ १ एतेषां खलु तीर्थानां सेवनायत्फलं भवेत् । सर्वेषां किल कृत्वैकं कर्म केन च लम्यते ॥ एतन्नो ब्रूहि सर्वज्ञ कर्मवं यदि वर्तते ॥ - सूत उवाचकर्मयोगः किल प्रोक्तो वर्णानां द्विजपूर्वशः । नानाविधो महाभागास्तत्र चैकं विशिष्यते ॥ ३ हरिभक्तिः कृता येन मनसा वचसा गिरा । जितं तेन जितं तेन जितमेव न संशयः ॥ ४ हरिरेव समाराध्यः सर्वदेवेश्वरेश्वरः । हरिनाममहामनश्यत्पापपिशाचकम् ॥ हरेः प्रदक्षिणां कृत्वा सकृदप्यमलाशयाः। सर्वतीर्थसमागाद्यं लभन्ते या संशयः॥ प्रतिमां च हरेर्दृष्ट्वा सर्वतीर्थफलं लभेत् । विष्णुनाम परं जप्त्वा सर्वमत्रफलं लभेत् ॥ विष्णुप्रसादतुलसीमाघ्राय द्विजसत्तमाः । प्रचण्डं विकरालं तद्यमस्याऽऽस्यं न पश्यति ॥ ८ सकृत्मणामी कृष्णस्य मातुः स्तन्यं पिबेन हि । हरिपादे मनो येषां तेभ्यो नित्यं नमो नमः।।९ पुल्कसः श्वपचो वाऽपि ये चान्ये म्लेच्छजातयः। तेऽपि वन्द्या महाभागा हरिपादेकसेवका:१० किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । हरौ भक्तिं विधायैव गर्भवासं न पश्यति ॥ ११ हरेरग्रे स्वनैरुच्चैर्नृत्यस्तनामकृन्नरः । पुनाति भुवन विमा गङ्गादिसलिलं यथा ॥ १२ दर्शनात्स्पर्शनात्तस्य आलापादपि भक्तितः। ब्रह्महत्यादिभिः पापमुच्यते नात्र संशयः ॥ १३ हरेः प्रदक्षिणं कुर्वनुश्स्तनामकन्नरः । करतालादिसंधानं सुस्वरं कलशन्दितम् ॥ ब्रह्महत्यादिकं पापं तेनैव करतालितम् ॥
mroor,
Page #94
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेहरिभक्तिकथामुक्ताख्यायिका शृणुयाञ्च यः । तस्य संदर्शनादेव पूतो भवति मानवः ॥ १५ किं पुनस्तस्य पापानामाशङ्का मुनिपुङ्गवाः । तीर्थानां च परं तीर्थ कृष्णनाम महर्षयः॥ १६ तीर्थी कुर्वन्ति जगतीं गृहीतं कृष्णनाम यैः । तस्मान्मुनिवराः पुण्यं नातः परतरं विदुः॥ १७ विष्णुप्रसादनिर्माल्यं भुक्त्वा धृत्वा च मस्तके । विष्णुरेव भवेन्मयो यमशोकविनाशनः ॥ अर्चनीयो नमस्कार्यो हरिरेव न संशयः ॥ ये हीमं विष्णुमव्यक्तं देवं वाऽपि महेश्वरम् । एकीभावेन पश्यन्ति न तेपां पुनरुद्भवः ॥ १९ तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् । हरिं चैकं प्रपश्यध्वं पूजयध्वं तथैव हि ॥ २० येऽसमानं प्रपश्यन्ति हरिं वै देवतान्तरम् । ते यान्ति नरकान्योरान्न तांस्तु गणयेद्धरिः ॥ २१ मूर्ख वा पण्डितं वाऽपि ब्राह्मणं केशवप्रियम् । श्वपाकं वा मोचयति नारायणः स्वयंप्रभुः ॥२२ नारायणात्परो नास्ति पापराशिदवानलः । कृत्वाऽपि पातकं घोरं कृष्णनाम्ना विमुच्यते ॥२३ स्वयं नारायणो देवः स्वनाम्नि जगतां गुरुः। आत्मनोऽभ्यधिकां शक्ति स्थापयामास सुव्रताः२४ अत्र ये विवदन्ते वा आयासलघुदर्शनात् । फलानां गौरवाच्चापि ते यान्ति नरकं बहु ॥ २५ तस्माद्धरौ भक्तिमान्स्याद्धरिनामपरायणः । पूजकं पृष्ठतो रक्षेन्नामिनं वक्षसि प्रभुः ॥ २६ हरिनाममहावज्रं पापपर्वतदारणम् । तस्य पादौ तु सफलो तदर्थगतिशालिनी ॥ २७ तावेव धन्यावाख्याती यौ तु पूजाकरी करौ । उत्तमानमुत्तमाकं तद्धरौं नम्रमेव यत् ॥ २८ सा जिहा या हरिस्तोति तन्मनस्तत्पदानुगम्।तानि लामानि चोच्यन्ते यानि तन्नानि चात्थितम्२९ कुर्वन्ति तच्च नेत्राम्बु यदच्युतप्रसङ्गतः। अहो लोका अतितरां दवदोषण वञ्चिताः ॥ ३० नामोच्चारणमात्रेण मुक्तिदं न भजन्ति वै । वञ्चितास्त च कलुषाः स्त्रीणां सङ्गप्रसङ्गतः॥ ३१ प्रतिष्ठन्ति च लोमानि येषां नो कृष्णशब्दने । ते मर्खा यकृतात्मानः पुत्रशोकादिविहलाः॥ ३२ रुदन्ति बहुलालापर्न कृष्णाक्षरकीर्तने । जिहां लब्ध्वाऽपि लोकेऽस्मिन्कृष्णनाम जपन्न हि ॥ ३३ लब्ध्वाऽपि मुक्तिसोपानं हेलयैव च्यवन्ति ते । तस्माद्यन्नेन वै विष्णुं कर्मयोगेन(ण) मानवः॥३४ कर्मयोगाचितो विष्णुः प्रसीदत्येव नान्यथा । तीर्थादप्यधिकं तीर्थ विष्णार्भजनमुच्यते ॥ ३५ सर्वेषां खलु तीर्थानां स्नानपानावगाहनः । यत्फलं लभते मर्त्यस्तत्फलं कृष्णसेवनात् ॥ ३६ यजन्ते कर्मयोगेन(ण) धन्या एव नरा हरिम् । तस्माद्यजध्वं मुनयः कृष्णं परममङ्गलम् ।। ३७ इति श्रीमहापुराणे पाद्म आदिखण्डे कर्मयोगप्रशंसन नाम पभाशत्तमोऽध्यायः ॥ ५० ॥
आदितः श्लोकानां समष्ट्यङ्काः-२४६३
अर्थकपञ्चाशत्तमोऽध्यायः ।
ऋषय ऊचु:कर्मयोगः कथं सूत येन चाऽऽराधितो हरिः । प्रसीदति महाभाग वद नो वदतां वर ॥ १ येनासी भगवानीशः समाराध्यो मुमुक्षुभिः । तद्वदाखिललोकानां रक्षणं धर्मसंग्रहम् ॥ २ तं कर्मयोगं वद नः सूत मूर्तिमयस्त यः । इति शुश्रूषवो विप्रा भवदने व्यवस्थिताः ॥ ३
क. येऽन्यथा संप्रपश्यन्ति हरं वै । २ ख. अ. 'म् । तो च पा । ३ ख. अ. 'ला यौ तार्थ । । ख. म. मा । ५ ख.अ. 'लाः । कर्वन्ति बहुलायासं न कृष्णाक्षरकीर्तनम् । जि'। ढ. जन्म । ७ ख. अ. 'नं हित्ववेतच्यव।
Page #95
--------------------------------------------------------------------------
________________
५१ एकपञ्चाशत्तमोऽध्यायः ] पबपुराणम् ।
सूत उवाचएवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः । ऋषिभिरग्निसंकाशैर्व्यासस्तानाह यच्वृणु ॥
व्यास उवाचशृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम् । कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम् ॥ ५ आम्नायसिद्धमखिलं ब्राह्मणार्थं प्रदर्शितम् । ऋषीणां शृण्वतां पूर्व मनुराह प्रजापतिः ॥ ६ सर्वपापहरं पुण्यमृषिसंधैर्निषेवितम् । समाहितधियो यूयं शृणुध्वं गदतो मम ॥ कृतोपनयनो वेदानधीयीत द्विजोत्तमः । गर्माष्टमेऽष्टमे वाऽब्दे स्वसूत्रोक्तविधानतः ॥ ८ दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः। भिक्षाहारो गुरुहितो वीक्षमाणो गुरोर्मुखम् ॥९ कार्पासमुपवीतार्थ निर्मितं ब्रह्मणा पुरा । ब्राह्मणानां त्रिसूत्रं कौषयवस्त्रमेव वा ॥ १० सदोपवीती चैव स्यात्सदा वद्धशिखो द्विजः । अन्यथा यत्कृतं कर्म तद्भवत्ययथाकृतम् ॥ ११ वसेदविकृतं वासः कार्पासं वा कपायकम् । तदेव परिधानीयं शुलपतीवमुत्तमम् ॥ १२ उत्तरं तु समानातं वासः कृष्णाजिनं शुभम् । तदभावे गवयजं रौरवं वा विधीयते ॥ १३ उद्धृत्य दक्षिणं बाहुं सव्यबाहौ समर्पितम् । उपवीतं भवेन्नित्यं निवीतं कण्ठसजने ॥ १४ सव्यबाहुं समुदृत्य दक्षिणे तूभृतं द्विजाः। प्राचीनावीतमित्युक्तं पित्र्ये कर्मणि पोजयेत् ।। १५ अग्न्यागारे गवां गोष्ठे होमे तेर्थे तथैव च । स्वाध्याये भोजने नित्यं ब्राह्मणानां च संनिधौ१६ उपासने गुरूणां च संध्ययोः साधुसंगमे । उपवीती भवेन्नित्यं विधिरेप सनातनः ॥ १७ मौञ्जी त्रिवृत्समाश्लिष्टां कुर्याद्विमस्य मेखलाम् । मुञ्जाभावे कुशेनाऽऽहुन्थिनकेन वा त्रिभिः१८ धारयेद्वैण(धा? वैणव)पालाशो दण्डो केशान्तिको द्विजः। यज्ञीयवृभज वाऽथ सौम्यमत्रणमेव च१९ सायं प्रातर्द्विजः संध्यामुपासीत समाहितः। कामाल्लोभाद्भयान्मोहान्यक्त्वैनां पतितो भवेत् ॥२० अग्निकार्य ततः कुर्यात्सायं पातः प्रसन्नधीः । स्नात्वा संतपयेदेवानृपीन्पितगणांस्तथा ॥ २१ देवताभ्यर्चनं कुर्यात्पुष्पैः पत्रैर्यवाम्बुभिः। अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ॥ २२ असावहं भो नामेति सम्यक्प्रणतिपूर्वकम् । आयुरारोग्यसिद्ध्यर्थ तन्द्रादिपरिवर्जितः ॥ २३ आयुप्मान्भव सौम्येति वाच्या विमोऽभिवादने । आकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरप्लुतः॥ यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषो यथा शूद्रस्तथैव सः॥२५ व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । मव्येन मव्यः स्पष्टव्यो दक्षिणेन तु दक्षिणः॥ २६ लोकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा । आददात(च)यता ज्ञानं तं पूर्वमभिवादयेत्॥२७ नोदकं धारयेद्रेक्ष्यं पुष्पाणि समिधस्तथा। एवंविधानि चान्यानि न देवार्थेषु कर्मसु ॥ २८ ब्राह्मणान्कुशलं पृच्छत्क्षत्रवन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः । मातुलः श्वशुरश्चैव मातामहपितामहौ ॥ ३० वर्णश्रेष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः । माता मातामही गुर्वी पितुर्मातुश्च सोदरा ॥ ३१ श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः । ज्ञेयस्तु गुरुवर्गोऽयं मातृतः पितृतो द्विजाः॥३२ अनुवर्तनमेतेषां मनोवाकायामभिः । गुरून्दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ॥ ३३ नैतैरुपविशेत्सा विवदेनाऽऽत्मकारणात् । जीवितार्थमपि द्वेषाद्गुरुभिर्नैव भाषणम् ॥ उद्रिक्तोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ॥
१ अ. 'मन्तव' । २ ट. जाये । ३ ट. 'थै त्रपादि।
२९
१२
Page #96
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेगुरूणामपि सर्वेषां पञ्च पूज्या विशेषतः । तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ॥ ३५ यो भावयति या सूते येन विद्योपदिश्यते । ज्येष्ठो भ्राता च भर्ता च पश्चैते गुरवः स्मृताः॥३६ आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः । पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ॥ ३७ यावत्पिता च माता च द्वावेती निर्विकारिणो । तावन्सर्व परित्यज्य पुत्रः स्यात्तत्परायणः॥३८ पिता माता च सुप्रीतौ स्यातां पुत्रगुणर्यदि । स पुत्रः सकलं धर्म शामयातेन कर्मणा ॥ ३९ नास्ति मातृसमं देवं नास्ति पितृसमो गुरुः । तयोः मन्युपकारोऽपि न कथंचन विद्यते ॥ ४० तयोनित्यं प्रियं कुर्याकर्मणा मनसा गिरा । न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ॥ ४१ वर्जयित्वा मुक्तिफलं नित्यं नमित्तिकं तथा । धर्मसारः सदिष्टः प्रेन्यानन्तफलप्रदः॥ ४२ सम्यगाराध्य वक्तारं विसष्टस्तदनुज्ञया । शिष्यो वियपालं मुझे प्रेन्य चाडपात दिवि ॥ ४३ यो भ्रातरं पितृरामं ज्येष्ठं पढोऽयमन्यते । तेन दोपण गंमन्य निग्यं घोरमृच्छति ॥ ४४ पुंसां वर्त्मनि पृष्ठेन पज्यो भर्ता तु सर्वदा । अपि मातार लोकोऽस्मिनुपकाद्धि भौरवम् ॥ ४५ मातुलांच पितृव्यांश्च श्वशुरानृविजी गरुन । असावमिनि पापयुधाय यकीयसः ॥ ४६ अवाच्यो दीक्षिना नाम्ना यवीयानपि यो भवेन् । भो भवत्परक वनमाभमापन धर्मवित्।।४७ अभिवाद्यश्च पूज्यश्च शिस्मा नस्य एव च । ब्राहाणक्षत्रियाश्च श्रीकामः सादरं सदा ॥ ४८ नाभिवाद्याश्च विशेण क्षत्रिपाद्याः कथंचन । ज्ञानयमगणाना याप्येने पह, श्रुताः॥ ४९ ब्राह्मणः सर्ववर्णानां स्वस्ति कादिति श्रुतिः । मरर्गन सवर्णानां कामवाभिवादनम् ॥ ५० गुरुरग्निजिातीनां वर्णानां ब्राह्मणी गुरुः । पतिरको गुलः वीणा मीत्राभ्यागनो गुरुः ॥ ५१ विद्या कर्म वयो बन्धुर्वितं भवति पञ्चम। मान्यस्यानानि पश्चाऽऽहु: पूर्व एवं गुरूतगत ॥५२ पञ्चानां त्रिषु वर्णेषु भयांनि वलयन्ति च । यत्र स्युः मोऽत्र मानाः इन्द्रोऽपि दशमी गतः ५३ पन्था देयो ब्राह्मणाय स्त्रिय राज्ञे विवक्षपे । वृद्धार भारमाय गंगिन दुर्वलाय च ।। ५४ भिक्षामाहृत्य शिष्टानां गृहभ्यः प्रयाऽवम् । लिदाय र नीद्वायतस्तदनुसया॥ ५५ भवत्पूर्व चरद्भक्ष्यमुपनीतो द्विजानमः । भवन्म-यं तु गजन्य तु मदुत्तर ॥ ५६ मातरं वा स्वसारं वा मातुर्वा भगिनी निजाट । मिसन नियमं या नमविमानयेत ५७ सजातीयगृहेप्वर्व सार्ववर्णिमेव च । भक्ष्यस्याऽऽघर प्रालितादिवमितम् ॥ ५८ वेदयज्ञैरहीनानां प्रशस्तानां कर्मम् । प्रधानाय तोऽन्यहम् ॥ ५९ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभ बन्योहाना पूर्व विदर्जयेत् ॥ ६० सर्व वा विचरद्रामं पर्वोक्तानापसंभने । नियम्य प्रयनो वार्च दिशयन लोकायन ॥ ६१ समाहृत्य तु भैक्ष्यं तद्यावदर्थममायया । भुजीत प्रपना नित्यं वाग्यताऽनन्यमानसः ॥ ६२ भैक्षेण वर्तयन्नित्यं नकान्नादो भवेदवती । भक्षण वनिनो निरुत्वाससमा मृता॥ ६३ पूजयेदशनं नित्यं मदाच्चैतदकन्सयन । दृष्ट्वा हयप्रसीदच भनिनन्दच सर्वशः॥ ६४ अनारोग्यमनायुष्यमस्वय॑ चातिभोजनम् । अपुण्यं लोकपिविष्टं तस्मात्तत्परिवर्जयेत् ॥ ६५ पाङ्मुखोऽनानि भुञ्जीत सूर्याभिमुखमेव वा । नाद्यादुदङ्मुखो नित्यं विधिरेप सनातनः ॥६६
१ स. अ. सृष्टेन। २ ट. 'न्। आगच्छध्वमि । ३ ट वन्धुः कुलं भ'। ४ ट. 'व पूर्ववर्णेभ्य एव । ५ क. सुकर्मसु । म. भक्ष्येग।
Page #97
--------------------------------------------------------------------------
________________
५२ द्विपञ्चाशत्तमोऽध्यायः ]
पद्मपुराणम् । प्रक्षाल्य पाणिपादौ च भुञ्जानोऽद्भिपस्पृशेत् । शुद्धदेशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् १७
इति श्रीमहापुराणे पान आदिखण्डे कर्मयोगकथनं नामैकपश्चाशत्तमोऽध्यायः ॥ ५१ ॥
आदितः श्लोकानां समथ्यङ्काः-२५३०
अथ द्विपञ्चाशत्तमोऽध्यायः ।
व्यास उवाचभक्त्वा पीत्वा च सुप्त्वा च नात्वा रथ्यावमर्पण। ओष्ठावलेहास्पष्ट्रा वा वासोऽपि परिधायच रेतोमूत्रपूरीषाणामुन्मर्गेऽनुक्तभापण । श्रीविवाऽध्ययनारम्भे कासश्वामागमे तथा ॥ २ चत्वरं वा श्मशानं वा ममाक्रम्य द्विजात्तमः । संध्ययोरुभयोस्तद्दाचान्तोऽप्याचमेत्पुनः ॥ ३ चण्डालम्लेच्छसंभाष बीरदाच्छिष्टभापणं । उच्छि, पुरुपं दृष्ट्वा भाज्यं चापि तथाविधम् ॥ ४ आचामेदश्रुपाने वा लोहितम्य नर्थव च । भोजने मंध्ययोः नान्वा पीत्वा मूत्रपुरीपयोः ॥५ आगतो वाऽऽचमेन्मुन्या सकृन्सकृदथान्यतः । अंभगवामयाऽऽलम्भे स्पृष्ठा प्रयतमेव वा ॥ ६ स्त्रीणामथाऽऽत्ममंस्पर्शे नीलों का परिचाय च । उपम्पशेजलं वात्र(.) तृणं वा भूमिमेव वा ॥७ केशानां चाऽऽन्मनः स्पर्श वानमः बन्टिन अगाभिरंफेनाभिरक्षराद्भिश्च धर्मतः॥८ शोचेप्सुः सर्वदाऽऽचामेदामीन: नाना मुनावि पलकण्या मुक्तकेशशिवोऽपि वा ॥९ अकृत्वा पादयोः शौचगानो न शुचि भवन् । सीवालम्बो नाममा वा नाणीपी चाऽऽचमेद्बुधः।।१० न च वार्गेधाराभिने निष्पन्नड़तादकः । नेक हस्तापितजलविना सूत्रेण वा पुनः ॥ ११ न पादुकासनस्था वा वाहनानुग्थापि वा । न जल्पन्न हनन्प्रेक्षशयानस्तल्प एव च ॥ १२ नावीक्षिनाभिः फेनार्यरुपेताभिग्थापि वा । अद्राशुचिकरोन्मुक्तिन क्षाराभिस्तथैव च ॥ १३ न चैवाङ्गुलिभिः शब्दं प्रकुयान्नान्यमानमः । न वर्णरसदृष्टाभिन चैव प्रदरोदकः ॥ १४ न पाणि मिनाभित्र नवहिस्कन्ध पर वाहामिपनिमः कण्ठ्याभिः क्षत्रियः शुचिः॥१५ पाशिताभिस्तथा वैश्यः वंशद्री सतानतः । अनुश्मलान्तरता रेग्वायां ब्राह्ममुच्यते ।। १६ अन्तराङ्गुष्ठदशिन्याः पितृणां नीथमुच्यत । कनिष्ठापलतः पश्चात्याजापत्यं प्रचभते ॥ १७ अङ्गुल्यग्रं स्मृतं देवं तदवाऽऽर्प यकीनिनम् । मुले वा देवयार्प स्वादानेयं मध्यतः स्मृतम् ॥ १८ तदेव सामिकं तीर्थतज्ज्ञात्वा न मानि । वार्णव तुतीर्थन दिनो नित्यमुपस्पृशेत् ॥ १९ कामयेद्वाऽथ देवेन न त पियंग ने दिनाः । त्रिः शनीयादपः पूर्व ब्राह्मण प्रयतस्ततः ॥ २० समृज्याङ्गुष्टमलेन मुख वै समुपस्पृशत् । अङ्गुष्ठानामिकाभ्यां तु म्पशन द्वयं ततः ॥ २१ सजेन्यङ्गुष्ठयोगेन स्पृशनासापुटद्वयम् । कनिहाअष्टमांगन श्रवणे ममरस्पृशेत् ॥ २२ सर्वासामथ योगेन हृदयं तु तलेन वा । स्पृशन वै शिरस्तद्वदङ्गुष्टेनासकद्वयम् ।। त्रिः पाश्नीयाधदम्भस्तु प्रीतास्तेनास्य देवताः । प्रत्मा विष्णुमहेशश्च भवन्तीत्यनुशुश्रुम ॥ २४ गङ्गा च यमुना चैव प्रीयने परिमार्जनात् । संस्पृष्टयोर्लोचनयाः प्रीयते शशिभास्करौ ॥ २५ नासत्यदस्रो प्रीयेते स्पृशेन्नासापुटद्वयम् । कर्णयाः स्पृष्टयोस्तद्वत्मीयेने चानिलानलौ ॥ २६ संस्पृष्टे हृदये चास्य पीयन्ते सर्वदेवताः । मूर्धसंस्पर्शनादेकः प्रीतः स पुरुपो भवेत् ॥ २७ १ ख. अ. णे । श्वान विलोभ्य स्पृट्वा । २ के. रकेशाभिरष्यामिश्च । ३ अ. शाचं मार्गती । ४ अ. 'त् ॥ होनी
Page #98
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीत- [ १ आदिखण्डेमोच्छिष्टं कुर्वते वक्त्रे विभुषोऽङ्गे लगन्ति याः। दन्तवदन्तलग्नेषु जिहास्पर्शेऽशुचिर्भवेत् ॥ २८ स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् । भूमिपशुसमा ज्ञेया न तैरस्पृश्यता भवेत्॥२९ मधुपाके च सोमे च ताम्बूलस्य च भक्षणे । फलमूले चेक्षुदण्डे न दोषं प्राह वै मनुः ॥ ३० प्रचरंश्चानपानेषु द्रव्यहस्तो भवेन्नरः । भूमो निक्षिप्य तद्रव्यमाचम्याभ्युक्षयेत्तु तत् ॥ ३१ तैजसं वै समादाय येथुच्छिष्टो भवेद्विजः । भूमौ निक्षिप्य तद्रव्यमाचम्याभ्युक्षयेत्तु तत् ॥ ३२ यद्यद्रव्यं समादाय भवेदुच्छेषणान्वितः । अनिधायैव तद्रव्यं भूमौ त्वशुचितामियात् ॥ ३३ वस्त्रादिषु विकल्पः स्यात्तत्संस्पृश्याऽऽचमेदिह । अरण्ये तु वजन्रात्रौ चोरव्याघ्राकुले पथि ३४ कृत्वा मृत्रं पुरीषं वा द्रव्यहस्तो न दुप्यति । निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः ॥ ३५ अहि कुर्याच्छकन्मूत्रं रात्री चेदक्षिणामुखः । अन्तर्धाय महीं काष्टेः पत्रेर्लोटतृणेन वा ॥ ३६ मात्य च शिरः कुयोद्विण्मूत्रस्य विसर्जनम् । छायाकृपनदीगोष्ठचेन्याम्भःपथिभस्मसु ॥ ३७ अग्नौ चैव श्मशाने च विण्मुत्रं न समाचरेत् । न गोमये न काष्ठे वा महावृक्षेऽथ शाद्वले ॥ ३८ न तिष्ठन्न चै निर्वासा न च पर्वतमण्डले । न जीर्णदेवायतने न वल्मीके कदाचन ॥ ३९ ने च सर्वेषु गर्तेषु प्रगच्छन्न समाचरत । तुपाङ्गारकपालेषु राजमार्गे तथैव च ॥ ४० न क्षेत्रे न बिले वाऽपि न तीर्थे न चतुप्पथे । नोद्यानेऽपां समीपे वा नोपरे नगराशये ॥ ४१ न सोपानत्पादुको वा छत्री वा नान्तरिक्षके । न चवाभिमुवः स्त्रीणां गुरुब्राह्मणयोर्गवाम् ।।४२ न देवदेवालययोरपामपि कदाचन । न ज्यांतीपि निरीक्षन्वा न वा प्रतिमुखोऽथ वा ॥ ४३ प्रत्यादित्यं प्रत्यनलं प्रतिसामं तथैव च । आहत्य मृत्तिका कलाल्लेपगन्धापकपणीम् ॥ ४४ कुर्यादतन्द्रितः शोचं विशुद्धरुद्धृतोदकैः । नाऽऽहरेन्मृत्तिकां विप्रः पांसुला न च कर्दमाम् ॥ ४५ न मार्गानोपरोदेशाच्छौचशिष्टां परस्य च । न देवायतनान्कृपादानो न च जलात्तथा ॥ उपस्पशेत्ततो नित्यं पूर्वोक्तन विधानतः ॥
इति श्रीमहापराणे पाद्म आदिखण्टे कर्मयोगकथने विपनाशनमोऽध्यायः ॥५२॥
__ आदितः श्लोकानां समष्टयङ्काः-२०७६
अथ त्रिपश्चाशत्तमोऽध्यायः ।
व्यास उवाचएवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः । आहृतोऽध्ययनं कुर्याद्वीक्षमाणां गुरोर्मुखम् ।। १ नित्यमुद्यतपाणिः स्यात्साध्वाचारः सुसंयतः। आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः॥२ प्रतिश्रवणसंभाषे शयानो न समाचरेत् । आसीनो न च भुञ्जानो न तिष्ठेन्न पराङ्मुखः ॥ ३ नीचे शय्यासनं चास्य सर्वदा गुरुसंनिधौ । गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ ४ नोदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वीत गतिभाषणचेष्टितम् ॥ ५ गुरोर्यत्र परीवादो निन्दा वाऽपि प्रवर्तते । कर्णौ तत्र पिधातव्यो गन्तव्यं वा ततोऽन्यतः ॥ ६ दूरस्थो नार्ययेदनं न क्रुद्धो नान्तिके स्त्रियाः। न चैवास्योत्तरं ब्रूयात्स्थिनो नाऽऽसीत संनिधौ ॥७
क. 'म्याद्भक्ष । २ क. यदुच्छि' । ३ ख. अ. च थूत्कुर्वन्न च । ४ ख. अ. न चोपस्थेषु । ५ ख. अ. न गुहासु
Page #99
--------------------------------------------------------------------------
________________
११ त्रिपञ्चाशत्तमोऽध्यायः ]
पद्मपुराणम् ।
१२
१४
१७
१८
१९
२०
૧૨
उदकुम्भं कुशान्पुष्पं समिधा॒ऽस्याऽऽहरेत्सदा । मार्जनं लेपनं नित्यमेङ्गानां वै समाचरेत् ॥ नास्य निर्माल्यशयनं पादुकोपानहावपि । आक्रामेदासनं चास्य च्छायादीन्वा कदाचन ।। साधयेद्दन्तकाष्ठादील्लब्धं चास्मै निवेदयेत् । अनापृच्छ्य न गन्तव्यं भवेत्प्रियहिते रतः ।। न पादौ सारयेदस्य संनिधाने कदाचन । जृम्भितं हसितं चैव कण्ठप्रावरणं तथा ।। वर्जयेत्संनिधौ नित्यमङ्गस्फोटनमेव च । यथाकालमधीयीत यावन्न विमना गुरुः ॥ आसीता गुरोः पार्श्वे सेवां च सुसमाहितः । आसने शयने याने मैव तिष्ठेत्कदाचन ।। १३ धावन्तमनुधावेत गच्छन्तमनुगच्छति । गोश्वोष्ट्रयानप्रासादे तथा च विष्टरेषु च ।। आसीत गुरुणा सार्धं शिलाफलकनौषु च । जितेन्द्रियः स्यात्सततं वश्यात्माऽक्रोधनः शुचिः १५ प्रयुञ्जीत सदा वाचं मधुरां हितकारिणीम् । गन्धमाल्यं रसं कल्पं शु.क प्राणिविहिंसनम् ॥ १६ अभ्यञ्जनाञ्जने पानं छत्रधारणमेव च । कामं लोभं भयं निद्रां गीतं वादित्रवर्तनम् || आतर्जनं परीवादं स्त्रीपेक्षालम्भनं तथा । परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ॥ उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् । आहरेद्यावंदनानि भैक्ष्यं तावद्बहिश्वरेत् ।। घृतं च लवणं सर्वत्र पर्युषितं च यत् । अनृत्यदर्शी सततं भवेद्गीतादिनिःस्पृहः ।। नाऽऽदित्यं वै समीक्षेत नाऽऽचरेहन्तधावनम् । एकान्तमशुचिस्त्रीभिः शूद्राद्यैरभिभाषणम् ॥ २१ गुरूच्छिष्टं भेषजानं प्रयुञ्जीत न कामतः । मलापकर्षणं स्नानं न चरेद्धि कदाचन ।। न कुर्यान्मानसं विभो गुरोरत्यागे कथंचन । मोहाद्वा यदि वा लोभाच्यक्त्वा तु पतितो भवेत् २३ लौकिकं वैदिकं वापि तथाssध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं न लेत्कदाचन २४ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्यें न मनुस्त्यागमब्रवीत् ॥ गुरोर्गुरौ संनिहिते गुरुववृत्तिमाचरेत् । नन्वाऽभिसृष्टो गुरुणा स्वान्गुरूनभिवादयेत् ।। विद्यागुरुष्वेतदेव नित्यावृत्तिषु योगिषु । प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्सु च ॥ श्रेयः स्वगुरुवद्वृत्तिं नित्यमेत्र समाचरेत् । गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ बालः संमानयेन्मान्याञ्शिष्यो वा यज्ञकर्मणि । अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति ॥ उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने । न कुर्याद्गुरुपुत्रस्य पादयोः शौचमेव च ॥ गुरुवत्प्रतिपूज्याश्च सवर्णा गुरुयोषितः । असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥ अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ ३२ गुरुपत्नी तु युवती नाभिवाद्या तु पादयोः । कुर्वीत वन्दनं भूम्यामसावहमिति ब्रुवन् ॥ विप्रोप्य पादग्रहणमन्वहं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ मातृष्वसा मातुलानी श्वश्रूश्वाथ पितृष्वसा । संपूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ॥ भ्रातृभार्याश्च संग्राह्या सवर्णाऽहन्यहन्यपि । विप्रोप्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥ पितुर्भगिन्या मातुश्च ज्यायस्यां च स्वसर्यपि । मातृवद्वत्तिमातिष्ठन्माता ताभ्यो गरीयसी ॥ ३७ एवमाचारसंपन्नमात्मवन्तमदाम्भिकम् । वेदमध्यापयेद्धर्म पुराणानि च नित्यशः ॥ संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् । हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः । आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः । शक्तोऽन्नदोऽम्बुदः साधुरध्याप्या दश धर्मतः ॥ ४०
२५
२६
२७
२८
२९
३० ३१
३३
३४
३५
३६
३८
३९
९३
८
९
१०
११
१ . मङ्गणे वै । २८ वदेतानि भक्ष्य चाहरहीं । ३ . आदित्य । ४८. 'स्य मं । ५८. 'मथाब्र' । ६८. पुराणाङ्गानि नित्य ।
Page #100
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेकृतकण्ठस्तथाऽद्रोही मेधावी गुरुकन्नरः । आप्तः प्रियोऽथ विधिवत्षडध्याप्या द्विजातयः॥४१ एतेषु ब्राह्मणे दानमन्यत्र तु यथोदितम् । आचम्य संयतो नित्यमधीयीत उदङ्मुखः॥ ४२ उपसंगृह्य तत्पादौ वीक्षमाणा गुरोर्मुखम् । अधीष्त्र भो इनि ब्रूयाद्विरामोऽस्त्विति चाऽऽरैमेत् ४३ माकूलापर्युपासीत पवित्रैश्चैव पावकः । प्राणायामस्त्रिभिः पूतस्तत ओंकारमहति ॥ ४४ ब्राह्मणः प्रणवं कुर्यादन्तेऽपि विधिवविजाः । कुर्यादध्यापनं नित्यं स ब्रह्माञ्जलिपूर्वतः ॥ ४५ सर्वेषामेव भूतानां वेदश्चक्षुः सनातनः । अधीयीताप्ययं नित्यं ब्राह्मण्याद्रीयतेऽन्यथा ॥ ४६ अधीयीत ऋचो नित्यं क्षीरादुन्या म देवताः । प्रीणानि तर्पयन्काल कामहृताः सदेवताः॥४७ यजूंष्यधीते नियतं दना मीणाति देवताः । सामान्यधीते प्रीणाति घृताहुतिभिरवहम् ॥ ४८ अथर्वाङ्गिरसो नित्यं मध्वा भीगानि देवताः । मांझानि पुगगानि मांर्पयते सुगर्न ॥ ४९ तासां समीपे नियनों नेत्यकं तिथिमाश्रितः । गायत्री ममयीयीत गवाऽरण्यं समाहितः ॥ ५० सहस्रपरमां देवीं शतमध्यां दशावगम् । गायत्री के जपेन्नित्यं जपयज्ञः प्रकीर्तिनः ॥ ५१ गायत्रीं चैव वेदांश्च तुलयाऽनोलयत्प्रभुः । एकनाश्तुगं चंदा गायत्री च नौकतः॥ ५२ ओंकारमादितः कृत्वा व्याहतीस्तदनन्तरम् । तताऽधीयीन सावित्री मेकानः श्रद्धयान्वितः॥५३ पुराकल्प समुत्पन्ना भूर्भुवः स्वः सनातनाः । महाव्याहतर स्तिस्रः सदाशुभनिवहणाः ॥ ५४ प्रधानं पुरुपः कालो विष्णुब्रह्ममहेश्वगः । सत्वं रजस्तमस्तिस्मः नामान्याहनयः स्मृताः॥ ५५ आंकारस्तत्परं ब्रह्म सावित्री स्यादुत्तमः । इप मत्री मायाम: मारामार वाहनः ॥ ५६ योऽधीतेऽहन्यहन्येतां गायत्री कंगात
पारीन यानि परमां गतिम् ॥ ५७ गायत्री वेदजननी गायत्री लोकपावनी । यया पर जयशिवाय मुच्यते ॥ ५८ श्रावणस्य तु मासस्य पांषमाम विनोतमाः। आगाच्या प्रारपयांचा दीपाकरणं स्मृतम्५९ यत्सूर्ययाम्यगमनं मासान्विोऽपिवमान ! भवीपीन मुची मानकारी समाहितः ।। ६० पुप्यं तु च्छन्दसां कुविहित न दिमाम शुरुत्वाले बटुले दले ॥ ६१ छन्दांसि च द्विजोऽभ्यस्याहारसं तु हिमः। बानि पुनमानिक मानवः ॥६२ इमानित्यमनध्यायानधीयानी विवजयः । अत्यापनं च कुवाणांमध्यन्नपि प्रश्ननः ॥ ६३ कर्णश्रवेऽनिले रात्री दिवापांसुसम्हने । वि पुस्तनित्यपु म पानां च संचे ॥ अकालिकमनव्यायमतप्वाह मजापतिः ।। एतानभ्युदिनान्विद्याद्यदा प्रादुष्कृतानिए । नदा विद्याइनभ्यायमनृती चाभ्रदर्शने ।। ६५ निर्याते भूमिचलने ज्योतिपां चापसर्जने । एतानकालिमाधियानव्यायान्तामपि ।। ६६ पादुष्कृतेष्वग्निषु तु विशु-स्तनितनिम्बने । मज्योतिः स्यादन व्यायः शेपे रात्री या दिवा ॥६७ नित्यानध्याय एव स्याद्रामषु नगरेषु च । धनपुण्यकामानां मत्रगन्धन नित्यशः ॥ ६८ अन्तः शवगते ग्रामे वृपलस्य च संनिती। अनव्यायो म्यमाने समये जलदस्य च ॥ ६९ उदके चाधरात्रे च विण्मत्रं च विसर्जयन । उच्छिः श्राद्ध कर मनसाऽपि न चिन्तयेत् ॥७० प्रतिगृह्य द्विजो विद्वानकोदिस्य वतनम् । यह न कारयंद्र राशी राहाच सूतके ॥ ७१ यावदेकाननिष्ठा स्यात्स्नेहालोपथ तिष्ठति । विमस्य विदुधा देहे तावद्रह्म न कीर्तयेत् ॥ ७२
१ख. ज. 'तज्ञश्च तथा । २ 'हिरोमास्त्वि । ३ ख. अ. 'रभेत् । ४ क. देवतः । ५ ख. न. काम: प्रात्या समाहितः । ६ ख. अ. 'न् । प्रातः सायं च नि । ७ ख. ज. सनातनात् । ८ क. सर्वाः शु। ९ ख. न. 'नां पतिग ।
Page #101
--------------------------------------------------------------------------
________________
५४चतुप्पञ्चाशत्तमोऽध्यायः] पद्मपुराणम् । शयानः पौढपादश्च कृत्वा चैवावसक्थिकाम् । नाधीयीताऽऽमिषं जग्ध्वा शूद्रश्राद्धाममेव च ॥७१ नीहारे वाणशब्दे च संध्ययोरुभयोरपि । अमावास्याचतुर्दश्योः पौर्णमास्यष्टमीषु च ॥ ७४ उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् । अष्टकासु अहोरात्रमृत्वन्तासु च रात्रिषु ॥ ७५ मार्गशीर्षे तथा पौषे माघमासे नथैव च । तिस्रोऽष्टकाः समाख्याताः कृष्णपक्षेषु सूरिभिः ॥७६ श्लेष्मातकस्य च्छायायां शाल्मलेर्मधुकस्य च । कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥ ७७ समानविये च मृत तथा मब्रह्मचारिणि । आचार्य संस्थिते चापि त्रिरात्रं क्षपणं स्मृतम् ॥ ७८ छिद्राण्येतानि विप्राणामनध्यायाः प्रकीर्तिताः। हिंमन्नि राक्षमाम्नेषु तस्मादतान्विवर्जयेत् ।। ७९ नेत्यके नाम्त्यनध्यायः मंध्योपासनमेव च । उपाकमणि चोन्पर्गे होमस्यान्ते तथैव च ॥ ८० एकामृचमर्थकं वा यतः सामानि वा पुनः । अष्टकाद्यामधीयीत मारने चाभिधावति ॥ ८१ अनध्यायस्तु नाए नेनियामागणयोः । न अयशास्त्रवन्यपु सवाण्यनानि वर्जयेत् ॥ ८२ एप धर्मः समासेन की निगो जमानानिनः । प्रत्यणाऽभिदितः पूर्वमपीणां भावितात्मनाम् ।।८३ योऽन्यत्र कुरुने यजमानपीन शुनि पितः। पहो न संभाप्यो वेदवाद्यो द्विजातिभिः ॥ ८४ न वेदपाटपात्रेण मंतो वे भवेदिजः । पाउमाजवमन्यस्त पड़े गौरिव मीदति ॥ ८५ योऽधीत्य विधिनद्वेद वेदाई न मिनारगन् । स संग्रहः शद्रकल्पः पात्रतां न प्रपद्यते ॥ ८६ यदि त्वात्यन्त्रिक कार्ग कमिमानि वै गुगे । युक्तः पग्निदेनमारीरविमोक्षणम् ॥ ८७ गन्वा वनं च विधिवरदान नोटमम् । अधीयीन दया नित्यं ब्रह्मनिष्ठः समाहितः॥ ८८ सावित्रीं शतरुट्रीयं वेदाला विपनः । अभ्ययन युक्त ऽमिक्षागनपरायणः ॥ ८९
एतद्विान परमं पुगणं बेदागमे सम्यागिदितं वः । पुरा मागभियः स्वायंभुषां यन्मनगह देवः ।। इति श्रमिक परी गम भरिचण्डे कमरोग तथन नाम त्रिपनाशनमोऽ: पायः ॥ ५३ ॥
भादितः शोकाना लमायाः-२६६०
अथ चटप्पनाश मोऽध्याय ।
व्यास उवाच -- वेदं वेदो तथा वेदान्येदाङ्गानि तथा द्विजाः । अधीन्य चाधिगम्याथ तत नायाद्विजोत्तमः ॥१ गुरवे तु धनं दत्त्वा महागीत तदनुज्ञयाँ । नीर्णवनोऽथ गुलामा शक्तो वा स्नातुमर्हति ॥ २ वणवीं धारयटिमलतापरतातरम् । गएवीनदिन मोदकं च कमण्डलुम् ॥ ३ छत्रं चोपणीपनमा पादुके आप्नुपानही । सक्यं च कण्डले धार्ये कृत्तकेशनग्नः शुचिः॥ ४ अन्यत्र काञ्चनादिभो न रको विकृयाजन् । शुक्राम्बरधरो निन्यं सुगन्धः प्रियदर्शनः ॥ . न जीर्णमलवद्वासा भट्टै विभवे सनि ।। न रक्त मूल्वणं चान्यधृतं वासो न कुण्डलम् । नोपानहाँ सज चाथ पादुके च प्रयोजयेत् ॥ ६ उपवीतमलंकारं कृष्णाजिनं च दर्शयन् । नापसव्यं परीदध्यावासो न विकृतं वसेत् ॥ ७
१ ट. 'रात्रं प्रदोषेषु गौं। २ अ. 'मात्रावमानस्तु । ३ अ. तो भस्मस्नान' । ४ ट. 'या। चीर्ण । ५ ख. अ. पाण्डके। ख. ज र दर्भाकृष्णाजिनं तथा । ना।
Page #102
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीत
[ १ आदिखण्डेआहरेविधिवदारान्सदृशानात्मनः शुभान् । रूपलक्षणसंयुक्तान्योनिदोषविवर्जितान् ॥ ८ अमातृगोत्रजभवामन्यमानुषगोत्रजाम् । आहरेद्राह्मणो भार्या शीलशौचसमन्विताम् ॥ ९ ऋतुकालाभिगामी स्याद्यावत्पुत्रोऽभिजायते। वर्जयेत्पतिषिद्धानि प्रयत्नेन दिनानि तु ॥ १० पष्ठयष्टमी पश्चदशी द्वादशी च चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ ११ आदधीत विवाहामिं जुहुयाजातवेदसम् । एतानि स्नातको नित्यं पावनानि च पावैयेत् ॥ १२ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । अकुर्वाणः पतत्याशु नरकानतिभीषणान् ॥ १३ अभ्यसेत्मयतो वेदं महायज्ञान हापयेत् । कुर्याद्याणि कार्याणि संध्योपासनमेव च ॥ १४ सख्य समाधिकैः कुर्यादुपेयादीश्वरं सदा । दैवतान्यभिगच्छेत कुर्याद्भार्याभिपोषणम् ॥ १५ न धर्म ख्यापयेद्विद्वान्न पापं गृहयेदपि । कुर्वीताऽऽत्महितं नित्यं सर्वभूतानुकम्पकः ॥ १६ वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च । देशवाग्बुद्धिसारूप्यमाचरन्त्रिचरेत्सदा ॥ १७ श्रुतिस्मृत्युदितं सम्यक्साधुभिर्यश्च सवितः । तमाचारं निषेवंत नेहेतान्यत्र कर्हि चित् ॥ १८ येनास्य पितरो याता येन याताः पितामहाः । तेन यायान्सतां मार्ग तेन गच्छन्न दुष्यति ॥१९ नित्यं स्वाध्यायशीलः स्यानित्यं यज्ञोपवीतवान् । मत्यवादी जितक्रोधो लोभमोहविवर्जितः२० सावित्रीजापनिरतः श्राद्धकन्मुच्यते गृही । मातापित्रोहिते युक्तो ब्राह्मणस्य हित रतः॥ २१ दाता यज्वा वेदभक्तो ब्रह्मलोके महीयत । त्रिवर्गसेवी सततं देवानां च समर्चनम् ॥ २२ कुर्यादहरहनित्यं नमस्येत्पयतः सुरान् । विभागशीलः सततं क्षमायुक्तो दयालुकः ॥ २३ गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ क्षमा दया व विज्ञानं सत्यं चैव दमः शमः । अध्यात्मनित्यता ज्ञानमेतह्राह्मणलक्षणम् ॥ २५ एतस्मात्र प्रमाद्यत विशेषेण द्विजोत्तमः । यथाशक्ति चरन्धर्म निन्दितानि विवर्जयेत् ॥ २६ विधूय मोहकलिलं लब्ध्वा यांगमनुत्तमम् । गृहस्थो मुच्यते बन्धानात्र कायर्या विचारणा ॥ २७ विगहतिजयक्षेपहिसाबन्धवधात्मनाम् । अन्यमन्युसमुत्थानां दोषाणां मर्पणं क्षमा ॥ २८ स्वदुःखेषु च कारुण्यं परदुःखेषु सौहृदम् । दयेति मुनयः पाहुः साक्षाद्धर्मस्य साधनम् ॥ २९ [*अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च विद्या एताश्चतुर्दश] ॥३० पचुर्दशानां विद्यानां धारणा हि परार्थनः । विज्ञानमिति तद्विद्यायेन धर्मो विवर्धत ॥ ३१ अधीत्य विधिषद्विधामर्थ चैवोपलभ्य तु । धर्मकार्याणि कुर्वीत ह्येतद्विज्ञानमुच्यते । सत्येन लोकं जयति सत्यं तत्परमं पदम् । यथाभूताप्रमादं तु सत्यमाहुर्मनीषिणः ॥ ३३ दमः शरीरोपरतिः शमः प्रज्ञाप्रसादतः । अध्यात्ममक्षरं विद्याद्यत्र गत्वा न शोचति ॥ ३४ यया स देवो भगवान्विद्यया विद्यते परः । साक्षादेव हृषीकेशस्तज्ज्ञानमिति कीर्तितम् ॥ ३५ बभिष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः । महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥ ३६ धर्मस्वाऽऽयतनं यत्नाच्छरी परिपालयेत् । न हि देहं विना विष्णुः पुरुषविद्यते परः ॥ ३७ नित्यं धर्मार्थकामेषु युज्यत न तो द्विजः । न धर्मवर्जितं काममर्थ वा मनसा स्मरेत् ॥ ३८ सीदनपि हि धर्मेण न त्वधर्म समाचरेत् । धर्मो हि भगवान्देवा गतिः सर्वेषु जन्तुषु ॥ ३९
* टपुस्तक एवाय पाठः । स. म. 'मसमानषिंगों। २ क. 'दमा । ए।३ अ. धारयेत् । ४ ख. अ. 'ज्वा देवभ'। ५ ख. ज. विधात क्रमकाधाह। ६ ख. अ. यथार्थतः ।
Page #103
--------------------------------------------------------------------------
________________
५५ पञ्चपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । भूतानां प्रियकारी स्थान परद्रोहकर्मधीः । न वेददेवतानिन्दा कुर्यात्तैश्च न संवसेत् ॥ १० यस्त्विमं नियतो विप्रो धर्माध्यायं पठेच्छुचिः । अध्यापयेच्छ्रावयेद्वा ब्रह्मलोके महीयते ॥ ४१
इति श्रीमहापुराणे पाद्म आदिखण्डे धर्मकथने चतुष्पश्चाशत्तमोऽध्यायः ॥ ५४ ॥
__ आदितः श्लोकानां समष्टयङ्काः-२७०७
अथ पश्चपञ्चाशत्तमोऽध्यायः ।
व्यास उवाचन हिंस्यात्सर्वभूतानि नानृतं वा वदेत्कचित् । नाहिनं नाप्रियं वाच्यं न स्तेनः स्यात्कदाचन॥? तृणं वा यदि वा शाकं मृदं वा जलमेव वा । परम्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥ २ न राज्ञः प्रतिगृह्णीयान्न शुद्रात्पतितादाप । न चान्यस्मादशक्तश्चेन्निन्दितान्वर्जयेद्बुधः॥ ३ नित्यं याचनको न म्यान्पुनस्तं नैव याचयेत् । प्राणानपहरत्येवं याचकस्तस्य दुर्मतेः॥ ४ न देवद्रव्यहारी स्याद्विशेपेण द्विजोत्तमः । ब्रह्मस्वं वा नापहरेदापत्स्वपि कदाचन ॥ न विषं विषमित्याहूब्रह्मस्वं विषमुच्यते । देवस्वं चापि यन्नेन सदा परिहरेत्ततः॥ पुष्पं शाकोदकं काष्ठं तथा मूलं फलं तृणम् । अदनानि च न स्तेयं मनुः माह प्रजापतिः ॥ ७ ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः । नकम्मादेव नियतमननुज्ञाय केवलम् ॥ ८ तृणं काष्ठं फलं पुप्पं प्रकाशं वै हरेवुधः । धर्मार्थ केवलं प्राहुरन्यथा पतितो भवेत् ।। तिलमुद्यवादीनां मुष्टियाद्या पयि स्थितैः । क्षुधितै न्यथा विप्रा धर्मादिभिरिति स्थितिः॥१० न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं व्यारुह्य कुर्वन्स्त्रीशद्रंदम्भनम् ॥ ११ प्रेत्येह चेदृशो विप्रो गर्यते ब्रह्मवादिभिः । छद्मना चरितं यच्च व्रतं रक्षांसि गच्छति ॥ १२ अलिङ्गी लिनिवेशेन यो वृत्तिमुपनिष्ठति । स लिङ्गिनो हरेदेनस्तिर्यग्योनौ च जायते ॥ १३ याचनं योनिसंवन्धं सहवासं च भाषणम् । कुर्वाणः पतते नित्यं तम्माद्यत्नेन वर्जयेत् ॥ १४ [*देवद्रोहं न कुर्वीत गुरुद्रोहं तथैव च । देवद्रोहागुरुद्रोहः कोटिकोटिगुणाधिकः ॥ जनापवादो नास्तिक्यं तस्मान्कोटिगुणाधिकम् ॥ गोभिश्च दैवतर्विप्रैः कृप्या राजोपसेवया । कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ॥ १६ कुविचारैः क्रियालापर्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ १७ अनृतात्पारदार्याच्च तोऽभक्ष्यस्य भक्षणात् । अगोत्रधर्माचरणान्क्षिप्रं नश्यति वै कुलम् ॥ १८ अश्रोत्रियेषु वे दानं वृषलेषु तथैव च । विहिताचारहीनेषु क्षिप्रं नश्यति व कुलम् ॥ १९ अधार्मिकैदृते ग्रामे न व्याधिबहुले वसेत् । शूद्रराज्ये च न वसेन्न पारवण्डजनने ॥ २० हिमवद्विन्ध्ययोर्मध्य पूर्वपश्चिमयोः शुभम् । मुक्वा समुद्रयोर्देशं नान्यत्र निवसेद्विजः ॥ २१ कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः । पुण्या वा विश्रुता नद्यस्तत्र वा निवसेद्विजः २२
* खजपुस्तकयोरेवायं पाटः । १ ख. अ. पुष्पे शाकोदके काष्ठे तथा मले फले तृणे । अदत्तादानमश्रेयो म । २ क. 'मनुज्ञायततव । ट. 'मनुज्ञाय तत्पतिम ।
त ट. तत्पतिः । ४ ख. ज. व्याजिघ्रन्कृव । ५ ख. ञ, 'द्रलम्भ । ६ ख. अ. 'ते जन्तस्तस्मा । ७ क. 'कः । ज्ञाना । ८ ख. अ. कुविवाहैः । ९ क. 'थाऽभिक्ष्यस्य भिक्ष।
Page #104
--------------------------------------------------------------------------
________________
९८ महामुनिश्रीव्यासपणीतं
[ १ आदिखण्डेअबक्रोशं नदीकूलं वर्जयित्वा द्विजोत्तमः । नान्यत्र निवसेत्पुण्यं नास्त्यत्र ग्रामसंनिधौ ॥ २३ न संवसेच पतितैर्न चाण्डालैर्न पुल्कसैः । न मूर्नावलिप्तैश्च नान्यैर्जायावसायिभिः ॥ २४ एकशय्यासने पतिर्भाण्डे पकाथमिश्रणम् । यजनाध्यापने योनिस्तथैव सहभोजनम् ॥ २५ सहाध्यायस्तु दशमः सहयाजनमेव च । एकादश समुद्विष्टा दोषाः सांकर्यसंहिताः ॥ २६ समीपे वाऽप्यवस्थानोत्पापं संक्रमते नृणाम् । तस्मात्सर्वप्रयत्नेन सांकर्य परिवर्जयेत् ॥ २७ एकपकत्युपविष्टा ये न स्पृशन्ति परस्परम् । भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥ २८ अमिना भस्मना चैव सलिलेन विशेषतः । द्वारेण स्तम्भमार्गेण पंभिः पतिविभिद्यते ॥ २९ न कुर्याच्छुष्कवैराणि विवादं न च पैशुनम् । परक्षेत्रे गां चरन्तीं नाऽऽचक्षीत च कहिचित् ॥३० न संवसेत्सूचकेन न के वै मर्मणि स्पृशेत् । न सूर्यपरिवेषं वा नेन्द्रचापं शराग्निकम् ॥ ३१ परस्मै कथयेद्विद्वाञ्शशिनं वाऽथ काञ्चनम् । न कुर्याद्वहुभिः साध विरोध बन्धुभिस्तथा ॥ ३२ आत्मनः प्रतिकूलानि परेषां न समाचरेत् । तिथिं पक्षस्य न चूयान्न नक्षत्राणि निर्दिशेत् ॥ ३३ नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमाः।न देवगुरुविषाणां दीयमानं तु वारयेत् ॥ ३४ न चाऽऽत्मानं प्रशंसेद्वा परनिन्दां च वर्जयेत् । वेदनिन्दा देवनिन्दा प्रयत्नेन विवर्जयेत् ॥ ३५ यस्तु देवानृषीश्चैव वेदान्वा निन्दति द्विजः । न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः॥३६ निन्दयेद्वा गुरुं देवं वेदं वा सोपबृंहणम् । कल्पकाटिशतं साग्रं रोरवे पच्यते नरः॥ ३७ तूष्णीमासीत निन्दायां न यात्किचिदुत्तरम् । कर्णी पिधाय गन्तव्यं न चैनमवलोकयेत् ॥३८ वर्जयेत्तां परेषां तु गृहेषु गर्हणां बुधः । विवादं सुंजनैः सार्ध न कुर्याद्वै कदाचन ॥ ३९ न पापं पापिनां ब्रूयादपापं वा द्विजोत्तमाः। सत्येन तुल्यदोषः स्यान्मिथ्याभिदोषवान्भवेत् ४० नृणां मिथ्याभिशस्तानां पतन्त्यभूणि रोदनात् । तानि पुत्रान्पशन्नन्ति तेषां मिथ्याभिशंसिनाम् ४१ ब्रह्महत्यासुरापाने स्तेये गुर्वङ्गनागमे । दृष्टं वै शोधनं वृद्धर्नास्ति मिथ्याभिशंसिनि ॥ ४२ नेक्षेतोद्यन्तमादित्यं शशिनं वाऽनिमित्ततः । नास्तं यान्तं न वारिस्थं मेघस्पृष्टं न मध्यगम् ॥४३ तिरोहितं समीक्षेत नादर्शाधर्नुशायिनम् । न नग्ना स्त्रियमीक्षेत पुरुषं वा कदाचन ॥ ४४ न च मूत्र पुरीषं वा न च संसृष्टमैथुनम् । नाशुचिः सूर्यसोमादीन्ग्रहानालोकयेद्बुधः ॥ ४५ नाभिभाषेत च परमुच्छिष्टो वाऽवगुण्ठितः । न पश्येत्तसंस्पर्श न क्रुद्धस्य गुरोर्मुखम् ॥ ४६ न तैलोदकयोश्छायां न पक्तिं भोजनेऽसति । न मुक्तबन्धनं पश्येनोन्मत्तं गजमेव च ॥ ४७ नाश्नीयाद्भार्यया सार्ध नैनामीक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां वा नाऽऽसनस्थां यथासुखम् ४८ नोदके चाऽऽत्मनो रूपं शुभं वाऽशुभमेव वा । न लययेच्च मतिमानाधितिष्ठेत्कदाचन ॥ ४९ न शूद्राय मतिं दद्यात्कृसरं पायसं दधि । नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ॥ ५० न चैवास्मै व्रतं ब्रूयान च धर्म वदेद्बुधः। न च क्रोधवशं गच्छेद्वेगं रागं च वर्जयेत् ॥ ५१ लोभ दम्भं तथाऽवज्ञामसूर्या ज्ञानकुत्सनम् । ईर्ष्या मदं तथा शोकं मोहं च परिवर्जयेत् ॥ ५२ न कुर्यात्कस्यचित्पीडां सुतं शिष्यं तु ताडयेत् । न हीनानुपसेवेत न च तृष्णामतिः कचित् ५३ नाऽऽत्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् । न विशिष्टमसत्कुन्निाऽऽत्मानं नामयेद्बुधः।। २४
१ ख. अ. ‘ण्यं नान्त्यजना। २ अ. नान्यन्त्यिाव' । ३ ख. अ. नात्सांकर्य क । ४ ख. अ. विलेखतः । ट. हणेन वा । ५ क. सद्भिः । ६ ख. अ. पं पराहिक । ७ख. स्वजनैः । ८ अ. नगामिन' । ९.द. 'प्रेमसं। १० ख. म. पत्नी । ११ म. च्छेद्वेषं रा'। १२ ख. अ. 'नं तापये।
Page #105
--------------------------------------------------------------------------
________________
५५ पञ्चपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । न नखेन लिखेभूमि गां च संवेशयेन हि । न नदीषु नदी ब्रूयात्पर्वतेषु च पर्वतान् ॥ ५५
आवासे भोजने वाऽपि न त्यजेत्सहयोजिनम् । नावगाहेदपो नग्नो वह्नि नातिव्रजेत्तथा ॥ ५६ शिरोभ्यगावशिष्टेन तैलेनाऊं न लेपयेत् । ने चाप्यशास्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत॥५७ रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् । न पाणिपादवानेत्रचापल्यं समुपाश्रयेत् ।। ५८ न शिश्नोदरचापल्यं न च श्रवणयोः कचित् । न चाहनखवायं वै कुर्यानाञ्जलिना पिबेत्॥५९ नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन । न शातयेदिष्टिकाभिमूलानि च फलानि च॥६० न म्लेच्छभाषणं शिक्षेत्राऽऽकर्षेच पदाऽऽसनम् । नखभेदनमास्फोटं छेदनं वा विलेखनम् ॥६१ कर्याद्विमर्दनं धीमानाकस्मादव निष्फलम् । नोत्सङ्गे भक्षयद्भक्ष्यं वृथाचेष्टां न चाऽऽचरेत् ॥६२ न नृत्येदथवा गायेन वादित्राणि वादयेत् । न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ६३ न लौकिकैः स्तवैर्देवांस्ताषयेद्वाक्पतेरपि । नाक्षैः क्रीडन्न धावेत नाप्सु विमूत्रमाचरेत् ॥ ६४ नोच्छिष्टः संविशेन्नित्यं न नग्नःम्मानमाचरेत् । न गच्छंन्तु पठेद्वाऽपि न चैव स्वशिरः स्पृशेत् ।। ६५ नदन्तैर्नखरोमाणि छिन्यान्सुप्तं न बोधयेत् । न बालातपमासेवेत्प्रेतधूमं विवर्जयेत् ॥ ६६ नैव स्वप्याच्छ्न्य गेहे स्वयं नोपानही हरेत् । नाकारणाद्वा निष्ठीवेन्न बाहुभ्यां नदी तरेत् ॥ ६७ न पादक्षालनं कुर्यात्पादेनेव कदाचन । नानी प्रतापयेत्पादो न कांस्य धारयेद्बुधः ॥ ६८ नाभिप्रसारयेद्देवं ब्राह्मणान्गामथापि वा । वाय्वग्निनृपविप्रान्वा सूर्य वा शशिनं प्रति ॥ ६९ अशुद्धः शयनं यानं स्वाध्यायं स्नानभोजनम् । बहिनिष्क्रमणं चैव न कुर्वीत कदाचन ॥ ७० स्वद॑मावपनं स्नानमुर्न भोजनं गतिम् । उभयोः संध्ययोनित्यं मध्याह्न चैत्र वर्जयेत् ॥ ७१ न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् । न चालनं पदावाऽपि न देवप्रतिमा स्पृशेत् ॥ नाशुद्धोऽग्निं परिचरेन देवान्कीतयेदृषीन् । नावगाहेदगाधाम्बु धावयेनानिमित्ततः ॥ ७३ न वामहस्तेनोद्धृत्य पिवेद्वक्त्रण वा जलम् । नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥ ७४ अमेध्यालिप्तमह वा लोहितं वा विषाणि वा । व्यतिक्रामेन स्रवन्तीं नाप्सु मैथुनमाचरेत ॥ ७५ चैत्यक्षं न वै छिन्द्यान्नाप्सु ठीवनमाचरेत् । नास्थिभस्मकपालानि न केशान्न च कण्टकान् ॥ तुषाङ्गारकरीपं वा नाधितिष्ठेत्कदाचन ।। न चाग्निं लमयेद्धीमानोपदध्यादधः कचित् । न चैनं पादतः कुर्यान्मुखेन न धमेबुधः ॥ ७७ न वृक्षमवरोहत नावनेताशुचिः कचित् । अग्नी न च क्षिपदाग्निं नाद्भिः प्रशमयेत्तथा ॥ ७८ मुहृन्मरणमात्रं वा स्वयं न श्रावयेत्परान् । अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत् ॥ ७९ न वह्नि मुखनिश्वासालयेन्नाशुचिर्बुधः । पुण्यस्थानोदकस्थाने सीमान्तं वाहयेन तु ॥ ८० न भिन्द्यात्पूर्वसमयमभ्युपेतं कदाचन । परस्परं पशून्व्याघ्रान्पक्षिणो नावयोधयेत् ॥ ८१ परवाधां न कुर्वीत जलवातातपादिभिः । कारयित्वा सुकर्माणि गुरून्पश्चान वश्चयेत् ॥ ८२ सायं प्रातर्गृहद्वाराव्रक्षार्थ परिघट्टयेत् । बहिर्माल्यं सुगन्धि वा भार्यया सह भोजनम् ॥ विगृह्य वादं कृत्वा वा प्रवेशं च विवर्जयेत् ॥ न खादन्ब्राह्मणस्तिष्ठेन जल्पन्वा हसेबुधः । स्वमानं चैव हस्तेन स्पृशेनाप्सु चिरं वसेत् ॥८४ नं पक्षकेणोपधमेन शूर्पण च पाणिना । मुखेनाग्नि समिन्धीत मुखादग्निरजायत ॥ ८५
१ ख अ. 'यानिन । २. अ. न सर्वशस्त्रः । ३ ख त्र, 'नापो ह्या'। ४ ख. अ. 'नमध्ययन । ५ म. म. ध्यलिप्तमन्यद्वा लो।६ट.'य ण न ध ट. ण्यं कट। ८ ज. हरेन। ९क. वाह। १.ट.न व्यजनेनोपथमेजवण।
७६
Page #106
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेपरस्त्रियं न भाषेत नायाज्यं याजयेद्बुधः । नेकश्चरेत्सदा विमः समुदायं च वर्जयेत् ॥ ८६ न देवायतनं गच्छेत्कदाचिद्वाऽप्रदक्षिणम् । ने पीडयेद्वा वस्त्राणि न देवायतने स्वपेत् ॥ ८७ नैकोऽध्यानं प्रपद्यत नाधार्मिकजनैः सह । न व्याधिदृषितर्वाऽपि न शनैः पतितेन वा ॥ ८८ नोपानद्वर्जितो वाऽथ जलादिरहितस्तथा । न वमनि चितिं वाममतिक्रामेन्कचिट्विजः॥ ८९ न निन्दद्योगिनः सिद्धान्बतिनो वा यतीस्तथा। देवतायतनं प्राज्ञा देवानां चेव सत्रिणाम्॥९० न कामेत्कामतश्छायां ब्राह्मणानां च गोरपि। स्वां तु नाऽऽक्रमयेच्छायां पतितार्धन रोगिभिः॥ नाङ्गारभस्मकेशादिप्वधितिष्ठत्कदाचन ॥ वर्जयेन्मार्जनीरेणुं मानवस्नघटोदकम् । न भक्षयदभक्ष्याणि नापेयं च पिबेट्विजः॥ ९२
इति श्रीमहापुगणे पाद्म आदिखण्डे धर्मकथने पनपन्नाशत्तमोऽध्यायः ॥ ४५ ॥
आदितः श्लोकानां समयङ्काः-२७९.९.
अथ षट्पनाशनमोऽध्यायः ।
व्यास उवाचनाद्याच्छद्रस्य विप्रोऽन्नं माहाहा यदि कामतः । स शद्रयोनि व्रजति यस्तु भुले त्वनापदि ॥ १ षण्मासान्यो द्विजो भुकं शद्रस्यानं विगर्हितम् । जीवन्नेव भवेच्छद्रो मृतः श्वा चाभिजायते ॥ २ ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वगः । यस्यानोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ ३ नटानं नर्तकानं च चण्डालचर्मकारिणाम् । गणान्नं गणिकान्नं च पंडन्नं च विवजयत् ॥ ४ चक्रोपजीविरजकतस्करजिनां तथा । गान्धर्वलोहकारान्नं मृतकानं विवर्जयेत् ॥ कुलालचित्रकारानं वार्षुषः पतितस्य च । पानर्भवच्छत्रिकयोरभिशप्तस्य चैव हि ॥ सुवर्णकारशेलूपव्याधवन्ध्यातुरस्य च । चिकित्सकस्य चवानं पुंश्चल्या दण्डकस्य च ॥ ७ स्तननास्तिकयोरनं देवतानिन्दकस्य च । सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥ ८ भार्याजितस्य चैवानं यस्य चापपतिगृह । उत्सृष्टस्य कदर्यस्य तथैवाच्छिष्टभोजिनः ॥ ९ पोपीयोनं च संघानं शस्त्राजीवस्य चैव हि । भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षतम् ॥ १० ब्रह्मद्विषः पापरुचेः श्राद्धानं मृतकस्य च । वृथापाकस्य चैवान्नं शावान्नं चाऽऽतुरस्य च ॥ ११ अप्रजानां तु नारीणां कृतघ्नस्य तथैव च । कारुकानं विशंपण शस्त्रविक्रायणस्तथा ॥ १२ शौण्डानं घॉण्टिकानं च भिषजामन्नमेव च । विद्धप्रजननस्यान्नं परिवत्रन्नमेव च ॥ १३ पुनर्भवो विशेषेण तथैव दिधिपूपतः । अवज्ञातं चावधृतं सरोपं विस्मयान्वितम् ॥ १४ गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् । दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् ॥ १५ यो यस्यानं समश्नाति स तस्याश्नाति किल्बिषम् । अधेकाकुलमित्रं च गोपाली वाहनापितो॥१६ एते शूद्रेषु भोज्याना यश्चाऽऽत्मानं निवेदयेत् । कुशीलवः कुंभकश्च क्षेत्रकर्मक एव च ॥ १७ एते शूद्रेषु भोज्याना दत्त्वा स्वल्पगुणं बुधैः । पायसं स्नेहपकं च गोरसश्चैव सक्तवः ॥ १८ पिण्याकं चैव तैलं च शूद्राद्राह्यं द्विजातिभिः । वृन्ताकं नालिकाशाकं कुसुम्भं भस्मकं तथा॥१९
१ख. अ. न बीजयद्वा वस्त्रेण न । २ ज. पण्ढान्न । ३ ख. अ. अपाङ्गानं । ४ द. घोटिकानं । ५ट. च । बद्धप्रजान । ६ ट. अहङ्काः कु। ख. अ. आधिका: कु। ७ ख. ज. ट. 'लो दासना'। ८. स्वल्पं पणं च वै ।पा। म. सम्भाश्मन्तकं त।
Page #107
--------------------------------------------------------------------------
________________
१०१
५६ षट्पञ्चाशत्तमोऽध्यायः] पद्मपुराणम् । पलाण्डु लशुनं शुक्तं निर्यासं चैव वर्जयेत् । छत्राकं विवाहं च स्विनं पीयूषमेव च ॥ २० विलयं विमुखं चैव कारकाणि विवर्जयेत् । गृञ्जनं किंशुकं चैव कूष्माण्डं च तथैव च ॥ २१ उदुम्बरमलावू च जग्ध्वा पतति वै द्विजैः। तथा कसरसंयावौ पायसापूपमेव च ॥ २२ अनुपाकृतमांमं च देवान्नानि हवींषि च । यवागू मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् ॥ २३ नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् । पिण्याकं चोद्धृतस्नेहं देवधान्यं तथैव च ॥ २४ रात्री च तिलसंबन्धं प्रयत्नेन दधि त्यजेत् । नाश्नीयात्पयसा तक्रं सक्षारानं न योजयेत् ॥२५ मिदुष्टं भावदुष्टमसत्मसगेवति यत् । कृमिकीटावपन्नं च सहत्क्लेदं च नित्यशः॥ २६ श्वाघ्रातं च पुनः सिद्धं चाण्डालावेक्षितं तथा। उदक्यया च पतितगेवा संघातमेव च ॥ २७ असंगनं पर्युषितं पर्यस्तान्नं च नित्यशः । काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संगतम् ॥ २८ मनुष्यैरप्यवघ्रातं कुष्टिना स्पृष्टमेव च । न रजस्वलया दत्तं न पुंश्चल्या सरोगया ॥ २९ मलबद्वाससा वाऽपि परवासोऽय वर्जयेत् । विवत्सायाश्च गोः क्षीरं मेद्य(ष)स्यानिर्दशस्य च ॥३० आविकं बन्धकीमीरमपेयं मनुरब्रवीत् । बलाकं हंसदात्यहं कलविवं शुकं तथा ॥ ३१ कुररं च चकोरं च जालपादं च कोकिलम् । वायसान्वञ्जरीटांश्च श्येनं गृधं तथैव च ॥ ३२ उलूकं चक्रवाकं च भासं पारावतं तथा । कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥ १३ सिंहं व्याघ्रं च मार्जारं श्वानं सूकरमेव च । शृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ॥ ३४ न भक्षयेत्सेवमृगाञ्शिखिनोऽन्यान्वनेचरान । जलेचरान्स्थलचरामाणिनश्चेति धारणा ॥ ३५ गांधा कर्मः शशः खड़ः शल्लकश्चेति सत्तमाः। भक्ष्यान्पश्चनरवान्नित्यं मनुराह प्रजापतिः॥ ३६ मत्स्यान्सशल्कान्भुञ्जीय मांस रोरवमेव च । निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यश्च नान्यथा ॥ ३७ मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् । वाधीणमं वकं भक्ष्यं मीनं माह प्रजापतिः॥ ३८ शफरी सिंहतुण्डश्च तथा पाठीनरोहितो । मत्स्याश्चैते समुद्दिष्टा भक्षणीया द्विजोत्तमाः॥ ३९ मोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया । यथाविधिप्रयुक्तं च प्राणानामपि चात्यये ॥ ४० भक्षयेनेव मांसानि शेषभोजी न लिप्यते । औषधार्थमशक्तो वो न योगाद्यजकारणात् ॥ ४१ आमत्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमाणि तावन्नरकमृच्छति ॥ ४२ अदेयं वाऽप्यपेयं च नर्थवास्पृश्यमेव वा । द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः॥४३ नस्मात्सर्वप्रयत्नेन मद्यं नित्यं विवर्जयेत् । पीत्वा पतति कर्मभ्यस्त्वसंभाष्यो भवेद्विजः॥ ४४ भयित्वाऽप्यभक्ष्याणि पीत्वाऽपयान्यपि द्विजः । नाधिकारी भवेत्तावद्यावतन्त्र जहात्यधः ४५ तस्मात्परिहन्नित्यमभक्ष्याणि प्रयत्नतः। अपयानि च विप्रो वै तथा चंद्याति रौरवम् ॥ ४६ इति श्रीमहापुगणे पाद्म आदिखण्डे भक्ष्याभक्ष्यनियमकथनं नाम षट्पश्चाशत्तमोऽध्यायः ॥ ५६ ॥
आदितः श्लोकानां समष्टयङ्काः-२८४५
अथ सप्तपञ्चाशत्तमोऽध्यायः । व्यास उवाचअथातः संप्रवक्ष्यामि दानधर्ममनुत्तमम् । ब्रह्मणाऽभिहिनं पूर्वमृषीणां ब्रह्मवादिनाम् ।। १
१. कवकानि । २ ट. मूलक । ३ अ. 'जः । वृथा कृमरम। ४ ख. अ. क्रियादुष्ठं । ५ ख. अ. त् । केशकी। ६ त्र. अनचितं । ७ बक्षीरमाष्टमेकशफस्य।८ ञ. 'कसधिनाक्षी। ९ अ. सर्पमृ। १० व.अ. 'तिः ॥राजीवाः सिं। ११ अ. वा नियो।
Page #108
--------------------------------------------------------------------------
________________
१०२ महामुनिश्रीव्यासपणीतं
[ १ आदिखण्डेअर्थानामुचिते पात्रे श्रद्धया प्रतिपादनम् । तदोमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् ॥ : यो ददाति विशिष्टेभ्यः श्रद्धया परया युतः । तद्वै दत्तमहं मन्ये शेषं कस्यापि रक्षति ॥ । नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते । चतुर्थ विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ॥ । अहन्यहनि यत्किंचिद्दीयतेऽनुपकारिणे । अनुद्दिश्य फलं तस्माद्राह्मणाय तु नित्यकम् ॥ ८ यत्तु पापोपशान्त्यर्थ दीयते विदुषां करे । नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुत्तमम् ॥ अपत्यविजयैश्वर्यसुखार्थ यत्प्रदीयते । दानं तत्काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ॥ यदीश्वरस्य प्रीत्यर्थ ब्रह्मवित्सु प्रदीयते । चेतसा धर्मयुक्तेन दानं तद्विमलं शिवम् ॥ दानधर्म निषेवेत पात्रमासाद्य शक्तितः । उपास्यते तु तत्पात्रं यत्तारयति सर्वतः ॥ कुटुम्बभुक्तिवसनाद्देयं यदतिरिच्यते । अन्यथा दीयते यद्वै न तदानफलप्रदम् ॥ श्रोत्रियाय कुलीनाय विनीताय तपस्विने । व्रतस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ॥ १३ यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाऽऽहिताग्नये । स याति परमं स्थानं यत्र गत्वा न शोचति १: इक्षुभिः सततां भूमि यवगोधूमशालिनीम् । ददाति वेदविदुषे यः स भयो न जायते ॥ १३ गोचर्ममात्रामपि वा यो भूमि संप्रयच्छति । ब्राह्मणाय दरिद्राय मर्वपापैः प्रमुच्यते ॥ ११ भूमिदानात्परं दानं विद्यते नेह किंचन । अन्नदानं तेन तुल्यं विद्यादानं ततोऽधिकम् ॥ १० यो ब्राह्मणाय शान्ताय शुचये धर्मशीलिने । ददाति विद्यां विधिना ब्रह्मलोके महीयते ॥ १६ दद्यादहरहः स्वर्ण श्रद्धया ब्रह्मचारिणे । सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमामुयात् ॥ १५ गृहस्थायामदानेन फलमामोति मानवः । अन्नमेवास्य दातव्यं दत्त्वाऽऽप्नोति परां गतिम् ॥१८ वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्सप्त पञ्च वा । उपोष्य विधिना शान्तः शुचिः प्रयतमानसः । पूजयित्वा तिलैः कृणेमधुना च विशेषतः । प्रीयतां धर्मराजति यदा मनसि वर्तते ॥ यावज्जीवं तु यत्पापं तत्क्षणादेव नश्यति ॥ कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्व तरति दुप्कृतम् ॥ २१ घृतानमुदकुम्भं च वैशाख्यां तु विशेषतः । निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ॥ २२ सुवर्णतिलयुक्तैस्तु ब्राह्मणान्सप्त पञ्च वा । तर्पयेदुदपात्रेस्तु ब्रह्महत्यां व्यपोहति ॥ २३ माघमासे तमिले तु द्वादश्यां समुपोषितः । शुक्लाम्बरधरः कृष्णस्तिलेहेत्वा हुताशनम् ॥ २४ प्रदद्याहाह्मणेभ्यस्त तिलानेव समाहितः । जन्मप्रभृति यत्पापं सर्व तरति वै द्विजः॥ २५ अमावास्यामनुप्राप्य ब्राह्मणाय तपस्विने । यत्किंचिद्देवदेवेशं दद्याच्चोद्दिश्य केशवम् ॥ २६ मीयतामीश्वरो विष्णुहृषीकेशः सनातनः । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ २७ यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् । आराधयविजमुखे न तस्यास्ति पुनर्भवः॥ २८ कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये। स्नात्वाऽभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः२९ मीयतां मे महादेवो दद्याद्रव्यं स्वकीयकम् । स सर्वपापनिर्मुक्तः प्रामांति परमां गतिम् ॥ ३० द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः । अमावास्यायां भक्तैस्तु पूजनीयस्त्रिलोचनः ॥३१ एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् । अर्चयड्राह्मणमुखे स गच्छंत्परमं पदम् ॥ ३२ एषा तिथि(प्णपी स्यावादशी शुक्लपक्षतः । तस्यामाराधयेद्देवं प्रयत्नन जनार्दनम् ॥ ३३ यत्किंचिद्देवमीशानमुद्दिश्य ब्राह्मणे शुचौ । दीयते विष्णुमेवापि तदनन्तफलं स्मृतम् ॥ ३४ यो हि यां देवतामिच्छेत्समाराधयितुं नरः। ब्राह्मणान्पूजयेद्यत्नात्स तस्यास्तोषयेत्ततः ॥ ३५
Page #109
--------------------------------------------------------------------------
________________
१०१
६७ सप्तपश्चाशत्तमोऽध्यायः] पद्मपुराणम् । द्विजानां वपुरास्थाय नित्यं तिष्ठन्ति देवताः। पूज्यन्ते ब्राह्मणालाभे प्रतिमादिषु तैः कचित् ॥ ३६ प्रतिमादिषु यत्नेन तस्मात्फलमभीप्सया । द्विजेषु देवता नित्यं पूजनीया विशेषतः॥ ३७ विभूतिकामः सततं पूजयेद्धि पुरंदरम् । ब्रह्मवर्चसकामस्तु ब्रह्माणं ज्ञानकामुकः ॥ ३८ आरोग्यकामोऽथ रवि धनकामो हुताशनम् । कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम् ॥ ३९ भोगकामस्तु शशिनं बलकामः समीरणम् । मुमुक्षुः सर्वसंसारात्पयत्नेनार्चयेद्धरिम् ॥ ४० यस्तु योग तथा मोक्षमन्विच्छेज्ज्ञानमैश्वरम् । अर्चयेत विरूपाक्षं प्रयत्नेन सुरेश्वरम् ॥ ४१ ये वाञ्छन्ति महाभोगाज्ञानानि च महेश्वरम् । ते पूजयन्ति भूतेशं केशवं चापि भोगिनः॥४२ वारिदस्तृप्तिमामोति जलदानं ततोऽधिकम् । तैलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ ४३ भूमिदः सर्वमानोति दीर्घमायुर्हिरण्यदः । गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ ४४ वामोदचन्द्रसालोक्यमश्वदो यानमुत्तमम् । अन्नदाता श्रियं स्खेष्टां गोदो बनस्य विष्टपम् ॥ ४५ यानशय्यापदो भार्यामेश्वर्यमभयपदः । धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम् ॥ ४६ धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् । वेदविद्याविशिष्टेषु प्रेत्य स्वर्ग समश्नुते ॥ ४७ गवां चानप्रदानेन सर्वपापैः प्रमुच्यते । इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः॥ फलमूलानि पानानि शाकानि विविधानि च । प्रदद्याद्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेत् ४९ औषधं स्नेहमाहारं रोगिणो रोगशान्तये । ददानो रोगरहितः सुखी दीर्घायुरेव च ॥ ५० असिपत्रवनं मार्ग शुरधारासमन्वितम् । तीक्ष्णतापं च तरति च्छत्रोपानत्प्रदो नरः॥ ५१ यद्यदिष्टतमं लोके यच्चास्यापेक्षितं गृहे । तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ ५२ अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः । संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ॥ ५३ प्रयागादिषु तीर्थेषु पुण्येप्वायतनेषु च । दत्त्वा चाक्षयमामोति नदीषु च वनेषु च ॥ ५४ दानधर्मात्परो धर्मो भूतानां नेह विद्यते । तस्माद्विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ॥ ५५ स्वर्गाय भूतिकामेन तथा पापोपशान्तये । मुमुक्षुणा तु दातव्यं ब्राह्मणेभ्यस्तथाऽन्वहम् ॥ ५६ दीयमानं तु यो मोहागोविप्राग्निसुरेषु च । निवारयति पापात्मा तिर्यग्योनि व्रजेत सः॥ ५७ यस्तु द्रव्यार्जनं कृत्वा नार्चयेद्राह्मणान्सुरान् । सर्वस्वमपहृत्यैनं राजा राष्ट्रात्मवासयेत् ॥ ५८ यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति । म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः॥ ५९ न तस्मात्पतिगृह्णीयुर्न वसेयुश्च तेन हि । अङ्कयित्वा स्वकाद्राष्ट्राद्राना तं विप्रवासयेत् ॥ ६० पश्चात्सद्भ्यो ददातीह स्वद्रव्यं धर्मसाधनम् । स पूर्वाभ्यधिकः पापी नरके पच्यते नरः॥ ६१ स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः । सत्यसंयमसंयुक्तास्तेभ्यो दद्याद्विजोत्तमाः६२ प्रभुक्तमपि विद्वांसं धार्मिकं भोजयेद्द्विजम् । न च मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ॥ ६३ संनिकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति । स तेन कर्मणा पापी नात्यासप्तमं कुलम् ॥ ६४ यदि स्यादधिको विप्रः शीलविद्यादिभिः स्वयम् । तस्मै यत्नेन दातव्यमतिक्रम्य च संनिधिम् ॥ योऽचितं प्रति गृह्णीयाद्दद्यादर्चितमेव च । तावुभौ गच्छतः स्वर्ग नरकं तु विपर्यये ॥ ६६ न वार्यपि प्रयच्छेत नास्तिकेऽहैतुकेऽपि च । न पाखण्डेषु सर्वेषु नावेदविदि धर्मवित् ॥ ६७ रूप्यं चैव हिरण्यं च गामश्वं पृथिवीं तिलान् । अविद्वान्मतिगृह्णीयाद्भस्मी भवति काष्ठवत् ॥ ६८
१ ट. 'हाभागा ज्ञाना' । २ ख. प्र. 'दः सदामिष्टं दी । ३ क. रणेषु । ४ ख. अ. पी दहत्या' ।
Page #110
--------------------------------------------------------------------------
________________
१०४
महामुनिश्रीव्यासप्रणीतं—
[ १ आदिखण्डे
७० ७१
द्विजातिभ्यो धनं लिप्सेत्प्रशस्तेभ्यो द्विजोत्तमः । अपि राजन्यवैश्याभ्यां न तु शूद्रात्कथंचन ६९ वृत्तिसंकोचमन्विच्छेन्ने हेत धनविस्तरम् । धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ।। वेदानधीत्य सकलान्यज्ञांश्वावाप्य सर्वशः । न तां गतिमवामोति संतोषाद्यामवामुयात् ।। प्रतिग्रहरु चिर्न स्याच्छूद्रान्न तु समाहरेत् । स्थित्यर्थादधिकं गृह्णन्ब्राह्मणो यात्यधोगतिम् ॥ ७२ यस्तु याति न संतोषं न स स्वर्गस्य भाजनम् । उद्वेजयति भूतानि यथा चौरस्तथैव सः ॥ ७३ गुरून्भृत्यांश्वोज्जिहीर्षुस्तर्पयन्देवतातिथीन् । सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥ एवं गृहस्थो युक्तात्मा देवतातिथिपूजकः । वर्तमानः संयतात्मा याति तत्परमं पदम् । ७५ पुत्रेषु भार्या निक्षिप्य गत्वाऽरण्यं तु तत्त्ववित् । एकाकी विचरेन्नित्यमुदासीनः समाहितः ॥ ७६ एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः । ज्ञात्वा तु तिष्ठेन्नियतं तथाऽनुष्ठापयेद्विजान् ॥ ७७ इति देवमनादिमेकमीशं गृहधर्भेण समर्चयेदजस्रम् ।
७४
समतीत्य स सर्वभूतयोनिं प्रकृतिं याति परं न याति जन्म ||
इति श्रीमहापुराणे पाद्म आदिखण्डे गृहस्थधर्मनिर्णयो नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥ आदितः श्लोकानां समथ्यङ्काः - २९२३
अथाष्टपञ्चाशत्तमोऽध्यायः ।
७८
व्यास उवाच -
४
७
८
एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः । वानप्रस्थाश्रमं गच्छेत्सदारः सारेिव च ॥ निक्षिप्य भार्या पुत्रेषु गच्छेदनमथापि वा । दृष्ट्वाऽपत्यये वाऽपत्यं जर्जरीकृतविग्रहः ॥ शुक्लपक्षस्य पूर्वाह्णे प्रशस्ते चोत्तरायणे । गत्वाऽरण्यं नियमवांस्तपः कुर्यात्ममाहितः ।। फलमूलानि पूतानि नित्यमाहारमाहरेत् । यदाहारो भवेत्तेन पूजयेत्पितृदेवताः ॥ पूजयेदतिथिं नित्यं स्नात्वा चाभ्यर्चयेत्सुरान् । गृहादादाय चाश्नीयादष्टां ग्रासान्समाहितः।। ५ जटाश्च विभृयान्नित्यं नखरोमाणि नोत्सृजेत् । स्वाध्यायं सर्वथा कुर्यान्नियच्छेद्वाचमन्यतः || ६ अग्निहोत्रं तु जुहुयात्पञ्चयज्ञान्समाचरेत् । उत्पन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ।। चीरवासा भवेन्नित्यं स्नायात्रिषवणं शुचिः । सर्वभूतानुकम्पश्च प्रतिग्रहविवर्जितः || दर्शेन पौर्णमासेन यजेत नियतं द्विजः । ऋत्विष्ट्याग्रयणे चैव चातुर्मास्यानि कारयेत् ।। उत्तरायणं च क्रमशो दक्षस्यायनमेव च । वासन्तशारदैर्मेध्यैरुत्पन्नैः स्वयमाहृतैः ।। पुरोडाशांश्वरूंश्चैव विधिवन्निर्वपेत्पृथक् । देवताभ्यश्च तद्धुत्वा वन्यं मेध्यतरं हविः ॥ शेषं समुपभुञ्जीत लवणं च स्वयं कृतम् । वर्जयेन्मद्यमांसानि भौमानि करकानि च ॥ भूस्तृणं शेष्पकं चैव श्लेष्मातकफलानि च । न फालकृष्टमश्रीयादुत्सृष्टमपि केनचित् ॥ न ग्रामजातान्यार्तोऽपि पुष्पाणि च फलानि च । श्रावणेनैव विधिना वह्निं परिचरेत्सदा ॥ १४ न त्सर्वभूतानि निर्द्वद्वो निर्भयो भवेत् । न नक्तं किंचिदश्नीयाद्रात्रौ ध्यानपरो भवेत् ।। १५ जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः । ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ।। १६ यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् । तद्व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ।। १७ १ अ. 'ति पुनर्न या । २ क. 'स्य दांप ं । ३ ञ. कवकानि । ४ ख. ज. कवच ।
१२
१३
२
९
१०
११
Page #111
--------------------------------------------------------------------------
________________
५९ एकोनषष्टितमोऽध्यायः ]
पद्मपुराणम् ।
१०५
1
२५
२६
२७
सत्र यो जायते गर्भो न स स्पृश्यो द्विजातिभिः । न हि वेदेऽधिकारोऽस्य तद्वंशेऽप्येवमेव हि ॥ १८ भूमौ शयीत सततं सावित्रीजप्यतत्परः । शरण्यः सर्वभूतानां सद्विभागपरः सदा ॥ १९ परिवादं मुषावादं निद्रालस्ये च वर्जयेत् । एकाग्निरनिकेतः स्यात्प्रोक्षितां भूमिमाश्रयेत् || २० मृगैः सह चरेद्दान्तस्तैः सहैव च संवसेत् । शिलायां शर्करायां वा शयीत सुसमाहितः ॥ २१ सद्यः प्रक्षालको वा स्यान्मासमंचयिकोऽपि वा । षण्मासनिचयो वाऽपि समानिचय एव वा ।। २२ नक्तं चानं समश्नीयादिवा चाऽऽहृत्य शक्तितः । चतुर्थकालिको वा स्यात्किं वाऽप्यष्टमकालिकः २३ चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्जयेत् । पक्षे पक्षे समश्रीयाद्यवागूं कथितां सकृत् ॥ २४ पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः ।। भूमा परिवर्तेत तिष्ठेद्वापदैर्दिनम् । स्थानासनाभ्यां विहरेन्न कचिद्धैर्यमुत्सृजेत् ॥ ग्रीष्मे पञ्चपञ्च स्याद्वस्वभ्रावकाशिकः । आर्द्रवासाच हेमन्ते क्रमशो वर्धयेत्तपः ॥ उपस्पृशेत्रिषवणं पितृदेवांश्च तर्पयेत् । एकपादेन तिष्ठेत मरीचिं वा पिवेत्सदा ।। पञ्चाग्निधूमगो वा स्यादूष्मगः सोमपोऽपि वा । पयः पिवेच्छुक्लपक्षे कृष्णपक्षे तु गोमयम् ।। २९ शीर्णपर्णाशनो वा स्यात्कृच्छ्रेव वर्तयेत्सदा । योगाभ्यासरतश्च स्याद्राध्यायी भवेत्सदा ॥ ३० अथर्वशिरसोऽध्येता वेदान्ताभ्यासतत्परः । यमान्मवेत सततं नियमांश्चाप्यतन्द्रितः ॥ ३१ कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् । अथवाऽशीन्समारोप्य स्वात्मनि ध्यानतत्परः ।। ३२ अनग्निरनिकेतो वा मुनिर्मोक्षपरो भवेत् । तापसेष्वेव विप्रेषु यात्रिकं भैक्ष्यमाहरेत् ।। गृहमेधिषु चान्येषु द्विजेषु वनचारिषु । ग्रामादाहृत्य वाऽश्नीयादष्टौ ग्रासान्वने वसन् ॥ प्रतिगृह्य पुढेनैव पाणिना शकलेन वा । विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् ॥ विद्याविशेषान्सावित्रीं रुद्राध्यायं तथैव च । महाप्रस्थानिकं वाऽसौ कुर्यादनशनं तथा ॥ अग्निप्रवेशमन्यद्वा ब्रह्मार्पणविधौ स्थितः ॥
२८
३३
३४
३५
३६
इति श्रीमहापुराणे पाच आदिखण्डे वानप्रस्थाश्रमाचारकथनं नामाटप नाशत्तमोऽध्यायः ॥ ५८ ॥ श्लोकानामादितः समयङ्काः – २९५९
अर्थकांनपटितमोऽध्यायः ।
व्यास उवाच --
३
एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः । चतुर्थ चाऽऽयुषां भागं संन्यासेन नयेत्क्रमात् ॥ १ अग्नीनात्मनि संस्थाप्य द्विजः प्रवजितो भवेत् । योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥ २ यदा मनसि संपन्नं वैतृष्ण्यं सर्ववस्तुषु । तदा संन्यासमिच्छेच्च पतितः स्याद्विपर्यये । माजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः । दान्तः शुक्लकपायोऽसौ ब्रह्माश्रममुपाश्रयेत् ॥ ४ ज्ञानसंन्यासिनः केचिंद्वेदसंन्यासिनोऽपरे । कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥ यः सर्वत्र विनिर्मुक्तो निर्द्वद्वश्चैव निर्भयः । प्रोच्यते ज्ञानसंन्यासी आत्मन्येव व्यवस्थितः ॥ ६ वेदमेवाभ्यसेन्नित्यं निराशी निष्परिग्रहः । प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेन्द्रियः ॥ येस्त्वग्निमात्मसात्कृत्वा ब्रह्मार्पणपरो द्विजः । ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ।। १८. 'गर्वनि' । २ ८. यस्तु खान्यात्म ।
1
५
७ ८
१४
Page #112
--------------------------------------------------------------------------
________________
१०६ महामुनिश्रीव्यासमणीत
[ १ आदिखण्डेप्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः । न तस्य विद्यते कार्य न लिङ्ग वा विपश्चितः ॥ निर्ममो निर्भयः शान्तो निद्वः पर्णभोजनः । जीर्णकोपीनवासाः स्यान्नग्नो वो ज्ञानतत्परः॥१. ब्रह्मचारी जिताहारो ग्रामादनं समाहरेत् । अध्यात्मरतिरासीत निरपेक्षो निरामिषः ॥ १: आत्ममैव सहायेन सुखार्थ विचरेदिह । नाभिनन्देत मरणं नाभिनन्देत जीवनम् ॥ १. कालमेव प्रतीक्षेत निदेशं भृतको यथा । नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कदाचन ॥ ? एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते । एकवासाऽथवा विद्वान्कोपीनाच्छादनोऽपि वा ॥ १ मुण्डी शिखी वाऽथ भवेत्रिदण्डी निष्परिग्रहः । कषायवासाः सततं ध्यानयोगपरायणः॥ प्रामान्ते वृक्षमूले वा वसेदेवालयेऽपि वा ॥ समः शत्रौ तथा मित्रे तथा मानापमानयोः। भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेत्कचित् ॥ १६ यस्तु मोहेन वाऽन्यस्मादेकानादी भवेद्यतिः । न तस्य निष्कृतिः काचिद्धर्मशास्त्रेषु दृश्यते ॥१॥ रागद्वेषवियुक्तात्मा समलोष्टाश्मकाञ्चनः । प्राणिहिमानिवृत्तश्च मोनी स्यात्सर्वनिस्पृहः॥ १. दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् । सत्यपूतां वदेद्वाणी मनःपूतं समाचरेत् ॥ १ नेकत्र निवसेदेशे वर्षाभ्योऽन्यत्र भिक्षुकः । स्नात्वा शोचतो नित्यं कमण्डलुकरः शुचिः ॥२॥ ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् । मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेन्द्रियः॥ २' दम्भाहंकारनिर्मुक्तो निन्दापैशुन्यवर्जितः । आत्मज्ञानगुणोपेतो यदि मोक्षमवामुयात् ॥ २ अभ्यसेत्सततं देवं प्रणवाख्यं सनातनम् । स्नात्वाऽऽचम्य विधानेन शुचिर्देवालयादिषु ॥ २: यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः । धौतकाषायवसनो भस्माच्छन्नतनूरुहः ॥ २ः अधियझं ब्रह्म जपेदाधिदैविकमेव च । आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ २८ पुत्रेषु वाऽथ निवसन्ब्रह्मचारी यतिर्मुनिः । वेदमेवाभ्यसन्नित्यं स याति परमां गतिम् ॥ २६ अहिंसा सत्यमस्तेयं ब्रह्मचर्य तपः परम् । क्षमा दया च संतापो व्रतान्यस्य विशेषतः ॥ २॥ वेदान्तज्ञाननिष्ठो वा पञ्चयज्ञान्समाहितः । कुर्यादहरहः स्नात्वा भिक्षार्थेनैव तेन हि ॥ २॥ होममन्त्राञ्जपेन्नित्यं काले काले समाहितः । स्वाध्यायं चान्वहं कुर्यात्सावित्री संध्ययोर्जपेत् २९ ध्यायीत सततं देवमेकान्ते परमेश्वरम् । एकानं वर्जयन्नित्यं कामक्रोधं परिग्रहम् ॥ ३. एकवासा द्विवासाऽथ शिखी यज्ञोपवीतवान् । कमण्डलुकरो विद्वांस्त्रिदण्डो याति तत्परम् ॥ ३॥ __ इति श्रीमहापुराणे पाद्म आदिखण्डे यतिधर्मनिरूपणं नामकोनषष्टितमोऽध्यायः ॥ ५९॥
आदितः श्लोकानां समष्टयङ्काः-२९९.०
अथ षष्टितमोऽध्यायः ।
व्यास उवाचएवं त्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् । भैक्ष्येण वर्तनं प्रोक्तं फलमूलेरथापि वा ॥ एककालं चरेद्रेक्ष्यं न प्रसज्येत विस्तरम् । भैक्ष्ये प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ ६ सप्तागारं चरेद्रेक्ष्यमलाभे न पुनश्चरेत् । गोदोहमात्र तिष्ठेत कालं भिक्षुरधोमुखः ॥ भिक्षेत्युक्त्वा सकतूणीमश्नीयाद्वाग्यतः शुचिः । प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि॥
१ ट. वा ध्यान । २ म. 'राशिषः । ३ ट. निदोषोऽसत्यव'।
Page #113
--------------------------------------------------------------------------
________________
६०
षष्टितमोऽध्यायः ]
पद्मपुराणम् ।
१०७
१०
१२
आदित्ये दर्शयित्वाऽन्नं भुञ्जीत प्राङ्मुखो नरः । हुत्वा प्राणाहुतीः पश्च ग्रासानष्टौ समाहितः५ आचम्य देवं ब्रह्माणं ध्यायेत परमेश्वरम् । अलाबुदारुपात्रे च मृन्मयं वैणवं तथा ॥ चत्वारि यतिपात्राणि मनुराह प्रजापतिः । प्राग्रात्रे मध्यरात्रे च पररात्रे तथैव च ॥ संध्यासूक्तिविशेषेण चिन्तयेन्नित्यमीश्वरम् । कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् ॥ ८ आत्मानं सर्वभूतानां परस्तात्तमसः स्थितम् । सर्वस्याऽऽधारमव्यक्तमानन्दं ज्योतिरव्ययम् ॥९ प्रधानपुरुषातीतमाकाशं दहनं शिवम् । तदन्तं सर्वभावानामीश्वरं ब्रह्मरूपिणम् || ओंकारान्तेऽथ चाssत्मानं समाप्य परमात्मनि । आकाशे देवमीशानं ध्यायेताऽऽकाशमध्यगम् ११ कारणं सर्वभावानामानन्दैकसमाश्रयम् । पुराणपुरुषं विष्णुं ध्यायेन्मुच्येत बन्धनात् ॥ द्वा गुहादौ प्रकृतौ जगत्संमोहनालये । विचिन्त्यं परमं व्योम सर्वभूतैककारणम् ।। जीवनं सर्वभूतानां यत्र लोकः प्रलीयते । आनन्दं ब्रह्मणः सूक्ष्मं यत्पश्यन्ति मुमुक्षषः ॥ १४ तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् । अनन्तं सत्यमीशानं विचिन्त्याssसीत वाग्यतः ।। १५ गुह्यतमं ज्ञानं यतीनामेतदीरितम् । योऽत्र तिष्ठेत्सदाऽनेन सोऽश्रुते योगमैश्वरम् || १६ तस्माज्ज्ञानरतो नित्यमात्मविद्यापरायणः । ज्ञानं समभ्यसेद्रम येन मुच्येत बन्धनात् ॥ मत्वा पृथक्तमात्मानं सर्वस्मादेव केवलम् | आनन्दमक्षरं ज्ञानं ध्यायेत च ततः परम् ॥ यस्माद्भवन्ति भूतानि यज्ज्ञात्वा नेह जायते । स तस्मादीश्वरो देवः परस्ताद्योऽधितिष्ठति ॥ यदन्तरे तद्गमनं शाश्वतं शिवमव्ययम् ॥
१३
१७
१८
१९
ये इदं स्वपरोक्षस्तु स देवः स्यान्महेश्वरः । व्रतानि यानि भिक्षूणां तथैवाय ( ? ) व्रतानि च ।। एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ॥
२०
उपेत्य च स्त्रियं कामात्प्रायश्चित्तं समाहितः । प्राणायामसमायुक्तं कुर्यात्सांतपनं शुचिः ॥ २१ ततश्वरेत नियमी कृच्छ्रं संयतमानसः । पुनराश्रममागम्य चरेद्भिक्षुरतन्द्रितः ॥
२२
२३
२४
२५
२८
न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः । तथाऽपि न च कर्तव्यः प्रसङ्गो ह्येष दारुणः || एकरात्रोपवासश्च प्राणायामशतं तथा । उक्ता ( क्त्वा) नृतं प्रकर्तव्यं यतिना धर्मलिप्सुना ।। परमापद्गतेनापि न कार्य स्तेयमन्यतः । स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः ॥ हिंसा चैवापरा तृष्णा याञ्चाऽऽत्मज्ञाननाशिका । यदेतद्रविणं नाम प्राणा येते बहिश्वराः ||२६ स तस्य हरते प्राणान्यो यस्य हरते धनम् । एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताच्युतः ॥ २७ भूयो निर्वेदमापन्नश्चरेद्भिक्षुरतन्द्रितः । अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् ॥ कुर्याच्छ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा । स्कन्देतेन्द्रियदौर्बल्यात्स्त्रियं दृष्ट्वा यतिर्यदि ॥ २९ तेन धारयितव्या वै प्राणायामास्तु पोडश । दिवा स्कन्दे त्रिरात्रं स्यात्प्राणायामशतं बुधाः ॥ ३० एकान्ने मँधुमांसे च नवश्राद्धे तथैव च । प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ।। ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् । तस्मान्महेश्वरं ध्यात्वा तस्य ध्यानपरी भवेत् ॥ यद्ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमव्ययम् । योऽन्तरात्मा परं ब्रह्म स विज्ञेयो महेश्वरः ॥ एष देवो महादेवः केवलः परमः शिवः । तदेवाक्षरमद्वैतं त ( स ) दानित्यं परं पदम् || तस्मान्महीयते देवे स्वधानि ज्ञानसंज्ञिते । आत्मयोगात्मकं तत्त्वे महादेवस्ततः स्मृतः ॥
'
३१
३२
३३
३४
३५
१. कारेणाथ । २८. ध्यात्वा । ३ ख. मायत्रि ं । ४ ख ञ. यदाहुः श्वापरे यस्तु । ढ. य इदं स सुराराध्य सर्वदः स्या । ५ ख. ञ. श्रुतिः । ६ म. मधुमासे ।
Page #114
--------------------------------------------------------------------------
________________
१०८
महामुनिश्रीव्यासप्रणीतं -
[ १ आदिखण्डे
३८
३९
नान्यं देवं महादेवाद्व्यतिरिक्तं प्रपश्यति । तमेवाऽऽत्मानमन्वेति यः स याति परं पदम् || ३६ मन्यन्ते ये स्वमात्मानं विभिन्नं परमेश्वरात् । न ते पश्यन्ति तं देवं वृथा तेपां परिश्रमः || ३७ एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् । स देवस्तु महादेवो नैतद्विज्ञाय वध्यते ॥ तस्माद्यतेत नियतं यतिः संयतमानसः । ज्ञानयोगरतः शान्तो महादेवपरायणः ॥ एष वः कथितो विप्रा यतीनामाश्रमः शुभः । पितामहेन मुनिना विभुना पूर्वमीरितः ।। नापुत्रशिप्ययोगिभ्यो दद्यादिदमनुत्तमम् । ज्ञानं स्वयंभुवा प्रोक्तं यतिधर्माश्रयं शिवम् ॥ इति यतिनियमानामेतदुक्तं विधानं सुरवरपरितोषे यद्भवेदेकहेतुः । न भवति पुनरेषामुद्भवो वा विनाशः प्रणिहितमनसो ये नित्यमेवाऽऽचरन्ति ।। इति श्रीमहापुराणे पाद्म आदिखण्डे पष्टितमोऽध्यायः ॥ ६० ॥ आदितः श्लोकानां समथ्र्यङ्काः
४०
४१
– ३०३२
अथकपष्टितमोऽध्यायः ।
४२
सूत उवाच
६
एवमुक्तं पुरा विमा व्यासेनामिततेजसा । एतावदुक्त्वा भगवान्व्यासः सत्यवतीसुतः ॥ समाश्वास्य मुनीन्सर्वाञ्जगाम च यथागतम् । भवद्भयस्तु मया प्रोक्तं वर्णाश्रमविधानकम् ॥ एवं कृत्वा प्रियां विष्णोर्भवत्येव न चान्यथा । रहस्यं तत्र वक्ष्यामि शृणुत द्विजसत्तमाः ॥ ये चात्र कथिता धर्मा वर्णाश्रमनिवन्धनाः । हरिभक्तिकलांशांशसमाना न हि ते द्विजाः ॥ पुंसामह वै साध्या हरिभक्तिः कलौ युगे । युगान्तरेऽन्यधर्मा हि सेवितव्या नरेण हि ।। कलौ नारायणं देवं यजते यः स धर्मभाक । दामोदरं हृषीकेशं पुरुहूतं सन्दातनम् ॥ हृदि कृत्वा परं शान्तं जितमेत्र जगत्रयम् । कलिकालोरंगादंशात्किल्विपात्कालकूटतः ॥ ७ हरिभक्तिसुधां पीत्वा उल्लघ्यां भवति द्विजः । किं जपः श्रीहनाम गृहीतं यदि मानुषैः ॥ ८ किं स्नानैर्विष्णुपादाम्भां मस्तकं येन धार्यते । किं यज्ञेन हरेः पादपद्मं येन हृदि धृतम् ॥ किं दानेन हरेः कर्म सभायां यः प्रकाशितम् । हरेर्गुणगणाञ्श्रुत्वा यः प्रहृष्येत्पुनः पुनः ॥ १० समाधिना प्रहृष्टस्य स गतिः कृष्णचेतसः । तत्र विघ्नकराः प्रोक्ताः पाखण्डाः पापपेशलाः नार्यस्तत्सङ्गिनश्वापि हरिभक्तिविधानकाः ॥
॥
२
३
४
११
१५
नारीणां नयनादेशः सुराणामपि दुर्जयः । स येन विजितां लांके हरिभक्तः स उच्यते ।। १२ माद्यन्ति मुनयोऽप्यत्र नारीचरितलोलुपाः । हरिभक्तिः कुतः पुंसां नारीभक्तिजुषां द्विजाः ।। १३ राक्षस्यः कामिनीवेषाच्चरन्ति जगति द्विजाः । नराणां बुद्धिकवलं कुर्वन्ति सततं हि ताः ।। १४ तावद्विद्या प्रभवति तावज्ज्ञानं प्रवर्तते । तावत्सुनिर्मला मेधा सर्वशास्त्रविधारिणी ॥ तावज्जपस्तपस्तावत्तावत्तीर्थनिषेवणम् । तावच्च गुरुशुश्रूषा तावद्धि तरणे मतिः ।। तावत्प्रबोधो भवति विवेकस्तावदेव हि । तावत्सतां सङ्गरुचिस्तावत्पौराणलालसा ॥ यावत्सीमन्तिनीलोलनयनान्दोलनं न हि । जनोपरि पतेद्विप्राः सर्वधर्मविलोपनम् ।। तत्र ये हरिपादाब्जमधुलेशममोदिताः । तेषां न नारीलोलाक्षिक्षेपणं हि प्रभुर्भ (भ) वेत् ॥
१६
१७
१८
१९
१ . ट. द्वित । २ ख म. "वत्प्रोत्तीर्णला ।
Page #115
--------------------------------------------------------------------------
________________
६१ एकषष्टितमोऽध्यायः ] पद्मपुराणम् ।
१०९ जन्म जन्म हृषीकेशसेवनं यैः कृतं द्विजाः। द्विजे दत्तं हुतं वह्नौ विरतिस्तत्र तत्र हि ॥ २० नारीणां किल के नाम सौन्दर्य परिचक्षते । भूषणानां च वस्त्राणां चोकचक्यं तदुच्यते ॥ २१ स्नेहात्मज्ञानरहितं नारीरूपं कुतः स्मृतम् । पूयमूत्रपूरीपासक्त्व दोस्थिवसान्वितम् ॥ २२ कलेवरं हि तन्नाम कुतः मौन्दर्यमत्र हि । तदेव पृथगाचिन्त्य स्पृष्ट्वा स्नात्वा शुचिर्भवेत् ॥ २३
संहितं शरीरं हि दृश्यते सुन्दरं जनैः । अहोऽतिदुर्दशा नृणां दुर्दैवघटिता द्विजाः॥ २४ कुचाहतेऽङ्गे पुरुषो नारी बुद्ध्वा प्रवर्तते। का नारी वा पुमान्को वा विचारे सति किंच न॥२५ तस्मात्सर्वात्मना साधु रीसङ्गं विवर्जयेत् । को नाम नारीमासाद्य सिद्धिं पामोति भूतले ॥२६ कामिनीकामिनीसङ्गिसङ्गमित्यपि संत्यजेत् । तत्सङ्गाद्रौरवमिति साक्षादेव प्रतीयते ॥ २७ अज्ञानाल्लोलुपा लोकास्तत्र देवेन वश्चिताः । साक्षानरककुण्डेऽस्मिन्नारीयोनौ पचेन्नरः॥ २८ यत एवाऽऽगतः पृथ्व्यां तस्मिन्नेव पुना रमेत् । यतः प्रसरते नित्यं मूत्रं रेतो मलोत्थितम् ॥ २९ तत्रैव रमते लोकः कस्तस्मादशुचिर्भवेत् । तत्रानिकष्टं लोकेऽस्मिन्नहो दैवविडम्बना ॥ ३० पुनः पुना रमेत्तत्र अहो नित्रपता नृणाम् । तस्माद्विचारयेद्धीमानारीदोषगणान्बहून् ॥ ३१ मेथुनादलहानिः स्यान्निदानितरुणायते । निद्रयाऽपहृतज्ञानो ह्यल्पायुर्जायते नरः॥ ३२ तस्मात्प्रयन्ननो धीमानारी मृत्युमिनाऽऽत्मनः। पश्येद्गोविन्दपादाब्जे मनो वै रमयेद्बुधः॥ ३३ इहामुत्र सुखं तद्धि गोविन्दपदसंवनम् । विहाय को महामढी नारीपादं हि सेवते ॥ ३४ जनार्दनानिमेवा हि ह्यपुनर्भवदायिनी । नारीणां योनिसेवा हि योनिसंकटकारिणी॥ ३५ पुनः पुनः पतेयोनो यत्रनिप्पाचितो यथा । पुनस्तामेवाभिलपेद्विद्यादस्य विडम्बनम् ॥ ३६ ऊर्ध्वबाहुरहं वच्मि शृणु मे परमं वचः । गोविन्द धहि हृदयं न योनी याननाजुपि ॥ ३७ नारीसङ्ग परित्यज्य यश्चापि परिवर्तते । पदे पदेऽश्वमेधस्य फलमामानि मानवः ॥ ३८ कुलाङ्गना दैवेदोषादृढा यदि नृणां सती। पुत्र उत्पाद्यते यस्मिस्तत्सङ्ग परिवर्जयेत् ॥ ३९ तस्य तुष्टो जगन्नाथो भवत्येव न संशयः । नारीसङ्गो हि धर्मज्ञैग्सत्मङ्गः प्रकीर्त्यते ॥ ४० तस्मिन्मति हरी भक्तिः सुदृढा नव जायते । सर्वसङ्ग परित्यज्य हरौ भक्ति समाचरेत् ॥ ४१ हरिभक्तिश्च लोकंत्र दुर्लभा हि मता मम । हरौ यस्य भवेद्भक्तिः स कृतार्थो न संशयः॥४२ तत्तदेवाऽऽचरेकर्म हरिः प्रीणाति येन हि । तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते पीणितं जगत् ॥ ४३ हरौ भक्तिं विना नृणां वृथा जन्म प्रकीर्तितम् । ब्रह्मादयः सुरा यस्य यजन्ते प्रीतिहेतवे ॥ ४४ नारायणमनाव्यक्तं न तं मेवेत को जनः । यस्य माता महाभागा पिता तस्य महाकृती ॥ जनादनपदद्वंद्वं हृदय येन धायन ।। जनार्दन जगद्वन्द्य शरणागतवत्सल । इतीरयन्ति ये मां न तेषां निरये गतिः॥ ४६ ब्राह्मणान्हि विशेषेण प्रत्यक्षं हरिरूपिणः । पूजययुर्यथायोगं हरिस्तेषां प्रसीदति ॥ ४७ विष्णुर्ब्राह्मणरूपेण विचरन्पृथिवीमिमाम् । ब्राह्मणेन विना कर्म सिद्धि प्रामोति नैव हि ॥ ४८ द्विजपादाम्बु भक्त्या यः पीत्वा शिरसि चार्पितम् । नर्पिताः पितरस्तन आत्माऽपि किल तारितः ब्राह्मणानां मुखे येन दत्तं मधुरमर्चितम् । माक्षात्कृष्णमुखे दत्तं तदै भुङ्क्ते हरिः स्वयम् ॥ ५० अहोऽतिदुर्भगा लोकाः प्रत्यक्ष केशवे द्विजे । प्रतिमादिषु सेवन्ते तदभावे हि तक्रिया ॥ ५१
१८. चारुचिक्यं । २ ख. अ त् । ईदृशं तु श' । ३ क संघट्टका'। ४ ख अ. 'वयोगाद। ५ ख. अ. 'त्रमुत्पा। ६ ख. यस्मिन्मता सा गृहमाधिनी । त। ट.मपित ।
Page #116
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं --
[ १ आदिखण्डे
५८
५९
६०
६१
६२
६३
ब्राह्मणानामधिष्ठानात्पृथ्वी धन्यंति गीयते । तेषां पाणौ च य दत्तं हरिपाणौ तदर्पितम् ॥ ५२ तेभ्यः कृतान्नमस्करातिरस्कारो हि पाप्मनाम् । मुच्यते ब्रह्महत्यादिपापेभ्यो विमवन्दनात् ॥ ५३ तस्मात्सतां समाराध्यो ब्राह्मणां विष्णुबुद्धितः । क्षुधितस्य द्विजस्याssस्ये यत्किंचिद्दीयते यदि । प्रेत्य पीयूषधाराभिः सिच्यते कल्पकोटिकम् । द्विजतुण्डं महाक्षेत्रमनूषरमकण्टकम् ॥ ५५ तत्र चेप्यते किंचित्कोटिकोटिफलं लभेत् । सघृतं भोजनं चास्मै दत्त्वा कल्पं स मोदते ॥ ५६ नानामष्टमन यो ददाति द्विजतुष्टये । तस्य लोका महाभोगाः कोटिकल्पान्तमुक्तिदाः ॥ ५७ ब्राह्मणं च पुरस्कृत्य ब्राह्मणेन च कीर्तितम् । पुराणं शृणुयान्नित्यं महापापदवानलम् ॥ पुराणं सर्वतीर्थेषु तीर्थे चाधिकमुच्यते । यस्यैकपादश्रवणाद्धरिरेव प्रसीदति ।। यथा सूर्यवपुर्भूत्वा प्रकाशाय चरेद्धरिः । सर्वेषां जगतामेव हरिरालोकहेतवे || तथैवान्तःप्रकाशाय पुराणावयवो हरिः । विचरेदिह भूतेषु पुराणं पावनं परम् ।। तस्माद्यदि हरेः प्रीतेरुत्पाद धीयते मतिः । श्रोतव्यमनिशं पुंभिः पुराणं कृष्णरूपिणः ॥ विष्णुभक्तेन शान्तेन श्रोतव्य (म) मिति दुर्लभम् । पुराणाख्यानममलममलीकरणं परम् ।। यस्मिन्वेदार्थमाहृत्य हरिणा व्यासरूपिणा । पुराणं निर्मितं विप्र तस्मात्तत्परमो भवेत् ॥ ६४ पुराणे निश्चितो धर्मो धर्मश्च केशवः स्वयम् । तस्मान्कृती पुराणे हि श्रुते विष्णुर्भवेदिति ॥ ६५ . साक्षात्स्वयं हरिर्विप्रः पुराणं च तथाविधम् । एतयोः सङ्गमामाद्य हरिरेव भवेन्नरः ॥ तथा गङ्गाम्बुसेकेन नाशयेकिल्विषं स्वकम् । केशव द्रवरूपेण पापात्तारयते महीम् ॥ वैष्णवो विष्णुभजनस्याssकाङक्षी यदि वर्तते । गङ्गाम्बुसकममलममलीकरणं चरेत् ।। ६८ विष्णुभक्तिप्रदा देवी गङ्गा भुवि च गीयते । विष्णुरूपा हि सा गङ्गा लोकनिस्तारकारिणी ॥६९ ब्राह्मणेषु पुराणेषु गङ्गायां गोषु पिप्पले । नारायणधिया पुंभिर्भक्तिः कार्या हेतुकी ॥ प्रत्यक्षविष्णुरूपा हि तत्रज्ञेनिश्चिता अभी । तस्मात्सततमभ्यर्च्या विष्णुभक्त्यभिलाषिणा ।। ७१ विष्णौ भक्ति विना नृणां निष्फलं जन्म चोच्यते । कलिकालपयोराशि पापग्राहसमाकुलम् ।। ७२ विषय सञ्जनावर्त दुर्बोधफेनिलं परम् । महादुष्टजनव्यालमहाभीमं भयानकम् || दुस्तरं च तरन्त्येव हरिभक्तितरिस्थिताः । तस्माद्यतेत व लोको विष्णुभक्तिप्रसाधने ॥ ७४ किं सुखं लभते जन्तुरसद्वार्तावधारणं । हरेरद्भुतलीलस्य लीलाख्यानं न सज्जते ।।
६६
1
६७
७०
७३
७५
७९
८०
चित्रकथा लोके नानाविषयमिश्रिताः । श्रोतव्या यदि वै नृणां विषये सज्जते मनः ।। ७६ निर्वाणे यदि वा चित्तं श्रोतव्या तदपि द्विजाः । हेलया श्रवणाञ्चापि तस्य तुष्टो भवेद्धरिः ।। ७७ निष्क्रियोऽपि हृषीकेश नानाकर्म चकार सः । शुश्रूषां हिनार्थाय भक्तानां भक्तवत्सलः ।। ७८ न लभ्यते कर्मणाऽपि वाजपेयशतादिना । राजसूयायुतेनापि यथा भक्त्या स लभ्यते ।। यत्पदं चेतसा सेव्यं सद्भिराचरितं मुहुः । भवाब्धितरणं सारमाश्रयध्वं हरेः पदम् ॥ रे रे विषयसंलुब्धाः पामरा निष्ठुरा नराः । रोरवे हि किमात्मानमात्मना पातयिष्यथ ॥ ८१ विना गोविन्दसौम्याङ्घ्रिसेवनं मा गमिष्यथ । अनायासेन दुःखानां तरणं यदि वाञ्छथ ॥। ८२ भजध्वं कृष्णचरणावपुनर्भवकारणे । कुत एवाऽऽगतो मर्त्यः कुत एव पुनर्व्रजेत् ॥ एतद्विचार्य मतिमानाश्रयेद्धर्मसंग्रहम् । नानानरकसंपातादुत्थितां यदि पुरुषः ।। स्थावरादितनुं लब्ध्वा यदि भाग्यवशात्पुनः । मानुष्यं लभते तत्र गर्भवासोऽतिदुःखदः ॥ ८५ १ क झ ञ. 'ह्मणाननुकी । २ ख. ट. 'निर्मिता । ३ ख न 'भ्यर्वेद्विष्णुभक्त्या मलाशयः । वि । ४ ट. गतिस्त्वथ ।
८३.
८४
११०
Page #117
--------------------------------------------------------------------------
________________
२ द्विषष्टितमोऽध्यायः ] पद्मपुराणम् । तः कर्मवशाजन्तुर्यदि वा जायते भुवि । बाल्यादिबहुदोपेण पीडितो भवति द्विजाः ॥ ८६ नौवनमासाद्य दारिद्येण प्रपीड्यते । रोगेण गुरुणा वाऽपि अनावृष्ट्यादिना तथा ॥ ८७
र्धकेन लभेत्पीडामनिर्वाच्यामितस्ततः । मनसश्चलनाद्याधेस्तनो मरणमानुयात् ॥ ८८ । तस्मादधिकं दुःखं संसारेऽप्यनुभूयते । ततः कर्मवशाजन्तुर्यमलोके प्रपीड्यते ॥ त्रातियातनां भुक्त्वा पुनरंव प्रजायते । जायते म्रियते जन्तुम्रियते जायते पुनः॥ ९० अनाराधितगोविन्दचरणे त्वीदृशी दशा । अनायासेन मरणं विनाऽऽयासेन जीवनम् ॥ ९१ अनाराधितगोविन्दचरणस्य न जायते । धनं यदि भवेद्हे रक्षणात्तस्य किं फलम् ॥ ९२ यदाऽसौ कृप्यते याम्यवृतेः किं धनमन्वियात् । तस्माद्विजातिसत्कार्य द्रविणं सर्वसौख्यदम्।।९३ दानं स्वर्गस्य सोपानं दानं किल्विपनाशनम् । गाविम्दभक्तिभजनं महापुण्यविवर्धनम् ॥ ९४ बलं यदि भवेन्मन्ये न वृथा तद्ययं चरेत् । हरेरग्रे नृत्यगीतं कुर्याद वमतन्द्रितः ॥ ९५ यत्किचिद्विद्यते पुंसां बच कृष्णे समर्पयेत् । कृष्णार्पितं कुशलदमन्यापितमसौख्यदम् ॥ ९६ चक्षुा श्रीहरेरेव प्रतिमादिनिरूपणम् । श्रोत्राभ्यां कलयकृष्णगणनामान्यहर्निशम् ॥ ९७ जिह्वया हरिपादाम्बु स्वादितव्यं विचक्षणः । ब्राणेनाऽऽप्राय गोविन्दपादाअतुलसीदलम् ॥९८ त्वचाऽऽस्पृश्य हरेभक्तं मनसाऽऽध्याय नत्पदम् । नार्थो जायने जन्तुर्मात्र कार्या विचारणा९९ तन्मना हि भवेत्माज्ञस्तथा स्यात्तद्गताशयः। तमेवान्तेऽभ्येनि लोको नात्र कार्या विचारणा १०० चेतसा चाप्यनुध्यानः म्वपदं यः प्रयच्छति । नारायणमनाद्यन्नं न तं सेवेत को जनः ॥ १०१
सततनियतचित्तो विष्णुपादारविन्द वितरणमनुशक्ति पीनये तस्य कुर्यात् ॥ नतिमति निमस्याङघिद्वयं संविदध्यात्म हि खलु नग्लोके पूज्यतामामुयाच ॥ १०२
इति श्रीमहापुराण पाम आदि वण्ड एकाटिनमा प्रायः ॥ ६१ ॥ __आदितः श्लोकानां समष्ट्य काः-३१३४
अथ द्विपरितमोऽपः ।
सूत उवाचएवं यन्महिमा लोके लोकनिस्तारकारणम् । तस्य विष्णोः परेशस्य नानाविग्रहधारिणः ॥ १ एकं पुराणं रूपं वे तत्र पानं परं महत् । ब्राझं मूर्धा हरव हृदयं पद्मसंज्ञितम् ।। वैष्णवं दक्षिणो बाहुः शैवं वामा महेशितुः । उरू भागवतं प्रोक्तं नाभिः स्यामारदीयकम् ॥३ मार्कण्डेयं च दक्षाघ्रिामा ह्याग्नेयमुच्यते । भविष्य दक्षिणा जानुर्विष्णोरेव महात्मनः ॥ ४ ब्रह्मवैवर्तसंझं तु वामजानुरुदाहृतः । लैङ्गं तु गुल्फकं दक्षं वाराह वामगुल्फकम् ।। ५ स्कान्द पुराणं लोमानि त्वगस्य वामनं स्मृतम् ।कॉर्म पृष्टं समाख्यातं मात्स्य मेदः प्रकीर्त्यते।। ६ मज्जा तु गारुडं प्रोक्तं ब्रह्माण्डमस्थि गीयते । एवमेवाभवद्विष्णुः पुराणावयवो हरिः॥ ७ हृदये तत्र वै पानं यच्छत्वाऽमृतमश्नुते । पाद्यमेतत्पुराणं तु स्वयं देवोऽभवद्धरिः॥ ८ यस्यैकाध्यायमध्याप्य सर्वपापैः प्रमुच्यते । तत्राऽऽदिम खण्डमिमं सर्वपामफलप्रदम् ॥ ९ ऑदिखण्डं समाकर्ण्य महापातकिनोऽपि ये । मुच्यन्ते तेऽपि पापेभ्यस्त्वचो जीर्णायथोरगाः ॥
१ ख. अ. हि सुरवर' । २ व ज म महल्लोके । ३ अ. 'दिस्वर्गभागोऽयं स । ४ अ. आदिस्वर्ग ।
Page #118
--------------------------------------------------------------------------
________________
११२ महामुनिश्रीव्यासप्रणीत
[ १ आदिखण्डेअपि चेत्सुदुराचारः सर्वधर्मबहिष्कृतः । ऑदिखण्डं समाकर्ण्य पूयते नात्र संशयः ॥ ११ सर्व पुराणमाकर्ण्य यत्फलं लभते नरः । तत्सर्व समयामोति श्रुत्वा पाझमहो द्विजाः॥ १२ समग्रं पाप्रमाकर्ण्य यत्फलं समवामुयात् । आदिखण्डमिदं श्रुत्वा तत्फलं लभते नरः ॥ १३ माघे मासि प्रयागे तु स्नात्वा प्रतिदिनं नरः । यथा पापात्प्रमुच्येत तथा हि श्रवणाद्भवेत् ॥ १४ दत्ता तेन स्वर्णतुला दत्ता चैव धराऽखिला। कृतं वितरणं तेन दरिद्रे यत्कृतमृणम् ॥ १५ हरेर्नामसहस्राणि पठितानि ह्यभीक्ष्णशः । सर्वे वेदास्ताँऽधीतास्तत्तत्कर्म कृतं तथा ॥ १६ अध्यापकाश्च बहवः स्थापिता वृत्तिदानतः । अभवं भयलोकेभ्यो दत्तं तेन तथा द्विजाः॥ १७ गुणवन्तो ज्ञानवन्तो धर्मवन्तोऽनुमानिताः । मेषकर्कटयोर्मध्ये तायं दत्तं सुशीतलम् ॥ १८ ब्राह्मणार्थे गवार्थे च प्राणास्त्यक्ताश्च तेन हि । अन्यानि च सुकर्माणि कृतानि तेन धीमता ॥ १९ येनाऽऽदिखण्डं सदसि श्रुतं संश्रावितं तथा । ऑदिग्वण्डं समाधीन्य नानाभोगान्समश्नुते ।। २० अतः परमनारीणां सुरवसुप्तः प्रबुध्यते । किङ्किणीरवमंनादेस्तथा मधुरभाषणः ॥ २१ इन्द्रस्यार्धासनं भुत इन्द्रलोके वसेच्चिरम् । ततः सूर्यस्य भवनं चन्द्रलोकं ततो व्रजेत् ॥ २२ सप्तर्षिभवने भोगान्भुक्त्वा याति ततो ध्रुवम् । ततश्च ब्रह्मणो लोकं प्राप्य तेजोमयं वपुः॥ तत्रैव ज्ञानमासाद्य निर्वाणं परमृच्छति ॥ सद्भिः सह वसेद्धीमान्सत्तीर्थे स्नानमाचरेत् । कुर्यादव सदालापं सच्छास्त्रं शृणुयान्नरः ॥ २४ तत्र पानं महाशास्त्रं सर्वान्नायफलप्रदम् । आदिरखण्डं च तन्मध्ये महापुण्यफलपदम् ॥ २५
भजध्वं गोविन्दं नमत हरिमेकं सुरवरं __ गमिप्यध्वं लोकानतिविमलभोगानतितराम् ।। शृणुध्वं हे लोका वदन हरिनामैकमतुलं यदीच्छावीचीनां सुखतरणेमिष्टानि लभत ।।
इति श्रीमहापुगणे पाद्म आदिखण्डे द्विपष्टितमोऽध्याय. ॥ २८ ॥ इति महामुनिश्रीव्यासप्रणीते महापुगणे पाद्म आदिममादिखण्डं समाप्तम् ।
आदितः श्लोकानां समष्ट्यङ्काः-६१६०
अ. आदिस्वर्ग। २ अ. 'दिस्वामि' । ३ ख. म. 'था ज्ञाता । ४ अ. "दिस्वर्ग: स । ५ अ. धृतः । ६ म. 'वि तस्तथा । ७. आदिस्वर्ग। ८ म. "दिस्वर्ग च । ९ ज.'ण इष्टा।
Page #119
--------------------------------------------------------------------------
________________
॥ श्रीः॥ महामुनिश्रीव्यासप्रणीतं
पद्मपुराणम् ।
तत्र द्वितीयं भूमिखण्डम् ।
अथ प्रथमोऽध्यायः ।
ऋपय ऊचुःशृणु सून महाभाग सर्वतत्त्वार्थकोविद । संदेहमागता विप्रा दारुणं बुद्धिनाशनम् ॥ १ कचित्पठन्ति प्रहलादं पुराणेपु द्विजोत्तमाः । पञ्चवर्षान्वितेनापि केशवः परितोषितः॥ २ देवासुरे कथं प्राप्ते हरिणा सह युध्यति । निहता वासुदेवेन प्रविष्टो वैष्णवीं तनुम् । ३
सूत उवाचकश्यपेन पुरा ज्ञानं कृतं व्यासेन धीमना । ब्रह्मणा कथितं पूर्व व्यासस्याग्रे स्वयं प्रभोः॥ ४ तमेवं हि प्रवक्ष्यामि भवतामग्रता विजाः । संदेहकारणं जातं छिन्नं देवेन वेधसा ।। ५
व्यास उवाचशृणु मृत महाभाग ब्रह्मणा परिभाषितम् । प्रहलादस्य यथा जन्म पुराणेऽप्यन्यथा श्रुतम् ॥ ६ जातमात्रः सर्वसुग्वं वैष्णवं मार्गमाश्रितः । महाभागवतः श्रेष्ठः प्रहलादो देवपूजितः ॥ ७ विष्णुना सह युद्धाय सपुत्रः सङ्गरं गतः । निहनी वासुदेवन प्रविष्टो वैष्णवीं तनुम् ॥ ८ सृष्टिभावं शृणुष्व त्वमस्येव च महात्मनः । मगरं प्राप्यं पुत्रायविष्णुना सह वीर्यवान् ॥ ९ प्रविष्टो वैष्णवं नेजः संप्राप्य स्वेन तंजमा। [महाभागवतः श्रेष्टः प्रहलादो देवपूजितः] ॥१० पुग कल्पे महाभाग यथा जातः स वीर्यवान् । वृत्तान्तं तस्य वीरस्य प्रवक्ष्यामि समासतः ११ पश्चिमे सागरस्यान्ते द्वारका नाम वै पुरी । मर्वऋद्धिममायुक्ता सर्वसिद्धिसमन्विता ॥ १२ तस्यामास्ते सदा देवो योगज्ञा योगमत्तमः । शिवशर्मेति विख्याता वेदशास्त्रार्थकोविदः ॥ १३ तस्यापि पञ्च पुत्रास्तु बभूवुः शास्त्रकोविदाः । यज्ञशमा वेदशर्मा धर्मशर्मा तथैव च ॥ १४ विष्णुशमो महाभाग ननं तत्कमेकोविदः । पञ्चमः सोमशर्मेति पितृभक्तिपरायणः ॥ १५ पितृभक्ति विना चैव धर्ममन्यं द्विजोत्तमाः । न विदन्ति महात्मानस्तद्भावेन तु भाविताः ॥१६ तेषां तु भक्ति संपश्यशिवशर्मा द्विजोत्तमः । चिन्तयामास मेधावी निष्कर्षिष्ये सुरोत्तमान् ॥१७ पितृभक्तेषु यो भावी नेतेपां मनसि स्थितः । यथा जानाम्यहं चाथ करिप्ये बुद्धिपूर्वकम् ॥ १८
*क. ख. ग. घ. च.उ. झ. पुस्तकाववाय पाटः।
१ . 'गत विप्र दा । २ क.ख. च. झ. च-प्रश्नमन एग जातं । ३ क, ख. ग. घ. च. छ. झ.ट. सवसां । ४ झ. 'वं भावमा । क. ख. ग. घ. इ. च छ. ट. इ. द. वं भागमा । ५ ग, घ झ. ट. 'प्य युयुधे विष्णु। ६ घ. ज, द्विजोत्तमाः ।
Page #120
--------------------------------------------------------------------------
________________
११४
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेविष्णोश्चैव प्रसादात्स सर्वसिद्धिर्बभूव ह । सद्भावं चिन्तयामास अञ्जनार्थ द्विजोत्तमः ॥ १९ उपायं ब्राह्मणश्रेष्ठस्तपसस्तेजसः किल । चकार सोऽप्युपायज्ञो मायया ब्रह्मवित्तमः ॥ २० तेषामग्रे ततो व्याज शिवशर्मा व्यदर्शयत् । महता ज्वररोगेण मृता माता विदर्शिता ॥ २१ तैस्तु दृष्ट्वा मृता माता पितरं वाक्यमब्रुवन् । यया वयं महाभाग गोगारे प्रवर्धिताः॥ २२ कलेवरं परित्यज्य स्वयमेव गता क्षयम् । अपहाय गता सेयं स्वर्ग तात किमुच्यते ॥ २३ शिवशर्मोपरिभवं पुत्रं भक्तिपरायणम् । यज्ञशर्माणमाहूय इत्युवाच द्विजोत्तमः॥ अनेनापि सुतीक्ष्णेन शस्त्रेण निशितेन वे । विच्छिद्याङ्गानि सर्वाणि यत्र तत्र लिपस्व हि ॥ २५ तत्कृतं तेन पुत्रेण यथादेशं श्रुतं पितुः । समायातः पुनः पश्चापितरं वाक्यमब्रवीत् ॥ २६ यथादिष्टं त्वया तात तत्सर्वं कृतवानहम् । समादिश ममान्यच्च कार्यकारणमद्य च ॥ तच्च सर्व करिष्यामि दुर्लभं दुर्जयं पितः ॥ तमाज्ञाय महाभागं पितृभक्तं स च द्विजः । निश्चयं परमं ज्ञात्वा द्वितीयस्य विचिन्तयन ॥ २८ वेदशर्माणमासाद्य गच्छ त्वं मम शासनात् । स्त्रिया विना न युक्तोऽस्मि स्थातुं कन्दर्पमोहिनः ॥ या मया दर्शिता नारी सर्वसौभाग्यसंपदा । एनामानय वन्स त्वं ममार्थे कृतनिश्चयः ॥ ३० एवमुक्तस्तथा प्राह करिष्ये तव सुप्रियम् । पितरं तं नमस्कृत्य तामुवाच गतस्ततः ॥ ३१ त्वां देवि याचते तातः कामबाणप्रपीडितः । अतस्त्वं जरया युक्तं प्रसादसमुखी भव ॥ ३२ भज त्वं चारुसङ्गि पितरं मम सुन्दरि । एवमाणितं तस्य मायया वेदशर्मणः ॥ ३३
व्युवाचजरया पीडितस्यापि नैवेच्छामि कदाचन । सश्लप्ममुखरोगम्य व्याधिग्रस्तस्य सांप्रतम् ॥ ३४ शिथिलस्यापि चाऽऽर्तस्य तस्य वृद्धस्य संगमम् । भवन्तं रन्तुमिच्छामि करिष्य तव सुप्रियम् ॥३५ भवन्तं नृपसौभाग्यैर्गुणरत्नरलंकृतम् । दिव्यलक्षणसंपन्नं दिव्यरूपं महाजसम् ॥ ३६ किं करिष्यसि चानेन वृद्धेन शृणु मानद । ममाङ्गभांगभावन सर्व प्राप्स्यसि दुर्लभम् ॥ ३७ यद्यत्त्वमिच्छसे विष तत्तदमि न संशयः । एतद्वाक्यं महछत्वा अपियं पापसंकुलम् ।। ३८
वेदशर्मोवाचअधर्मयुक्तं ते वाक्यमयुक्तं पापमिश्रितम् । नेदृशं मां वदेवि पितृभक्तं ह्यनागसम् ॥ ३९ पितुरर्थं समायातस्त्वामहं प्रार्थये शुभे । अन्यदेव न वक्तव्यं भज त्वं पितरं मम ॥ ४० यद्यत्त्वमिच्छसे देवि त्रैलोक्ये सचराचरे । तत्तद्दनि न संदेहो देवराज्यादिकं शुभे ॥ ४१
सयुवाचएवं समर्थो दातुं मे पितुरर्थे यदा भवान् । तदा मे दर्शयाद्यैव सेन्द्रांस्त्वं समहेश्वरान् ॥ ४२ दातुमेवं समर्थोऽसि दुर्लभं मम सांप्रतम् । किं ते बलं महाभाग दर्शयस्व त्वमात्मनः॥ ४३
वेदशर्मोवाचपश्य पश्य बलं देवि प्रभावं तपसो मम । मयाऽऽहताः समायाता इन्द्राद्याः सुरसत्तमाः।। ४४ वेदशर्माणमूचुस्ते किं कुर्मा हि द्विजोत्तम । यमेवमिच्छसे विम तं वै दो न संशयः॥ ४५
वेदशर्मोवाचयदि देवाः प्रसन्ना मे प्रसादसुमुखा यदि । इमां तु विपुलां भक्तिं पादयोः पितुरेव मे ॥ ४६
१ अ. आत्मनाऽर्थ । २ ग. घ. ङ. छ. ज. ड. ढ. 'ज्याधिकं । ३ क ख. च. झ. शभम् ।
Page #121
--------------------------------------------------------------------------
________________
२ द्वितीयोऽध्यायः ]
पबपुराणम् । एवमस्तु सुराः सर्वे यथा यातास्तथा गताः । तमुवाच ततो हृष्टा दृष्टं ते तपसो बलम् ॥ ४७ देवैस्तु नास्ति मे कार्य यदि दातुमिहेच्छसि । यन्मां नयसि गुर्वर्थ तत्कुरुष्व मम प्रियं ॥ देहि त्वं स्वं शिरो विप्र स्वहस्तेन निकृत्य वै ॥
४८ वेदशर्मोवाचधन्योऽहमद्य संजातो मुक्तश्चैव ऋणत्रयात् । स्वशिरोऽपि प्रदास्यामि गृह्यतां गृह्यतां शुभे ॥ ४९ शितेन तीक्ष्णधारेण शस्त्रेण द्विजसत्तमः । निकृत्य स्वं शिरश्चाथ ददौ तस्यै प्रहस्य च ॥ ५० रुधिरेण प्लुतं सा च परिगृह्य गता मुनिम् ।
वयुवाच-- तवार्थे प्रेषितं विप्र पुत्रेण वेदशर्मणौ ॥ एतच्छिरः संगृहाण निकृत्तं चाऽऽन्मनाऽऽन्मनः । वेपिताशास्तदालक्ष्य ते बभूवुः परस्परम् ॥५२ मृता नो धर्मसर्वस्वा माता मत्यसमाधिना । अयमेव महाभागः पितुरर्थे मृतः शुभः॥ ५३ धन्योऽयं धन्यता प्राप्तः पितुरर्थे कृतं शुभम् । एवं मंभापितं तैस्तु भ्रातृभिः पुण्यचारिभिः॥५४ [*एतच्छिरः प्रगृह्य त्वं प्रहितं तव सूनुना]। समाकर्ण्य द्विजो वाक्यं ज्ञात्वा भक्तिपरायणम् ॥५५ निकृन्तितं शिरस्तेन पुत्रेण वेदशमणा । धर्मशमाणमाहाथ शिर एनत्मगृह्यताम् ॥
इति श्रीमहापुराणे पाझे भमिग्वण्डे प्रथमोऽध्यायः ॥ १ ॥
आदितः श्लोकानां समथ्यङ्काः-३२१६
अथ द्वितीयोऽध्यायः ।
सूत उवाच-- तदादाय महात्माऽसौ निर्जगाम त्वरान्वितः । पितृभक्त्या तपोभिश्च सत्यार्जवबलेन सः॥ १ धर्ममाकृष्टवांश्चैव धर्मशर्मा ततस्तदा । समाकृष्टस्तु वे धर्मस्तपसा तस्य धीमतः॥ धर्मशाणमागत्य इदं वचनमब्रवीत् । यस्मात्त्वया समाहूतो धर्मशमन्समागतः ॥ तन्म कथय कार्य त्वं तत्करोमि न संशयः ।।
धर्मशर्मोवाच-- यद्यस्ति गरुशुश्रूषा यदि निष्ठाऽचलं तपः । तेन सत्येन मे धर्म वेदशर्मा स जीवतु ॥
धर्म उवाचदमीचेन सत्येन तपसा तव सुव्रत । पितृभक्त्या तव भ्राता वेदशर्मा महाभुजः॥ पुनरेव महात्माऽसौ जीवनं च लभिष्यति ॥ तपसा तेन तुष्टोऽस्मि पितृभक्त्या महामते । वरं वरय भद्रं ते दुर्लभं धर्मवित्तमैः ॥ एवमाकर्णितं तेन सुवाक्यं धर्मशर्मणा । वैवस्वतं महात्मानं तमुवाच महायशाः॥
* क. ख ग. घ. दु. च छ. ज. झ. ड ढ. इत्येतेषु पुस्तकेष्वयं पाठ उपलभ्यते । १ ग. घ. च. छ. झ. 'णा। उ तमाङ्गं प्रदत्तं मे पितृभक्तेन तेन ते ॥ तवार्थ द्विजशार्दूल मामेवं परिभुक्ष्व वै ॥ तस्य तैभाभिदृष्टं साहसं वेदशर्मणः । वे। २क. ख. ग. घ. ड. च. छ. ज. झड. ढ. 'त् । कस्मा । ३ क. ख..च. ज. स. ड, ढ. 'टा बलं । ४ छ. दयाशी'।
Page #122
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेदेहि मे त्वचलां भक्तिं पितुः पादाहणे पुनः । धर्मे रतिं तथा मोक्षं सुप्रसन्नो यदा मम ॥ ८ तमुवाच ततो धर्मो मत्प्रसादाद्भविष्यति । एवमुक्ते महावाक्ये वेदशर्मा तदोत्थितः॥ प्रसुप्तवन्महाप्राज्ञो धर्मशर्माणमब्रवीत् ॥ . [*कसा देवी गता भ्रातः क मे तातो भवेदिति । समासेन समाख्यातं यथा पित्रा नियोजितः १० समाज्ञाय ततो हृष्टो धर्मशर्माणमब्रवीत् । ] ममायेव महाभाग शिरसा जीवितेन च ॥ ११ सुमुखो भव वै भ्रातः कोऽन्यो मे तादृशी भुवि । भ्रातरं चैवमाभाप्य उत्सुकः पितरं प्रति॥१२ गमनाय मनि चक्रे भ्रात्रा च धर्मशर्मणा । द्वावतो तु गतो तत्र पितरं दृष्टमानसौ ॥ १३ द्वाभ्यां तत्र समास्थाय शिवशर्माणमुत्तमम् । धर्मशमा तदोवाच पितरं दीप्तिसंयुतम् ॥ १४ मयाऽयव महाभाग तपसा जीविनेन च । वंदशर्मा समानीतस्त्वं पुत्रं प्रगृहाण भोः ॥ १५ शिवशर्मा ततो दृष्टो भक्तिं विज्ञाय तस्य च । न किंचिदब्रवीत्तं तु पुनश्चिन्तामुपेयिवान् ॥ १६ पुरतो विनयेनापि वर्तमानं महामतिम् । विष्णुशर्माणमाभापीद्वन्स मे वचनं कुरु ॥ १७ इन्द्रलोकं ब्रजखाद्य तस्मादानय चामृतम् । अनया कान्तया सार्ध पातुमिच्छामि सांप्रतम् ॥ १८ सागरायत्समुत्पन्नममृतं व्याधिनाशनम् । नाधुनेच्छति मामंपा यथैनां तु लभाम्यहम् ॥ तथा कुरुप्व शीघ्रं त्वमन्यथाऽन्यं प्रयास्यति ॥ वृद्धं ज्ञात्वाऽवमन्येन इयं बाला सुरूपिणी । अद्य देव्याऽनया साधं प्रियया भुवनत्रये ॥ २० निर्दोषी व्याधिनिर्मुक्तो यथा तान भवाम्यहम् । तथा कुरुष्व हे वन्स मद्भक्तोऽसि यदा भुवि।। एवमाकर्ण्य तद्वाक्यं पितुस्तस्य महात्मनः । विष्णुशर्मा तदोवाच पितरं दीप्ततेजसम् ॥ २२ सर्वमेतत्करिष्यामि भवतः सुखमुत्तमम् । एवमाभाप्य धमात्मा विष्णुशर्मा महामतिः॥ २३ पितरं तं नमस्कृत्य पुनः कृत्वा प्रदक्षिणम् । बलेन महता तम्य तपमा नियमन च ॥ २४ अन्तरिक्षागतश्चाऽऽसीद्गच्छमानम्य धीमतः । महता वायुवेगन ऐन्द्र स प्रतिगच्छति(?) ॥ २५
इति श्रीमहापुराण पाझे मित्रण्डे शिवशर्मचारते द्विनीयोऽध्यायः॥॥
आदितः श्लोकानां समथ्यङ्काः-३२४१
.
अब ततायोऽध्यायः ।
सूत उवाचप्रस्थितस्तेन मार्गेण प्रविटो गगनान्तरं । स दृष्टो देववन सहस्राक्षेण धीमता ।। उद्यमं तस्य वे ज्ञात्वा चक्रे विघ्नं सुराधिरा । मनकां तामुवाचंदं गच्छ त्वं मम शामनात् ।। २ समाचरखास्य शीघ्रं गत्वा विघ्नं सुमध्यमे । अस्यैव विप्रवर्यस्य पुत्रस्य शिवशर्मणः ॥ ३
--- ------ -- .. --
*क. ग, घ इ. च. छ. ज.झ ड.द. पस्तंकवयं पाट ।
१क, ख च. "प्त इव धर्मज्ञो । २ घ. वा । ३ क ख. ग. घ. ड. च. छ ज. झ. ड ढ. 'नसम् । द्वा। ४ क. ख. च. छ. झ. 'म् । तेजसा तव विप्रेन्द्र गृहादेनं यमस्य च । ५ ग. घ. ड. ज. ड. द. ममाय।६ ग. घ. ड. ज. ड. 8. शिरसा । ७ क. ख. ग घ. च. छ. झ. सांप्रतम् । ङ. ज ड. ढ. शाश्वतम् । ८ का. ख. च. छ झ. सुव्रत । ९ क. ख. ग. घ च. छ. झ. 'म् । नाश याति जरा मेऽद्य यथा नीरुग्भ नाम्यह। १० क. ख. च सदा । ११ न. 'न प्रविष्टस्य नभोन्तरे।ई।१२ ग. घ. डट. ढ. पदं । झ एन्द्रं ।
Page #123
--------------------------------------------------------------------------
________________
३ तृतीयोऽध्यायः ] पद्मपुराणम् ।
११७ तथा कुरुष्व भद्रं ते यथा नाऽऽयाति मे गृहम् । एवमाकर्ण्य तद्वाक्यं मेनको प्रस्थिता त्वरात् ॥ ४
[*सूत उवाच-1 पौदार्यगुणोपेता सर्वालंकारभूषिता । नन्दनस्य वनस्यान्ते दोलायां समुपस्थिता ॥ ५ सस्वरेण प्रगायन्ती गीतं वीणावरोपमम् । तेन दृष्टा विशालाक्षी चतुरा चारुलोचना ॥ ६ व्यवसायं ततो ज्ञात्वा तस्या विघ्नमनुत्तमम् । इन्द्रेण प्रेषिता चैषा न च भद्रकरा भवेत् ॥ ७ एवं ज्ञात्वा जगामाथ सत्वरः स द्विजोत्तमः । तयां दृष्टस्तथा पृष्टः क याताऽसि महामते ॥ ८ विष्णुशर्मा नदोवाच मेनकां कामचारिणीम् । इन्द्रलोकं प्रयास्यामि पितुरर्थे त्वरान्वितः॥ ९ मेनका वेदशर्माणं प्रन्युवाच प्रियं पुनः । कामवाणेः प्रभिन्नाऽहं त्वामय शरणं गता ॥ १० रक्षस्व द्विजशार्दूल यदि धमेमिहच्छसि । यावद्धि त्वं मया दृष्टः कामाकुलितचेतसा ॥ १५ संजाता कामसंतप्ता प्रमादसमुखो भव । कामानलेन संदग्धा तावदेव न संशयः ॥ १२
विष्णुशर्मोवाचचरितं देवदेवस्य विदितं मे वरानने । भवत्याश्च प्रजानामि नाहं चैतादृशः शुभे ॥ १३ भवत्यास्तेजसा रूपैरन्ये मुह्यन्ति शाभने । विश्वामित्रादयो देवि पुत्रोऽहं शिवशर्मणः॥ १४ योगमिद्धि गतेनापि तपःसिद्धेन चावले । कामादयो महादोषा आदावेव विनिर्जिताः ॥ १५ अन्यं भज विशालाक्षि इन्द्रलोक बजाम्यहम् । एवमुक्त्वा जगामाथ खरितो द्विजसत्तमः ॥ १६ निष्फला मेनका जाता पृष्टा देवेन वज्रिणा । विभीषां दर्शयामास नानारूपां पुनः पुनः ॥ १७ यथाऽनलेन संदग्धाम्तृणानां संचया द्विन । भम्मीभता भवन्त्येव तथा तास्ता विभीषिकाः॥१८ विप्रस्य तेजमा नस्य पितृभक्तस्य संततम् । प्रलयं गतास्तु घोरास्ता दारुणा भीषिका द्विज ॥१९ स विनान्दर्शयामास सहस्राक्षः पुनः पुनः । नेजसाऽनाशयद्विप्रः स्वकीयेन महायशाः॥ २० एवं विनान्वहस्तस्य इन्द्रस्यापि महात्मनः । नाशयामास मेधावी तपसा तेजसाऽपि वा ॥ २१ नष्टपु तेषु विनंपु दारुणेषु महत्सु च । ज्ञात्वा तस्य कृतान्विनान्दारुणान्दारुणाकृतीन् ॥ २२ अथ क्रुद्धो महातेजा ['नन्दनं वनमाश्रितः । इन्द्रं प्रति महाभागो रोषरक्तान्तलोचनः॥ २३
सूत उवाचनिजधर्मरतस्याद्य यो विघ्नं तु समाचरेत् । तस्य दण्डं प्रदास्यामि यो वै हन्यात्स हन्यते ॥ २४ एवं संचिन्तयामाम] विष्णुशमा द्विजोत्तमः । इन्द्रलांकादहं चन्द्रं पातयिष्यामि नान्यथा ॥ अन्यमिन्द्रं करिष्यामि देवानां पालकं पुनः ॥ एवं ममुद्यता विप्र इन्द्रनाशाय मत्तमः । तावदेव समायातो देवेन्द्रः पाकशासनः ॥ २६ भी भी वित्र महाप्राज्ञ तपसा नियमन च। दमन सत्यशौचाभ्यां त्वत्समो नास्ति चापरः॥२७ अनया पितृभक्त्या त जितोऽहं देवतैः सह । ममापराधान्सर्वास्त्वं क्षन्तुमर्हसि सत्तम ।। वरं वरय भद्रं ने दुर्लभं च ददाम्यहम् ॥
२८ विष्णुशर्मा तदोवाच देवराज तथागतम् । विप्रतेजो महेन्द्रेन्द्र असहं देवदेवतः॥
• क. ख. ग. घ. इ. च. छ. ज. झ. ढ पुस्तकस्थितमिदम् । + क ख. च. छ. झ. पुस्तकेष्वेवायं पाठः।।
१ ग.घ. ङ. ज. ड. ढ. 'का गृह्य सादरम् । सं। २ क. ख. च. छ. या प्रोक्तस्तु ज्ञानात्मा व यास्यसि महामने । वि । ३ क. ख. च. छ. ज ड. निष्कला । ४ क. ख. च. छ. झ. दृष्टा । ५ क. ख. च. महाभाग। ६ क.ख. ग. घ. च. झ, ड. महद्रौद्र ।
Page #124
--------------------------------------------------------------------------
________________
११८ महामुनिश्रीव्यासमणीतं
[ २ भूमिखण्डेपितृभक्तस्य देवेश दुःसह सर्वथा विभो । तेजोभङ्गो न कर्तव्यो ब्राह्मणानां महात्मनाम् ॥ ३० पुत्रपौत्रैः समस्तैस्तु ब्रह्मविष्णुहरं पुनः । नाशयन्ते न संदेहो यदि रुष्टा द्विजोत्तमाः॥ ३१ नाऽऽगच्छेद्यद्भवानद्य तदा ते राज्यमुत्तम् । आत्मतपःप्रभावेण अन्यस्मै तु महात्मने ॥ दातुकामस्तु संजातो रोषपूर्णेन चक्षुषा ॥ भवानद्य समायातो वरं दातुमिहेच्छसि । अमृतं देहि देवेन्द्र पितृभक्तिं तथाऽचलाम् ॥ ३३ एवंविधं वरं देहि यदि तुष्टोऽसि शत्रुहन् । एवं ददामि पुण्यं ते वरं चामृतसंयुतम् ॥ ३४ एवमाभाष्य तं विप्रममृतेन च संभृतम् । स कुम्भं दत्तवांस्तस्मै प्रीयमाणेन चाऽऽत्मना ॥ ३५ अचला ते भवेद्विम भक्तिः पितरि सर्वदा । एवमाभाष्य तं विषं विससर्ज सहस्रक् ।। ३६ प्रसनोऽभूञ्च तदृष्ट्वा विप्रतेजः सुदुःसहम् । विष्णुशर्मा ततो गत्वा पितरं वाक्यमब्रवीत् ।। ३७ तात इन्द्रात्समानीतममृतं व्याधिनाशनम् । अनेनापि महाभाग नीरुजो भव सर्वदा ॥ अमृतेन त्वमद्यैव परां तृप्तिमवामुहि ॥
३८ एतद्वाक्यं महच्छ्रुत्वा शिवशर्मा सुतस्य हि । सुतान्सर्वान्समाहूय प्रीयमाणेन चेतसा ॥ ३९ पितृभक्तियुता यूयं मद्वाक्यपरिपालकाः । वरं वृणुध्वं सुमीताः पुत्रका दुर्लभं भुवि ॥ ४० एवंमाभाषितं तस्य शुश्रुवुः सर्वसंमताः । ते सर्वे तु समालोक्य पितरं प्रत्यथाप्नुवन् ॥ ४१ अस्माकं जीवतान्माता गता या यममन्दिरम् । नीरजा भवतादेवी प्रसादात्तव सुव्रत ॥ ४२ भवान्पिता इयं माता जन्मजन्मान्तरे पितः । वयं सुता भवेमेति सर्वे पुण्यकृतस्तथा ॥ ४३
शिवशर्मोवाचअद्यैवापि मृता माता भवतां पुत्रवत्सला । जीवमाना सुहृष्टा सा एष्यते नात्र संशयः ॥ ४४ एवमुक्ते शुभे वाक्य ऋषिणा शिवशर्मणा । तेषां माता समायाता प्रहष्टा वाक्यमब्रवीत् ।। ४५ एतदर्थ समुत्पन्नं सुवीर्य तनयं वरम् । नराः सत्पुत्रमिच्छन्ति कुलवंशप्रभावकम् ॥ ४६ स्त्रियो लोके महाभागाः सुपुण्याः पुण्यवत्सलाः । सुतमिच्छन्ति सर्वत्र पुण्यगं पुण्यसाधकम् ४७ कुक्षि यस्या गतो गर्भः सुपुण्यः परिवर्तते । पुण्यान्पुत्रान्प्रसृते या सा नारी पुण्यभागिनी ॥ ४८ कुलाचारं कुलाधारं पितृमातृप्रतारकम् । विना पुण्येः कथं नारी संपामोति सुरो(तो)त्तमम्॥४९ न जाने कीरशैः पुण्यरेष भर्ता सुपुण्यभाक् । संजातो धर्मवीर्योऽपि धर्मात्मा धर्मवत्सलः ॥ ५० यस्य वीर्यान्मया प्राप्ता यूयं पुत्रास्ततोऽधिकाः। एवं पुण्यप्रभावोऽयं भवन्तः पुण्यवत्सलाः॥ ५१ मम पुत्रास्तु संजाताः पितृभक्तिपरायणाः । अहो लोकेषु पुण्येश्च सुपुत्रः परिलभ्यते ॥ ५२ एकैकशोऽधिकाः पञ्च मया प्राप्ता महाशयाः । यज्वानः पुण्यशीलाश्च तपस्तेजःपराक्रमाः ॥५३ एवं सवर्धितास्ते तु तया मात्रा पुनः पुनः । हर्षेण महताऽऽविष्टाः प्रणेमुर्मातरं मुदा ॥ ५४
पुत्रा ऊचु:सुपुण्यैः पाप्यते मातः सुमाता पिता किल । भवती पुण्यकर्ती तु नो भाग्यस्तु प्रवर्तिता ॥५५ यस्या गमोन्तरं प्राप्य सुपुण्येश्च प्रवर्धिताः । जन्मजन्मनि त्वं माता पिता चेष भवलिति ॥ ५६
पितोवाचशृणुध्वं मामकाः पुत्राः सुवरं पुण्यदायकम् । मयि तुष्टे सुता भोगाननुभुञ्जन्तु चाक्षयान् ॥ ५७
क.ब. ग. घ. च. छ. स. देवराट् । २ क. ख. च. छ. झ. नान्यथा । ३ ग. रेऽपि नः । । ४ क. ख. च. छ. स. सुपुण्यैः परिवर्धते । ज. सगुण्यः । ५ क. ख. च छ. झ. शुभाः । ग. घ. ज, ड. ढ. सुताः ।
Page #125
--------------------------------------------------------------------------
________________
३४ चतुर्थोऽध्यायः ]
पुत्रा ऊचु:
यदि तात प्रसन्नोऽसि वरं दातुमिहेच्छसि । अस्मान्प्रेषय गोलोकं वैष्णवं दाहवर्जितम् ॥ ५७ पितोवाच
गच्छध्वं वैष्णवं लोकं यूयं विगतकल्मषाः । मत्प्रसादात्तपोभिश्च पितृभक्त्याऽनयो तथा ॥ ५९ एवमुक्ते तु तेनापि सुवाक्य ऋषिणा ततः । शङ्खचक्रगदापाणिर्गरुडारूढ आगतः । ६० सपुत्रं शिवशर्माणमित्युवाच पुनः पुनः । सपुत्रेण त्वयाऽद्यैव जितो भक्त्याऽस्मि वै द्विज ॥ ६१ पुत्रैः सार्धं समागच्छ चतुर्भिः पुण्यकारिभिः । अनया भार्यया सार्धं पुण्यया पतिकामया ।। ६२ शिवशर्मोवाच
पद्मपुराणम् ।
११९
अमी गच्छन्तु पुत्रा मे वैष्णवं लोकमुत्तमम् । कंचित्कालं तु नेष्यामि भूमौ वै भार्यया सह ॥ ६३ अनेनापि सुपुत्रेण अन्त्येन सोमशर्मणा । एवमुक्ते शुभे वाक्य ऋषिणा सत्यभाषिणा ।। तानुवाचाथ देवेशः सुपुत्राशिवशर्मणः ।।
६४
६५
६६
६७
गच्छन्तु मोक्षदं लोकं दाहमलयवर्जितम् । एवमुक्ते ततो विमाश्चत्वारः सत्यचेतसः || विष्णुरूपधराः सर्वे बभ्रुवुस्तत्क्षणादपि । इन्द्रनीलसमा वर्णैः शङ्खचक्रगदाधराः ॥ सर्वाभरणसौभाग्या विष्णुरूपा महौजसः । रत्नकङ्कणशोभाच्या रत्नमालाभिशोभिताः ।। प्रविष्टा वैष्णवं लोकं पश्यतः शिवशर्मणः । दीपं दीपा यथा यान्ति तद्वल्लीना महामते ।। ६८ गतास्ते वैष्णवं धाम पितृभक्त्या द्विजोत्तमाः । प्रभावं तु प्रवक्ष्यामि सुसत्यं सोमशर्मणः ।। ६९ इति श्रीमहापुराणे पाद्मे भूमिखण्डे शिवशर्मोपाख्याने तृतीयोऽध्यायः ॥ ३ ॥ आदितः श्लोकानां समष्टयङ्काः - - ३३१०
अथ चतुर्थोऽध्यायः ।
[* सूत उवाच -
गतेषु तेषु गोलोकं वैष्णवं तमसः परम् । शिवशर्मा महाप्राज्ञः कनिष्ठं वाक्यमब्रवीत् ] ।।
१
ब्राह्मण उवाच
सोमशर्मन्महाप्राज्ञ त्वं पितुर्भक्तितत्परः । अमृतस्य महाकुम्भं रक्ष दत्तं मयाऽधुना ॥ तीर्थयात्रां प्रयास्यामि अनया भार्यया सह ।।
३
४
एवमस्तु महाभाग करिष्ये रक्षणं शुभम् । कुम्भं दत्त्वा स मेधावी तस्य हस्ते महात्मनः ॥ दशवर्षप्रमाणं तु तपस्तेपे निरन्तरम् । कुम्भं रक्षति धर्मात्मा दिवारात्रमतन्द्रितः ।। पुनः स हि समायातः शिवशर्मा महायशाः । मायां कृत्वा महाप्राज्ञो भार्यया स हि संयुतः ॥ ५ कुष्ठरोगातुरो भूत्वा तस्य भार्या च तादृशी । मांसपिण्डोपमा त्याज्यौ द्वावेतौ हि महात्मनः ॥ ६ सकाशं तस्य धीरस्य विप्रस्य सोमशर्मणः । समागतौ हि तौ दृष्ट्वा सर्वतो हि सुदुःखितौ ॥ ७ कृपया परयाऽऽविष्टः सोमशर्मा महायशाः । तयोः पादौ नमस्कृत्य भक्त्या नमितकन्धरः ॥ ८
* पुस्तकेऽधिकमेतत् ।
१ च. वं दुःखव ं । २ ग घ ङ. ज. ड, ढ. 'या स्वथा । ए । ३ क ख ग घ ङ च छ ज. श. ड. ढ. सः । हारक ं । ४ ग. ङ. ज. ढ. ब्रह्मदर्शनम् ।
Page #126
--------------------------------------------------------------------------
________________
१२० महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेभवादृशं न पश्यामि तपसोऽभिसमन्वितम् । गुणत्रातः सुपुण्यैश्च किमिदं वर्तितं त्वयि ॥ . दासवदेवताः सर्वा वर्तन्ते सर्वदा तव । आदेशं प्राप्य विप्रेन्द्र चाऽऽकृष्टास्तेजसा तव ॥ १० सवाओं केन पापेन गदोऽयं वेदनान्वितः । संजातो ब्राह्मणश्रेष्ठ तन्मे कथय कारणम् ॥ ११ इयं पुण्यवती माता महापुण्या पतिव्रता । या हि भर्तप्रसादेन त्रैलोक्यं धर्तुमिच्छति ॥ सा कथं दुःखमामोति किं नास्ति तपसः फलम् ॥
१२ रागद्वेषौ परित्यज्य विविधेनापि कर्मणा । या च शुश्रूषते कान्तं [*सा कथं दुःग्यमामुयात् ॥१३ या तु पूजयते कान्तं ] देववद्गुरुवत्सला । सा कथं दुःखमामोति कुष्ठरोगं सुदुःखदम् ॥ १४
शिवशर्मोवाचमा शुचस्त्वं महाभाग भुज्यते कर्मजं फलं । नरेण कर्मयुक्तेन पापपुण्यमयेन हि ॥ १५ शोधनं च कुरुप्व त्वमुभयो रोगयुक्तयोः । [*शुश्रूपणं महाभाग यदि पुण्यमिहेच्छसि ॥ १६ एवमुक्ते शुभे वाक्ये सोमशर्मा महायशाः । शुश्रूपां वा करिष्यामि युवयोः पुण्ययुक्तयोः ।। १७ मया पापेन दुष्टेन कृपणेन द्विजोत्तम । किं कर्तव्यामिहाद्येव यो गुरू न हि पूजयेत ॥ १८ एवमाभाष्य र्दुःखाद्वा तयोर्दुःखेन दुःखितः । श्लेप्ममत्रपुरीपं स उभयोः पर्यशोधयत ॥ १९ पादप्रक्षालनं चक्रे पादसंवाहनं तथा । स्नानस्थानादिकं चापि तयोर्भक्त्याऽन्विनः स्वयम् २० द्वावेतो हि गुरू विप्रः सोमशर्मा महायशाः । तीर्थ नयति धर्मात्मा स्कन्धमारोप्य सत्तमः ॥ २१ द्वावेतो हि स्वहस्तेन स्नापयित्वा तु मङ्गलः । सुमत्रवेदविच्चैव स्नानस्य विधिपूर्वकम् ॥ २२ तर्पणं हि पितृणां तु देवतानां तु पूजनम् । द्वाभ्यामपि सधर्मात्मा स कारयति नित्यशः ॥ २३ स्वयं होमं करोत्यग्नौ पंचत्यन्नमनुत्तमम् । संज्ञापयति सुप्रीतो द्वावेतौ च महागुरू ॥ २४ शय्यासने च तो विमः प्रस्वापयति नित्यशः । वस्त्रपुप्पादिकं मर्व ताभ्यां निन्यं प्रयच्छति २५ ताम्बूलं बहुगन्धाग्यमुभयोरर्पयेत्स तु । सोमशर्मा महाभागस्ताभ्यामपि च पृरयेत् ॥ २६ मूलं पयः सुभक्ष्याचं नित्यमेव ददात्यसी । तयोस्तु वाञ्छितं नित्यं सोमशर्मा महायशाः ।। २७ अनेन क्रमयोगेण नित्यमेव प्रसादयेत् । सोमशर्मा सुधर्मात्मा पितरो परिपूजयेत् ॥ २८ सोमशर्माणमाहूय पिता कुत्सति निष्ठुरः । निन्दितनिपुरैर्वाक्यस्ताडयन्मुष्टिभिः सदा ॥ २९ कृते कार्ये कृते पुण्ये नित्यमेव सुते पुनः । न कृतं शोभनं मह्यं त्वयैव कुलपांसुना ॥ ३० एवं नानाविधैर्वाक्यनिष्ठरेर्दुःखदायकैः । अताडयद्दण्डघातः शिवशर्मा सदाऽऽतुगः ॥ ३१ एवं कृतेऽपि धर्मात्मा नैव कुप्यति कहिचित् । मनसा वचमा चैव कर्मणा त्रिविधन च ॥ ३२ संतुष्टः सर्वदा सोऽपि पितरं परिपूजयत् । यज्ज्ञात्वा शिवशर्मा च चरितं स्वीयमीक्षते ॥ ३३ अमृतं मत्कृते चापि ह्यानीतं विष्णुशर्मणा । [* पुण्ययुक्तः स धर्मात्मा पितृभक्तिपरः सदा ॥३४
* क. ख. च. छ. झपुस्तकेष्वेवायं पाटः। + क. स्व. च. छ झपुस्तकस्थोऽय पाटः ।
१ छ. सा तेजसाऽपि वा । गु।: ग. घ. ८. . ढ. क्यं कर्तु। ३ क. ख. ग. दु. च छ. ज. झ. ट. ड. हि । अन्यमेव कु। ४ क. ख. च. छ. झ. दुःखात्मा । ५ क ख. च छ. झ धर्मार्थ । ६ ड ज झ. ज. ट. 'पञ्चयज्ञम' । ७ क. ख. ग. ङ. च. छ. ज. ड. भु मापयादि । ८ क. ख. च. 'रू । म ह्यासने च ती विप्र आस्था । ९ ग, टु. ज. ट. इ. स. 'हुमूलान्य । १० म. 'मन्यत्तथाऽर्पये। ११ ग. छ. निन्दल्येव मुतं पु। क. ख. च. निन्दत्यनं मुतं पु। १२ च. परितोषयेत् । १३ ग, घ, ङ. ज. ट. ड. ढ. 'त् । तद्वत्स सोमशर्मा च मातरं पितरं दिन । अ। १४ क. ख. च. छ. झ. 'तं रक्षते सोऽपि ।
Page #127
--------------------------------------------------------------------------
________________
५ पञ्चमोऽध्यायः ] पद्मपुराणम् ।
१२१ एवं बहुतिथे काले शतसंख्ये गते सति । शिवशर्माऽपि पश्यैवं भक्तिं दृष्ट्वा विचिन्त्य ॥ ३५ मया वै पूर्वमिन्युक्तं सुपुत्रं यज्ञसंज्ञकम् । मातृखण्डानिमान्पुत्र यत्र तत्र क्षिपस्व हि ॥ ३६ मद्वाक्यं पालितं तेन कृता न मातरि कृपा । एतत्स्वल्पतरं दुःखं निर्जीवे घातमिप्यता ॥ ३७ माहसं तु कृतं तेन पुत्रेण वेदशर्मणो । अस्याधिकमहं मन्ये यतोऽयं चलते न च ॥ ३८ निमेषमात्रमेवापि साहसं कारयेत्पुनः । अस्याधिकस्तु संपन्नः प्रभावस्तपसः परः ॥ ३९ नित्यं समाराधनेऽपि वधिकं चास्य दृश्यते । तस्मादस्य परीक्षा चै समये तपसः कृता ॥ ४० भक्तिभावात्तथा सत्यान्नेव पुत्रः प्रणश्यति । मायया च निजातेऽपि कुष्ठरोगो निदर्शितः ॥४१ श्लेप्ममूत्रमलानां च घृणा नेव करोति च । व्रणाशोधयते नित्यं स्वहस्तेन महायशाः॥ ४२ अङ्गसंवाहनं तद्वत्करोति च महामतिः । दुःसहं वचनं मां दारुणं सहते सदा ॥ ४३ कुन्सने ताडने चैव सदा मिष्टप्रवाचकः । एवं दुःखसमाचारो मम पुत्रो महामतिः ॥ ४४ दुःखानां मागरे मनो बहुक्लेशैस्तु क्लेशितः । अपनेष्याम्यहं दुःखं विष्णोश्चैव प्रसादतः ॥ ४५ चिन्तयित्वा चिरं विप्रः शिवशर्मा महामतिः । पुनर्मायां चकाराथ कुम्भादपहृतं पयः ॥ पश्चात्तं च समाहूय सोमशर्माणमब्रवीत् ॥ नव हस्ते मया दत्तममृतं व्याधिनाशनम् । तन्मे शीघ्रं प्रयच्छस्व यथा पानं करोम्यहम् ॥ येन नीरुग्भवाम्यद्य प्रसादाद्विष्णुशर्मणः ॥ एवमुक्ते तदा वाक्ये ऋषिणा शिवशर्मणा । समुत्थाय त्वरायुक्तः सोमशर्मा कमण्डलुम् ॥ १८ तं च रिक्तं ततो दृष्ट्वा द्यमृतेन विना कृतम् । कम्य पापम्य वै कर्म केन मे विपियं कृतम् ॥ ४९ इति चिन्तापरो भूत्वा सोमशर्मा मुदुःग्विनः । पितुग्ग्रे च वृत्तान्तं कथयिष्याम्यहं यदा ॥ कोपं प्रयास्यति तदा गुरुर्मे व्याधिपीडितः ॥ सुचिरं चिन्तयित्वा तु सोमशर्मा महामतिः । यदि मे सत्यमस्तीति गुरुशुश्रूषणं यदि ॥ ५१ तपस्तप्तं मया पूर्व निव्येलीकन चेतसा । दमशोचादिभिः सत्यं धर्ममेव प्रपालितम् ॥ तदा घटोऽमृतयुतो भवत्वेष न संशयः ॥ यावदेवं महाभागश्चिन्तयित्वा विलोकयेत् । तावच्चामृतपूर्णस्तु पुनरेवाभवद्धटः॥ ५३ नं दृष्ट्वा हर्पसंयुक्तः मोमशर्मा महायशाः । गत्वा गुरुं नमस्कृत्य कुम्भमादाय सत्वरम् ॥ ५४ गृहाण त्वं पितश्चेमं पयःकुम्भं समागनम् । पानं कुरु महाभाग गदान्मुक्तो भवाचिरम् ॥ ५५ एतद्वाक्यं महापुण्यं सत्यधर्मार्थकं पुनः । शिवशर्मा सुतस्यापि श्रुत्वा च मधुराक्षरम् ॥ हर्षेण महताऽऽविष्ट इदं वचनमब्रवीत् ॥
इति श्रीमहापुराणे पाद्म भूमिखण्डे शिवशपिाख्याने चतुर्थोऽध्यायः ॥ ४ ॥ आदिप्तः श्लोकानां समयङ्काः-३३६६
अथ पनमोऽध्यायः । शिवशर्मोवाचनपसा दमशौचाभ्यां गुरुशुश्रूषया तथा । भक्त्या भावेन तुष्टोऽस्मि तवाद्य च सुपुत्रक॥ त्यजस्व(त्यजामि) वैकृतं रूपं मत्तः सुखमवामुहि ॥
___१ क. ख. च. णा । तात्कालिकमहं मन्ये यथा कर्ता भव निह । नि । २ क. ख. च. छ. झ. 'रः । तयोः सुपुत्रयोवाऽपि । ३ क.ख. च. छ. झ. च मयंव बद्दशः कृ। ४ क.स. च. छ. स. त्मनं' ताडनं पत्रः सर्वदेव प्रवाहकः । ५ क. ख. च. छ झ. क । गृहाण वैष्णवं सूक्तं म ।
सपा ॥
Page #128
--------------------------------------------------------------------------
________________
१२२
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे -
एवमुक्त्वा सुतं विप्रो दर्शयामास तां तनुम् । यथा पूर्व स्थितौ तौ तु तथाऽसौ दृष्टवान्गुरू || २ दीप्तिमन्तौ महात्मानौ सूर्यविम्बोपमावुभौ । ननाम पादौ सद्भक्त्या भयोस्तु महात्मनोः ॥ ३ ततः सुतं स संभाष्य हर्षेण महताऽन्वितः । विष्णोः प्रमादाद्धर्मात्मा भार्यया सह केशवम् ॥ ४ जगाम निजपुभ्यैश्च योगाभ्यासेन सत्तमः । प्रविष्टो वैष्णवं धामे स मुनिर्दुर्लभं पदम् || न त्वन्यैः प्राप्यते पुण्यैस्तपोभिर्मुक्तिदं पदम् । विष्णांस्तु चिन्तनैर्न्यामध्यानज्ञानैः स्तवैस्तथा ६ न दानैस्तीर्थयात्राभिर्दृश्यते मधुसूदनः । समाधिज्ञानयोगेन दृश्यते परमं पदम् ।। महायोगैर्यथा विमः प्रविष्टो वैष्णवीं तनुम् ॥
७
सूत उवाच -
८
१०
११
१२
१३
१४
१५
१६
१७
१८
ततस्तत्र तपस्तेपे सोमशर्मा महाद्युतिः । अश्मलोष्टसमं मेने काञ्चनं भूषणं पुनः ।। जिताहारः स धर्मात्माँ विक्रियापरिवर्जितः । म सर्वान्विषयांस्त्यक्त्वा एकान्तमपि सेवते ।। ९ योगासनसमारूढो निराशो निष्परिग्रहः । तस्य वेला तु संप्राप्ता मृत्युकालस्य वै तदा ॥ आगता दानवा विप्रं सोमशर्माणमन्तिके । मृत्युकाले तु संप्राप्ते प्राणयात्राप्रवर्तिके || शालग्रामे महाक्षेत्र ऋषीणां मानवर्धने । केचिद्वदन्ति वै दैत्याः केचिद्वदन्ति दानवाः ॥ एवंविधो महाञ्शब्दः कर्णरन्ध्रगतस्तदा । तस्यैव विप्रवर्यस्य सुचिरात्सोमशर्मणः ॥ ज्ञानध्यानविवग्नस्य प्रविष्टं दैत्यजं भयम् । तेन ध्यानेन तस्यापि दैत्यभूतेन वै तदा || सत्वरं च ततः प्राणा गतास्तस्य महात्मनः । दैत्यभावेन संयुक्तः स हि मृत्युवशं गतः ।। तस्माद्दैत्यगृहे जातो हिरण्यकशिपोः सुतः । देवासुरे महायुद्धे निहतश्चक्रपाणिना । युध्यमानेन तेनापि महलादेन महात्मना । सुदृष्टं वासुदेवत्वं विश्वरूपसमन्वितम् || योगाभ्यासेन पूर्वेण ज्ञानमासीन्महात्मनः । सस्मार पूर्वकं सर्वे चरितं शिवशर्मणः ॥ प्रागहं सोमशर्माख्यः प्रविष्टां दानवीं तनुम् । अस्मात्कायात्कदा पुण्यं केवलं धाम उत्तमम् ॥ १९ प्रयास्यामि महापुण्यैर्ज्ञानाख्यैर्मोक्षदायकैः । समरे स्त्यता तेन महलादेन महात्मना ॥ एवंविधा कथा पूर्व श्रूयते द्विजसत्तमाः । एवं तु च समाख्यातं सर्वसंदेहनाशनम् ।। महलादे निहते संख्ये देवदेवेन विष्णुना । रुरुंद कमला सा तु हतपुत्रा च कामिनी || प्रहलादस्य तु या माता हिरण्यकशिपोः प्रिया । प्रहलादस्य महाशोकदिवा रात्रौ प्रशोचति ॥ २३ पतिव्रतां महाभागामागत्य भगवत्प्रियः । रुदमाना दिवा रात्रौ नारदस्तामुवाच ह ।। मा शुचस्त्वं महाभागे पुत्रार्थे पुण्यभागिनि । निहतो वासुदेवेन तव पुत्रः समेप्यति ॥ भूयः स्वलक्षणोपेतस्त्वसुरश्च महामतिः । महलादेति च वै नाम पुनरस्य भविष्यति ।। विहीनश्वासुरैर्भावैर्देवत्वेन समन्वितः । इन्द्रत्वं भोक्ष्यते भद्रे सर्वदेवैर्नमस्कृतः ।। सुखी भव महाभागे तेन पुत्रेण वै सदा । [न प्रकाश्यं त्वया देवि भवार्थदं च कस्यचित् ॥ २८ वक्तव्यं ज्ञानभावैस्तत्स॑गोप्यं कुरु सर्वदा ] | एवमुक्त्वा गतां विमो नारदो मुनिसत्तमः ।। २९ कमलायाश्वोदरे तु जन्मास्यानुत्तमं पुनः । प्रहलादेति च वै नाम तस्य ख्यातं महात्मनः ।। ३० बाल्यभावं गतो विमाः कृष्णमेव व्यचिन्तयत् । नरसिंहप्रसादेन देवराजोऽभवद्दिवि ॥
२०
२१
२२
२४
२५
२६
२७
३१
* क. ख. ग. घ. च. छ. झपुस्तकस्थोऽयं पाठः ।
१क ख. च. छ. झ. 'म मुनिभिर्दु । २ क. ख. च. छ. झ. यज्ञैः । ३ क. ख. न. ङ च छ ज झ ट ड ढ "मा निद्रा प ।४क. ख. च. छ. 'तस्तवांदरे मौं ।
Page #129
--------------------------------------------------------------------------
________________
५ पञ्चमोऽध्यायः ]
पद्मपुराणम् ।
१२३
देवत्वं लभ्य चैवासावैन्द्रं पदमनुत्तमम् । मोक्षं यास्यति धर्मात्मा वैष्णवं धाम चोत्तमम् ॥ ३२ असंख्याता महाभागाः सृष्टेर्भावा ह्यनेकशः । मोह एवं न कर्तव्यो ज्ञानवद्भिर्महात्मभिः ॥ ३३ एतद्रः सर्वमाख्यातं यथा पृष्टं द्विजोत्तमाः । [*अन्यं पृच्छत वै प्रश्नं संदेहं वो भिनद्म्यहम् ।। ३४ विजयं देवतानां च दानवानां महाक्षयम् । कृतं हि देवदेवेन स्थापितं भुवनत्रयम् ॥
३५
ऋषय ऊचु:
इद्रत्वं कस्य संजातं देवानां राज्यधारकम् । केन दत्तं त्वमाचक्ष्व विस्तराद्विजसत्तम ॥ सूत उवाच -
३७
३८
३९
विस्तरेण प्रवक्ष्यामि इन्द्रत्वं येन सत्तमाः ] । प्राप्तमेव महाभागा यथा पुण्यतमेन च ॥ तेषु तेषु दैत्येषु समस्तेषु महाहवे । अतिनष्टेषु पापेषु गोविन्देन महात्मना ।। ततो देवाः सगन्धर्वा नागा विद्याधरास्तथा । संप्रोचुमाधवं सर्वे बद्धमाञ्जलयस्ततः ॥ भगवन्देवदेवेश हृषीकेश नमोऽस्तु ते । विज्ञापयामहे त्वां वै तत्सर्वमवधार्यताम् ।। शास्ता गोप्ता च पुण्यात्मा अस्माकं कुरु केशव । राजानं पुण्यधर्माणं त्वमिन्द्रं लोकशासनम् ४१ त्रैलोक्यस्य प्रजा देव यमाश्रित्य सुग्वं वसेत् ॥
४०
४२
३६
वासुदेव उवाच --
४३
४४
मम लोके महाभागा वैष्णवेन समन्वितः । तेजसा ब्राह्मणश्रेष्ठश्विरकालं निवासितः || तस्य कालः प्रपूर्णश्च मम लोके महात्मनः । वसतस्तस्य विप्रस्य मद्भक्तस्य सुरोत्तमाः ॥ तेजसा वैष्णवेनैव भवतां पालको हि सः । भविष्यति स धर्मात्मा सर्वधर्मानुरञ्जकः ॥ पालको धारकश्चैव स च ब्राह्मणसत्तमः । भविष्यति धर्मात्मा भवतां त्राणकारणात् ॥ ४६ अदित्यास्तनयश्चैव सुव्रताख्यो महामनाः । महावलो महावीर्यः स च इन्द्रो भविष्यति ।। ४७
४५
व
कश्यप उवाच -
यूयं वै सत्यधर्मेण वर्तमानाः सदैव हि । आवयोश्च प्रसादेन तपमश्च प्रभावतः ॥ प्राप्तवन्तो भवन्तस्तु देवत्वं चाक्षयं पदम् । वरमेवं ददाम्येष बहुमीतिसमन्वितः ॥ अमरा निर्जराचैव ह्यक्षयाच भविष्यथ । सर्वकामसमृद्धार्थाः सर्वसिद्धिसमन्विताः ॥ देवा नागाव गन्धर्वा मत्प्रसादान्महासुराः ॥
*
सूत उवाच
एवं वरान्स देशो ददौ देवेभ्य उत्तमान् । देवा विजयिनः सर्वे विष्णुना सह सत्तमाः ॥ कश्यपं पितरं द्रष्टुं मातरं च ततो गताः ॥
४८ ४९
प्रणेमुस्ते महात्मानावुभावेतौ सुखामनौ । ऊचुः प्राञ्जलयः सर्वे हर्पेण महताऽन्विताः || युवयोश्च प्रसादेन देवत्वं हि गता वयम् । ['हर्षेण महताऽऽविष्टो देवान्वाक्यमुवाच सः ] ॥ ५०
विष्णुरुवाच -
वरं वरय भद्रं ते देवमातर्यशस्विनि । मनसा चेप्सितं सर्वं तत्ते दद्मि सुनिश्चितम् ॥ अदितिरुवाच -
पूर्व पुत्रवती भूता प्रसादात्तव माधव । अमरा निर्जराः सर्वे चाक्षयाः पुण्यवत्सलाः ॥ * क. ख. य. छ. झ. ड. पुस्तकस्थोऽयं पाठः । + क ख ग घ च छ झ. पुस्तकेष्वयं पाठ: ।
५१
५२
५३
५४
५५
Page #130
--------------------------------------------------------------------------
________________
१२४ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेअमी पुत्रा मया लब्धाः श्रूयतां मधुसूदन । सुतरां त्वं च गोविन्द सर्वकामसमृद्धिदः ॥ ५६ मम गर्भे वसंश्चैव भवांश्च मम नन्दनः । त्वया पुत्रेण निन्यं च यथा नन्दामि केशव ॥ एवं महोदयं नाथ पूरयस्व मनोरथम् ॥
वासुदेव उवाचभवत्या देवकार्यार्थ गन्तव्यं मानुषं वपुः । तदाऽहं तव गर्भे वै वासं यास्यामि निश्चितम् ।। ५८ युगे द्वादशके प्राप्ते भूभारहरणाय वै । जमदग्निसुतो देवि रामो नाम द्विजोत्तमः ॥ ५९ प्रतापी तेजसा युक्तः सर्वक्षत्रवधाय च । तव पुत्रो भविष्यामि मर्वशस्त्रभृतां वरः॥ ६० चतुर्विशतिके प्राप्ते त्रेताख्ये तु तथा युगे । गमो नाम भविप्यामि तव पुत्रः पतिव्रते ॥ ६१ [*पुनः पुत्रो भविष्यामि तवैव शृणु वाऽन] । अष्टाविंशतिक प्राप्ते द्वापरान्ते युगे तदा ॥ ६२ सर्वदंत्यविनाशार्थे भूभारहरणाय च । वासुदेवोऽथ ते पुत्री भविष्यामि न संशयः ॥ ६३ इदानीं कुरु कल्याणि मद्वाक्यं धर्मसंयुतम् । मर्वलक्षणसंपन्नं सत्यधर्मसमन्वितम् ॥ ६४ सर्वज्ञं सर्वदं देवि पुत्रमुत्पाद्य सुन्दरम् । इन्द्रत्वं तस्य दास्यामि इन्द्रः सोऽपि भविष्यति ।। ६५ एवं संभाषितं श्रुत्वा महाहर्षसमन्विता । देवदेवप्रसादेन इन्द्रः पुत्रां भविष्यति ॥ ६६ एवमस्तु महाभाग तव वाक्यं कराम्यहम् । ततस्ता देवताः सर्वा जग्मुः स्वस्थानमेव हि ॥ हरिणा सह ते सर्वे निरातङ्का मुदाऽन्विताः॥
सूत उवाचअदितिः कश्यपं प्राह ऋतुं प्राप्य मनस्विनी । भगवन्दीयतां पुत्रः सुरेन्द्रपदभुञ्जकः ॥ ६८ चिन्तयित्वा क्षणं विपस्तामुवाच मनस्विनीम् । एवमस्तु महाभागे तव पुत्रो भविष्यति ।। ६९ त्रैलोक्यस्यापि कर्ता च यज्ञभोक्ता स एव च । तस्याः शिरसि संन्यस्य स्वहस्तं च द्विजोत्तमः७० तपश्चचार तेजस्वी विष्णुलोके वमन्सदा । नस्य पुण्यक्षयाजातं विष्णुलोकाद्विजोत्तमाः ॥ ७१ पतनं कर्मवर्शतस्ततस्तस्या द्विजोत्तमाः । पुण्यगर्भ गनो विप्र अदित्यास्तु महातपाः ॥ ७२ इन्द्रत्वं भोक्तुकामार्थ सत्यपुण्येन कर्मणा । गर्भ धार मा देवी पुण्येन तपमा किल ॥ ७३ तपस्तेपे निरालस्या वनवासं गता सती । दिव्यं वर्षशतं यातं तपन्त्यां देवमातरि ।। ७४ अतप्यत तपस्तीव्र दुष्करं देवतासुरः । तस्यास्तु तपसा तेन तेजमा च समन्विता ॥ ७५ सूयेतेजःप्रतीकाशा द्वितीय इव भास्करः । शुशुभे सा यथा दीप्ता परमं ध्यानमास्थिता ।। ७६ रूपेणाधिकतां याता तपसस्तेजसा तदा । लयध्यानपरा सा च वायुभक्षा तपस्विनी ॥ अधिकं शुशुभे देवी दक्षस्य तनया तदा ।। सिद्धाश्च ऋषयः सर्वे देवाश्चापि महौजसः । स्तुवन्ति तां महाभागां रक्षन्ति च सुतत्पराम् ।। ७८ पूर्णे वर्षशते तस्या विष्णुस्तत्र समागतः । तामुवाच महाभागामदितिं तपसाऽन्विताम् ॥ ७९ देवि गर्भः सुसंपूर्णः सूतिकालः प्रवर्तते । तवैव तपसा पुष्टस्तंजसा च प्रवर्धितः ।।।
* क. ख. च. पुस्तकस्थोऽय पाटः । १ क. ख. च. स. सुवरात्तव गोविन्द सर्वकामसमन्विताः । म । २ क. ख. च. झ. 'गे व दशम प्रा' । ३ क. ख. ज.स. ढ. 'र्वशास्त्र' । ४ क. ख. ग. घ. ४. च. उ. ज. स.ट. द. सप्तविंशतिके । ५ के. ख. ग. घ. छ. झ. ट. "प्ते युगे वैश्य तथैव च।स। ६ क. ख. च. छ. झ. ड. 'शत: मुव्रतस्य द्विजस्य च । । ७ क. ख. घ. च. छ. झ. निरालम्बा । ८ क. ख. च. छ. स. दुश्चरं देवब्राह्मणः । त । ९ क. ख. च. छ. झ. मनस्विनी। १० क. ख. ग. घ. च. छ. स.ट, 'सा तुष्ट।
Page #131
--------------------------------------------------------------------------
________________
६ षष्ठोऽध्यायः ]
पद्मपुराणम् । अद्यैव गर्भमेतं त्वं मञ्च मुश्च यशस्विनि । एवमाभाष्य देवेशः स जगाम स्वकं गृहम् ॥ ८१ अमृत पुत्रं सा देवी काले प्राप्ते महोदये । सुपुत्रं दीप्तिसंयुक्तं द्वितीयमिव भास्करम् ॥ ८२ मुभगं चारुमर्वाङ्गं सर्वलक्षणसंयुतम् । चतुवाहुं महाकायं लोकपालं सुरेश्वरम् ॥ ८३ तेजोज्वालासमाकीर्ण चक्रपद्मसुहस्तकम् । चन्द्रविम्बानुकारेण वदनेन महाप्रभम् ॥ राजमानं महापाझं तेजसा वैष्णवेन च । अन्यैश्च लक्षणर्दिव्यैर्दिव्यभावरलंकृतम् ॥ ८५ सर्वलक्षणसंपूर्ण चन्द्रास्यं कमलेक्षणम् । आजग्मुस्तत्र ते देवा ऋषयो वेदपारगाः॥ ८६ गन्धवोश्च ततो नागाः सिद्धा विद्याधरास्तथा । ऋषयः सप्त ते दिव्याः पूर्वापरमहौजसा ॥८७ अन्ये च मुनयः पुण्याः पुण्यमङ्गलदायिनः । आजग्मुस्ते महात्मानो हर्षनिर्भरमानसाः ॥ ८८ तस्मिञ्जाते महाभागे भगवन्तो(ति) महाजसि । आजग्मुर्देवताः सर्वे पर्वतास्तु तपस्विनः ॥ ८९ क्षीराद्याः सागराः सर्वे नद्यश्चेव तथाऽमलाः । मूर्तिमन्तस्ततः सर्वे ये चान्ये हि चराचराः॥९० मङ्गलैस्तु महोत्साहं चक्रुः सर्वे सुरेश्वगः । ननतुश्वाप्सरःसंघा गन्धर्वा ललितं जगुः ॥ ९१ वंदमब्रेस्ततो देवा ब्राह्मणा वेदपारगाः । स्तुवन्ति तं महात्मानं सुतं वै कश्यपस्य च ॥ ९२ ब्रह्मा विष्णुश्च रुद्रश्च वेदाचैव समागताः । साङ्गोपाङ्गश्च मंयुक्तास्तस्मिञ्जाते महौजसि ॥ ९३ मङ्गलं चक्रिरे सर्वे गीतपुण्यमहोत्सवः । हर्षेण निर्भराः सर्वे पूजयन्तो महौजसः ॥ ९४ ब्रह्माद्याश्च त्रयो देवाः कश्यपाऽथ बृहस्पतिः । चक्रिरे नामकर्मादि तस्यैव हि महात्मनः ॥ ९५ वसुदत्तेति विख्यातो वसुदेति पुनस्तव । आग्वण्डलेति वनाम मरुत्वान्नाम ते पुनः ॥ ९६ मघवा च विडोजास्त्वं पाकशासन इत्यपि । शंक्रश्चैव हि विख्यात इन्द्रश्चैवेनि ते सुतः ॥ ९७ इत्येतानि च नामानि तस्यैव च महात्मनः । चक्रुश्च देवनाः मयं संतुष्टा दृष्टमानसाः॥ ९८ स्नानं ते कारयामासुः संस्कारांश्च महासुराः । विश्वकोणमाहूय ददुराभरणानि च ॥ ९९ तानि पुण्यानि दिव्यानि तस्मै ने तु महात्मने । जाते तस्मिन्महाभागे देवराने महात्मनि।।१०० एवं मुदं ततः प्रापुः सर्वे देवा महौजसः । पुण्ये निती तथा ऋक्षे सुमुहूर्ते महामतिः॥ १०१ इन्द्रत्वे स्थापितो देवैरभिपिक्तः सुमङ्गलेः । प्राप्तमन्द्रं पदं तेन प्रसादात्तस्य चक्रिणः॥ १०२ तपश्वकार तेजस्वी वसुदत्तः सुरेश्वरः । उग्रेण तेजसा युक्तो वज्रपाशाङ्कुशायुधः॥ १०३ सूत उवाच
उग्रं ममस्तं तपसः प्रभावं विलोक्य शुक्रो निजगाद गाथाम् । लोकंषु चान्यो न भविष्यतीति यथा हि चायं च सुदर्शनीयः॥ विष्णोः प्रसादात्तपसा महात्मना संप्राप्तमैश्वर्यमिहेव दिव्यम् । अनेन तुल्यो न भविष्यतीति लोकेषु चान्यस्तपसोग्रवीर्यः ।। इति श्रीमहापुराणं पाद्मे भूमिखण्डे देवामुरेरिन्द्राभिपेको नाम पञ्चमोऽध्यायः ॥ ५ ॥ आदितः श्लोकानां समष्टयङ्काः-३४७१
अथ षष्टोऽध्यायः । सूत उवाचकश्यपस्य च भार्याऽन्या दनु म तपस्विनी । पुत्रशोकेन संतप्ता संप्राप्ता दितिमन्दिरम् ॥ १
१ क. ख. ग. घ. च. छ. झ. ट. सुभुज । २ क. ख. च. छ. झ शखश्च' । ३ क. ख. ग. घ. च. छ. स. लो। क. ख. ग. घ. च. छ. झ. ड. 'यं बरुदनवीरः । वि' । ५ क. ख. च. छ. झ. द. "स्य प्रिया भार्या ।
१०४
१०५
Page #132
--------------------------------------------------------------------------
________________
-
१
१२६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेरुदमाना प्रणम्यैव पादपद्मयुगं तदा । दुःखेन महता प्राप्ता दितिस्तां प्रत्यबोधयत् । २
दितिरुवाचतवैव हि महाभागे किमिदं रोदकारणम् । पुत्रिण्यश्चैकपुत्रेण लोके नार्यो भवन्ति वै ॥ ३ भवती शतपुत्राणां गुणिनामपि भामिनी । माता बमसि कल्याणि शुम्भादीनां महात्मनाम् ॥ ४ करमाहुःखं त्वया प्राप्तमेतन्मे कारणं वद । हिरण्यकशिपू राजा हिरण्याक्षो महाबलः ॥ ५ यस्याः पुत्रौ महात्मानौ महाबलपराक्रमी । कस्माहुःखं महज्जातं तस्माच्चैव सखे वद ॥ ६ [*एवमाभाप्य सा देवी तां दितिर्दुःखसंयुताम् । आख्याहि कारणं सर्व यस्माद्रोदिषि सांपतम् ॥ एवमाभाष्य तां देवीं विरराम मनस्विनी ॥
दनुरुवाचपश्य पश्य महाभागे सपत्न्याश्च मनोरथम् । परिपूर्ण कृतं तेन देवदेवेन चक्रिणा ॥ यथा पूर्व वरो दत्तो ह्यदित्यै देवि विष्णुना । तथेदानी च पुत्राय तस्या दत्तो वरो महान् ॥ ९ कश्यपाद्विश्रुतो जातस्रलोक्यपालकः सुतः । इन्द्रत्वं तस्य वे दत्तं तव पुत्राद्विहत्य च ॥ १० मनोरथैस्तु संपूर्णा अदितिः सुखवर्धिनी । कनीयान्वसुदत्तश्च तस्य पुत्रश्च संप्रति ॥ ऐन्द्रं पदं सुदुप्पाप्यं देवैः सार्धं भुनक्ति च ॥
दितिरुवाचकस्मात्पदात्परिभ्रष्टो मम पुत्रो महामतिः। अन्ये च दानवा दैत्यास्तेजोभ्रष्टाः कथं सखे ॥ १२ तस्य त्वं कारणं ब्रूहि विस्तरेण यशस्विनि । तामाभाप्य दितिर्वाक्यं विरराम सुदुःखिता ॥ १३
दनुरुवाचदेवाश्च दानवाः सर्वे क्रोधाच्च संगरं गताः । तत्र युद्धं महज्जातं दैत्यसंक्षयकारकम् ॥ १४ देवैश्च विष्णुना युद्धे मम पुत्रा निपातिताः । तथैव तव पुत्राश्च हता देवेन चक्रिणा ॥ १५ वने गजान्यथा सिंहो द्रावयेत्स्वेन तेजसा । तथा ते मामकाः पुत्रा निहताः शङ्खपाणिना ॥ १६ कालनेमिमुखं सैन्यं दुर्जयं यत्सुरासुरैः । नाशितं मदितं सर्व द्रावितं विकलीकृतम् ॥ १७ स्वीयार्चिभिर्यथा वहिस्तृणानि ज्वालयद्वन । तथा दैत्यगणान्सर्वान्निदहत्येव केशवः ॥ १८ मम पुत्रा मृता देवि बहुशस्तव नन्दनाः । वह्नि प्राप्य यथा सर्व शलभा यान्ति संक्षयम् ॥ १९ तथा ते दानवाः सर्वे हरिं प्राप्य क्षयं गताः । एवमेव हि वृत्तान्तं दितिः शुश्राव दारुणम् ॥२०
दितिरुवाच - वज्रपातोपमं भद्रे वदस्येवं कथं मम । एवमाभाष्य तां देवी मूर्छिता निपपात ह ॥ २१ हा हा कष्टं महज्जातं बर्हदुःखं प्रतापकम् । रुरोद करुणं साऽपि पुत्रशोकसुपीडिता ॥ २२ तां दृष्ट्वा स मुनिश्रेष्ठ उपाच वचनं शुभम् । मा रोदिपि च भद्रं ते नवं शोचन्ति त्वद्विधाः॥२३ सत्त्ववन्तो महाभागे लोभमोहेने वर्जिताः । कस्य पुत्रा हि संसार कस्य देवि सुबान्धवाः॥२४
*क.ख.च. छ. झ. पुस्तकस्थोऽयं पाटः ।
१ क ख च. छ. झ. हुण्डादीनां । २ क. ख. ग. घ. ड. च छ. झ. श्रृयताम् । ३ क. ख. ग. घ. ड. च. छ. ज.स. ट. ड. ढ.'नी सुपुत्राख्य दत्तं देवेन सांप्रतम् । क। ४ क. ख च. छ. झ. विदी । ५ क.ख. घ. च. छ. झ. ट. 'म् । स्वेच्छयैव यथा । ६ क. ख. ग.घ.च. छ. झ. ट. ड. 'हुदुःखप्रदायक। ७ क, ख, ग. घ. इ. च. छ. ज. झ. ट. ड. 'न वाहिताः ।
Page #133
--------------------------------------------------------------------------
________________
७ सप्तमोऽध्यायः ] पद्मपुराणम् ।
१२७ नास्ति कस्य हि केनापि तत्सर्वं श्रूयतां प्रिये । दक्षस्यापि सुता यूयं सुन्दर्यश्चैव मामकाः ॥२५ भवतीनामहं भो भरकः पूरकः शुभे । पोषक: पालकश्चैव रक्षकोऽस्मि वरानने ॥ २६ कस्माद्वैरं कृतं क्रूरैरसुरैरजितात्मभिः । तव पुत्रा महाभागे सत्यधर्मविवर्जिताः ॥ २७ तेन दोषेण ते सर्वे तव दोषेण वै शुभे । निहता वासुदेवेन देवैश्च सुनिपातिताः ॥ २८ तस्माच्छोको न कर्तव्यः सत्यमोक्षविनाशनः । शोको हि नाशयेत्पुण्यं क्षयात्पुण्यस्य नश्यति २९ तस्माच्छोकं परित्यज्य विघ्नरूपं वरानने । आत्मदोषप्रभावेन दानवा मरणं गताः॥ ३० देवा निमित्तभूताश्च नाशिताः स्वेन कर्मणा । एवं ज्ञात्वा महाभागे समागच्छ सुखं प्रति ॥ ३१ एवमुक्त्वा महायोगी तां प्रियां दुःखभागिनीम् । विषादाच निवृत्तोऽसौ विरराम महामतिः॥३२
इति श्रीमहापुराणे पाझे भूमिखण्डे दिनिविलापो नाम पष्ठोऽध्यायः ॥ ६ ॥
आदितः श्लोकानां समश्यङ्काः-३५०३
अथ मप्तमोऽध्यायः ।
दितिरुवाचसत्यमुक्तं त्वया नाथ मर्वमेव न संशयः । भर्तृम्नेहं परिन्यज्य गता सापत्नजं द्विज ॥ अभिमानेन दुःखेन मानभङ्गेन सत्तम । महादुःखेन संतप्ता करिष्ये प्राणमोचनम् ॥ २
कश्यप उवाचश्रूयतामभिधास्यामि यथा शान्तिभविष्यति । न कः कस्य भवेन्पुत्रो न माता न पिता शुभे ॥३ न भ्राता बान्धवाः कस्य न च स्वजनवान्धवाः । एवं संसारसंवन्धो मायामोहसमन्वितः ॥ ४ स्वयमेव पिता देवि स्वयं माताऽथ वान्धवाः । स्वयं स्वजनवर्गश्च स्वयं संवः सनातनः॥ ५ आचारेण नरो देवि सुग्वित्वमुपजायते । अनाचारण पापेन नाशं यानि तथा ध्रुवम् ॥ ६ कृरयोनि प्रयात्येवं नगे देवि न संशयः । कर्मणा सत्यहीनन महापापेन मोहितः ॥ ७ रिपुत्वं वर्तते मर्त्यः प्राणिनां निन्यसंस्थितः । मन्यन वर्तते मन्यो यदा लोके पिये शुभे॥ तदा तस्य भवन्त्येवं मित्राः सर्वत्र भाविनि ॥ कृषिकारो यदा देवि क्षेत्रे बीनं सुमंस्थिनः । यादृशं तु वपत्येव नादृशं फलमश्नुते ।। तथा तव च पुत्रश्च माधुभिः स्पधितं सह। कर्मणस्तस्य तस्मात्त्वं फलं भुव सुसंस्थितम् ॥१० तव पुत्रा महाभागे तपःशान्तिविवर्जिताः । तेन पापेन ते सर्वे पतिता वे महत्पदात ॥ ११ एवं ज्ञात्वा शमं गच्छ मुश्च दुःसं सुखं तेथा । कस्य पुत्राश्च मित्राणि कस्य स्वजनवान्धवाः ॥ आत्मकर्मानुसारेण फलं भुञ्जन्ति जन्तवः ॥ परार्थे चिन्तनं देवि तत्वज्ञानेन पण्डिताः । न कुर्वन्ति महात्मानो व्यर्थमवं न संशयः॥ १३ पञ्चभूतात्मकं कायं केवलं संधिजर्जरम् । आत्मामित्रं कृतं तेन सर्व देवि निशामय ॥ १४ आत्मा नाम महापुण्यः सर्वगः सर्वदर्शकः । सर्वसिद्धिस्तु सर्वात्मा सात्त्विकः सर्वसिद्धिदः॥१५
१ क. ख. च. छ. झ. 'पि संबन्धों देवि श्रृयताम् । दं। २ क. ख. च. छ. स. 'त्यसौख्यवि । ३ क. ख. च. छ. झ. रिपुरूपं । ४ क. ख. च. छ. स. विवादा'। ५ क. ख. च. छ. स. धर्मः । ६ क. ख. च. छ. झ. भामिनि । ७क.
ख.च.छ. झ, तत्प्राप्त । ८ क.ख. च.च. छ.गे सत्यशा । ९क. ख.ग. च, च. छ. ट. व्रज।
Page #134
--------------------------------------------------------------------------
________________
१२८ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवं सर्वमयो देवि भ्रमत्येको निरञ्जनः । भ्रमता निर्जने येन मूर्तिमन्तो द्विजोत्तमाः॥ १६ चखारो दर्शिताः पुण्या बुद्धिमन्तो महौजसः । पञ्चमः श्वसनश्चैवं पूर्वाणां मित्रमेव च ॥ १७ अयो आत्मा समायातो ज्ञानसाहाय्य एव वा । स तान्दृष्ट्वा महात्मा वै ज्ञानमात्मा समब्रवीत्।। [*ज्ञानं पश्ये अमी पञ्च मन्त्रयन्तः परस्परम]। गच्छ त्वं मम वाक्येन यूयं क इति पृच्छ ह॥१९ शानं वाक्यं परं श्रुत्वा सार्थस्तस्य महात्मनः । तदाहाऽऽत्मानमाराध्यमेतैः किं ते प्रयोजनम् ॥ तत्त्वतो भूहि तत्सर्वं भवाञ्शुद्धो हि सर्वदा ॥
___ आत्मोवाचएते पञ्च महापाज्ञा रूपवन्तो मनस्विनः । गत्वा संदर्शयाम्येतानाभाप्ये ज्ञान श्रूयताम् ॥ २१ भव्यानेतान्प्रवक्ष्यामि पश्चमी गतिमागतान । दूत त्वं गच्छ भो ज्ञान कुशलो दूतकर्मणि ॥ २२
ज्ञानमुवाचत्वमात्मश्रूयतां वाक्यं सत्यं सत्यं वदाम्यहम् । एतेषां संगतिस्तात कार्या नैव त्वया कदा॥२३ [पञ्चानामपि शुद्धात्मन्न कार्या शुभमिच्छता । भवतः संगति मोह इच्छत्येष महामते ॥ २४
['आत्मोवाचएतेषां संगति ज्ञान कस्माद्वारयते भवान । तन्मे त्वं कारणं ब्रूहि याथातथ्यन पण्डित ॥ २५
___ ज्ञानमुवाच]एतेषां सङ्गमात्रात्तु महहुःखं भविष्यति । दुःखमूला हि पश्चैव शोकसंतापकारकाः॥ २६ एवमस्तु महाप्राज्ञ करिष्ये वचनं तव । ज्ञानमाभाप्य स ह्यात्मा ध्यानन मह संगतः॥ २७
कश्यप उवाचततः पश्चैव ते तत्राद्राक्षुरात्मानमेव तम् । बुद्धिमृचः ममाय संगत्याऽऽत्मानमेव हि ॥ २८ दूतत्वं कुरु कल्याणि ह्यस्माकमात्मना सह । पञ्चतत्त्वा महात्मानो विश्वस्य धारकाः शुभाः॥२९ भवन्तं मित्रमिच्छन्ति इत्याभाष्य महामतिम् । गत्वा बुद्ध त्वया कार्य कर्तव्यं सांप्रतं ब्रज ॥ ३० एवमस्तु महाभागाः करिष्ये कार्यमुत्तमम् । एवमाप्य तान्सा वै गता ह्यात्मानमेव तम् ॥ ३१ अहं बुद्धिर्महाभाग भवन्तं समुपागता । दृतत्व महतां पात्तिपां त्वं वचनं शृणु ॥ ३२ भवन्मैत्री समिच्छन्ति ह्येक्षयां पञ्च चाऽऽत्मकाः । कुरु मेत्रं महामाज्ञ जहि ध्यानं सुदरतः॥३३
ज्ञानमुवाचन कर्तव्यस्त्वया चाऽऽत्मन्नतेषां वै समागमः । एषां संसर्गमात्रंण महहुःखं भविष्यति ॥ ३४ मया ज्ञानेन हीनस्त्वं कथं कर्म करिष्यसि । एवमेव न कर्तव्यमतेषां वै समागमः ॥ ३५ गर्भवासो हि भवतो भविष्यत्यन्यथा विभो । ज्ञानेनैव मया हीना ह्यज्ञानं यास्यसि ध्रुवम् ।।३६ एवमुक्त्वा तमात्मानं विरराम महामतिः । ततस्तामागतां बुद्धिमात्मा प्रोवाच निश्चितम् ॥ ३७ ज्ञानध्यानौ महात्मानावात्मना मम शोभनो । तत्र यानं न मे युक्तं तबुद्ध किं करोम्यहम् ।।३८
* क. ख. ग. घ..च.. ज.म.ट. ड..पुस्तकस्थाऽयं पाठः । + क.ख. ग. घ..च.छ.ज. झ. ट. र... पुस्तकस्थोऽयं पाठः । क. ख. ग. घ. च. छ. ज झ. ड. पुस्तकरथोऽयं पाठः ।
क. ख. घ. ड.च. छ. उ. द. व कुर्वाणा मन्त्रमें ।२ च. ज. इ. ढ. 'श्य समीपस्था म। ३ क, ख, ग, घ. स.च. छ. ज. स. ड.. 'म् । एतान्गत्वा ब्रीहि त्वं यू। ४ क. ख. च. छ. झ. त्वे भवता पार्श्व तेषां । ५ क. ख. प. छ.. तेजाद्याः । ६च. मान । ७ क. ख. च. छ.. र्तव्यं त्वया देव वचः शणु । ग ।
Page #135
--------------------------------------------------------------------------
________________
७ सप्तमोऽध्यायः ]
पद्मपुराणम् ।
१२९
एवं श्रुत्वा गता बुद्धिस्तेषां पार्श्वे यशस्विनी । समाचष्टे समग्रं तत्कथनं ज्ञानध्यानयोः ॥ ३९ ततस्ते पञ्चकाः सर्वे आत्मानं प्रति जग्मिरे । मैत्रमेव प्रतीच्छामो भवतो नित्यमेव हि ॥ ४० यस्माच्छुद्धोऽसि लोकेश तस्मात्त्वां समुपागताः । स्वयमेव विचार्यैव ह्युत्तरं नः प्रदीयताम् ॥। ४१ आत्मोवाच
यूयं पञ्चैव संप्राप्ता मम मैत्रं समिच्छथ । स्वीयं गुणं प्रभावं च कथयन्तु ममाग्रतः ।। ४२ भूमिरुवाच
सर्वकार्यस्य संस्थानं चर्ममांस समन्वितम् । [*अस्थिमूलदृढत्वं च नखलोमसमन्वितम् ] ॥ Half महाप्राज्ञ कायमध्ये ममैव हि । नासिकागमनो गन्धः स मे भृत्यो महामनाः ॥
आकाश उवाच
अहमाकाशकः प्राप्तो मम काये प्रभावकम् । श्रूयतामभिधास्यामि परब्रह्मस्वरूपिणे । बाह्यान्तरावकाशश्च शून्यस्थाने वसाम्यहम् । ममैव भृत्य श्रवणे श्रवणार्थं प्रतिष्ठितौ ॥ वायुरुवाच
४३
४४
४९
४६
यत्स्त्ररूपेऽथ निःश्वासे करोम्येवं शुभाशुभम् । कर्म काये स्थितं नित्यं स्पर्शाख्यस्तत्रमे गुणः॥ ४७ तेज उवाच -
काये सूर्यस्य वै नित्यं विनियोगं करोम्यहम् । सवाद्याभ्यन्तरं सर्व देव्याद्रव्यं प्रदर्शये ॥ तत्र नेत्रे च भृत्यौ मे द्रव्यलब्धप्रसाधकौ । एवं मयाऽऽत्मव्यापारस्तवाग्रे कथितः परः ।।
आप ऊचु:
शुक्रं मञ्जा तथा लाला पलं त्वक्संधिसंस्थितम् । रुधिरं प्रेषयामो वै कायमध्ये स्थिता वयम् ||५० संपोषयामोऽहर्निशममृतेन कलेवरम् । एवंमयः सुव्यापारः कायपत्तनकेऽर्पितः ॥ अमात्यं रसनां विद्धि रसास्वादकरी पराम् ।।
४८ ४९
५१
नासिकोवाच
५२
सुगन्धेन परां पुष्टिं कायस्यापि करोम्यहम् । दुर्गन्धं तु परित्यज्य कार्य सर्वं प्रदर्शये ॥ बुद्धियुक्ता महाभाग तस्या भावेन भाविता । स्वामिकार्याय कायेऽस्मिन्नहं तिष्ठामि निश्चला || गन्धं मम गुणं विद्धि द्विविधं यत्प्रवर्तितम् ॥
५४
श्रवणे ऊचतु:
कार्याकार्यादिकं शब्द लोकैरुक्तं शुभाशुभम् । शृणुयाव सुकायस्थों सत्यासत्यं प्रियाप्रियम् ॥ ५५ शब्दो हि मे गुणः प्रोक्तो मम व्यापार एव हि । योजयामि न संदेहो यदा बुद्धिः प्रपूरयेत् ५६ त्वगुवाच
पञ्चरूपात्मको वायुः शरीरेऽस्मिन्व्यवस्थितः । सवाद्याभ्यन्तरां चेष्टां तेषां जानामि निश्चितम् ५७ शीतोष्णमातपं वर्ष वायोः स्फुरणमेव च । सर्व जानामि संस्पर्शादङ्गश्लेषादिकं नृणाम् ॥ ५८ स्पर्श एव गुणो मह्यमेतत्सत्यं वदाम्यहम् । एवं हि ते समाख्याती ह्यात्मव्यापार एव हि ॥ ५९
*क. ख. ग. ड. च. छ. . ड ढ पुस्तकस्थोऽयं पाठः ।
१ क. ख. ङ. च. छ. झ. ड ड च पञ्चरूपेण तिष्ठामि क २ क ख ग घ ङ. छ. झ. ट. ड. उ. म् । चर्मकार्य स्थितोऽमात्यं शृणुध्वाऽऽत्मन्गुणं हि मे । ते । ३ क. ख. च. छ. झ. दुष्टादुष्टं । ४क. ख. ग. घ. ङ. च. छ. ज. छ. ट. ड ढ नेत्रावमात्या मे मम राज्य' । ५ च सर्व ।
१७
Page #136
--------------------------------------------------------------------------
________________
१३०
महामुनिश्रीव्यासपणीतं
[ २ भूमिखण्डेनेत्रे ऊचतुःसंसारे यानि रूपाणि भव्याभव्यानि सत्तम । यदा प्रेरयते बुद्धिस्तदा पश्याव नान्यथा ॥ ६० वसावः कायमध्ये वै रूपं गुण इहाऽऽवयोः । एवं व्यापार उक्तो नौ कायमध्ये महामते ।। ६१
जिहोवाचबुद्धियुक्ता यहं तात रसभेदान्विचारये । [*क्षारमाम्लादिकं सर्व नीरसं स्वादु चिन्तये] ॥ ६२ व्यापारेण ह्यनेनापि नित्ययुक्ता वसाम्यहम् । ['इन्द्रियाणां हि सर्वेषां बुद्धिरेव प्रणायकः]॥६३ एवं पञ्च समायातानीन्द्रियाणि प्रिये शृणु। स्वीयानि यानि कर्माणि कथयन्ति पुनः पुनः॥६४ अथ बुद्धिः [* समायाता तमुवाच महामतिम् । मद्विहीनो यदा कायस्तदा नश्यति नान्यथा ॥ तस्मात्वं मां] समास्थाय प्रवर्तस्व महामते ॥ अथ कर्म समायातमात्मानमिदमब्रवीत् । अहं कर्म महापाज्ञ तब पार्थ ममागतम् ॥ त्वां प्रेषयाम्यहं तात यथा वे येन गच्छ ह । एवमाकर्ण्य तत्सर्वमात्मा प्रोवाच तान्मति ॥ ६७ यूयं पश्चात्मका युक्ताः सर्वसाधारणाः किले । तस्मान्मत्रं समिच्छामि तत्र पञ्चात्मकं प्रति ॥ ध्रुवन्तु कारणं सर्वे ममाग्रे सर्वमेव तत् ॥
पश्चात्मका ऊचुःअस्मत्सङ्गप्रसङ्गेन पिण्डमेव प्रजायते । तस्मिन्पिण्डे महादेव भवान्वसति सुव्रत ॥ तिष्ठामो ह वयं सर्वे प्रसादात्तव तत्र हि । एतस्मात्कारणान्मत्रमिच्छामस्तव नित्यशः॥ ७०
आत्मोवाचएवमस्तु महाभागा भवतां प्रियमेव च । करिष्ये नात्र संदेहो मैत्रं हि प्रीतिकारणात् ॥ ७१ वार्यमाणो महाभागो ज्ञानेनापि महात्मना । ध्यानेन च महात्माऽसौ तेषां संगतिमागतः ॥ ७२ सतैः प्रमोहितस्तत्र रागद्वेषादिभिस्तदा । पञ्चतत्त्वसमायुक्तः कायत्वं गतवान्प्रभुः ॥ ७३ यदा गर्भे समायातो विष्ठामूत्रसमाकुले । दुर्गन्धे पिच्छिलावर्ते पतितस्तैः सुसंयुतः॥ ७४ अङ्गेन व्याकुलो भूतः पश्चात्मकानुवाच सः। भो भोः पश्चात्मकाः सर्वे शृणुध्वं वचनं मम ७५ भवतां हि प्रसङ्गेन महादुःखेन मोहितः । नन्वस्मिन्पिच्छिले घोरे पतितोऽस्मि महाभये ॥ ७६
पश्चात्मका ऊचुःतावत्संस्थीयतां राजन्यावद्गर्भ प्रपूरयेत् । पश्चानिर्गमनं ते वै भविष्यति न संशयः ॥ ७७ अस्माकं हि भवान्स्वामी कायदेशे व्यवस्थितः। [राज्यमेवं प्रकर्तव्यं सुखभोक्ता भविष्यसि ।। तेषां तद्वचनं श्रुत्वा चाऽऽत्मा दुःखेन पीडितः] । गन्तुमिच्छन्नसो तस्मात्पलायनपरोऽभवत् ।। ७९ इति श्रीमहापुराणे पाय भूमिखण्डे देवासुरप्रकरणे शरीरोत्पत्तिकथन नाम सप्तमोऽध्यायः ॥ ७ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३५८२
अथाष्टमोऽध्यायः । कश्यप उवाचस गर्भो व्याकुलो जातः विद्यमानो दिने दिने । दुःखक्रान्तो हि धर्मात्मा सर्वपीडाभिपीडितः
* क. ख. र. च. छ. ज स. ड. ढपुस्तकस्थोऽयं पाठः । । क. ख. च. छ. झ. पुस्तकस्थोऽयं पाठः । * क. ख. ग. ङ. च. स. ह. द. पुस्तकस्थोऽयं पाठः । । क. ख ङ च. छ. ज झ. ड, ढ. पुस्तकरण
। क. ख ङ च. छ. ज झ. ड. ढ. पुस्तकस्थोऽयं पाठः । १च. 'ल । कस्मान्मत्रं समिच्छन्ति पश्चात्मका ममैव हि । ब्रु। २ क. ख. च. छ ह. 'ण्डे यदा दे।
Page #137
--------------------------------------------------------------------------
________________
८ अष्टमोऽध्यायः ]
पअपुराणम् । अधोमुखस्तु गर्भस्थो मोहजालेन बन्धितः । आधिव्याधिसमाक्रान्तो हाहाभूतो विचेतनः ॥ दुःखेन महताऽऽविष्टो ज्ञानमाह पपीडितः ॥
आत्मोवाचतव वाक्यं महापाज्ञ न कृतं तु मया तदा । ध्यानेन वार्यमाणोऽपि पतितो मोहसंकटे ॥ तस्माद्रक्ष महाप्राज्ञ गर्भवासात्सुदारुणात् ॥
ज्ञानमुवाचमया त्वं वारितो ह्यात्मन्कृतं वाक्यं न चैव मे । पञ्चात्मकैर्महारैः पातितो गर्भसंकटे ॥ ४ इदानी गच्छ त्वं ध्यानं तस्मात्त्वं प्राप्स्यसे सुखम् । गर्भवासाद्भविष्यते मोक्षस्ते च न संशयः॥५ तस्य तद्वचनं श्रुत्वा ज्ञात्वा ज्ञानस्य तत्त्वताम् । ध्यानमाय प्रोवाच श्रूयतां वचनं मम ॥ ६ त्वामहं शरणं प्राप्तो ध्यान मां रक्ष नित्यशः । एवमस्तु महाप्राज्ञ ध्यानमाह महामते ॥ ७ एतद्वाक्यं ततः श्रुत्वा ह्यात्मा वै ध्यानमागतः । ध्यानेन हि समं गर्भे संस्थितो मोहवर्जितः॥८ [*यदा ध्यानं गतो ह्यात्मा विस्मृतं गर्भनं भयम् । स द्वाभ्यां सहितस्तत्र ह्यात्मा मोहविवर्जितः]९ चिन्तयन्नेव वै नित्येमात्मकं सुखमेव हि । इतो निष्क्रान्तमात्रस्तु त्यजे पश्चात्मकं वपुः ॥ १० एवं चिन्तयते नित्यं गर्भवासगतः प्रभुः । सूतिकाले तु संप्राप्त प्राजापत्येन शोभने ॥ ११ वायुना चालितो गर्भः प्राणेनापि वलीयसा । योनिर्विकाशमायाति चतुर्विंशाङ्गलं तदा ॥ १२ पञ्चविंशानुलो गर्भस्तेन पीडा विजायते । एवं संपीड्यमानस्तु मूर्छया मूर्छितः प्रिये ॥ १३ पतितो भूमिभागे तु ज्ञानध्यानसमन्वितः । प्राजापत्येन दिव्येन वायुना स पृथकृतः ॥ १४ भूमिसंस्पर्शमात्रेण ज्ञानध्याने तु विस्मृते । संसारमोहसंदग्ध आत्मा प्रियतया स्थितः ॥ १५ गुणदोपसमाक्रान्तो महामोहसमन्वितः । खानपानादिकं सर्वमिच्छत्येव दिने दिने ॥ १६ एवं संपृष्टमानस्तु ह्यात्मा पञ्चात्मकैः सह । व्याप्यते इन्द्रियैः सर्वैविपयैः पापकारिभिः॥ १७ वान्धवानां सुसंमोहे भार्यादीनां तथैव च । आकुलव्याकुलो देवि जायते च दिने दिने ॥ १८ महामोहेन संदग्धो मोहजालं गतः प्रभुः । कैवर्तेन यथां नद्यां शकुलो जातबन्धनः ॥ १९ चलितुं नैव शक्नोति तथा चाऽऽसीत्प्रवन्धितः । मोहजालैस्तु तैः सर्वदृढवन्धैस्तु बन्धितः ॥२० एवमान्मा प्रपश्चन व्यापितो व्यापकेन हि । ज्ञानविज्ञानविभ्रष्टो रागद्वेषादिभिर्हतः॥ २१ कामेन पीड्यमानस्तु क्रोधेनैव तथैव वा । प्रकृत्या कर्मणा बद्धो महामढी विजायते ॥ २२ एवं मूढो यदाऽऽत्माऽसौ कामक्रोधवशं गतः । लोभरागादिभिः सर्वैयापृतस्तैर्दुरात्मभिः॥२३ इयं भार्या ह्ययं पुत्र इदं मित्रमिदं गृहम् । एवं संसारजालेन महामोहेन वन्धितः ॥ २४ पुत्रशोकादिभिर्दुःखैः संतप्तो ह्यनिशं तदा । जरया व्याधिभिश्चैव संग्रस्तश्चाऽऽधिभिस्तथा ॥२५ एवमात्मा संप्रतप्तो दुःखमाहैः सुदारुणः । अभिमानेर्मानभङ्गेनीनादुःखैश्च खण्डितः॥ २६ वृद्धत्वेन तथा देवि शवलत्वेन पीडितः । दुःखं चिन्तयते नित्यं महाभूतो विचेतनः ॥ २७ रात्री स्वमान्प्रपश्येत दिवा चैतन्यवर्जितः । वैकल्येन स मोहेन व्याप्तो देवि दिने दिने ॥ २८
* क. ख. इ. च. छ. ज. झ. ड. ढ. पुस्तकस्थोऽयं पाटः । १८. 'स्तेऽत्र न । २ ग. घ. 'त्यमैश्वर सु। ३ क. ख. च. छ. स. तः । स्तन । ४ क. ख. च. छ.. पुनः । ५ क. ख, च. छ. स. था बद्धः शफरो जालबन्धनैः । च। ६ क. ख. च. छ. स. यापित । क. स.घ. छ.. 'तः । वृद्धत्वे चिन्तते ।
Page #138
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासपणीतं- [ २ भूमिखण्डेसंसारे भ्रममाणेन वैराग्यं तत्र दर्शितम् । निःशङ्ख बन्धुहीनं च प्रशान्तं तुष्टमेव च ॥ २९ तमुवाच तदाऽऽत्मा वै कामक्रोधविवर्जितम् । को भवान्नमरूपेण कथं मित्रैर्न लज्जसे ॥ ३० यत्र लोकाः स्त्रियो वृद्धा युवत्यो मातरस्तथा । एतासां हि गतो मध्ये न विभासि धनावृतः ३१
वीतराग उवाचको पत्र नमो दृश्यत न नमोऽस्मीति वै कदा । सुसंबद्धस्त्वहं ज्ञानपरिधानसमन्वितः॥ ३२ न ननोऽस्मि कदा दिव्य भवानमः प्रदृश्यते । इन्द्रियार्थवशे वर्ती मर्यादायाश्च वर्जितः ॥ ३३
आत्मोवाचपुरुषस्य का हि मर्यादा तामाचक्ष्व च सुव्रत । विस्तरेण महामाज्ञ यदि जानासि निश्चितम् ॥ ३४ वीतरागो महामाज्ञस्तमुवाच महामतिः । सुस्थैर्य भजते चित्तं सुखदुःखेषु नित्यदा ॥ क्लेशितं सर्वभावैश्च तेप्वलं न परित्यजेत् ।। अथ लजां प्रवक्ष्यामि मनो या हि विशत्यलम् । मयाऽयेवं न कर्तव्यं नग्नम्थानविवर्जितः॥३६ पश्चात्तापसुसंलीनः सा लज्जा परिकथ्यते । कस्य लज्जा प्रकर्तव्या द्वितीयो नास्ति सर्वदा ॥३७ एकश्च पुरुषो दिव्यः कस्य किंचिन्न नाशयत् । अथ लोकान्प्रवक्ष्यामि ये त्वया परिकीर्तिताः॥३८ यथा कुलालकश्चक्रे मृत्पिण्डं च निधापयेत् । भ्रामयित्वा तु सूत्रंग नानाभेदान्प्रकारयेत् ॥ ३९ भाण्डानां तु सहस्राणि स्वेच्छया मतिसंस्थितः। तथाऽयं सृजते धाता नानारूपाणि नान्यथा॥४० पश्चाद्विनाशमायान्ति येन केनापि हेतुना। [ति अलोका महापाज्ञा नाशमायान्ति ये च वै]॥ ४१ सर्वदेवें स्थिता ये च ये लोकाश्च सनातनाः । तेषां लज्जा प्रकर्तव्या न वर्तन्ते हि ते भुवि ॥ ४२ आकाशवायुतेजांसि पृथ्वी चाऽऽपश्च पञ्चमाः। अमी लोकाः प्रकाशन्ते ये च सर्वत्र संस्थिताः४३ सर्वत्रैव च वर्तन्ते कस्य लज्जा विधीयते । स्त्रीणां रूपं प्रवक्ष्यामि श्रूयतां तात सांप्रतम् ॥ ४४ यथा घटसहस्रेषु सोदकेषु विराजते । एकश्चन्द्रो हि सर्वत्र भवांस्तद्वद्विराजते ॥ गतो जन्तुसहस्रेषु मोहबद्धो महात्मवान् । स्थावरेपु च सर्वेषु जङ्गमेषु तथा भवान ॥ ४६ योनिद्वारेण पापेन मायामोहमयेन वै । कुचाभ्यामुच्छिताभ्यां च वयसा च विराजते ॥ ४७ त्वांसस्य तथा वृद्धिदृष्टा धात्रा न संशयः। पतनाय च लोकानां मोहरूपं विदर्शितम् ॥ ४८ न भवत्येव सा नारी या त्वया परिकीर्तिता। लीलया कुरुते धाता विनोदाय स आत्मनः ॥ ४९ यथा नार्यास्तथा पुंसो जीवः सर्वत्र संस्थितः । कुचयोनिविहीना ये जीवन्मुक्ताः सदैव हि ।। ५० नरस्तु पुरुषः प्रोक्तो नारी प्रकृतिरुच्यते । रमते तेन वै सार्धं न मुक्ता हि कदाचन ॥ ५१ भवान्प्रकृतिसंयुक्तः स्त्रीपुरुषेषु प्रदृश्यते । कः कस्य कुरुते लजामेवं ज्ञात्वा समं व्रज ॥ ५२ वृद्धा प्रियां प्रवक्ष्यामि सदा वृद्धा वरानने । जराजर्जरिता जाता यस्याप्यङ्गे वरानने ।। ५३ श्वेतैश्चैव तथा केशैः पलितेश्च समाकुला । बलहीनाऽथ दीनाऽपि व्यापिता बलिना तदा ॥ ५४ नेयं वृद्धा भवेन्नारी परं वृद्धा च कथ्यते । एतस्या लक्षणं प्रोक्तं युवती प्रवदाम्यहम् ॥ ५५
कि.ख च. छ. झ. पुस्तकस्थोऽयं पाटः । १क. ख. च.छ. निःसङ्ग वस्त्रहः। २ क.ख. च. 'नो जानान्यसत्पथम् । ३ क. ख. च. छ. 'म् । मनात्येव अकमदं नमस्थानं विलक्षितः । ४ क. स्त्र. च. छ. झ. 'न्ति कुलालस्य घटा इव । ते । ५ ग. 'वदहस्थि। ६ क. ख. च. छ. प्र. प्रकथ्यन्ते । ७ क ख. च. छ. झ. 'ते । हृन्मांम। ८ क. ख. च. छ. ज. झ. ट. द. स्त्रियं । ९ क. 'दा। एवं वृद्धा भवेत्रारी पर वृद्वा न क'। १० क.ख. घ ङ. च. छ. ट. ह. द. 'क्तं वृद्धा स्त्रियं व।
Page #139
--------------------------------------------------------------------------
________________
८ अष्टमोऽध्यायः ]
पद्मपुराणम् । ज्ञानेन वर्धते नित्यं जीवपार्थे समाधिना । सुमतिनीम या प्रोक्ता सो च वै युवती भवेत् ॥५६ नारी पुरुषलोकेषु सर्वेष्वेव प्रतिष्ठिता । लज्जा तस्याः प्रकर्तव्या चान्यच्चैव वदाम्यहम् ॥ ५७ मातरं च प्रवक्ष्यामि या त्वया परिकीर्तिता । प्राणिनामङ्गदेशेषु सदैव चेतना स्थिता ॥ ५८ परज्ञानप्रदा या च सा प्रज्ञा परिकथ्यते । प्रज्ञा माता समाख्याता प्राणिनां पालनाय सा॥५९ संस्थिता सर्वलोकेषु पोषणाय हिताय च । सुमतिर्नाम या पोक्ता सा माता परिकल्पते ॥ ६० संसारद्वारमार्गाणि यानि रूपाणि नित्यशः । भवन्ति मातरो ह्येता बहुदुःखप्रदर्शिकाः॥ मातृरूपं समाख्यातमन्यत्कि ते वदाम्यहम् ॥
आत्मोवाचभवान्को हि समायातो मम संतापनाशकः । विस्तरेण समाख्याहि स्वरूपमात्मनः स्वयम् ॥६२
वीतराग उवाचयस्मात्कामा निवर्तन्त वीतरागः स कथ्यते । शुद्धो यत्नात्मपश्येत्तु कर्माण्येतानि चान्यथा॥६३ यत्ममीपं हि नाऽऽयान्ति ह्याशाश्चैव कदाचन । [*क्रोधो लोभस्तथा मोहो यद्भयात्पलयं गताः]॥ वीतरागोऽस्मि भद्रं ते विवको मम वान्धवः ।।
६४ आत्मोवाचकीदृशोऽसौ तव भ्राता विवेको नाम नामनः । तस्यैव लक्षणं बेहि भ्रातुरात्मन एव च ॥ ६५
वीतराग उवाचतस्यैव लक्षणं रूपं न वदामि तवाग्रतः । भ्रातुस्तस्य महाभाग आदानं च करोम्यहम् ॥ ६६ भो भो विवेक मे भ्रातरावयांस्त्वं वचः शृणु । एह्यहि सुमहाभाग मम स्नेहान्महामते ॥ ६७
कश्यप उवाचशान्तिक्षमाभ्यां संयुक्तो भायाभ्यां च समागतः । सर्वहक्सर्वगो व्यापी सर्वसत्त्वपरायणः ६८ संदेहानां च सर्वेषां यो रिपुज्ञानवत्सलः । धारणा धीश्च द्वे पुत्र्यो तम्यैव हि महात्मनः ॥ ६९ तस्य योगः सुनो ज्येष्ठा मोक्षा यस्य महागुरुः। निर्मला निरहंकारां निराशो निष्परिग्रहः ॥ ७० सर्ववलाप्रसन्नात्मा गतद्वंद्वी महामनिः । स विवेकः समायाना गुणरत्नविभूषितः॥ ७१ यस्यामान्यो महात्मानौ सत्यधर्मा महामती । क्षमाशान्तिसमायुक्तः स विवेकः समागतः ॥७२ वीतरागमुवाचेदमाहृतोऽहं समागतः । तद्धातः कारणं मर्व कथ्यतां हि ममाग्रतः ॥ यमाश्रित्य त्वयाऽद्यैव कृतमाहानमेव मे ।।
वीतराग उवाचपुमान्स्थितोऽयं पुरतो महापार्शनियत्रितः । मोहस्य दारुणतः संसारस्य च बन्धनैः ॥ ७४ सर्वस्य व्यापकः स्वामी ह्ययमात्मा ममैव च । पञ्चतत्त्वः समाविष्टो ज्ञानध्यानविवर्जितः ॥ ७५ पृच्छतामेनमात्मानं भवांस्तत्त्वेषु पण्डितः । वीतरागवचः श्रुत्वा विवेको वाक्यमब्रवीत् ॥ ७६
ड. ज. दृपुस्तकम्थाऽय पाठः ।।
१ क. ख. च. छ. झ.. समाश्रिता । छ. ज. ट.द. समास्थिता । २ क. ख. ग. हु. च. छ. ज. झड. ढ. सा वृद्धा यु। ३ क. ख. च. . झ. सर्वदेव । क. ख. ड. च. छ. झ. अ. ह. द. कथ्यते । ५. नैव । ६ ग. घ. ज. ड. 'न्ते निराशाः सर्व एव ते । सदोषत्वान्न पश्यन्ति क। ७ क. ख. ग. घ. इ. च. छ. ज. स. ट. ड. ढ. 'र्वतत्त्व। ८२. निर्ममो । ९ क. ख. च. छ. ड. वेत्ता प्रा १० क. स. ग. घ. ड. च. छ. झ. ज. ट. ड. ढ. विष्टः प्रधानाभ्यां वि।
Page #140
--------------------------------------------------------------------------
________________
महामुनिश्रीभ्यासपणीतं
[ २ भामखण्डेविवेक उवाचमुखेन स्थीयते देव भवता विश्वनायक । आगते त्वयि संसारे किं किं भुक्तं सुखं शुभम् ॥७७
__ आत्मोवाचगर्भवासे महदुःखं प्रभुक्तं दारुणं मया। [*भुक्तमेव महाप्राज्ञ ज्ञानहीनेन वै सदा]॥ ७८ देहेऽपि ज्ञानविभ्रष्टो जातोऽहं लोकसंगतः । बाल्ये चाज्ञानतस्तात कृत्याकृत्यं कृतं मया ॥ ७९ तारुण्ये च कृता क्रीडा भुक्ता भार्या अनेकशः। वार्धकं प्राप्य संतप्तः पुत्रशोकादिभिस्तथा॥८० भार्यादीनां वियोगेस्तु दग्धोऽस्म्यहमहनिशम् । दुःखेरनेकसंवर्णैः संतप्तोऽस्मि दिने दिने ॥ ८१ दिवा रात्रौ महापाज्ञ न विन्दामि सुख कचित् । एवं दुःखैः सुसंतप्तः किं करोमि महामते ॥८२ तमुपायं वदस्वैव सुखं विन्दामि येन वै । अस्मात्संसारजालौघान्मोचयाद्य सुवन्धनात् ॥ ८३
विवेक उवाचभवाञ्शुद्धोऽस्ति निद्वो ह्यपापोऽस्ति जगत्पते । वशं गच्छ महात्मानं वीतरागं सुखपदम् ॥ ८४ निःसंशयं त्वया दृष्टं नग्नमाचारवजितम् । सुखप्रदर्शको ह्येष सर्वसंतापनाशकः ॥ ८५ एवमाकर्ण्य शुद्धात्मा वीतरागं गतः पुनः। तमुवाच सुसंदीनः श्रूयतां वचनं मम ॥ ८६ सुखं विन्दामि येनाहं तं मार्ग मम दर्शय । एवमस्तु महाप्राज्ञ करिष्ये वचनं तव ॥ पुनर्गच्छ विवेकं हि सुखवार्ता कृता त्वया । सुखमार्गस्य वै वक्ता तव एष भविष्यति ॥ ८८ [+वीतरागेण पुण्यन प्रेषिती गतवान्प्रभुः । तमुवाच महात्मानं विवेकं शुद्धसत्तमम् ॥ ८९ सुखं मे दर्शय त्वं हि वीतरागेण प्रेषितः । भवच्छरणमापन्नो रक्ष संसारदारुगात ॥ ९०
विवेक उवाचज्ञानं गच्छ महाप्राज्ञ स ते सर्व वदिष्यति । आत्मा तथोक्तः संप्राप्तो यत्र ज्ञानं प्रतिष्ठितम् ९१ भो भो ज्ञान महातेजः सर्वभावप्रदर्शक । शरणं त्वामहं प्राप्तः सुखं मागे प्रदर्शय ॥ ९२
ज्ञानमुवाचभृत्योऽहं तव लोकेश त्वं मां वत्स न सुव्रत । मया ध्यानेन वै पूर्व वारितस्त्वं पुनः पुनः ९३ पश्चात्मकानां सङ्गेन चाऽऽपदं प्राप्तवान्भवान् । ध्यानं गच्छ महापाज्ञ स त दाता सुखस्य च ९४ ज्ञानेन प्रेषितो ह्यात्मा ध्यानमाश्रित्य संस्थितः । मुखमत्यन्तसिद्धं च ध्यान में दर्शयस्व ह ॥ भवच्छरणमायातं मामेवं परिरक्षय ॥ एवं संभाषितं तस्य ध्यानमाकर्ण्य तद्वचः । समुवाच पुनश्चापि तमात्मानं स मित्रवत् ॥ ९६ नैव त्याज्योऽस्म्यहं तात सर्वकर्मसु संस्थितः । त्वयैव वीतरागेण विवकेन सदेव हि ॥ ९७ ध्यानयुक्तो भवस्व त्वमात्मानमवलोकय । आत्मवांस्त्वं स्थिरो भूत्वा निरातकोऽविकल्पितः९८ यथा दीपो निवातस्थः कजलं वमते स्थिरम् । तथा दोषान्मज्वलित्वा दर्शनं हि प्रयास्यसि९९ एकान्तस्थो निराहारो मिताशी भव सर्वदा। निद्वः शब्दसंहीनो निश्चलोपासने स्थितः ॥१००
* ड. छ. ज. अ. द. पुस्तकस्थोऽयं पाठः । + क. ख. ड. च. छ. झ. अ. ड पुस्तकस्थाऽयं पाठः । १क.ख. ग. इ. च. छ. ज झ. ट. ड ढ. 'हःखमसा दा।२ क. ख. च. छ. झ. 'संबन्धः सं ग. ड. "संबद्धैः सं। ३ क. ख. च. छ. झ. 'समृढ: कि । ४ क. ख. ङ. च. छ. छ. ड.ट. एवं । ग. घ. वनं । ५ क. ख. च. छ.स. निःसङ्गं यत्त्वया । ६ क. ख. ङ. च. छ. ज. स. ट. इ. ढ. 'नं प्रहृष्टवान् । ने। ७ क. ख. च. छ. श. ज्ञानयुक्तो। ८क. ख, ङ. च. छ. ज. स.ट. ड. द. निर्वाणं । ९ क.ख. च. छ. श. रोऽमता' । १०. सर्वसं हीनो ।
Page #141
--------------------------------------------------------------------------
________________
९ नवमोऽध्यायः]
पद्मपुराणम् । आत्मानमात्मना ध्यायन्मयैव स्थिरबुद्धिना। प्राप्स्यसे परमं स्थानं तद्विष्णोः परमं पदम् ॥१०१
इति श्रीमहापुराणे पाझे भूमिखण्डेऽध्यात्मकथनं नामाष्टमोऽध्यायः ॥ ८॥
आदितः श्लोकानां समष्ट्यङ्काः-३६८३
अथ नवमोऽध्यायः।
60-002
कश्यप उवाचएवं संबोधितस्तत्र ह्यात्मा ध्यानादिकैस्तदा । मोक्तुकामः स तत्कार्य पश्चात्मकं सुबुद्धिमान्॥ १ निमित्तानि अपश्येत्तु प्रार्थितं न प्रयाति मः । विहाय कायं निर्लक्षं पतितं नैव पश्यति ॥ २ मदेव हितयोर्नास्ति संबन्धः प्राणदेहयोः । धनपुत्रकलत्रैश्च संबन्धः केन हेतुना ॥ ३ एवं ज्ञात्वा शमं गच्छ क्लैब्यं मा गच्छ सुप्रिये । अयमेव परं ब्रह्म ह्ययमेव सनातनः ॥ ४ अयमात्मस्वरूपण दैत्यदेवेषु संस्थितः । अयं ब्रह्मा ह्ययं रुद्रो ह्ययं विष्णुः सनातनः॥ ५ अयं सृजति विश्वानि ह्ययं पालयते प्रजाः । संहरत्येष धर्मात्मा धर्मरूपो जनार्दनः ॥ अनेनोत्पादिता देवा दानवाश्चैव सुपिये । देवाश्च धर्मसंयुक्ता धर्महीनाः सुतास्तव ॥ धर्मोऽयं माधवस्याङ्गं सर्वदेवैश्च पालितम् । धर्म च चिन्तयेदेवि धर्म चैव प्रपालयेत् ॥ तस्य विष्णुः स धमात्मा सर्वदेव प्रसादवान् । धर्मेण वर्तिता देवाः सत्येन तपसा किल । येषां विष्णुः प्रसन्नो वै धर्मस्तैरिह पालितः॥ ९ विष्णोः कोयमिदं धर्मः सत्यं हृदयमेव च। यस्तो पालयतं नित्यं तस्य विष्णुः प्रसीदति ॥१० दूषयेद्यः सत्यधर्मों पापमेव पालयेत् । तम्य विष्णुः प्रकुष्येत नाशयेदतिवीर्यवान् ॥ ११ वैष्णवैः पालितं धर्म तपःसत्येनसंस्थितैः । नेपां प्रमन्नो धर्मात्मा रक्षामेवं करोति च ॥ १२ तव पुत्रा दनोः पुत्राः सैहिकेयास्तथैव च । अधर्मेणापि पापेन वर्तिताः पापचेतसः॥ सूदिता वासुदेवेन ममरे चक्रपाणिना ।।। योऽसावात्मा मया प्रोक्तः पूर्वमेव तवाग्रतः । मोऽयं विष्णुर्न मंदेहो धर्मात्मा सर्वपालकः ॥१४ दैत्यकायेषु यः स्वस्थः पापमेव समास्थितेः । जनिवान्दानवान्दोवि स च क्रुद्धो महामतिः ॥१५ सवाद्याभ्यन्तरे भूत्वा तव पुत्रा निपातिताः । येन चोत्पादिता देवि तेनैव विनिपातिताः॥ १६ तेषां मोहो न कर्तव्यो भवत्या वचनं शृणु । पापेन वर्तते योऽसौ स एवं निधनं व्रजेत् ॥ १७ तस्मान्मोहं परित्यज्य संदा धर्म समाश्रय । एवमस्तु महाभाग करिष्ये वचनं तव ॥ १८ कश्यपं च मुनिश्रेष्ठमेवमाभाष्य दुःखिता । संबोधिता सा मुनिना दुःखं संत्यज्य संस्थिता ॥१९ इति श्रीमहापुराणे पाद्मे भूमिखण्डे देवासुरप्रकरणे दितिसंबोधनं नाम नवमोऽध्यायः ॥ ९ ॥
आदितः श्लोकानां समष्टयङ्काः-३७०२
१ क.ख. घ. च. छ. ज. झ. ड. द. 'पदयव प्राप्य तांस्तान्प्रया । २क. ख. च. छ. ज विहस्य । ३ क. ख. च. छ. झ. निर्लज । ४ क ख. च. छ. झ. सदा । ५ क. ख. च छ. झ. कायं परं ध । ६ क. ख. च. छ. . . समाचरेत् । ७क. ख. च छ. स. 'न् । देवश्च पा । ८ क. ख. ग. घ. च. छ.स. 'व्यापकः । ९ क. ख.च. छ.. ड. "तः । दृष्टवा । ग, घ..ढतः । पृष्टवा । ट. 'तः । स्पृष्टवा' । १० क. ख, ग, घ, च. छ. झ.ट. ड. सत्यं ।
Page #142
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डे
अथ दशमोऽध्यायः ।
ऋषय ऊचु:ततस्ते दानवाः सर्वे हिरण्यकशिपूत्तराः । युद्धभग्नास्तु किं कुर्युर्व्यवसायं महामते ॥ १ विस्तरेणापि नो बेहि तेषां वृत्तमनुत्तमम् । श्रोतुमिच्छामहे सर्वे त्वत्तो वै सांप्रतं द्विजाः ॥ २
सूत उवाचभग्ना रणात्तु ते सर्वे बलहीनास्तु वै तदा । गतदर्पाः सुदुःखार्ता दैत्यास्ते पितरं गताः॥ भक्त्या प्रणम्य ते सर्वे समूचुः कश्यपं तदा ॥
दानवा ऊचुःभवदीर्यात्समुत्पत्तिरस्माकं द्विजसत्तम । देवतानां महाभाग दानवानां तथैव च ॥ ४ वयं च दानवाः सर्वे बलवीर्यपराक्रमाः। उपायज्ञाः सुधीराश्च हृद्यमेन समन्विताः ॥ वयं तु बहवस्तात देवाः स्वल्पास्तथैव च । कथं जयन्ति ते सर्वे वयं भग्ना महाहवात् ॥ तत्कि वे कारणं तात बलतेजःसमन्विताः ॥ मत्तनागसहस्राणामेकैकस्य महामते । बलमस्ति च देत्यस्य नास्ति देवेष तादृशम् ॥ ७ जयश्च दृश्यते तात देवेवेव महाहवे । तत्सर्व कथयस्वैव संशयं छेत्तुमर्हसि ॥
कश्यप उवाचशृणुध्वं पुत्रकाः सर्वे यदस्यापि च कारणम् । यस्माद्धि देवास्ते सर्वे समरे जयिनोऽभवन् ॥ ९ बीजनिर्वापकस्तातो माता क्षेत्रमिदं सदा । धारणे पालने चैव पोषणेषु तथैव च ॥ १० किं कुर्याद्विषमार्थे तु पिता पुत्र च वै तथा । अत्र प्रधानं कर्मव जानीध्वं बुद्धिमाश्रिताः ॥ ११ द्विविधं कर्मसंबन्धं पापपुण्यसमुद्भवम् । सत्यमेवं समाश्रित्य क्रियते धर्म उत्तमः॥ तपोध्यानसमायुक्तं तारणाय हितं सुताः । पतनाय पातकं प्रोक्तं सर्वदेव न संशयः ॥ १३ बलेन परिवारेण चाऽऽभिजात्येन पुत्रकाः । पुण्यहीनस्य पुंसां वै तद्धलं विफलायते ॥ १४ उन्नता गिरिदुर्गेषु वृक्षाः सन्ति सुपुत्रकाः। पन्ति वानवगन समूलास्तु घना यथा ॥ १५ सत्यधमेविहीनास्ते तथा यान्ति यमक्षयम् । साधारणं प्राणिनां च धर्म एतत्सुपुत्रकाः।। १६ येन संतरते जन्तुरिह चैव परत्र वा । तद्युप्माभिः परित्यक्तं सत्यं धर्मममन्वितम् ॥ १७ अधर्ममाश्रितं पुत्रा युप्माभिः सत्यवर्जितः । सेत्यधर्मनपोभ्रष्टाः पतिता दुःखमागरे ॥ १८ देवाश्च सत्यसंपन्नाः श्रेयसा च समन्विताः । तपःशान्तिदीपंताः सुपुण्याः पापवर्जिताः॥ १९ यत्र सत्यं च धर्मश्च तपः पुण्यं तथैव च । यत्र विष्णुह पीकशा जयस्तत्र प्रदृश्यते ॥ २० तेषां सहायः संभूतो वासुदेवः सनातनः । तस्माजयन्ति ते देवाः मत्यधर्मसमन्विताः ॥ २१ सहायेन बलेनेव पौरुपेण तथैव च । भवन्तः किल वै पुत्रास्तपःसत्यविवर्जिताः ॥ २२ [*यस्य विष्णुः सहायश्च तपसश्च वलं तथा । तस्यैव च जयो दृष्ट इति धर्मविदो विदुः ॥ २३
* क. ख. च. छ. झ ट. ड. पुस्तकस्थोऽयं पाटः । १ क. ख. ग. ध. च. छ. झ. ट ट. द. त । २ क. ख. छ झ नेपामुद्यममुन। ३ क. ख. ग, घ, च. छ. झ. ट. ड. 'र्वे दांपत्यं धर्मसंमतम् । पुनः प्रोचमहात्मानी गुणधर्मार्थमयुती। दा । ४ क. ख. ग. घ. च. छ. झ. ट. ड. 'ताः । लक्षना. । ५ क. ख. च. छ. झ. ड. किं कर्तुं हि ममर्था सा पिता पुत्रस्य चव हि । अ । ६ अ. 'ताः । पातनापान । ७ क, ख. च. छ. झ. 'पुष्टकाः । ८ अ 'नास्तथा । ९ क. ख. छ. स. सत्पदाद्धित। १० क. ख. च. छ. तपसा ।
Page #143
--------------------------------------------------------------------------
________________
१० दशमोऽध्यायः ]
पद्मपुराणम् । यूयं धर्मविहीनास्तु तपासत्यविवर्जिताः] । ऐन्द्रं पदं बलेनैव प्राप्तवन्तश्च पूर्वतः ॥ २४ तपो विना महापाज्ञा धर्मेण यशसा विना । प्राप्याप्यन्द्रपदं पुत्रास्ततो भ्रष्टा भवन्ति हि ॥ तस्मायूयं प्रकुर्वन्तु तपः पुत्राः समन्विताः॥ अविरोधेन संयुक्ता ज्ञानध्यानसमन्विताः । वैरं चैवं न कर्तव्यं केशवेन समं कदा ॥ २६ एवंविधा यदा पुत्रा यूयं धन्या भविष्यथ । परां सिद्धिं तदा सर्वे प्रयास्यथ न संशयः ॥ २७ एवं संभापितास्ते तु कश्यपेन महात्मना । समाकर्ण्य पितुर्वाक्यं दानवास्ते महौजसः॥ २८ प्रणम्य कश्यपं भैकन्या समुत्थाय त्वरान्विताः । सुमनं चक्रिरे दैत्याः परस्परसमाहिताः ॥२९ हिरण्यकशिपू राजा तानुवाचाथ दानवान । तपश्चैव करिष्यामो दुष्करं सर्वदायकम् ॥ ३० हिरण्याक्षस्तदोवाच चरिष्ये दारुणं तपः। ततो वलेन त्रैलोक्यं ग्रहीष्ये नात्र संशयः ॥ ३१ रणे निर्जित्य गोविन्दं तमिमं पापचेतसम् । व्यापाद्य देवताः सर्वाः पदमैन्द्रं व्रजाम्यहम् ॥ ३२
बलिरुवाच--- एवं न युज्यते कर्तुं युप्माभिर्दिनिजेश्वगः । विष्णुना सह यद्वैरं तद्वैरं नाशकारणम् ॥ ३३ दानधर्मेस्तथा पुण्यैस्तपोभिर्यज्ञयाजनैः । नमाराध्य हुपीकेशं सुग्वं गच्छन्ति मानवाः ॥ ३४
हिरण्यकशिपुरुवाचअहमेवं न करिष्ये हरेगगधनं कर्दा । स्वभावं तु परित्यज्य शत्रुमेवा प्रचर्यते ॥ ३५ मरणादधिकं तत्र मानयन्ति हि पण्डिताः। विष्णोः सेवा न वे कार्या मया चान्यैश्च दानवैः३६ नमुवाच महात्मानं बलिः पितामहं पुनः । धर्मशास्त्र' यदृष्टं मुनिभिस्तत्ववेदिभिः॥ ३७ राजनीतियुतं मनं शत्रोश्चैव धमाधनम् । हीनमात्मानमाज्ञाय रिपुं तु वलिनं तथा ॥ ३८ तस्य पार्श्व प्रगन्यैव जयकालं प्रतीक्षयेत् । दीपच्छायां समाश्रित्य तमा वर्तेत वै तथा ॥ ३९ स्वहं दशागतं प्रेक्ष्य दीपस्यापि महावलम् । प्रकाशं याति बंगेन तमश्च वर्धते पुनः ॥ ४० तथा प्रसाधयेच्छउँ स्नेह निर्दिश्य तत्त्वतः । म्हं कृत्वा मुरः सार्ध धर्मभावेः सुरद्विपः॥ ४१ पूर्वमुक्तं मुमत्रं तु मुनिना कश्यपेन हि । तेन मत्रेण राजेन्द्र कुरु कार्य स्वमात्मवान् ॥ ४२ तस्य तद्वचनं श्रुत्वा प्राह दैत्यः प्रतापवान । पौत्र नवं करिष्येऽहं मानभङ्गं तमात्मनः ॥ ४३ अन्ये च दानवाः सर्व नमचुज्ञानपण्डिनम् । बलिनोक्तं च यत्पुण्यं देवतानां प्रियंकरम् ॥ ४४ शक्रमानकरं प्रोक्तं दानवानां भयंकरम् । करिष्यामी वयं सर्वे तप एव ह्यनुत्तमम् ॥ ४५ निर्जित्य तपसा देवान्ग्रहीयामः स्वकं पदम् । एवमामत्र्य ने सर्वे निराकृत्य वलिं तदा ॥ ४६ विष्णोः सार्धं महावैरं हृदि कृत्वा महासुराः । तपश्चक्रुस्ततः सर्वे गिरिदुर्गेषु सानुषु ॥ ४७ एवं ते दानवाः मर्वे त्यक्तरागाः सुनिश्चिताः । कामक्रोधविहीनाश्च निराहारा जितलमाः॥ ४८ इति श्रीमहापुराण पाद्म भमिखण्ड दैत्यतपश्चर्याप्रवृत्तिनाम दशमोऽध्यायः ॥ १० ॥
आदितः श्लोकानां समष्ट्यङ्काः-३७..
१क ख, च, छ. ज. झ, ट. ड. 'ना । बलदपंगण: पत्रान प्राप्यमन्द्रकं पदम् । त ।२क.ख. छ.प्र. ड.पण्या। ३ क. ख. ग. घ. च. छ. झ. ड. पुण्यं । ४ क. ख. च. छ. झ, तपोव । ५ क. ख. च. छ. घ. च्छन्तु दान । ६ क. ख. घ. च. छ. स.ट. ड. दा । स्वं मानं तु । ७ अ. प्रधानतः । ८ ज. च्छन्नः स्ने । ९ अ. पात्रे चैवं । १० म. तथाss. स्म । ११ क. ख.च. छ. . शत्रुमा। १२ क. ख. ग. घ. च. छ. झ. ट. ड. ढ. निराश्रिताः ।
Page #144
--------------------------------------------------------------------------
________________
१३८
महामुनिश्रीव्यासप्रणीतं - अथैकादशोऽध्यायः ।
[ २ भूमिखण्डे
ऋषय ऊचु:
सर्वज्ञेन त्वया प्रोक्तं दैत्यदानवसंगरम् । इदानीं श्रोतुमिच्छामः सुव्रतस्य महात्मनः । कस्य पुत्रो महाप्राज्ञः कस्य गोत्रसमुद्भवः । किं तपस्तस्य विमस्य कथमाराधितो हरिः ॥ सूत उवाच -
१
२
मया प्रज्ञाप्रभावेन पूर्वमेव यथाश्रुतम् । तथा विप्राः प्रवक्ष्यामि सुव्रतस्य महात्मनः ॥ चरितं पावनं दिव्यं वैष्णवं श्रेय आवहम् । भवतामग्रतः सर्व विष्णांश्चैव प्रसादतः ॥ पूर्वकल्पे महाभागाः सुक्षेत्रे पापनाशनं । रेवातीरे सुपुण्ये च तीर्थे वामनसंज्ञके ॥ कौशिकस्य कुले जातः सोमशर्मा द्विजोत्तमैः । स तु पुत्रविहीनस्तु बहुदुःखसमन्वितः ॥ दारिद्येण सुदुःखेन सर्वदेव प्रपीडितः । पुत्रेोपायं धनस्यापि दिवारात्रौ प्रचिन्तयेत् ॥ एकदा तु प्रिया तस्य सुमना नाम सुत्रता । भर्तारं चिन्तयोपेतमधोमुखपलक्षयत् ॥ समालोक्य तदा कान्तं तमुवाच यशस्विनी । दुःखजालैरसंख्यैस्तु तव चित्तं प्रधर्षितम् ।। व्यामोहेन प्रमूढोऽसि त्यज चिन्तां महामते । मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज ।। १० नास्ति चिन्तासमं दुःखं कायशोषणमंत्र हि । यस्तां संत्यज्य वर्तेत स सुखेन प्रमोदते ॥ ११ चिन्तायाः कारणं विम कथयस्व ममाग्रतः । प्रियावाक्यं समाकर्ण्य सोमशर्माऽब्रवीन्प्रयाम् ।। १२ सोमशर्मोवाच --
९.
इच्छया चिन्तनं भद्रे चिन्ता दुःखस्य कारणम् । तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम् ।। १३ न जाने केन पापेन धनहीनोऽस्मि सुत्रते । तथा पुत्रविहीनश्च तद्दुःखस्य कारणम् || १४ सुमनोवाच
४
6 ू
८
श्रूयतामभिधास्यामि सर्वसंदेहनाशकम् । स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम् ।।
२०
लोभः पापस्य बीजं हि मोहां मूलं च तस्य हि । असत्यं तस्य स्कन्धां वै माया शाखासुविस्तरः१६ दम्भकौटिल्यपत्राणि कुबुद्ध्या पुष्पितः सदा । नृशंसं तस्य सौगन्धं फलमज्ञानमेव च ।। १७ छद्मपाखण्डचौर्येर्ण्याः क्रूराः कृटाश्च पापिनः । पक्षिणी मोहवृक्षस्य मायाशाखा समाश्रिताः ।। १८ अज्ञानं यत्फलं तस्य रसोऽधर्मः प्रकीर्तितः । भावोदकेन संवृद्धिस्तस्याश्रद्धा ऋतुः प्रिय ।। १९ अधर्मः सुरसस्तस्य चोत्कटैर्मधुरायते । यादृशैश्च फलैश्चैव सुफको लोभपादपः ।। तस्य च्छायां समाश्रित्य यो नरः परितुष्यते । फलानि तस्य चाश्नाति सुपकानि दिने दिने ।। २१ फलानां तु रसेनापि ह्यधर्मेण तु पालितः । स संतुष्टां भवेन्मर्त्यः पतनायाभिगच्छति ।। २२ तस्माश्चिन्तां परित्यज्य पुमालोभं न कारयेत् । धनपुत्रकलत्राणां चिन्तामेव न कारयेत् ॥ २३ यो हि विद्वान्भवेत्कान्त मूर्खाणां पथमति हि । सुभार्यामिह विन्दामि कथं पुत्रानहं लभे ।। २४ एवं चिन्तयते नित्यं दिवारात्रौ विमाहितः । क्षणमेकं प्रपश्येत चिन्तामध्ये महत्सुखम् ॥ पुनश्चैतन्यमायाति महादुःखन पीड्यते । चिन्तामोहौ परित्यज्य ह्यनुवर्तस्व च द्विज ।। संसारे नास्ति संबन्धः केन सार्धं महामते ।।
२५
१५
२६
१ क. ख. च. छ. श. ड. चामरकण्टके । २ क. ख. च छ झ. मः । धन । ३ क. ख. ग. घ. इ. च. छ. ज. अ. ट. ड, ढ, अनृतं ।
Page #145
--------------------------------------------------------------------------
________________
१२ द्वादशोऽध्यायः ]
पद्मपुराणम् । मित्राणि बान्धवाः पुत्राः पितृमातृसभृत्यकाः । संबन्धिनो भवन्त्येते कलत्राणि तथैव च ॥ २७
सोमशर्मोवाचसंबन्धः कीदृशो भद्रे मम विस्तरतो वद । येन संबन्धिनः सर्वे धनपुत्राप्तवान्धवाः॥ २८
समनोवाचऋणसंबन्धिनः केचित्केचिन्यासापहारकाः । भेदैश्चतुर्भिर्जायन्ते पुत्रमित्राः स्त्रियस्तथा ॥ २९ भार्या पिता च माता च भृत्याः स्वजनबान्धवाः । स्वेन स्वेन हि जायन्ते संबन्धेन महीतले ३० न्यासापहारो भावेन यस्य येन कृतं भुवि । न्यामस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि ॥ ३१ यनवापहृतं ह्यतत्तस्य देहे न संशयः । न्यासापहरणाहुःवं स दत्त्वा दारुणं गतः ॥ ३२ न्यासम्बामी स पुत्रोऽभन्न्यासापहारकस्य च । गुणवानरूपश्चैिव सर्वलक्षणसंयुतः ॥ १३ भक्तिं च दशयेत्तस्य पुत्रो भूत्वा दिने दिने । प्रियवान्मधुरो वाग्ग्मी बहुस्नेहं विदर्शयन् ॥ ३४ स्वीयं द्रव्यं समुद्गृह्य प्रीतिमुत्पाद्य चोत्तमाम् । यथा येन प्रदत्तं स्यान्यासस्य हरणात्पुरा ३५ दुःश्वमेव महाभाग दारुणं [*पाणनाशनम् । नादृशं नस्य सौहृयान्पुत्रो भूत्वा महागुणैः ॥ ३६ अल्पायुषस्तथा भ(त्वा) मरणं चोपगच्छति। दुःग्यं दत्त्वा प्रयात्येव भूत्वा भूत्वा पुनः पुनः ३७ यदाह पुत्र पुत्रेति प्रसादं हि करोति मः । तदा हास्यं करोत्येव कस्य पुत्रो हि कश्वन ॥ ३८ अनेनापहृतं न्यासं मदीयं पापचारिणा । द्रव्यापहरणेनापि मम प्राणा गताः किल ॥ ३९ दुःखेन महता चव ह्यसद्येन च वै पुग । तथा दुःग्वमहं दवा द्रव्यमुद्गृह्य उत्तमम् ॥ गन्तास्मि सुभृशं चाद्य कस्याहं मुत इदृशः ।। न चैप मे पिता पुत्रः पूर्वमेव न कस्यचित् । पिशाचत्वं मया दत्तमस्यवेति दुरात्मनः ॥ ४१ एवमुक्त्वा प्रयात्यव तं प्रहस्य पुनः पुनः । प्रयान्यनेन मार्गेण दुःखं दत्त्वा सुदारुणम् ॥ ४२ एवं न्यासं समद्धत पुत्राः कान्न भवन्ति वै । संसार दुःखबहुला दृश्यन्ते यत्र तत्र च ॥ ४३ ऋणसंबन्धिनः पुत्रान्प्रवक्ष्यामि तवाग्रतः ॥
इति श्रीमहापुराणे पाद्म भूमिग्वण्डे गुब्रताप ..यान एकादशोऽध्यायः ॥ ११ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३७९४
अथ द्वादशोऽध्याय.
सुमनोवाचऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल । अर्थदाता सुनी भन्वा भ्राता चाथ पिता प्रिया १ मित्ररूपेण वर्तेत ह्यतिदुष्टः मदेव सः । गुणं नैव प्रपश्येत स क्रूरी निष्ठुराकृतिः ॥ जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च । मिष्टं मिष्टं समश्नाति भोगान्भुनक्ति नित्यशः॥ द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः । गृहद्रव्यं वलामृत वार्यमाणः स कुप्यति ॥ ४ पितरं मातरं चैव कुत्सते च दिने दिने । द्रावकस्वासकश्चैव बहुनिष्ठुरजल्पकः ॥
* क, ख, ग, घ.च.छ. झ. ड. पुस्तकस्थोऽयं पाठः ।
१ट. च---प्राण। द. च-प्राणिसं। २ अ. कृती। ३ क. ख. च. छ. झ. ड. प्रलापं । ४ क. ख. च. छ. स. ड. चव मे पिता पर्वमद्यैव हि न कस्य च । पि। ५ अ. प्रिय ।
Page #146
--------------------------------------------------------------------------
________________
१४० महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवं भुक्त्वाऽथ तद्रव्यं सुखेन संप्रतिष्ठति । जातकर्मादिभिर्वाल्यैव्यं गृह्णाति दारुणः॥ पुनर्विवाहसंबन्धानानाभेदैरनेकधा ॥ एवं संजायते द्रव्यमेवमेतद्ददात्यपि । गृहक्षेत्रादिकं सर्व ममैव हि न संशयः॥ पितरं मातरं चैव हिनस्त्येव दिने दिने । सुदण्डेर्मुसलैश्चैव सर्वघातैस्तु दारुणैः ॥ मृते तु तस्मिन्पितरि मातर्येवातिनिठुरः । निःन हो निष्ठुरश्चैव जायते नात्र संशयः ।। श्राद्धकर्माणि [*दानानि न करोनि कदैव सः। एवंविधाश्च वै पुत्राः प्रभवन्ति महीतले ।। १० रिपुं पुत्रं प्रवक्ष्यामि] नवाग्रे द्विजपुङ्गव । बाल्य वयसि संप्राप्त रिपुन्वे वर्तन सदा ॥ ११ पितरं मातरं चैव क्रीडमानो हि ताडयत् । ताडयित्वा प्रयात्येव प्रहस्यैव पुनः पुनः १२ पुनरायाति संत्रस्तः पितरं मातरं प्रति । सक्रांधी वर्धत निन्यं वरकर्मणि सर्वदा ॥ पितरं मारयित्वा च मातरं च ततः पुनः । प्रयात्येवं सुदुष्टात्मा पूर्ववरानुभावतः ॥ १४ अथातः संप्रवक्ष्यामि यस्माल्लभ्यं भवेत्प्रियम् । मातरं च प्रियं कुयाद्राल्य लालनमाननेः ॥ १५ वयः प्राप्य प्रियं कुर्यान्मातापित्रोरनन्तरम् । भक्त्या संतापयेन्नित्यं तावुभी परितोषयेत् ॥ १६ स्नेहेन वचसा चैव पियसंभाषणेन च । मृते गुरौ माज्ञाय नहेन रुदते पुनः॥ १७ श्राद्धकर्माणि सर्वाणि पिण्डदानादिका क्रियाम् । करोत्येव सुदुःस्वार्तस्तेभ्यो यात्रां प्रयच्छति।। ऋणत्रयान्वितः स्नेहाञ्जापयति नित्यशः । यस्माल्लभ्यं भवत्कान्त प्रयच्छति न संशयः।। १९ पुत्रो भूत्वा महापाज्ञ अनेन विधिना किल । उदासीनं प्रवक्ष्यामि नवाग्रे प्रिय सांप्रतम् ।। २० उदासीनेन भावेन सदेव परिवर्तते । ददाति नंव गृह्णाति न च कुप्यति तुप्यति ॥ २१ नो वा ददाति संत्यज्य [दासीनो द्विजोत्तम । नवाग्रे कथितं सर्व पुत्राणां गतिरीदृशी ॥ २२ यथा पुत्रास्तथा भार्या पिता माताऽथ बान्धवाः। भृत्याश्चान्य समाख्याताः पशवस्तुरगास्तथा ॥२३ गजा महिप्यो दासाश्च ऋणसंबन्धिनस्त्वमी । गृहीतं न ऋणं तेन आवाभ्यां तु न कस्यचित् ॥२४ न्यासश्चैव न कस्यापि हृतो वै पूर्वजन्मनि । धाग्यावा न कस्यापि ऋणं कान्त शृणुप्व हि ॥२५ न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् । आवाभ्यां हि न विपन्द्र गृहीतं कस्यचित्पते ॥ २६ एवं ज्ञात्वा शमं गच्छ त्यज चिन्तामर्थिकाम् । कस्य पुत्राः प्रिया भार्याः कस्य स्वजनवान्धवाः २७ हृतं न चैव कस्यापि नैव दत्तं त्वया पुनः । कथं हि धनमायाति विस्मयं व्रज मा धव ।। २८ प्राप्तव्यमेव यस्यैव भवेद्रव्यं द्विजोत्तम । अनायासन हस्तेन तस्यैव परिजायते ॥ २० यत्नेन महता चैतद्रव्यं रक्षति मानवः । व्रजमान बजत्यवं तं विना हि न तिष्ठति ॥ ३० एवं ज्ञात्वा शमं गच्छ जहि चिन्तामनथिंकाम् । महामोहन संमृढा मानवाः पापचंतसः ॥ ३१ इदं गृहमयं पुत्र इमा नार्यो ममव हि । अनृतं दृश्यते कान्त संसारस्य हि बन्धनम् ॥ ३२ एवं संबोधितो देव्या भार्यया प्रियया तदा । पुनः प्राह प्रियां भार्या सुहितां ज्ञानवादिनीम्॥३३
सोमशर्मोवाचसत्यमुक्तं त्वया भद्रे सर्वसंदेहनाशनम् । तथाऽपि वंशमिच्छन्ति साधवः सत्यपण्डिताः ।। ३४ यथा पुत्रस्य मे चिन्ता धनस्य च तथा प्रिये । येन केनाप्युपायेन पुत्रमुत्पादयाम्यहम् ॥ ३५
क. ख. ग. घ. च. छ. झ. ड. पुस्तकस्योऽय पाटः । १.म् । जातमात्रः प्रि । २ क.ख. च. छ. झ. 'नक्रीडनैः। ३ ज. ट.ड, ढ, 'न्द्र न त्यक्तं हि तथा पते । ४ छ. 'व रक्षितं हि । ज. 'वं त्रिदेनं हि ।
Page #147
--------------------------------------------------------------------------
________________
१४१
१२ द्वादशोऽध्यायः]
पद्मपुराणम् । सुमनोवाचपुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम् । सत्पुत्रेण महाभाग पिता माता च जन्तवः ॥ ३६ एकः पुत्रो वरं विद्वान्बहुभिर्निर्गुणैस्तु किम् । एकस्तारयते वंशमन्ये संतापकारकाः॥ ३७ पूर्वमेव मया प्रोक्तमन्ये संवन्धंगामिनः । पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम् ॥ ३८ सुगर्भ: प्राप्यते पुण्यस्तस्मात्पुण्यं समाचर । जातस्य मृत्युरेवास्ति जन्म एव मृतस्य च ॥ ३९ मजन्म प्राप्यते पुण्यैमरणं तु तथैव च । सुखानां निचयः कान्त भुज्यते पुण्यकर्मभिः ॥ ४०
सोमशर्मावाचपुण्यम्याऽऽचरणं ब्रूहि तथा जन्मान्यपि प्रिये । सुपुण्यः कीदृशो भद्रे वद पुण्यस्य लक्षणम्॥४१
सुमनोवाचआठौ पुण्यं प्रवक्ष्यामि यथा पूर्व श्रुतं मया । पुरुषो वाऽथ वा नारी यथा नित्यं च वर्तते ॥४२ यथा पुण्यैः समामोनि कीनि पुत्राधियां धनम् । पुण्यम्य लक्षणं कान्त सैर्वमेव वदाम्यहम्॥४३ ब्रह्मचर्येण तपसा मग्वपञ्चकवर्ननः । दानेन नियमैश्वापि क्षमाशोचेन वल्लभ ॥ ४४ अहिंसया सुशक्त्या च यस्तेयेनापि वननेः । एतेदेशभिरङ्गैस्तु धर्ममेव प्रपूरयेत् ॥ ४५ संपूर्णो जायने धर्मो ग्रामोंगो यथोढरे । धर्म मृजति धर्मान्मा त्रिविधनैव कर्मणा ॥ ४६ तस्य धर्मः प्रसन्नात्या पुण्यमेवं तु प्रापयन् । यं यं चिन्तयने प्राशस्तं तं पामोति दुर्लभम् ॥ ४७
सोमशर्मोवाच-- कीदृशी धर्ममूर्तिः स्यान्कान्यङ्गानि च भामिनि । प्रीत्या कथय में कान्ते श्रीतुं श्रद्धा प्रवर्तते ॥४८
सुमनांवाचलोके धर्मस्य वै मूर्तिः कैदृष्टा न द्विजोत्तम । अदृश्यवमा मन्यात्मा न दृष्टो देवदानवैः ॥ ४९ अत्रिवंशसमुत्पन्ना योऽनसयान्मजा द्विज । नेन दृष्टः स वै धर्मो दत्तात्रयेण वै सदा ॥ ५० द्वावेता तु महात्माना कुर्वाणी तप उत्तमम् । धर्मण वर्तमानौ नौ तपमा च बलेन च ॥ ५१ इंन्दाधिकेन रूपेण प्रशस्तेन भविप्यतः । [*दशवपसहमं तु यावत्ता वनमंस्थितौ ॥ ५२ वायुभा निराहारी मंजानो शुभदर्शनी ] । दशवर्षसहस्रं तु तावत्कालं तपोऽजितम् ॥ ५३ सुसाध्यमानयोश्चैव तत्र धर्मः प्रदृश्यते । पञ्चाग्निः साध्यते द्वाभ्यां तावत्कालं द्विजोत्तम ॥ ५४ त्रिकालं संस्थिती तावनिगहारव्रतं नथा । जलमध्ये स्थिती तावदत्तात्रेयो यतिस्तथा ॥ ५५ दुवासास्तु मुनिश्रेष्ठस्तपमा चव कर्षितः । धर्म प्रति स धर्मात्मा चुक्रोध मुनिपुङ्गवः ॥ ५६ क्रुद्ध सति महाभाग तस्मिन्मुनिवरे नदा । अथ धमः समायातः स्वरूपेण द्विजोत्तमः ॥ ५७ ब्रह्मचर्यादिभिर्युक्तस्तपोभिश्च स बुद्धिमान । सत्यं ब्राह्मणरूपेण ब्रह्मचर्य तथैव च ॥ ५८ तपस्तु द्विजवर्योऽस्ति दमः माज्ञा द्विजोत्तमः । ['नियमस्तु महाप्राज्ञो दानमेव तथैव च ॥ ५९ अग्निहोत्रिस्वरूपेण ह्यात्रेयं हि समागतः । क्षमा शान्तिस्तथा लजा चाहिंसा च ह्यकल्पना ॥६०
* क. ख. च. छ. झ पुस्तकस्योऽय पाठः । क. व. च. ल झ ट. पुस्तकोऽयं पाटः । १ क. ख. ग. च छ श. द. र कान्त बह ।२ क ख ग घ च. छ. झ.ट. इ.न्धमागिनः । ३ क.ख. ग. घ. च. ह. झ. द. मन्यमे । ट. शणुष्वव । ४ ग घ ट. 'मा मुखं नित्यं प्रवर्तते । दा। ५ क. ख. च. छ. स. ह. इदानीं केन रूपेण प्रसन्नी वैभ। ६ कख, च. छ. झ. तयांगत । ७ क. ख. च. छ. स. इ. 'वंदेवं लक्षं गतं तयोः । । ८ क. ख. च. छ. झ. ट 'दिभिः सवर के युक्तम ।
Page #148
--------------------------------------------------------------------------
________________
१४२ महामुनिश्रीव्यासप्रणीतं
[१ भूमिखण्डेएताः सर्वाः समायाता स्त्रीरूपास्तु द्विजोत्तम]।बुद्धिः प्रज्ञा दया श्रद्धा मेधासत्कृतिशान्तयः॥६१ पश्चामयस्तथा पुण्याः साङ्गा वेदास्तु ते तदा । स्वस्वरूपधराश्चैते सर्वे सिद्धिं समागताः ॥ ६२ अग्न्याधानादयः पुण्या अश्वमेधादयस्तथा । रूपलावण्यसंयुक्ताः सर्वाभरणभूषिताः ॥ ६३ दिव्यमालाम्बरधरा दिव्यगन्धानुलेपनाः । किरीटकुण्डलोपेता दिव्याभरणभूषिताः ॥ दीप्तिमन्तः स्वरूपास्ते तेजोज्वालाभिरावृताः । एवं धर्मः समायातः परिवारसमन्वितः । यत्र तिष्ठति दुर्वासाः क्रोधनः कालवत्तथा ॥ ६५
धर्म उवाचकस्मात्कोपः कृतो विप्र भवांस्तपःसमन्वितः । क्रोधो हि नाशयच्छ्रेयस्तप एव न संशयः॥ ६६ सर्वनाशकरं तस्मात्क्रोधं तपसि वर्जयेत् । स्वस्था भव द्विज श्रेष्ठ उत्कृष्टं तपसः फलम् ॥ ६७
दुर्वासा उवाचभवान्को हि समायात एतैर्द्विजवरैः सह । एता नार्यः प्रतिष्ठन्ति सुरूपाः समलंकृताः ॥ कथयस्व ममाग्रे त्वं विस्तरण महामते ।।
धर्म उवाच-~अयं ब्राह्मणरूपेण सर्वतेज समन्वितः । दण्डहस्तः सुप्रसन्नः कमण्डलुधरस्तथा ॥ ६९ तवाग्रे ब्रह्मचर्याख्यः सोऽयं पश्य समागतः। अन्यं पश्य त्वमेवं च दीप्तिमन्तं द्विजोत्तमम् ॥७० कपिलं पिङ्गलाक्षं च सत्यमेनं द्विजोत्तम । तादृशं पश्य धर्मात्मन्वश्वदेवसमप्रभम् ॥ ७१ यत्तपो हि त्वया विष सर्वदेव समाश्रितम् । एनं पश्य महाभाग तव पार्श्व समागतम् ॥ ७२ प्रसन्नवाग्दीप्तियुक्तः सर्वजीवदयापरः । दम एव तथाऽऽयातो यः पोषयति सर्वदा ॥ ७३ जटिलः कर्कशः पिङ्गो ह्यतितीव्री महाप्रभुः । नाशको हि स पापानां खड़हस्ता द्विजोत्तमः ।।७४ [दम एष समायातः पश्य पश्य द्विजोत्तमः । अभिशान्ता महापुण्या नित्यक्रियासमन्वितः॥७५ नियमस्तु समायातस्तव पार्वे द्विजोत्तमः । अनिशुक्लां महादीप्तः शुद्धस्फटिकसंनिभः ॥ ७६ पयःकमण्डलुकरो दन्तकाष्ठधरो द्विजः । शाच एप समायाता भवतः संनिधाविह ॥ ७७ अतिसाध्वी महाभागा सत्यभूपणभूपिता । सर्वाभग्णाभाङ्गी शुश्रृपयं समागता ॥ अतिधीरा प्रमन्नाङ्गी गौरी प्रहसितानना । पद्महस्ता इयं धात्री पद्मनेत्रा सुपद्मिनी ॥ दिव्यैराभरणैर्युक्ता क्षमा प्राप्ता द्विजोत्तम । अनिशान्ता सुप्रतिष्ठा बहुमङ्गलसंयुताः ।। दिव्यरत्न कृताशोभा दिव्याभरणभूषिता । तव शान्तिर्महाप्राज्ञ ज्ञानरूपा समागता ।। परोपकार करणा बहुसत्यसमाकुला । मितभापा सदवासी प्रशंयं ते समागता ॥ प्रसन्ना सा क्षमायुक्ता संवाभरणभूपणा । पद्मासना सुरूपा सा श्यामवर्णा यशस्विनी ।। ८३ ['अहिंसेयं महाभागा भवन्तं तु समागता । तप्तकाश्चनवर्णाङ्गी रक्ताम्बरविलासिनी] ॥ ८४
७९
* झट. पुस्तकम्थाऽय पाट: । क ख. च. छ. झ, इ. पस्नकस्थाऽय पाट: ।
१ क. ख. च. छ. झ.ट. "दा। नवं रूप परास्नत्र धर्म साध स । २ क. च छ.झ. 'ताः । सुभगा नाम पुण्यात्मा । सभावो नाम पुण्यात्मा । अ। ३. घ. ह.ट. माल्याम्ब । ४ क. ख ग घ. द. च. छ. ज झ.ट. १.१. सप्त। ५ ज. दान । ६ क. ख. च. छ. झ. वहिनः । झ. जस्ट: । ७ घ. छ. ज. झ. आतशा । ८ ग. घ. छ. ज. ट. झ ६. 'कर इन्द्रका । ९ क. ख. ग. घ. उ. च. छ. ज. झ. ट. वासावकल्का ते। १० क. ख. च. छ. झ. श्वेताभरणभूषिता । ११च. पद्मानना।
Page #149
--------------------------------------------------------------------------
________________
९२
१२ द्वादशोऽध्यायः ]
पद्मपुराणम् । सप्रसन्ना सुमत्रा च यत्र तत्र न पश्यति । ज्ञानभावसमाक्रान्ता पुण्यहस्ता तपस्विनी ॥
*मुक्ताभरणशोभाढ्या निर्मला चारुहासिनी॥ इयं श्रद्धा महाभाग पश्य पश्य समागता । बहुबुद्धिसमाक्रान्ता बहुज्ञानसमाकुला ॥ ८६ सभोगा सक्तरूपा सा सुस्थिता चारुमङ्गला । मर्वावध्यानसंयुक्ता लोकमाता यशखिनी ॥ ८७ सर्वाभरणशोभाव्या पीनश्रोणिपयोधरा । गौरवर्णा समायाता नीलवस्त्रविभूषणा ॥ ८८ इयं मेधा महाप्राज्ञ तवैव परिसंस्थिता । हंसचन्द्रप्रतीकाशा मुक्ताहारविलम्बिनी ॥ ८९ मर्वावरणसभूषा सुप्रसन्ना मनस्विनी । श्वेतवस्त्रंण मंवीता शतपत्रं करे कृतम् ॥ पुस्तकाक्षं करे यस्या राजमानं सदेव हि । [+ एपा प्रज्ञा महाभागा भाग्यवन्तं समागता ॥९१ लाक्षारससमामर्णा सुप्रसन्ना सदैव हि ] । पीनपुष्पकृतामाला हारकेयरभूषणा ॥ मुद्रिकाकङ्कणोपेता रत्नकुण्डलमण्डिना । पीतेन वाससा देवी सदैव परिराजते । ९३ त्रैलोक्यस्योपकाराय पोषर्णायाद्वितीयका । यस्याः शीलं द्विजश्रेष्ठ सदेव परिकीर्तितम् ॥ ९४ सेयं दया सुसंप्राप्ता तव पार्थ द्विजोत्तम । इयं वृद्धा महाप्राज्ञा भावभार्या तपस्विनी ।। ९५ मम माना द्विजश्रेष्ठ धर्मोऽहं तव सुवन । इति ज्ञान्या समं गच्छ मामेवं परिपालय ॥ ९६
दुर्वासा उवाचयदि धर्मः समायानो मन्समीपं तु मांप्रतम् । एतन्मे कारणं हि किं ने धर्म करोम्यहम् ॥ ९७
धर्म उवाचकस्मात्क्रुद्धोऽसि विप्रेन्द्र किमतविप्रियं कृतम् । तन्मे त्वं कारगं वहि दुर्वा सो यदि मन्यसे ॥९८
दुर्वासा उवाच--- येनाहं कुपितो देव तदिदं कारणं ऋणु । दमीचः सुसंक शैः शोधितं कायमात्मनः॥ ९९ लक्षवर्षप्रमाणं वै तपश्चर्या मया कृता । एवं पश्यामि मामेव न दया ते प्रवर्तते ॥ १०० तस्मात्क्रुद्धोऽस्मि तेऽयेव शापत्रयं ददाम्यहम् । एवं ज्ञात्वा तदा धमस्तमुवाच महामतिः॥१०१
धर्म उवाचमयि नष्टे महाप्राज्ञ लोकां नाशं समेत्यति । दुःग्यमलमहं नात निकामि भृशं द्विज ॥ १०२ सोख्यं पश्चादहं दमि यदि सत्यं न मुञ्चति। [* उपायोऽयं सुग्वमूलस्य पुण्यं दुःखेन लभ्यते १०३ पुण्यमेवं प्रकुर्वाणः प्राणी प्राणान्विमुञ्चति । महन्सौग्व्यं ददामीह परत्र च न संशयः ॥ १०४
दुवासा उवाचमुखं येनाऽऽप्यते तेन परं दुःखं प्रपद्यते । तत्तु मर्त्यः परित्यज्य ह्यन्येनापि भुनक्ति च ।। १०५ [' तच्छ्यो नैव पश्यामि त्वन्यायं हि कृतं तव । येन कायेन क्रियने भुज्यने तेन तत्सुखम् ॥१०६ अन्येन क्रियते क्लेशमन्येनापि प्रभुज्यते । तन्मुखं को विजानाति चान्यायं धर्ममेव वा ॥ १०७ [* अन्येन क्रियते लेशमन्येनापि मुखं पुनः] । भुनक्ति पुरुषां धर्म तत्सर्व श्रेयसा युतम् ॥ १०८ ____ * क. ख. च. छ. झ. पुस्तकस्थोऽयं पाटः । + क. ग्व छ. झ. पुस्तकस्थोऽय पाटः । * क. ख ग. हु च. छ. झ.पुस्तकस्थोऽय पाट: । + क. ख. ग. ड. च. छ. ज. झ. द.पस्नकस्थोऽय पाठः । * क, ख, च. छ. पुस्तकस्थोऽयं पाठः।
१ क. स्व. च. 'नी । शक्लाम ।२ क. ख. ग. घ. १. च. छ. ज. झ. ट. ड. ढ. लजा। ३ क. ख. च. छ. स. यशस्विनी। ४ क. ख. च. छ. 'तपत्रेण । इ. तरूपेण । ५ अ. 'स्तकरा पङ्कजस्था रा। ६ क. ख. ग. घ. च. झ. ट. प, णाय हिताय च ।य। छ. 'णाय तथैव च । ७ क, ख. च. 'ति त्वां समगच्छाम मा'। ८ क. ख.च. छ. स. श्रुत्वा । ९ क. ख. च. छ. स. मुकाये नाऽऽयते नव परदुःख प्रमह्यते।
Page #150
--------------------------------------------------------------------------
________________
१४४ महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेपुण्यं चैव ह्यनेनापि ह्यनेन फलमश्नुते । प्रियं कृत्वा पुनः पुण्यमनेन परिभुज्यते ॥ १०९ तत्सर्व हि सुखं प्रोक्तं यत्तथा यस्य लक्षणम् । धर्मशास्त्रोदितं चैव कृतं सर्वत्र नान्यथा ॥ ११० येन कायेन कुर्वन्ति तेन दुःखं सहन्ति ते । परत्र तेन भुञ्जन्ति ह्यनेनापि तथैव वा ॥ इति ज्ञात्वा स धर्मात्मा भैवान्समवलोकयेत् ॥ यथा चौरा महापापाः स्वकायेन सहन्ति ते । दुःखं च दारुणं ती तथा सुखं कथं न हि ११२
धर्म उवाचयेन कायेन ये पापा आचरन्ति हि पातकम् । तेन पीडा सहन्त्येव पातकस्य हि तत्फलम् ११३ दण्डमेकं परं दृष्टं धर्मशास्त्रेषु पण्डितैः । तं धर्मपूर्वकं विद्धि ह्येतेार्यस्त्वमेव हि ॥ ११४
दुर्वासा उवाचएवं न्यायं न मन्येऽहं तथैव शृणु धर्मराद । शापत्रयं प्रदास्यामि क्रुद्धोऽहं तव नान्यथा ॥ ११५
धर्म उवाचयदा क्रुद्धो महाप्राज्ञ मामेव हि क्षमस्व च। [*नेव क्षमसि विमेन्द्र दासीपुत्रं हि मां कुरु।। ११६ राजानं तु न कर्तव्यं चाण्डालं च महामुने । प्रसादसुमुरवां विप्र प्रणतस्य सदैव हि ॥ दुर्वासाश्च ततः क्रुद्धो धर्म चैव शशाप ह ॥
दुवोसा उवाचराजा भव त्वं धर्माद्य दासीपुत्रश्च नान्यथा । गच्छ चाण्डालयांनि च धर्म त्वं स्वेछया ब्रज ११८ एवं शापत्रयं दत्त्वा गतोऽसो द्विजसत्तमः । अनेनापि प्रसङ्गन दृष्टो धर्मः पुरा किल ॥ ११०
सोमशर्मोवाच-- धर्मस्तु कीदृशो जातस्तेन शप्तो महात्मना । तद्भोगं तस्य में शूहि यदि जानासि भामिनि १२०
सुमनोवाच"" भरतानां कुले जातो धर्मो भूत्वा युधिष्ठिरः । विदुगे दासिपुत्रम्तु अन्यच्चैव वदाम्यहम् ।।१२१ यदा राजा हरिश्चन्द्रो विश्वामित्रेण कर्पितः । तदा चाण्डालता प्राप्तः स हि धर्मो महामतिः ॥ दुर्वाससो हि शापाद्वै सत्यमुक्तं तवाग्रतः ॥
इति श्रीमहापुराणे पाद्मे भूमिखण्डे मोमश सुमनामवाद द्वादशोऽध्याय ॥ १२ ॥
आदितः श्लोकानां समष्टयङ्काः-३५१६
अथ त्रयोदशोऽध्यायः ।
सोमशर्मोवाचलक्षणं ब्रह्मचर्यस्य तन्मे विस्तरतो वद । कीदृशं ब्रह्मचर्य च यदि जानासि भामिनि ॥ ?
सुमनोवाचनित्यं सत्ये रतिर्यस्य पुण्यात्मा सँछुतां व्रजेत् । ऋती प्राप्त व्रजेन्नारी स्वीयां दोपविवर्जितः॥२ स्वकुलस्य सदाचारं कदा नैव विमुश्चति । एतत्ते हि सामख्यातं गृहस्थस्य द्विजोत्तम ॥ ३
क. ख, ग, घ, च, झ, ट.द. पुस्तकस्थीऽयं पाटः ।
१ अ. ह्यन्येना। छ. स. स्वच्छतां।
२ क. ख. ग. घ. च. छ. ज. झ. ट. द. नि व मच्छापाद्विज नान्यथा ए ।३ क. ख. च.
Page #151
--------------------------------------------------------------------------
________________
१३ त्रयोदशोऽध्यायः ]
पद्मपुराणम् । ब्रह्मचर्य मया प्रोक्तं गृहिणां मुक्तिदं किल । यतीनां तु प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ४ दमसत्यसमायुक्तः पापाद्भीतस्तु सर्वदा । भासिङ्गं वर्जयित्वा ध्यानज्ञानप्रतिष्ठितः॥ ५ यतीनां ब्रह्मचर्य च समाख्यातं तवाग्रतः । वानप्रस्थस्य वक्ष्यामि तन्मे निगदतः शृणु ॥ ६ आचारेण प्रवर्तेत कामक्रोधविवर्जितः । प्राणिनामुपकाराय संस्थित उञ्छवृत्तिमान् ॥ ७ वनस्थस्य समाख्यातं सत्यमेव वदाम्यहम् । परद्रव्येषु लोलत्वात्परस्त्रीषु तथैव च ॥ ८ दृष्टा मतिर्न यस्य स्यान्स सत्यः परिकीर्तितः । दानमेव प्रवक्ष्यामि येन जीवन्ति मानवाः ॥ ९ आत्मसाग्व्यं प्रतीच्छेद्यः स गच्छेत्परमं पदम् । अन्नस्यापि महादानं सुखस्य मधुरस्य च ॥१० ग्रासमात्रं तथा देयं क्षुधाताय न संशयः । दत्ते सति महत्पुण्यममृतं सोऽश्नुते सदा ॥ ११ दिने दिने प्रदातव्यं यथाविभवविस्तरम् । वचनं च तृणं शय्यां गृहच्छायां सुशीतलाम् ॥ १२ भूमिमपस्तथा चान्नं पियवाक्यमनुत्तमम् । आसनं वमनं पायं कौटिल्येन विवर्जितः ॥ १३ आत्मनो जीवनार्थाय नित्यमेवं करोति यः। [*देवान्पितॄन्समभ्यर्च्य एवं दानं ददाति यः ॥ इत्येवं मोदतेऽसौ वै परत्रेह तथैव च ॥ अवन्ध्यं दिवसं यो वै दानाध्ययनकर्मभिः । प्रकुर्यान्मानुपो भूत्वा स देवो नात्र संशयः॥ १५ नियमं च प्रवक्ष्यामि धर्मसाधनमुत्तमम् । देवानां ब्राह्मणानां च पूजास्वभिरतोऽथ यः॥ १६ नित्यं नियमसंयुक्तो दानवतेपु सुव्रत । उपकारेषु सर्वेपु नियमश्च प्रकीर्तितः ॥ १७ क्षमारूपं प्रवक्ष्यामि श्रूयतां द्विजसत्तम । पराक्रोशं हि संश्रुत्य ताडिते सति केनचित् ॥ १८ क्रोधं चैव न गच्छेच ताडितोऽपि न ताडयेत् । सहिष्णुः स्यात्स धर्मात्मा न हि रागं प्रयाति च॥१९ समश्नाति परं सौख्यमिह चामुत्र तेन च । एवं क्षमा ममाख्याता शौचमेवं वदाम्यहम् ॥ २० स बाह्याभ्यन्तरे यो वे शुद्धो रागविवर्जितः । नानाचमनकैश्चैव व्यवहारेण वर्तते ॥ २१ शौचमेवं समाख्यातमहिंसां तु वदाम्यहम् । तृणमेव ह्यकार्यादै छेत्तव्यं न विजानता ॥ २२ अहिंस्रः संयतो भूयाद्यथाऽऽत्मनि तथा परे। शान्तिमेवं प्रवक्ष्यामि शान्त्या मुखं समश्रुते ॥२३ शान्तिरेषा प्रकर्तव्या खेदं नैव परिव्रजेत् । भूतवैरं विसृज्यैव मनमा न प्रकाशयेत् ॥ २४ [*एवं शान्तिः समाख्याताऽप्यस्तेयं च वदाम्यहम् । परस्त्रं नैव हर्तव्यं परयोषा तथैव च ॥२५ वचनेमेनाभिः कायश्च न प्रमयं प्रकाशयेत् । दममेवं प्रवक्ष्यामि तवाग्रे च द्विजोत्तम ॥ २६ दमनादिन्द्रियाणां वै मनमा नित्यं प्रकाशयेत् । औद्धत्यं नाशयेत्तेषां सचेतन्यो भवेत्सदा २७ शुश्रूषां हि प्रवक्ष्यामि धर्मशास्त्रेषु यादृशी । पूर्वाचार्यर्यथा प्रोक्ता तथाऽहं प्रवदाम्यहम् ॥ २८ वाचा देहेन मनसा गुरुकार्य प्रसाधयेत् । जायतेऽनुग्रहो यत्र शुश्रूषा मा निगद्यते ॥ २९ साङ्गो धर्मः समाख्यातस्तवाग्रे द्विजसत्तम । अन्यच्च ते प्रवक्ष्यामि श्रोतुमिच्छसि यत्पते ॥ ३० ईदृशे चापि धर्मे तु वर्तते यो नरः सदा । संमार तस्य संभूतिः पुनरेवं न जायते ॥ ३१ स्वर्ग गच्छति धर्मेण सत्यं सत्यं वदाम्यहम् । एवं ज्ञात्वा महामाज्ञ धर्ममेवं वजस्व हि ॥ ३२ सर्व हि प्राप्यते कान्त यदसाध्यं महीतले । धर्मप्रसादतस्तस्मात्कुरु वाक्यं ममैव हि ॥ १
___* क. ख. ह. च. छ. झ. पुस्तकस्थोऽयं पाठः । * ग. घ. पुस्तकस्थोऽयं पाठः । १७. झ. ड. 'त। तप एव प्रव। २ क. ख. ग. घ. ङ. च. छ. ज. स. ट. ड. ढ. उद्यमाकृतिः । ३ क. स.ग. घ. च. छ. झ.ट. 'न्। तप एव स। ४ क ख. ग. घ. ह. च. छ. ज.स. ट.ठ .ड.स इहैव परत्र च । । ५म.'यःद्रव्येण मो। ६ क ख. च. ड. 'नजाते। ७ ड. द. 'ते । समाचार्णेन ।
१९
Page #152
--------------------------------------------------------------------------
________________
१४६
महामुनिश्रीव्यासभणीतं
[ १ भूमिखण्डेभार्यायास्तु वचः श्रुत्वा सोमशर्मा सुबुद्धिमान्। [*पुनः प्रोवाच तां भार्या सुमनां धर्मवादिनीम्]३४
इति श्रीमहापुराणे पाद्मे भूमिखण्डे सुमनोपाख्याने त्रयोदशोऽध्यायः ॥ १३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३९५०
अथ चतुर्दशोऽध्यायः ।
rur, v
सोमशर्मोवाचएवंविधं महापुण्यं धर्माख्यानमनुत्तमम् । कथं जानासि भद्रं ते कस्माच्चैत्र श्रुतं त्वया ॥ १
सुमनोवाचभार्गवाणां कुले जातः पिता मम महामते । च्यवनो नाम विख्यातः सर्वज्ञानविशारदः॥ २ तस्याहमभवं कन्या प्राणादपि च वल्लभा । यत्र यत्र बजत्येप तीर्थारामेषु सुत्रत ॥ सभासु च मुनीनां तु देवतायतनेषु च । तेन सार्ध व्रजाम्येका क्रीडमाना सदेव हि ॥ ४ कोशिकान्वयसंभूतो वेदशर्मा महामतिः । पितुर्मम सखा शीघ्रमटमानः समागतः ॥ दुःखेन महताऽऽविष्टश्चिन्तयानो मुहुर्मुहुः । तमागतं महात्मानमुवाच च पिता मम ॥ भवन्तं दुःखसंतप्तमिति जानामि सुव्रत । कस्माहुःखी भवाञ्जातस्तन्मे त्वं कारणं वद ॥ एवं वाक्यं ततः श्रुत्वा च्यवनस्य महात्मनः । तमुवाच महात्मानं पितरं मम सुव्रतः ॥ ८ बेदशमो महामाज्ञः सर्व दुःखस्य कारणम् । मम भाया महासाध्वी पतिव्रतपरायणा ॥ ९ अपुत्रा सा हि संजाता मम वंशो न विद्यते । एतत्ते कारणं प्रोक्तं पृच्छसे त्वं तु यच्च माम् १० एतस्मिन्नन्तरे प्राप्ते कश्चित्सिद्धः समागतः । मम पित्रा तथा तेन ह्युत्थाय वेदशर्मणा ॥ ११ द्वाभ्यामेवाप्यसो सिद्धः पूजितो भक्तिपूर्वकम् । उपचारेस्तु भोज्यायैर्वचनैर्मधुराक्षरः ॥ १२ द्वाभ्यामन्तर्गतं पृष्टं पूर्वोक्तं च यथा त्वया । उभी तो प्राह धर्मात्मा समखं पितरं मम ॥ १३ धर्मस्य कारणं सर्व मयोक्तं ते यथा किल ।। धर्मेग प्राप्यते पुत्रो धन धान्यं तथा स्त्रियः । ततस्तेन कृतं धर्म संपूर्ण वेदशर्मणा ।। तस्माद्धर्मात्सुसंजातं महसौख्यं सुपुत्रकम् । तेन सङ्गप्रसङ्गन मर्मष मतिनिश्चयः ॥ यथा कान्त तव प्रोक्तं मयैव परमं शुभम् । तस्माच्छूतं महासिद्धात्सर्वसंदेहनाशनम् ।। विप्रधर्म समाश्रित्य ह्यनुवर्तस्व सर्वदा ॥
सोमशर्मोवाचधर्मेण कीदृशो मृत्युर्जन्म चैव वदस्व मे । उभयोर्लक्षणं कान्ते तत्सर्व हि यथागमम् ।। १८
सुमनोवाचसत्यशौचक्षमाशान्तितीर्थपुण्यादिकैस्तथा । धर्मश्च पालिता येन तस्य मृत्यु वदाम्यहम् ॥ १९ रोगो न जायते तस्य न च पीडा कलेवरे । न श्रमा न च वै ग्लानि च स्वेदो भ्रमस्तथा।।२० दिव्यरूपधरा भूत्वा गन्धर्वा ब्राह्मणास्तथा । वेदपाठसमायुक्ता गीतज्ञानविशारदाः ॥ २१
___ * छ.पुस्तकस्थाऽयं पाठः । १. छ. 'स्याहं प्रियकन्या वै पित्रा सार्ध व्रजाम्यहम् । य'। 7. 'स्याहं दैत्यकन्याभिः पित्रा साध वजाम्यहम् । य। क. स . च. छ. झ. 'पहारै'।
Page #153
--------------------------------------------------------------------------
________________
३ पञ्चदशोऽध्यायः ]
पद्मपुराणम् । नस्य पार्षे समायान्त स्तुतिं कुर्वन्ति चाटुलाम् । स्वस्थः सुखासने युक्तो देवपूजागतः किल ॥ तीर्थ च लभते प्राज्ञः स्नानार्थ धर्मतत्परः । अग्न्यागारे गवां स्थाने देवतायतनेषु च ॥ २३ आरामे च तडागे वा यत्राश्वत्थो वटस्तथा । ब्रह्मवृक्षं समाश्रित्य श्रीवृक्ष वा तथा पुनः॥ २४ अश्वस्थानं समाश्रित्य गजस्थानगतो नरः । अशोकं चूतवृक्षं च समाश्रित्य यदा स्थितः ॥ २५ संनिधौ ब्राह्मणानां च राजवेश्मगतोऽथ वा । रणभूमि समाश्रित्य पूर्व यत्र मृतो भवेत् ॥ २६ मत्यूस्थानानि पुण्यानि केवलं धर्मकारणम् । गोगृहं तु सुसंप्राप्य तथा चामरकण्टकम् ॥ २७ शुधर्मकरो नित्यं धर्मात्मा धर्मवत्सलः । एवं स्थानं समामोति यदा मृत्यु समाश्रितः ॥ २८ मातरं पश्यते पुण्यां पितरं च नरोत्तमम् । भ्रातरं श्रेयमा युक्तमन्यं स्वजनबान्धवम् ॥ २९ बन्दीजनैस्तथा पुण्यैः स्तूयमानः पुनः पुनः । पापिष्ठं नैव पश्यतं नान्यं शूद्रादिकं पुनः ॥ ३० गीतं गायन्ति गन्धर्वाः स्तुवन्ति स्तावकाः स्तवैः । मत्रपाठस्तथा विप्रा माता स्नेहेन पूजयेत् ३१ पिता स्वजनवगोश्च धमोत्मानं महामतिम् । एवं मृत्युः समाख्यातः पुण्यस्थानेषु वे प्रभो ॥ ३२ प्रत्यक्षान्पश्यते दूतान्हास्यम्नेहसमन्वितान् । न च स्वप्नेन मोहेन क्लेशयुक्तेन नैव च ॥ १३ धर्मराजो महाप्राज्ञो भवन्तं तु समावयेत् । एोहि त्वं महाभाग यत्र धर्मः स तिष्ठति ॥ ३४ तस्य नो मोहसंप्राप्तिन ग्लानिः स्मृतिविभ्रमः । जायते नात्र संदेहः प्रसन्नात्मा भविष्यति ३५ ज्ञानविज्ञानसंपन्नः स्मरेदेवं जनार्दनम् । तेः सार्धे तु प्रयात्येवं संतुष्टो दृष्टमानसः ॥ ३६ एकत्वं जायते नस्य त्यजतः स्वं कलेवरम् । दशमद्वारमाश्रित्य ह्यान्मा तस्य स गच्छति ॥ ३७ शिविका तस्य चाऽऽयाति हंसयानं मनोहरम् । विमानैरेव संयानि हरेर्धाम ह्यनुत्तमम् ॥ ३८ छत्रेण ध्रियमाणेन चामरैर्व्यजनैस्तथा । वीज्यमानः स धर्मात्मा [*पुण्येरेव समन्ततः ॥ ३९ गीयमानम्तु धर्मान्मा] स्तूयमानश्च पण्डितः । बन्दिभिश्चारणैर्दिव्यैब्राह्मणैर्वेदपारगैः ॥ ४० माधुभिः स्तूयमानस्तु सर्वमौख्यसमन्वितः । यथा दानप्रभावेन फलमामोति तत्र सः॥ ४१ आरामवाटिकामध्ये स प्रयाति सुखेन वै । अप्सरोभिः समाकीर्णो दिव्याभिर्मगलर्युतः ॥ ४२ देवः प्रस्तूयमानस्तु धर्मराज प्रपश्यति । देवाश्च धर्ममंयुक्ता जग्मुः संमुखमेव तम् ॥ ४३ [*एबेहि वै महाभाग भुक्ष्व भोगान्मनोनुगान् । एवं स पश्यते धर्म सौम्यरूपं महामतिम्॥४४ स्वस्य पुण्यस्य भावेन भुञ्जते स्वर्गमेव सः] । भोगक्षयात्म धर्मात्मा पुनर्जन्म प्रयाति वै ।। ४५ निजधर्मप्रसादास कुलं पुण्यं प्रयाति वै । ब्राह्मणस्य तु पुण्यस्य क्षत्रियस्य तथैव च ॥ ४६ धनाढ्यस्य सुपुण्यस्य वैश्यस्यैव महामते । धर्मेण मोदते तत्र पुनः पुण्यं करोति सः॥ ४७
इति श्रीमहापुराणे पाझे भूमिखण्डे मुमनापाख्याने चतुर्दशोऽध्यायः ॥ १४ ॥ ___ आदितः श्लोकानां समष्ट्यङ्काः-३९९७
अथ पञ्चदशोऽध्यायः । सोमशर्मोवाचपापिनां मरणं भद्रे कीदृशैलक्षणैर्युतम् । तन्मे त्वं विस्तराद्रूहि यदि जानासि भामिनि ॥ १
*क.ख.इ. च. छ.. पुस्तकस्थोऽयं पाटः । * क. ख. ग. घ. दु.च.छ. ज. स.ट. ड.ढ. पुस्तकस्थोऽयं पाठः ।
१ अ. यत्रस्थोऽपि व । २ अ. 'श्वत्थस्थानमा । ३ अ. 'त्य गुरुस्था । ४ अ. 'कर्म । ५ क.ब.स. च. छ.स. ढ. त मातृपित्रादि । ड. 'त मातृपुत्रादि । ६ ज. प्रत्याख्यान्प।
Page #154
--------------------------------------------------------------------------
________________
१४८ महामुनिश्रीव्यासप्रणीतं
[ १ भूमिखण्डेमुमनोवाचश्रूयतामभिधास्यामि तस्मात्सिद्धाच्छ्रतं मया । पापिनां मरणे कान्त यादृशं लिङ्गमेव च ॥ महापातकिनां चैव स्थानं चेष्टां वदाम्यहम ॥ विण्मूत्रामध्यसंयुक्तां भूमिं पापिसमन्विताम् । स तां प्राप्य सुदुष्टात्मा प्राणान्दुःखेन मुश्चति ॥३ चाण्डालभूमिमासाद्य मरणं याति दुःखितः । गर्दभैराकृतां भूमि वेश्यागेहं समाश्रितः ॥ ४ चर्मकारगृहं गत्वा निधनायोपगच्छति । अस्थिचर्मनखेः पूर्णामाश्रितां पापकिल्बिषैः ॥ ५ तां प्राप्य चैव दुष्टात्मा मृत्युं याति स निश्चितम् । अन्यां पापसमाचारां प्राप्य मृत्यु स गच्छति॥६ अथ चेष्टां प्रवक्ष्यामि दूतानां तु तमिच्छताम् । भैरवान्दारुणान्योरानतिकृष्णान्महोदरान् ॥ ७ [*पिङ्गाक्षान्पीतनीलांश्च ह्यतिश्वेतान्महोदरान] । अत्युच्चान्विकरालांश्च शुष्कमांसत्वचोपमान ८ रोद्रदन्तान्करालास्यान्सिहास्यान्सर्पहस्तकान् । स तान्दृष्ट्वा प्रकम्पेत स्विद्यते च मुहुमुहुः ॥ ९ खिद्यमानस्य या चेष्टा तामेवं प्रवदाम्यहम् । परद्रव्यापहरणं परभार्याविडम्बनम् ॥ १० ऋणं परस्य पूर्व च गृहीतं यत्तु पापिभिः । परतो न प्रदत्तं हि लोभस्वादेन मोहितैः॥ ११ अन्यमेव महापापं कुंप्रतिग्रहमेव च । [+कण्ठमायान्ति ते सर्वे म्रियमाणस्य तस्य च ॥ १२ यानि कानि च पापानि पूर्वमेव कृतानि च । आयान्ति कण्ठमूलं ते महापापस्य नान्यथा ॥१३ दुःखमुत्पादयन्त्येते कफबन्धन दारुणम् । पीडाभिर्दारुणाभिश्च कण्टे घुरघुरायते ॥ ॥१४ रोदते कम्पतेऽत्यर्थ मातरं पितरं पुनः । [+ स्मरत भ्रातरस्तत्र भार्या पुत्रान्पुनः पुनः] ॥ १५ पुनर्विस्मरणं याति महापापन मोहितः । तस्य प्राणा न गच्छन्ति बहुपीडासमाकुलाः ॥ १६ एजते ताम्यते चैव मूर्छते च पुनः पुनः । एवं पीडासमायुक्तो दुःखं भुङ्क्तेऽतिमोहितः ॥ १७ तस्य प्राणाः सुदुःखेन महाकष्टेः प्रचालिताः। मयं घोरं समाश्रित्य शृणु कान्त प्रयान्ति ते ॥ १८ एवं प्राणी सदा मुग्धो लोभमोहसमन्धितः । नीयते यमदृतस्तु तस्य दुःखं वदाम्यहम् ॥ १९ अङ्गारसंचये मार्गे कृष्यमाणो हि नीयते । दह्यमानः सुदुष्टात्मा चेष्टमानः पुनः पुनः ॥ २० यत्राऽऽतपो महातीवो द्वादशादित्यतापितः । नीयते तेन मार्गेण संतप्तः सूर्यरश्मिभिः २१ पर्वतेष्वेव दुर्गेषु च्छायाहीनेषु दुर्मतिः । नीयते तेन मार्गेण क्षुधातृप्णाभपीडितः ॥ २२ स दूतैर्हन्यमानस्तु [*गदादण्डैः परश्वधैः । कशाभिस्ताड्यमानस्तु निन्द्यमानस्तु दृतकैः ॥ २३ ततः शीतमये मार्गे वायुना सेव्यते पुनः । तेन शीर्तन संदुःखी भूत्वा यान्ति न संशयः ॥ आकृष्यमाणो दूतैस्तु] नानादुर्गेषु नीयते ॥ एवं पापी स दुष्टात्मा [देवब्राह्मणानन्दकः । सर्वपापसमायुक्तो नीयते यमकिंकरैः॥ २५ यमं पश्यति दुष्टात्मा] कृष्णाञ्जनचयोपमम् । तमुग्रं दारुणं भीमं यमदृतः समावृतम् ॥ २६ सर्वव्याधिसमाकीर्ण चित्रगुप्तसमन्वितम् । आरूढं महिषं देवं धर्मराजं द्विजोत्तम ॥ २७ दंष्ट्राकरालमत्युग्रं तस्याऽऽस्य कालसंनिभम् । पीतवासं महाहस्तं रक्तगन्धानुलेपनम् ॥ २८ रक्तमाल्यकृताभूषं गदाहस्तं भयंकरम् । एवंविधं महाकायं यमं पश्यति दुर्मतिः॥ २९
* क. ख. र.च. छ पुस्तकस्थाऽयं पाठः । + क ख. इ. च. छ. १. ढ. पुस्तकस्थोऽयं पाठ: 11.क. ख. छ.स.ट. ड. ढ.पुस्तकस्थोऽयं पाठः । * क.ख.इ.च छ.झ पुस्तकस्थोऽयं पाठः । क. ख. ग. घ. इ.च. छ... पुस्तकस्थोऽये पाठः ।
१ क. स्व. स. च. छ.स. 'म् । लिप्साममध्यसक्लेदैर्भूमि । २ ज कुमतिप्रदमे । ३ क. ख च. छ. स. 'लाः । पतते कमाते । ४ढ. 'ताः । अपानमार्गमा । ५ ज. ट... मार्ग। ६ क.ख. ङ. च. छ. स. ड. ढ. में भीम ।
Page #155
--------------------------------------------------------------------------
________________
१६ षोडशोऽध्यायः ] पनपुराणम् ।
१४९ तं दृष्ट्वा समनुप्राप्त सर्वधर्मबहिष्कृतम् । यमः पश्यति तं दुष्टं पापिष्ठं धर्मसंकटम् ॥ शांतयेत्तं महादुःखै पीडाभिर्दारुणायुधैः । यावद्युगसहस्रं तु तावत्कालं प्रपच्यते ॥ १ यातनासु च नानासु पच्यते च पुनः पुनः । नारकी याति वै योनि कृमिकीटेषु पापकृत् ॥ ३२ अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः । मरणं च स पापात्मा एवं याति सुनिश्चितम् ॥ ३३ एवं पापस्य तं भोग भुक्ते चैव स दुर्मतिः । पुनर्जन्म प्रवक्ष्यामि यासु योनिषु जायते ॥ ३४ श्वानयोनि तु संप्राप्य भुङ्क्ते वै पापकं पुनः । व्याघ्रो भवति दुष्टात्मा रासमत्वं व्रजेत्पुनः ॥ ३५ मार्जारशकरी यानि सर्पयोनि तथैव च । नानाभेदामु सर्वासु स गच्छति पुनः पुनः॥ ३६ पापपंक्षिषु संयाति सर्वासु च महत्सु च । चाण्डालभिल्लयोनि च पुलिन्दी याति वै तथा ॥३७ एतत्ते सर्वमाख्यातं पापिनां जन्म चैव हि । मरणे शृणु कान्त त्वं चेष्टां तेषां सुदारुणाम् ॥ ३८ पापपुण्यसमाचारस्तवाग्रे कथितो मया । अन्यच्चैव प्रवक्ष्यामि यद्यत्पृच्छसि सुव्रत ॥ ३९
इति श्रीमहापुराणे पाद्मे भूमिखण्डे मुमनोपान्याने पादशोऽध्यायः ॥ १५ ॥ आदितः श्लोकानां समष्ट्यङ्काः-४०३६
अथ षोडशोऽध्यायः । सोमशर्मोवाचसर्व देवि त्वयाऽऽख्यातं धर्मसंस्थानमुत्तमम् । कथं पुत्रमहं विन्द्यां मर्वनं गुणसंयुतम् ॥ १ वद त्वं मे महाभागे यदि जानासि सुव्रते । दानधर्मादिकं भद्रे परत्रेह न संशयः॥
सुमनोवाच-- वमिष्ठं गच्छ धर्मज्ञं तं प्रार्थय महामुनिम् । तस्मात्प्राप्स्यसि वै पुत्रं धर्मज्ञ धर्मवत्सलम् ॥ ३
सूत उवाचएवमुक्ते ततो वाक्ये सोमशर्मा द्विजोत्तमः । एवं करिष्ये कल्याणि तव वाक्यं न संशयः॥ ४ एवमुक्त्वा जगामासौ सोमशर्मा द्विजोत्तमः । वसिष्ठं सर्ववेत्तारं दीप्यमानं तपश्चरम् ॥ ५ गङ्गातीरे स्थितं पुण्यमाश्रमस्थं द्विजोत्तमम् । तेजोज्वालासभाकीर्ण द्वितीयमिव भास्करम् ॥ ६ राजमानं महात्मानं ब्रह्मण्यं च द्विजोत्तमम् । भक्त्या ननाम विन्द्रं दण्डवत्तं पुनः पुनः॥ ७ तमुवाच महातेजा ब्रह्मसूनुरकल्मषः । उपाविशाऽऽसने पुण्ये सुखेन सुमहामते ॥ एवमुक्त्वा स योगीन्द्रः पुनः प्राह तपोधनम् । गृहपुत्रेषु ते वत्स दारभृत्येषु सवेदा॥ क्षममस्ति महाभाग पुण्यकर्मसु चाग्निषु । निरामयोऽसि चाङ्गेषु धर्म पालयस सदा ॥ १० किं करोमि प्रियं कामं सुप्रियं ते द्विजोत्तम । एवं संभाप्य तं विप्र विरराम स कुम्भजः ॥ ११ एवमुक्तो महाप्राज्ञः सोमशमा मुनिस्तदा । तमुवाच महात्मानं वमिष्ठं तपतां वरम् ॥ १२
सोमशर्मोवाचभगवश्रूयतां वाक्यं सुप्रसन्न चेतसा । यदि मे सुप्रियं कार्य त्वयैव मुनिपुङ्गव ॥ मम प्रश्नार्थसंदेहं विच्छेदय द्विजोत्तम ॥
क. ख. च. कर्मकण्टकम् । २ अ. शामये । ३ क. ख. च. छ. स. ढ. 'मिकोटिषु । ४ क. ख. अ. च. छ..
च पु। ५ अ. 'क्षिश्चोत्पनि पापाश्विन्याशचाऽपि हि । च । ६ क. ख. ग. घ. रु.च.छ. स.ट. द. 'रे दिव्यं तं तपतां वर । ७ छ, ब्रह्मश्रिया द्वि। . ब्रह्माश्रयं द्वि। ग. घ. ज.ट. ढ. ब्रह्मप्रियं द्वि।
Page #156
--------------------------------------------------------------------------
________________
१५० महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेदारियं केन पापेन पुत्रसौख्यं कथं न हि । एतं मे संशयं तात कस्मात्पापादस्व मे ॥ १४ महापापेन संमुग्धः प्रियया बोधितो द्विज । तयाऽहं प्रेषितस्तात तव पार्थ महामते ॥ १५ तत्सर्व त्वं समाचक्ष्व सर्वसंदेहनाशनम् । मुक्तिदाता भवस्व त्वं मम संसारबन्धनात् ॥ १६
वसिष्ठ उवाचपुत्रा मित्राण्यथ भ्राता भार्या स्वजनवान्धवाः । पञ्च भेदास्तु संबन्धात्पुरुषस्य भवन्ति हि।।१७ तद्वै सुमनया प्रोक्तं पूर्वमेव तवाग्रतः । ऋणसंबन्धिनः सर्वे ते कुपुत्रा द्विजोत्तम ॥ १८ पुत्रस्य लक्षणं पुण्यं तवाग्रे प्रवदाम्यहम् । पुण्यप्रसक्तो यस्याऽऽत्मा सत्यधर्मरतः सदा ॥ १९ बुद्धिमाज्ञानसंपन्नस्तपस्वी वाग्विदां वरः । सर्वकर्मसुधी(रो वेदाध्ययनतत्परः ॥ २० सर्वशास्त्रप्रवक्ता च देवब्राह्मणपूजकः । याजकः सर्वयज्ञानां ध्यानी त्यागी प्रियंवदः ॥ २१ विष्णुध्यानपरां नित्यं शान्तो दान्तो जपी सदा । पितृभक्तिपरो नित्यं सर्वम्वजनवन्मलः॥२२ कुलस्य तारको विद्वान्कुलस्य परितोषकः । एवंगुणेः सुसंयुक्तः सुपुत्रः सुखदायकः ॥ २३ अन्ये संबन्धसंयुक्ताः शोकसंतापदायकाः । एतादृशेन किं कार्य फलहीनेन तेन च ॥ २४ आयान्ति यान्ति ते सर्वे तापं दत्त्वा सुदारुणम् । पुत्ररूपेण ते सर्वे संसारे दुःग्वदायकाः ॥२५ पूर्वजन्मकृतं कर्म यत्त्वया परिपालितम् । तच्च सर्व प्रवक्ष्यामि श्रृयतामद्भुतं पुनः ॥ २६
वसिष्ठ उवाचभवाञ्द्रो महाप्राज्ञ पूर्वजन्मनि नान्यथा । कृषिका ज्ञानहीनो महालोभन मंयुतः॥ २७ एकभार्योऽन्यविद्वषी बहुपुत्रो ह्यदत्तवान । धर्म नव प्रजानासि मत्यं नैव परिश्रुतम् ॥ २८ [*दानं नव त्वया दत्तं शास्त्रं नैव परिश्रुतम् ।] कता चव न्वया तीर्थे नैव यात्रा महामने ॥२९ एकं कृतं त्वया विप्र कृषिमार्ग पुनः पुनः । पशनां पालनं पूर्व गवां चैव द्विजोत्तम ॥ ३० महिषीणां च ह्यश्वानां पालनं च पुनः पुनः । एवं पूर्व कृतं कर्म त्वया वै द्विजसत्तम ॥ ३१ विपुलं तु धनं तद्वल्लोभेन परिसंचितम् । तेन द्रव्यण पुण्यं च न कृतं तु त्वया कदा ॥ ३२ पात्रे दानं न दत्तं तु दृष्ट्वा दुर्बलमेव च । कृपां कृत्वा न दत्तं तु भवता धनमेव हि ॥ ३३ गोमहिप्यादिकं सर्व पशूनां संचितं त्वया । विक्रयित्वा धनं विप्र संचितं विपुलं त्वया ।। ३४ तकं घृतं तथा क्षीरं विक्रयित्वा तता दधि । दुप्कामं चिन्तितं विप्र मोहिता विष्णुमायया।।३५ कृते महामेवात्र ह्यन्नं ब्राह्मणसत्तम । निर्दयन त्वया दानं न दत्तं तु कदा किल ।। ३६ देवानां पूजनं विप्र भवता न कृतं कदा । प्राप्य पर्वाणि विप्रेभ्यो द्रव्यं नैव समर्पितम् ॥ ३७ श्राद्धकालं तु संप्राप्य श्रद्धया न कृतं त्वया । भार्या वदति ते साध्वी दिनं चतत्समागतम् ३८ श्वशुरश्राद्धकालश्च श्वाश्चैव महामते । श्रुत्वा त्वं तद्वचस्तस्या गृहं त्यक्त्वा पलायसे ॥ ३९ धर्ममार्ग न दृष्टं ते श्रुतं नैव कदा त्वया । लोभी माता पिता भ्राता लोभः स्वजनवान्धवाः ४० पालितं लोभमवैकं त्यक्त्वा धर्म सदैव हि । तस्माहुःखी भवाञ्जातो दारिद्यणातिपीडितः ॥४१ दिने दिने महातृप्णा हृदये ते पद्यते । यदा यदा गृहे द्रव्यं वृद्धिमायाति ते सदा ॥ ४२
___ * क. ख. ग. प. उ. च. छ. ज. स. अ. ट. उ ढ.पुस्तकस्थोऽयं पाठः ।
१क.ख. घ. ङ. च. छ. झ.ट. ड. द. भावेन । २क.स्व. ग. घ.ड.च. छ. झ.ढ. समातरः । छ समागतः । ३ क.ख. ग घ. ड. च छ. ज. झ. ट. ड. ढ. अन्ये । ४ क. घ. ट. 'नां दानत्या । ५ क. ख. हु. च. छ. झ. ड, ढ, दाता। ६ क.ख. इ.च. छ. झ. औदासीन्येन । ७ क. ख. घ. ड. च, छ. स.ट. ढ, भार्यःमदा द्वे । ८ क. ख. इ. च. छ. झ. . प्रवर्धते ।
Page #157
--------------------------------------------------------------------------
________________
१७ सप्तदशोऽध्यायः ] पद्मपुराणम् ।
१५१ तपणया दह्यमानस्तु तथा त्वं वह्निरूपया । रात्रौ वा सुप्रसुप्तस्तु निश्चितो हि प्रचिन्तसि ॥ ४३ दिन प्राप्य महामोहैयापितोऽसि सदैव हि । सहस्रं लक्षकं कोटिः कदा ह्यर्बुदमेव च ॥ ४४ भविष्यति कदा खर्वो निखर्वश्चाथ मे गृहे । एवं सहस्रं लक्षं च कोटिरर्बुदमेव च ॥ ४५ खर्बो निखर्वः संजातस्तृष्णा नैव प्रगच्छति । तब कायं परित्यज्य वृद्धिमायाति सर्वदा ॥ ४६ नव दत्तं हुतं चापि प्रभुक्तं नैव च त्वया । खनितं भूमिमध्ये तु क्षिप्तं पुत्रा न जानते ॥ ४७ अन्यमेवमुपायं तु द्रव्यागमनकारणात् । कुरुषे सर्वदा विष लोकान्पृच्छसि बुद्धिमान् ॥ ४८ खनित्रं मजनं वादं धातुवादमतः परम् । पृच्छमानो भ्रमस्येकस्तृप्णया परिमोहितः॥ ४९ [स्पर्श चिन्तयसे नित्यं कल्पान्सिट्रिप्रदायकान् । प्रवेशं विवराणां तु चिन्तमानः प्रगच्छसि५० तृष्णानलेन दुःग्वेन सुवं नैव प्रगच्छमि । तृष्णानलेन संदीप्तो हाहाभूतो विचेतनः ॥ ५१ एवं मुग्धोऽसि विपेन्द्र गतस्त्वं कालवश्यताम् । दागपुत्रेषु तद्रव्यं पृच्छमानेषु वै त्वया ॥ ५२ कथितं नैव दत्तं च प्राणांम्त्यक्त्वा गतो यमम् । एवं सर्व मयाऽऽख्यातं वृत्तान्तं तव पूर्वकम्॥५३ अनेन कर्मणा विप्र निर्धनोऽसि दरिद्रवान् । संमारे यस्य सत्पुत्रा भक्तिमन्तः सदैव हि ॥ ५४ सुशीला ज्ञानसपन्नाः सत्यधर्मरताः सदा । संभवन्ति गृहे तस्य यस्य विष्णुः प्रसीदति ॥ ५५ धनं धान्यं कलत्रं तु पुत्रपौत्रमनन्तकम् । स भुते मत्यलोकेऽपि यस्य विष्णुः प्रसन्नवान् ॥ ५६ विना विष्णोः प्रसादेन दारान्पुत्रान्न चाऽऽनुयात् । सुजन्म च कुलं विप्र तद्विष्णोः परमं पदम्५७
इति श्रीमहापुगणे पाद्मे भूमिखण्डं सुमनोपान्याने पोडशोऽध्यायः ॥ १६ ॥
आदितः श्लोकानां समयङ्काः-४०९३
अथ मप्तदशाऽध्यायः ।
सामशर्मोवाचपूर्वजन्मकृतं कर्म त्वयाऽऽव्यातं च मे मुने । शूद्रत्वेन च विप्रेन्द्र मयतत्परिवर्जितम् ॥ ? विपत्वं हि मया प्राप्तं कथं च द्विजसत्तम । तत्मर्व कारणं हि ज्ञानविज्ञानपण्डित ॥ २
वसिष्ठ उवाच".. यत्त्वया चेष्टितं पूर्व कर्म धर्माश्रितं द्विज । तदहं संप्रवक्ष्यामि श्रूयतां यदि मन्यसे ।। ब्राह्मणः कश्चिदनघः सदाचारः सुपण्डितः । विष्णुभक्तस्तु धर्मात्मा नित्यं धर्मपरायणः ॥ ४ यात्राव्याजेन तीथानां भ्रमत्येकः स मेदिनीम् । अटमानः समायातस्तव गेहं महामुनिः॥ ५ याचिनं स्थानमेकं वै वासार्थ द्विजसत्तम । अद्य धन्योऽस्म्यहं पुण्यमद्य तीर्थमहं गतः ॥ ६ अद्य तीर्थफलं प्राप्तं तवाद्य बुध दर्शनात् । गवां स्थानं वरं पुण्यं तत्र वासं प्रदर्शितम् ॥ ७ अङ्गसंवाहनं कृत्वा पादौ चैव सुमर्दिती । क्षालिनो च पुनस्तायैः स्नातः पादोदकेन हि ॥ ८ सद्यो घृतं दधि क्षीरं तक्रमन्नं प्रदत्तवान । स तस्मै ब्राह्मणायैव भवानित्थं महामते ॥ ९ एवं संतोपितो विप्रस्त्वयैव सह भार्यया । पुण्यस्याध महाभागो वैष्णवो ज्ञानपण्डितः ॥ १० अथ प्रभाते संप्राप्ते दिने पुण्ये शुभावहे । आषाढस्य तु शु[ द्धस्य द्वादशी पापनाशनी ॥ ११ * क. ख ङ. छ. झ. ट. ड. ढ. पुस्तकस्थोऽयं पाठः । । क. ख. ग. घ. इ. च. छ. झ. ड. द. पुस्तकस्थोऽयं पाठः ।
१ अ. 'स्य शुक्लपक्ष एकादश्यां द्विजोत्तम । त्वगृहस्थश्च कर्माणि चक्र धर्मरतो द्विज। स्तवनं कृतवान्सर्वैः सूक्तः ।
Page #158
--------------------------------------------------------------------------
________________
१५२ महामुनिश्रीव्यासमणीतं
[२ भूमिखण्डेतस्मिन्दिने सुसंप्राप्ता सर्वपातकनाशिनी । यस्यां देवो हृषीकेशो योगनिद्रां प्रगच्छति ॥ १२ तां प्राप्य च ततो लोकास्तत्यजुर्बुद्धिपण्डिताः । गृहस्य सर्व कर्माणि विष्णुध्यानरता द्विज।। १३ [*उत्सवं परमं चक्रुर्गीतमङ्गलवादनैः । ] स्तवनं ब्राह्मणाः सर्वे सूक्तैः स्तोत्रैः सुमङ्गलैः ॥ १४ एवं महोत्सवं प्राप्य स च ब्राह्मणसत्तमः । तस्मिन्दिने स्थितस्तत्र संप्राप्त हैरिवासरम् ॥ १५ एकादश्यास्तु माहात्म्यं पठितं ब्राह्मणेन वै । भार्यापुत्रैस्त्वया साध श्रुतं धर्ममनुत्तमम् ॥ १६ श्रुते तस्मिन्महापुण्ये ['भार्यापुत्रैस्तु प्रेरितः। संसर्गादस्य विप्रस्य व्रतमेतत्समाचर ॥ १७ तदाकर्ण्य महद्वाक्यं सर्वपुण्यप्रदायकम् । व्रतमेतत्करिष्यामि इति निश्चितामनसः] ॥ १८ भार्यापुत्रैः समं गत्वा ह्युषः स्नानं कृतं त्वया । हृष्टेन मनसा विप्र पूजितो मधुसूदनः॥ १० सर्वोपहारैः पुण्यश्च गन्धपुष्पादिभिस्तथा । रात्री जागरणं कृत्वा नृत्यगीतादिभिस्तथा ॥ २० ब्राह्मणस्य प्रसङ्गेन नद्याः स्नानं कृतं पुनः । पूजितो देवदेवेशः पुप्पधूपादिमङ्गलैः ॥ २१ भक्त्या प्रणम्य गोविन्दं स्नापयित्वा पुनः पुनः । निर्वाणदाम्बु दत्तं ते ब्राह्मणेन महात्मना २२ भक्त्या प्रणम्य तं विमं दत्ता तस्मै सुदक्षिणा । कृत्वा च पारणं विप्र पुत्र र्यादिभिः समम् २३ तोपितो भक्तिपूर्वेण सद्भावेन त्वयेव सः। एवं व्रतं समाचीर्ण त्वयेव द्विजसत्तमः॥ २४ संगत्या ब्राह्मणस्यैव विष्णोश्चैव प्रसादतः । भवान्ब्राह्मणतां प्राप्तः सत्यधर्मसमन्वितः ॥ २५ तेन व्रतमभावेन त्वया प्राप्तं महत्फलम् । भृसुरत्वं महाभाग सत्यधर्मसमन्वितम् ॥ तस्मै तु ब्राह्मणायेव वैष्णवाय महात्मने । श्रद्धया सत्यभावेन दत्तमन्नं सुसंस्कृतम् ॥ २७ तेन दानप्रभावेन मिष्टान्नमुपतिष्ठति । महामुग्धैः प्रमुग्धोऽसि तृप्णया व्यथितं मनः ॥ २८ पूर्वजन्मनि ते विप्र ह्यर्थमेव प्रसंचितम् । न दत्तं ब्राह्मणेभ्यो हिदीनेप्यन्येषु वै त्वया ॥ २९ दारपुत्रेषु लोभेन म्रियमाणेन वै तदा । तस्य पापस्य भावन दारियं त्वामुपाविशत् ॥ ३० पुत्रलोभं परित्यज्य स्नेहं त्यक्त्वा प्रदूरतः । अपुत्रवान्भवाजातस्तस्य पापस्य वै फलम् ॥ ३१ सुपुत्रं च कुलं विप्र धनं धान्यं धरा स्त्रियः । मुजन्म मरणं चैव सुभोगाः मुखमेव च ॥ ३२ राज्यं स्वर्गश्च मोक्षश्च यद्यहुर्लभमेव च । प्रसादात्तस्य देवस्य विष्णाश्चैव महात्मनः ॥ ३३ तस्मादाराध्य गोविन्दं नारायणमतः परम् । प्राप्स्यसि त्वं परं स्थानं तद्विष्णोः परमं पदम् ३४ सुपुत्रत्वं धनं धान्यं सुभोगान्सुखमेव च । पूर्वजन्मकृतं कर्म यत्त्वया परिचष्टितम् ॥ ३५ तन्मया कथितं सर्व तवाग्रे परिनिश्चितम् । एवं ज्ञात्वा महाभाग नारायणपरो भव ॥ ३६
ब्रह्मात्मजेनापि महानुभावः स विप्रवर्यः परिबोधितो हि । हर्षेण युक्तः सुमहानुभावो भक्त्या वसिष्ठं प्रणिपत्य तत्र । आमन्य विमं स जगाम गहं तां प्राह भार्या सुमनां प्रहर्षितः। सर्व हि वृत्तं ममपूर्वचष्टितं तेनैव विप्रेण तव प्रसादात् ॥
a
-
-
-
* क. ख. ग. घ. ह. च. छ. ज. झ. ड. ढ. पुस्तकस्थोऽयं पाठः । * क. ख. च. छ. झ.एस्तकस्थोऽयं पाठः ।
१क. ख. र. च. ४. वेदैः । ग. घ. ट. सर्वेः । २ ज. स्थिते चैवं सं। ३ क ख ग. घ. ङ. च. छ. झ. ट. ड ढ. समुपोषणम् । ४अ. पुण्य आख्याने धर्मसंयुते ।भार्यापुत्रः स । ५ क.ख घ..च. छ. झ. ड. ढ. नद्याः । ६क ख.ड.च.छ.ज.झ.न्धधूपादि । क. ख. र. च. छ. ज. स. हत्कुलम् । भूसुराणां म । ८ क. ख. इ. च. छ. झ. द. 'न्यं वरस्त्रि। ९ ग. घ. ट. श्रियः । १० क. ख. ग. घ. ड. च. छ. स. ह. ढ. 'मनामयम् ।
Page #159
--------------------------------------------------------------------------
________________
१८ अष्टादशोऽध्यायः]
पद्मपुराणम् । भद्रे वसिष्ठेन विकाशनीतमद्यैव मोहं परिहत्य दूरात् । आराधयिष्ये मधुसूदनं तं यास्यामि मोक्षं परमं पदं तत् ।। आकर्ण्य वाक्यं परमं महार्थे सुमङ्गलं मङ्गलदायकं हि । हर्षेण युक्ता तमुवाच कान्तं पुण्योऽसि विप्रेन्द्र विबोधितोऽसि ॥ इति श्रीमहापुराणे पाझे भूमिग्वण्डे मुमनोपाल्याने सप्तदशोऽध्यायः ॥ १७ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४१३३
अथाष्टादशोऽध्यायः ।
सूत उवाचसोमशर्मा महाप्राज्ञः सुमनया सह मत्तमः । कपिलामङ्गमे पुण्ये रेवातीरे सुपुण्यदे ॥ ? स्नात्वा तत्र म मेधावी तर्पयिन्वा सुगन्पितन । नपस्तेपे सुशान्तात्मा जपनारायणं शिवम् ॥२ द्वादशाक्षरमन्त्रेण ध्यानयुक्तो महामनाः । तस्यैव देवदेवस्य वासुदेवस्य सुव्रतः॥ ३ आसने शयने याने स्वप्ने पश्यति केशवम् । पर्दव निश्चितो भूत्वा कामक्रोधविवर्जितः ॥ ४ सा च साध्वी महाभागा पतिव्रतपरायणा । सुमना कान्तमेवापि शुश्रूषति तपोन्वितम् ॥ ५ ध्यायमानस्य तस्यापि विनैः संदर्शितं भयम् । सर्पा विपोल्वणाः कृष्णास्तत्र यान्ति महात्मनः॥ पाश्चतस्तप्यमानस्य तस्य ते सोमशर्मणः । सिंहव्याघ्रगजा दृष्टा भयमेव प्रचक्रिरे ॥ ७ वेताला राक्षसा भूत्वा कृप्माण्डाः प्रतभैरवाः । भयं प्रदर्शयन्त्येते दारुणाः प्राणिनामलम् ॥ ८ नानाविधा महाभीमाः सिंहास्तत्र समागताः। दंष्ट्राकरालवक्वाश्च जगजैश्वातिभैरवम् ॥ ९ विप्णांानान्स धर्मात्मा न चचाल महामतिः । महाविनैः स संमूढापितो मुनिपुङ्गव ॥ १० एवं न चलते ध्यानान्सोमशर्मा द्विजोत्तमः । भम्भारावमहाभीमः सिंहस्तत्र समागतः ॥ [*तं दृष्ट्वा भयवित्रस्तः मम्मार नृहरि द्विजः] ॥ इन्द्रनीलप्रतीकाशं पीतवस्त्रं महोजसम् । शङ्खचक्रधरं देवं गदापङ्कजधारिणम् ॥ महामोक्तिकहारण इन्दुवणानुकारिणा । कौस्तुभेनापि रत्नेन द्योतमानं जनार्दनम् ॥ १३ श्रीवत्साङ्केन दिव्यन हृदयं यस्य राजते । सर्वाभरणशोभाढ्यं शतपत्रनिभेक्षणम् ॥ १४ सुस्मितास्यं सुप्रसन्नं रत्नहाराभिशोभितम् । राजमानं हृषीकेशं ध्यानं तेन कृतं ध्रुवम् ॥ १५ न्वमेव शरणं कृष्ण शरणागतवत्सल । नमस्तं देवदेवेश किं भयं में करिष्यति ॥ १६ यस्योदरे त्रयो लोकाः सप्त चान्ये महात्मनः । शरणं नं प्रपन्नोऽस्मि किं भयं मे करिष्यति १७ यस्माद्भयं प्रपद्यन्ने कृत्यादिकमहाबलाः । यो हि सर्वप्रहर्ता च तमस्मि शरणं गतः॥ १८ वृन्दारकाणां सर्वेषां दानवानां महात्मनाम् । यो गतिः किष्टभक्तानां तमस्मि शरणं गतः १९
* अ. पुस्तकम्योऽय पाटः ।
१ क. ख. इ. च. छ. झ. द. रिनाशितं मे । आ । २ ब. मनाया महात्मनः । क ।३क. ख रच. छ. - १.द. 'रुण प्राणनाशनम् । ४ क. ख च. झ. 'मः । गगावातश्च शतिन महावृष्ट्या सुपीडितः । ङ. छ. स.ढ.'मः ।सम्झावातश्च शीतेन महावृष्टया मीडितः । ५ क ख इ.च. छ. झ. ह. ढ. 'तः । पातकानां च मर्वेषां दानवानां महाभयम् । रक्षको विष्णभ।
Page #160
--------------------------------------------------------------------------
________________
१५४
महामुनिश्रीव्यासमणीत
[ २ भूमिखण्डेअभयो भयनाशाय पापनाशाय ज्ञानवान् । एकश्च ब्रह्मरूपेण तमस्मि शरणं गतः ॥ २० व्याधीनां नाशनायैव य औषधस्वरूपवान् । निरामयो निरानन्दस्तमस्मि शरणं गतः ॥ २१ अचलांवालयेल्लोकानपापो ज्ञानमेव च । तमस्मि शरणं प्राप्तः किं भयं मे करिष्यति ॥ २२ साधूनामपि सर्वेषां पालकः पद्मनाभकः । पाति विश्वं च विश्वात्मा तमस्मि शरणं गतः ॥ २३ यो मे मृगेन्द्ररूपेण भयं दर्शयतेऽग्रतः । तमहं शरणं प्राप्ता नरसिंहं भयापहम् ॥ २४ यमापनो महाकायो रणे हस्ती समागतः । गजलीलागतं देवं शरणागतवत्सलम् ॥ २५ गैणपं ज्ञानसंपन्नं सुपाशाङ्कुशधारिणम् । कालास्यं गजतुण्डं च शरणं सुगतोऽस्म्यहम् ॥ २६ हिरण्याक्षमहर्तारं वाराहं शरणं गतः । स्वास्तु वामनाः कृराः प्रेताः कृप्माण्डकादयः ।। वामनं तं प्रपन्नोऽस्मि शरणागतवत्सलम् ॥
२७ मृत्युरूपधराः सर्वे दर्शयन्ति भयं मम । अमृतं तं प्रपन्नोऽस्मि किं भयं मे करिष्यति ॥ २८ [*ब्रह्मण्यो ब्रह्मदो ब्रह्मा ब्रह्मज्ञानमयो हरिः। शरणं तं प्रपन्नोऽस्मि किं भयं मे करिष्यति] २९ अभयो यो हि जगतो भीनिघ्नो भीतिदायकः। ['भयरूपं प्रपन्नोऽस्मि किं भयं मे करिष्यति]॥३० तारकः सर्वपुण्यानां नाशकः सर्वपापिनाम् । तमहं शरणं प्राप्ती धर्मरूपं जनार्दनम् ॥ ३१ झञ्झावातो महाचण्डो वपुर्दयति में भृशम् । शरणं तस्य गन्ताऽस्मि सदा गतिरयं मम ।। ३२ अतिशीतं चातिवर्षमातपस्तापदायकः । एषां रूपेण यो देवस्तस्याहं शरणं गतः ॥ ३३ कालरूपा अमी प्राप्ता भयदा मम चालकाः । हरिस्वरूपिणामषां प्रगतः शरणं मदा ॥ ३४
यं सर्वदेवं परमेश्वरं हि निकवलं ज्ञानमयं प्रधानम् ।।
वदन्ति नारायणमादिमिद्धं सिद्धेश्वरं तं शरणं प्रपद्ये ॥ इति ध्यायंस्तुवन्नित्यं केशवं क्लंशनाशनम् । भक्त्या तेन समानीतस्तदाऽऽन्महृदये हरिः ॥ ३६ उद्यम विक्रमं तस्य स दृष्ट्वा सांमशर्मणः । आविर्भूय हपीकेशस्तमुवाच प्रहर्पयन ॥ सोमशर्मन्महापाज्ञ श्रूयतां भार्यया सह । वासुदेवोऽस्मि विप्रेन्द्र वरं वरय सुव्रत ॥ ३८ श्रुत्वोदितं स विप्रेन्द्र उन्मील्य नयनद्वयम् । दृष्ट्वा विश्वश्वरं देवं घनश्याम महोदयम् ।। ३९ सर्वाभरणशोभाढ्यं मर्वायुधममन्वितम् । दिव्यलक्षणसंपन्नं पुण्डरीकनिभेक्षणम् ॥ पीतेन वाससा युक्तं राजमानं सुरश्वरम् । [वनयसमारूढं शङ्खचक्रगदाधरम् ।। ४१ ब्रह्मादीनां सुधातारं जगतोऽस्य महायशाः । विश्वरूपं सदारूपं रूपातीतं जनार्दनम् ॥ ४२ हर्षेण महताऽऽविष्टो दण्डवत्पणिपत्य च । श्रिया युक्तं भासमानं सूर्यकाटिसमप्रभम् ॥ ४३ बद्धाञ्जलिपुटो भूत्वा तया सुमनया मह । जय देव जगन्नाथ जय मानद माधव ॥ ४४ जय योगीश योगीन्द्र जय यज्ञपत हरे । जय यज्ञश येशन्न जय शाश्वत मर्वग ।।
२७
* क.ख. ग. घ. ड. च. झ. ड ढ. पुस्तकस्थाऽय पाट। । क. ख. इ. च. छ झ. ड. ढ. पुस्तकस्थाऽयं पाठः । * क. ख. ग. घ. ड. च. छ. ज. स. ट. ह. द. पुस्तकस्थाऽय पाठः।
१गघ. ज. ट. ड. 'ह नतोऽस्म्यह। ३. छ. झ.ढ. हं नमाम्यह ।। २६. झ. ढ. 'म् । मदमत्ती महाकायो वनह।३ क. ख. ग. घ. . च. छ. ज. झ. ट. इ. ८. गजास्यं । ४ क. ख. ड. च. छ. झ. द. ति। मारकः सर्वलोकानां । ग. घ. ज.ट. ड. ति । तारकः सर्वलोकानां । ५ञ.म् । सुरारण या हि रण वर्धारयतेऽद्धतम् । ६ क. ख. ग. इ. च. छ. स. ट. ह. द. प्रहृष्टवान् । ७क. ख. च. छ. झ. ढ. विश्वस्यास्य सदाऽतीत रूपातीत जगद्गुरुम् । ८ क. ख..च. छ. ज. स. ट. इ. ढ. 'य जयत्युवाचव ज। ९ क. ख. ग. घ. च. छ. झ. ड. ढ. यज्ञाङ्ग ।
Page #161
--------------------------------------------------------------------------
________________
१८ अष्टादशोऽध्यायः ]
पद्मपुराणम् । जय सर्वेश्वरानन्त जयरूप नमोऽस्तु ते । जय ज्ञानवतां श्रेष्ठ जय त्वं ज्ञाननायक ॥ जय सर्वद सर्वज्ञ जय सत्त्वविभावन । जय जीवस्वरूपेश महाजीव नमोऽस्तु ते ॥ ४७ जय यज्ञग प्रज्ञाङ्ग जय प्राणप्रदायक । जय पापन्न पुण्येश जय पुण्यपते हरे ।। जय ज्ञानस्वरूपेश ज्ञानगम्याय ते नमः । जय पद्मपलाशाक्ष पद्मनाभाय ते नमः॥ जय गोविन्द गोपाल जय शङ्खधरामल । जय चक्रधराव्यक्त व्यक्तरूपाय ते नमः ॥ जय विक्रमशोभान जय विक्रमनायक । [*जय विद्याविलासाङ्ग नमो वेदमयाय ते ॥ ५१ जय विक्रमशोभाङ्ग जय उद्यमदायक । जय उद्यमकालाय उद्यमाय नमो नमः ॥ जय उद्यमशक्ताय जय उद्यमकारक । युद्धोद्यमवृत्ताय तस्मै मात्मने नमः ॥ नमो हिरण्यतेजस्क तुभ्यं तं जयते नमः । अनितेजःस्वरूपाय सर्वतेजोमयाय च ॥ देत्यनजोविनाशाय पापजोहराय च । गोब्राह्मणहितार्थाय नमोऽस्तु परमात्मने । नमोऽस्तु हुनभुक्ताय नमो हव्यवहाय ने । नमः कव्यवहायैव स्वधारूपाय ते नमः ॥ स्वाहारूपाय यज्ञाय योगवीजाय ते नमः । नमस्ते शाहस्ताय हरये पापहारिणे ॥ सदमचोदनायैव नमो विज्ञानशालिने । नमो वेदस्वरूपाय पावनाय नमो नमः ॥ नमोऽस्तु हरिकेशाय सवलंशहराय च । केशवाय परायेव नमस्ते विश्वधारिणे ॥ नमः कृपामयायेव नमा हपमयाय च । अनन्ताय नमो नित्यं शुद्धाय क्लशनाशिने ॥ आनन्दाय नमो नित्यं दिव्याय दिव्यरूपिणे । द्रनमितपादाय विरिश्चिनमिताय ते ॥ ६१ सुरासुरेन्द्रनमितपादपद्माय ते नमः । नमो नमः सुरेशाय चामृतायामृतात्मने ॥ क्षीरसागरवासाय नमः पद्माप्रियाय ते । ओंकाराय विशुद्धाय ह्यचलाय नमो नमः॥ ६३ व्यापिने व्यापकायेव सवव्यसनहारिणे । नमो नमी वराहाय महाकाय ते नमः॥ ६४ नमो वामनरूपाय नृसिंहाय पराय ते । नमो रामाय दिव्याय सर्वक्षत्रवधाय च ॥ ६५ सर्वज्ञानाय मत्स्याय ['नमो रामाय ते नमः। नमः कृष्णाय बुद्धाय नमो म्लेच्छपणाशिने ॥ ६६ नमः कपिलविप्राय हयग्रीवाय ते नमः । नमो व्याभस्वरूपाय नमः सर्वमयाय ते ॥ ६७ एवं स्तुत्वा हृषीकेशं पुनराह जनार्दनम् । [+गुणानां तु परं पारं ब्रह्मा वेत्ति न पावनम्]॥ ६८ न चैव स्तोतुं सर्वेश तथा रुद्रः महसहक । वक्तुं को हि समर्थस्तु कीदृशी मे मतिः प्रभो ॥ ६९ [*निर्गुणं सगुणं स्तोत्रं मयव तव केशव । विप्रभक्तस्य सर्वेश तव दासोऽस्मि सुव्रत ॥ जन्मजन्मनि लोकेश दयां मे कुरु पावन ।।
इति श्रीमहापुराणे पाद्म भूमिखण्डे ममनोपाख्यानेऽष्टादशोऽध्यायः ॥ १८ ॥
आदितः श्लोकानां ममष्ट्यङ्काः-४२०३
७०
कस्थोऽयं * क. ख. ग. घ. दु. च. छ. श. ड. पस्तकस्थोऽय पाठः । + क.ख. ग. घ. हु.च. छ. झ. ड. ढ.. पाठः । * क. ख. इ. च. छ. झ. द. पुस्तकस्थोऽयं पाट: । क.ख. द.च छ. झ. द. पुस्तकस्थोऽयं पाठः ।
१ ड. मकच उ । २ ट. मभोगाय । ३ क.व. ग. घ. द. च. छ. ज. स.ट. ड. द. “य उद्यमत्रयधार'। ४ क. ख. ग. घ. द.च. छ. ज. झ. ट. ड. 'प्रवृद्धाय । ५ १. छ. कर्मात्मने । ड. धर्माय तेच. तेजात्मने । ६ म. हरभक्ताय । ७ ग. घ. ड. 'णे। अघसंघदलार्य । ८ क.ख. . च. झ. ढ. "ते । इन्द्रासरेनमिताय कृष्णाय परमात्मने न । ९क. ह. च. छ झ. चाजिता । १० क. ख. १. चछ..द. 'व । क्षम शब्दापशब्दं मे त।
Page #162
--------------------------------------------------------------------------
________________
[ २ भूमिखण्डे
20
१
.
१५६
महामुनिश्रीव्यासप्रणीतं
अर्थकोनविशोऽध्यायः । हरिरुवाचतपसाऽनेन पुण्येन सत्येनानेन ते द्विज । स्तोत्रेण पावनेनापि तुष्टोऽस्मि त्रियतां वरः॥ ? वरं दधि महाभाग यस्ते मनसि दुर्लभः । यं यमिच्छसि कामं त्वं तं तं ते पूरयाम्यहम् ॥ २
सोमशर्मोवाचप्रथमं देहि मे कृष्ण वरमेकं सुनिश्चितम् । सुप्रसन्नेन मनसा यद्यस्ति सुदया मम ॥ ३ जन्मजन्मान्तरं प्राप्य तव भक्तिं करोम्यहम् । दर्शयस्व परं स्थानमचलं मोक्षदायकम् ॥ ४ स्ववंशतारकं पुत्रं दिव्यलक्षणसंयुतम् । विष्णुभक्तिपरं नित्यं मम वंशधारकम् ॥ सर्वज्ञ सर्वदं दान्तं तपस्तेजःसमान्वतम् । देवव्राह्मणलोकानां पालकं पूजकं शुभम् ॥ देवमित्रं पुण्यभावं दातारं ज्ञानपण्डितम् । देहि मे ईदृशं पुत्रं दारिद्यं हर केशव ॥ भवत्वेवं न संदेहो वरमेनं वृणोम्यहम् ॥
हरिरुवाचएवमेव द्विजश्रेष्ठ भविष्यति न संशयः । मत्प्रसादान्सुपुत्रस्तु तब वंशप्रतारकः ॥ भोक्ष्यसि त्वं वरान्भोगान्दिव्यान्वे मानुषानिह । समादाय परं साग्व्यं मनःसंभवजं शुभम् ।। ९ यावज्जीवसि विप्र त्वं तावदुःखं न पश्यसि । दाता भोक्ता गुणग्राही भविष्यास न मंशयः १० सुतीर्थ मरणं विप्र यास्यसि त्वं परां गतिम् । एवं वरं हरिदत्वा मप्रियाय द्विजाय सः॥ ११ अन्तर्धानं गतो देवः स्वमवत्परिदृश्यते । तदा सुमनया युक्तः सोमशर्मा द्विजोत्तमः॥ १२ सुतीर्थे पावने तस्मिन्रेवातीरे सुपुण्यदे। अमरकण्टकं विप्रा दानपुण्यं करोति सः॥ १३ गते बहुतरे काले तस्य वे सोमशमेणः । कपिलारवयाः सङ्ग स्नानं कृत्वा स निर्गतः ॥ १४ पुरतो दृष्टवान्विषः श्वेतमेकं हि कुञ्जरम् । सुप्रभं सुमदं दिव्यं सुन्दरं चारुलक्षणम् ।। नानाभरणशोभाङ्गं बहुलक्षणसंयुतम् । सिन्दरकुङ्कमेरस्य कुम्भस्थले विचचिंते ।। कर्णनीलोत्पलयुतं पताकादण्डसंयुतम् । नागोपरिस्थितो दिव्यः पुरुषो दृष्टमत्रकः ॥ १७ दिव्यलक्षणसंपन्नः सर्वाभरणभूषितः । दिव्यमालाम्बरधरो दिव्यगन्धानुलेपनः ॥ १८ सुसौम्यं सोमवत्पूर्णच्छत्रचामरमंयुतम् । नागारूढं प्रयान्तं तं पुनः पश्यति सत्तमः ॥ सिद्धचारणगन्धर्वैः स्तूयमानं सुमङ्गलम् । सगजं सुन्दरं दृष्ट्वा पुरुपं दिव्यलक्षणम् ॥ २० व्यतर्कयत्सोमशर्मा विस्मयाविष्टमानसः । कोऽयं प्रयाति दिव्याङ्गः पन्थानं प्राप्य सुव्रतः॥ २१ एवं चिन्तयतस्तस्य स गतः प्राप्तवान्गृहम् । प्राविशन्तं गृहद्वारि देवरूपं मनोहरम् ॥ २२ हर्षेण महताऽऽविष्टः सोमशर्मा द्विजोत्तमः । स्वगृहं प्रति धर्मात्मा त्वरमाणः प्रयाति च ॥ गृहद्वारं गतो यावत्तावत्तं तु न पश्यति ॥ पतितानि च पुष्पाणि प्रेक्ष्य तानि महामतिः । दिव्यानि गन्धयुक्तानि प्राङ्गणे द्विजसत्तमः।।२४ चन्दनैः कुसुमैः पुण्यैः सुगन्धैश्च विलेपितम् । स्वकीयं प्राङ्गणं दृष्ट्वा दुर्वाङ्कुरसमन्वितम् ॥ २५ स एवं विस्मयाविष्टश्चिन्तयानः पुनः पुनः । ददर्श सुमनां प्राज्ञो दिव्यमङ्गलसंयुताम् ॥ २६
१ क. ख. दृ. च. झ. ढ. सुवाञ्छित । २ क. ख. ग. घ. इ. च छ. झ. ड. ढ. सदा । ३ क. ख. ङ. च. छ. झ. २. ढ. 'ख्यं पुत्रसं । ४ क ख, ग, घ. ह. च. छ. झ इ. द. लक्ष्म्या समान्वत । ५ ञ, चापि । ६ अ. 'विष्टो हृष्यमाणः पु।
Page #163
--------------------------------------------------------------------------
________________
९ ऐकोनविंशोऽध्यायः ] पद्मपुराणम् ।
१५७ सोमशर्मोवाचकेन दत्तानि दिव्यानि ह्येतान्याभरणानि च । शृङ्गारं रूपसौभाग्यं वस्त्रालंकारभूषणम् ॥ २७ तन्मे त्वं कारणं भद्रे कथयस्वाविशेषतः । एवं संभाष्य तां भार्या विरराम द्विजोत्तमः॥ २८
सुमनोवाचशणु कान्त समायातः कश्चिदेववरोत्तमः । श्वेतनागं समारूढो दिव्याभरणभूषणः॥ २९ दिव्यगन्धानुलिप्ताङ्गो दिव्यश्रिया समन्वितः । न जाने को हि देवोऽसौ विप्रगन्धर्वसेवितः३० स्तृयमानः समायातो देवकिनरचारणेः । योषितः पुण्यरूपास्तु रूपशृङ्गारसंयुताः ॥ ३१ सर्वाभरणशोभाळ्याः सर्वाः पूर्णमनारथाः । ताभिः सह समक्षं मे पुरुषेण महात्मना ॥ ३२ चतुष्कं पूरितं ,व्यैः सर्वशोभासमन्वितम् । तत्राहमासने पुण्ये स्थापिता स्त्रीगणैः किल ॥ ३३ वस्त्रालंकारभूषां मे ददुस्ते सर्वमेव हि । तथा मङ्गलमत्रैस्तु शास्त्रगीतैश्च पुण्यदैः॥ ३४ अभिषिक्ताऽस्मि तैः मरन्तर्धानं पुनर्गताः । मामेवं [परितः सर्वे पुनरूचुर्द्विजोत्तम ॥ ३५ तब गेहे वयं भद्रे ] वसिष्यामः सदैव हि । शुचिर्भवस्व कल्याणि भर्ना सार्थ सदैव हि ॥ ३६ एवमुक्त्वा गताः मर्व एवं दृष्टं मयैव हि । तया यत्कथितं सर्व समाकर्ण्य महामतिः ॥ ३७ पुनश्चिन्तां प्रपन्नोऽसौ किमिदं देवनिर्मितम् । विचिन्तयित्वाऽथ तदा सोमशर्मा महामतिः ॥३८ ब्रह्मकर्मणि संयुक्तः साधये धर्ममुत्तमम् । तम्माद्गर्भ महाभागा दधार व्रतशालिनी ॥ ३९ तेन गर्भेण सा देवी ह्यधिकं शुशुभे तदा । सुपुत्रं दीप्तिसंयुक्त तेजोज्वालासमाकुलम् ॥ ४० सा हि जज्ञे महाभागा तनयं देवसंनिभम् । अन्तरिक्षे तदा नेदुर्देवदुन्दुभयो मुहुः॥ ४१ शङ्खान्दमुमहादेवा गन्धर्वा ललितं जगः । अप्सरसस्तदा सर्वा ननृतुस्ता मुदाऽन्विताः ॥ ४२ अथ ब्रह्मा सुरः माधं समायाती द्विजोत्तम । चकार नाम तस्यैव सुव्रतति समाहितः॥ ४३ नाम कृत्वा ततो देवा जग्मुः स्वर्ग महौजसः । गनेषु तेपु देवेपु सोमशर्मा सुतस्य च ॥ जातकर्मादिक कर्म चकार द्विजसत्तमः ॥ जाते पुत्रे महाभागे सुव्रते देवनिर्मिते । नस्य गेहे महालक्ष्मीर्धनधान्यसमाकुला ॥ गजाश्वमहिषीगावः काञ्चनं रन्नमेव च । यथा कुवरभंवनं शुशुभे रत्नमंचयः॥ तत्सोमशर्मणो गेहं संपन्नं परिराजते । दानपुण्यादिकं धर्म चकार दिनमत्तमः ।। तीर्थयात्रां गतो विप्रो नानापुण्यममाकुलः । अन्यानि यानि पुण्यानि दानानि द्विजसत्तमः ॥ [चिकार तत्र मेधावी ज्ञानपुण्यसमन्वितः ॥
४८ एवं साधयत धर्म पालयच्च पुनः पुनः । पुत्रस्य जातकर्मादि कर्माणि द्विजसत्तमः ] ॥ ४९ विवाहं कारयामास हर्षेण महता किल । पुत्रस्य पुत्राः संजाताः सुपुण्या लक्षणान्विताः ॥ ५० सत्यधर्मतपोपेता दानधर्मरताः सदा । स तेषां पुण्यकर्माणि सोगशर्मा चकार ह ॥ ५१ पात्राणां तु महाभागस्तेषां सौख्यन मोदते । सर्वसौग्व्यं म बुभुजे तेजसा राजराजवत् ॥ ५२ पञ्चविंशाब्दिको यद्वत्तद्वत्कायस्तु तस्य हि । सूर्यतेजःप्रतीकाशः सोमशर्मा महामतिः॥ ५३
* क. ख. च र द. पुस्तकस्थाऽयं पाटः । । क. ख. इ. च. छ. झ. ढ. पुस्तकस्थोऽयं पाठः । १ क. ख. टु. च. छ. झ. ट. ड. विशङ्किता । ए । २ क. ख. च. छ. झ. 'नोहराः । ता । ३ क. ख. ग. घ. क. च. छ. झ. ट. ड. ढ. रत्नः । ४ क. ख. ग. घ. दु. च. छ. झ. ट. ड. ढ. ब्राह्मणः। ५ घ. इ.ट. 'रभुव । ६ क. ख. ड. च. छ. झ. इ. द. 'ख्यं च संभज्य जरारोगविवजितः । ।
Page #164
--------------------------------------------------------------------------
________________
१५८ महामुनिश्रीव्यासमणीतं
[ २ भूमिखण्डेसा चापि शुशुभे देवी सुमना पुण्यमङ्गलैः । पुत्रपौत्रैर्महाभागा दानव्रतेश्च संयमैः ॥ ५४ अतिभाति विशालाक्षी पुण्यैः पतिव्रतादिभिः । तारुण्येन समायुक्ता यथा षोडशवार्षिकी ॥५॥ मोदमानौ महाभागौ दंपती चारुदर्शनौ । हर्षेण च समायुक्तो मोदमानी महोदयौ ॥ ५६ एवं तयोस्तु वृत्तान्तं पुण्याधिकसमन्वितम् । सुव्रतस्य प्रवक्ष्यामि तपश्चर्या द्विजोत्तमाः ॥ ५७ यथा तेन समाराध्य नारायणमनामयम् ॥ इति श्रीमहापुराणे पाये भूमिखण्डे मुमनोपाख्याने मुव्रतोत्पनिर्नामकोनविंशोऽध्यायः ॥ १९ ॥
आदितः श्लोकानां समथ्यङ्काः-४२६१
अथ विशोऽध्यायः ।
ur
सूत उवाच-- एकदा व्यासदेवोऽसौ ब्रह्माणं जगतः पतिम् । सुव्रताख्यानकं सर्व पप्रच्छातीव विस्मिनः॥ ?
व्यास उवाचलोकात्मल्लोकविन्यास देवदेव महामभो । सुव्रतस्याथ चरितं श्रोतुमिच्छामि सांप्रतम् ॥ २
ब्रह्मोवाचपाराशर्य महाभाग श्रूयतां पुण्यसत्तम । सुव्रतस्य सुविषम्य तपश्चर्या वदामि ते ॥ ३ सुव्रतो नाम मेधावी बाल्याद्विप्णुमचिन्तयत् । गर्भे नारायणं देवं दृष्टवान्पुरुषोत्तमम् ॥ ४ पूर्वकर्मानुभावन हरानं गतस्तदा । शव चक्रधरं देवं पद्मनाभं सुपुण्यदम् ।। ध्यायते चिन्तयन्नेवं गीत ज्ञाने प्रपाटने । एवं देवं हरिं ध्यायन्सदव द्विजसत्तमः ॥ क्रीडत्येवं सदा डिम्भैः सार्धं वे बालकोत्तमः । बालकानां स्वकं नाम हरेश्चैव महात्मनः ॥ ७ चकारासो हि मेधावी पुण्यात्मा पुण्यवत्सलः । समाहर्यात वे मित्र हरेनाना महामुनिः॥ ८ भो भोः केशव एह्येहि पाहि माधव चक्रभृत् । क्रीडस्व च मया सार्ध त्वमेव पुरुषोत्तम ॥ ९ वनमेव प्रगन्तव्यमावाभ्यां मधुसूदन । एवमेव समाहानं नामभिश्च हरेर्द्विजः ॥ १० क्रीडने पंठने हास्ये शयने गीतप्रेक्षणं । याने च ह्यासने ध्याने मन्त्र ज्ञाने सुकर्मसु ॥ ११ [ *पश्यत्येवं वदत्येवं जगन्नाथं जनार्दनम् । स ध्यायते तमकं हि विश्वनाथं महेश्वरम् ।। १२ तृणे काष्ठे च पाषाणे शुष्क मान्द्रे हि केशवम् । पश्यत्येवं स धमात्मा गोविन्दं कमलेक्षणम् ।। आकाशे भूमिमध्ये तु पर्वतेषु वनषु च । जल स्थले च पाषाण जीवपु च महामतिः ॥ १३ नृसिंहं पश्यते विमः सुव्रतः सुमनासुतः । बालक्रीडां समामाद्य रमत्येवं दिने दिने ॥ १४ गीतैश्च गायते कृष्णं सुरागैर्मधुराक्षरः । तालेलयसमायुक्तः सुस्वरैर्मुर्छनान्वितैः ॥ १५ सुव्रत उवाच
ध्यायन्ति देवाः सततं मुरारिं यस्याङ्गमध्ये सकलं निविष्टम् ॥ योगेश्वरं पापविनाशनं च भज शरण्यं मधुसूदनाख्यम् ।।
* क. ख. .च. छ. झ. ट. ड.. पुस्तकस्थाऽय पाठः ।
१. ढ 'नो महात्मानी दंपती चारुमङ्गलो। ए। २ ग. घ. ट.ट. चारुमङ्गली । ज. चानुरागतः। ३ क. ख. ङ. च. छ. स. ढ. पुण्यात्मानी । ४ क. ख. ङ. च. छ. स. ढ. "ण्याचारस' । ५ क. स्व. इ. च. छ. झ. ड. द. महामतिः । ६ क. ख. ङ. च. छ. झ. ढ. तपने । ग घ. इ. पतने ।
Page #165
--------------------------------------------------------------------------
________________
१९ ऐकोनविंशोऽध्यायः पद्मपुराणम् ।
लोकेषु यो हि सकलेषु विबोधितोऽपि यो लोकगश्च गुणिनो निवसन्ति यत्र ॥ दोषैविहीनमखिलैः परमेश्वरं तं संचिन्त्य पादयुगलं सततं नमामि ॥ १७ नारायणं गुणनिधानमनन्तवीर्य वेदान्तशुद्धमतयः प्रपठन्ति नित्यम् ॥ संसारसागरमपारमनन्तदुर्गमत्तारणार्थमखिलं शरणं प्रपद्ये ॥ योगीन्द्रमानससरोवरराजहंसं शुद्ध प्रभावमखिलं सततं हि यस्य ॥ तस्यैव पादयुगलं ह्यमलं नमामि दीनस्य मेऽशुभभयात्कुरु देव रक्षाम् ॥ १९ लोकस्य पालनकृते परिणीतधर्म सत्यान्वितं सकललोकगुरुं सुरेशम् ।। गायाम्यहं मुरसगीतकतालमानः श्रीवत्समेकमखिलं भुवनस्य देवम् ॥ २० ध्यायेऽखिलस्य भुवनस्य पतिं च देवं दुःखान्धकारदलनार्थमिहेव चन्द्रम् ॥ अज्ञाननाशक(म)मलं च दिनेशतुल्यमानन्दकन्दमखिलं महिमासमेतम् ॥ संपूर्णमेवममृतस्य कलौनिधानं तं गीतकौशलमनन्यरसैः प्रगाये ॥ २१ युक्तं सयोगकरणेः परमार्थदृष्टिं विश्वं स पश्यति चराचरमेकमित्थम् ॥
पश्यन्ति नैव यमिहाथ सपापलोकास्तं केशवं शरणर्मकमुमि नित्यम् ॥ २२ कराभ्यां वाद्यमानस्तु तालं तालसमन्वितम् । गीतन गायतं कृष्णं बालकः मह मोदते ॥ २३ एवं तु क्रीडते नित्यं बालभावेन वै तदा । सुव्रतः सुमनापुत्रो विष्णुध्यानपरायणः॥ २४ कीडमानं माह माता सुव्रतं चारुलक्षणम् । भोजनं कुरु में वत्म क्षुधा त्वां परिपीडयेत् ॥ २५ तामुवाच तदा प्राज्ञः सुमनां मातरं पुनः । महामृतेन तृप्तोऽस्मि हरिध्यानरमेन वे ॥ भोजनासनमारूढो मिष्टमन्नं प्रपश्यति ॥ इदमन्नं स्वयं विष्णुरामा द्यन्नं ममाश्रितः । आत्मरूपेण यो विष्णुश्चान्ननानन तृप्यतु ॥ २७ क्षीरसागरसंवामां यस्यैव परिमंस्थितः । जलनानेन पुण्येन तृप्तिमायातु केशवः ॥ २८ ताम्बूलचन्दनर्गन्धेरेभिः पुप्पैमनोहरः । आत्मरूपेण गोविन्दस्तृप्तिमायातु केशवः ॥ २९ शयनं याति धर्मात्मा तदा कृष्णं चिन्तयेत् । योगनिद्रायुनं कृष्णं तमहं शरणं गतः ॥ ३० भोजनाच्छादनप्वेवमासने शयने द्विजः । चिन्तयेद्वासुदेवं तं तस्मै सर्व प्रकल्पयेत् ॥ ३१ तारुण्यं प्राप्य धर्मान्मा कामभोगान्विहाय वै । संयुक्तः केशवध्यान वैडूर्ये पर्वतोत्तमे ॥ ३२ यत्र सिद्धेश्वरं लिङ्गं वैष्णवं पापनाशनम् । रुद्रमोंकारसंज्ञं च ध्यात्वा चैवं महेश्वरम् ॥ ३३ ब्रह्माणं विद्धि तं देवं नमदादक्षिणे नटे । सिद्धेश्वरं समाश्रित्य नपाभावं व्यचिन्तयत् ॥ ३४
इति श्रीमहापुराणे पाने मिखण्ड मुमनोपाख्याने विशोऽध्यायः ॥ २० ॥
आदितः श्लोकानां समष्ट्यङ्काः-४२०५
अर्थकविशाऽध्यायः।
व्यास उवाचप्रश्नमेकं महाभाग करिप्यं सांप्रतं वद । त्वयैव पूर्वमुक्तं तु सुव्रतं च प्रतीश्वरम् ॥
१ क. ख. ङ. च. छ. झ. ट. ड. ढ. में मुररिपो कुरु तस्य र'। ग. घ. मेऽमुररिपो कुरु। २ क. ख. ड. च. छ. स. ढ. श्रीरङ्गमे । ३ क. ख. ङ. च. छ. झड.द. 'लावितानं । ४ क. ख, ग .घ. छ.च. ज. ज.ट. ड.द. 'मेव नित्यम् । ५छ, पवित्र ६ अ. 'च--पराणे(ने)न महाभाग कारित किच तदद।
Page #166
--------------------------------------------------------------------------
________________
१६०
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे -
पूर्वाभ्यासेन स ध्यायन्नारायणमनामयम् । कस्यां जातौ समुत्पन्नः सुव्रतः पूर्वजन्मनि । तन्मे त्वं सांप्रतं ब्रूहि कथमाराधितो हरिः । अनेनापि सुदेहेन कोऽयं पुण्यसंमन्वितः ॥ ब्रह्मोवाच....
७
1
बैदिशे नगरे पुण्ये बहुदृद्धिसमाकुले । तत्र राजा महातेजा ऋतध्वजसुतो बली । तस्याऽऽत्मजो महापुण्यो रुक्मभूषणसंज्ञकः । संध्यावली तस्य भार्या धर्मपत्नी यशस्विनी ॥ तस्यां पुत्रं समुत्पाद्य स आत्मसदृशं बैली । तस्य धर्माङ्गदं नाम चकार नृपनन्दनः ॥ सर्वलक्षणसंपन्नः पितृभक्तिपरायणः । रुक्माङ्गदस्य तनयो योऽयं भगवतां वरः ॥ पितुः सौख्यार्थमेवापि मोहिन्यर्थे शिरो ददौ । वैष्णवेन च धर्मेण पितृभक्त्या तु तस्य वै ॥ ८ सुप्रसन्नो हृषीकेशः सकायो वैष्णवं पदम् । नीतचैव तु सर्वज्ञो वैष्णवः सात्वतां वरः धर्माङ्गदो महाप्राज्ञः प्रज्ञाज्ञानविशारदः । तत्रस्थो वै महाप्राज्ञो धर्मोऽसौ धर्मपणः ॥ दिव्यान्मनोनुगान्भोगान्मोदमानः प्रभुञ्जति । पूर्णे वर्षसहस्रान्ते धर्मात्मा धर्मभूषणः ॥ तस्मात्पदात्परिभ्रष्टो विष्णोरेव प्रसादतः । सुत्रतो नाम मेधावी सुमनानन्दवर्धनः ॥ सोमशर्माख्यतनयः श्रेष्ठो भगवतां वरः । तपश्चचार मेधावी विष्णुध्यानपरोऽभवत् ।। कामक्रोधादिकान्दोपान्परित्यज्य द्विजोत्तमः । संनियम्येन्द्रियवर्ग तपस्तेपे स निर्जने ॥ वैदूर्यपर्वतश्रेष्ठे सिद्धेश्वरसमीपतः । एकीकृत्य मनवायं संयोज्य विष्णुना सह ।। एवं वर्षशतं स्थित्वा ध्याने तस्य महात्मनः । सुप्रसन्नो जगन्नाथः शङ्खचक्रगदाधरः ॥ तस्मै वरं ददौ चाथ लक्ष्म्या च सह केशवः । भो भोः सुव्रत धर्मात्मन्कुध्यस्व विबुधाधिप ।। १७ वरं वरय भद्रं ते कृष्णोऽहं ते समागतः । एवमाकर्ण्य मेधावी विष्णोर्वाक्यमनुत्तमम् ॥ हर्षेण महताऽऽविष्टो दृष्ट्वा देवं जनार्दनम् । बद्धाञ्जलिपुटी भृत्वा मणाममकरोत्तदा ॥ सुव्रत उवाच -
१३
१४
१५
१६
१८
१९
संसारसागरभंतीव गभीरपारं दुःखोर्मिभिर्विविधमोहमयैस्तरङ्गैः ॥ संपूर्णमस्ति निजदोषगुणैस्तु प्राप्तं तस्मात्समुद्धर जनार्दन मां दीनम् || [*कर्माम्बुदे महति गर्जति वर्षतीव विद्युल्लतोल्लसति पातकसंचयैर्मे || मोहान्धकारपटलैर्मम नष्टदृष्टेदीनस्य तस्य मधुसूदन देहि हस्तम् ॥ ] संसारकाननवरं बहुदुःखवृक्षैः संसेव्यमानमपि मोहमयैश्च सिंहः || संदीप्तमस्ति कॅरुणावहुवह्नितेजः संतप्यमानमनसं परिपाहि कृष्ण ॥ संसारवृक्षमतिजीर्णमपीह उच्च मायासुकन्दकरुणाबहुदुः खशाखम् ॥ जायादिसंघच्छदनं फलितं मुरारे तं चाधिरूढपतितं भगवन्हि रक्ष ||
* क ख ग घ ङ च छ झ. ट ड ढ पुस्तकस्थोऽयं पाठः ।
१०
99
3
92
२१
२२
२३
१ ञ. ॰समाविलः । ब्र. । २ क. ख. ड. च. छ. झ. ड ढ णविश्रुतः । सं । ३ क. ख. ग, घ, ङ. च. छ. झ. ड. ड ढ ततः । ४ क. च. योग्यो । ५ अ. मानो भुगं दिपि। पृ । ६ क. ख. ङ. च. छ. झ. ढ. 'र्णे युगौं । ७ग. घ. ज. संयम्य त्रितयं व । ८. संयम्य त्रिविधं व. । ८ क ख ग घ ड च छ ज झ ट ड ढ विबुधां वर । ९ क. ख. ग. घ. ङ. च. छ. झ. ड, ढ, व 'महासुरः खर्जालाम' । १० अ. संसृष्टिम । ११ अ. करणालनव । १२ क ख ग घ ङ च छ. ज. झ. ट. द. मू । पापस्तु संचयधनं ।
Page #167
--------------------------------------------------------------------------
________________
२८
२१ एकविंशोऽध्यायः ] पद्मपुराणम् ।
१६१ दुःखानलैर्विविधमोहमयैः सुधूमैः शोकैवियोगमरणान्तकसंनिभैश्च ॥ दग्धोऽस्मि कृष्ण सततं मम देहि मोक्षं ज्ञानाम्बुनाऽथ परिषिच्य सदैव मां त्वम् ॥ मोहान्धकारपटले महतीव गर्ने संसारनाम्नि सततं पतितं हि कृष्ण । कृत्वा तरी मम हि दीनभयातुरस्य तस्माद्विकृष्य शरणं नय मामितस्त्वम् ॥ २५ त्वामेव ये नियतमानसभावयुक्ता ध्यायन्त्यनन्यमनसा पदवीं लभन्ते । नत्वैव पादयुगलं [ *च महत्सुपुण्यं ये देवकिंनरगणाः परिचिन्तयन्ति ॥ २६ नान्यं वदामि न भजामि न चिन्तयामि त्वपादपद्मयुगलं ] सनतं नमामि ।। एवं हि मामुपगतं शरणं च रक्ष दूरेण यान्तु मम पातकसंचयास्ते ॥
दामोऽम्मि भृत्यवदहं नव जन्म जन्म त्वत्पादपद्मयुगलं सततं नमामि ॥ २७ यदि कृष्ण प्रसन्नोऽसि देहि मे वर मुत्तमम् । मम तो पितरौ कृष्ण सकायो नय मन्दिरे ॥ आत्मनश्च कलत्रं च मया सह न संशयः॥
श्रीकृष्ण उवाचएवं ते परमः कामो भविष्यति न संशयः । तस्य तुष्टो हुपीकेशो भक्त्या तस्य प्रतोषितः ॥२९ प्रयातो वैष्णवं लोकं दाहालयवर्जितम् । सुत्रनेन समं नौ द्वौ सुमनामोमशर्मकौ ॥ ३० यावत्कल्पद्वयं प्राप्त तावदै सुव्रतो द्विजः । बुभुजे पुण्यजाल्लोकान्भोगांश्चैव महामनाः॥ ३१ देवकायाथेमत्रैव कश्यपस्य गृहे पुनः । अवतीर्णो महाप्राज्ञो वचनात्तस्य शाङ्गिणः ॥ ३२ ऐन्द्रं पदं हि यो भुते विष्णोश्चैव प्रसादतः । वमुदत्तति विख्यातः सर्वदेवनेमस्कृतः ॥ [*ऐन्द्रं पदं हि यो भुड़क्ते सांप्रतं वासवो दिवि ॥ एतत्ते सर्वमाख्यानं सृष्टिसंबन्धकारणम् । अन्यच्चैव प्रवक्ष्यामि यत्पृच्छसि महामते ॥ ३४
__व्यास उवाचधर्माङ्गदो महापाज्ञो रुक्माङ्गदसुतो बली। आये कुनयुगे प्राप्ते सृष्टिकाले स वासवः ॥ नत्कथं देवदेवेश बन्यो धर्माङ्गदो भुवि ।। अन्यो धर्माङ्गदो राजा किंवाऽयं त्रिदशाधिपः । एतं मे संशयं जानं तद्भवांश्छेत्तुमर्हति ॥ ३६
ब्रह्मोवाचहन्त ते कीर्तयिष्यामि सर्वसंदेहनाशनम् । देवस्य लीला सृष्ट्यर्थ वर्तते द्विजसत्तम ।। ३७ यथा वाराश्च पक्षाश्च मासाश्च ऋतवो यथा । संवत्सराश्च मनवो यथा यान्ति युगानि च ॥ ३८ नथा कल्पाः समायान्ति बजाम्येवं जनार्दनम् । अहमेव महापाज्ञ मयि यान्ति चराचराः ॥३९ पुनः सृजति योगात्मा पूर्ववद्विश्वमेव हि । पुनश्चाहं पुनर्वेदाः पुनस्ते देवता द्विजाः ॥ ४० तथा भूपाश्च ते सर्वे प्रजाश्चैव नथाऽखिलाः । प्रभवन्ति महाभाग विद्वांस्तत्र न मुह्यति ॥ ४१ पूर्वकल्पे महाभागो यथा रुक्माङ्गदो नृपः । तथा धर्माङ्गदश्वायं संजातः ख्यातिमान्दिन ॥ ४२
Mm
* ग. घ. ज.ट.ड, पुस्तकस्थोऽयं पाठः । * क ख ग घ. दु, च. छ. झ.ट.ड.ढ. पुस्तकस्थोऽयं पाठः।
१ क, ख. हु. च. छ. झ. ट. ड. ढ. कृपा।२क. ख. ग, घ, ङ. च. छ, झ... ट. 3. ध्यानेन ज्ञानमः ।। क. ख. ग. घ. इ. च. छ. स.ट. हि काममपि परय मेऽद्य कृष्ण हूँ। ४ क. ख. ग. घ. डा.च. छ.. ड. ढ. 'चमहादव म । ५ क. ख, ग, घ, ङ, च. छ. ड, ढ, रुक्माङ्गदो। ६ क.ख. ग. घ..च. छ. झ.ट.इ. द. तात । ७क. ख. ग.घ. ड.च.छ.श. ड.. 'त्मा मत्पर्व विश्व। ८ क.स. घ. द.च. छ. झ.ट. ड. व स्वचरित्रे समाविलाः ।
Page #168
--------------------------------------------------------------------------
________________
१६२
महामुनिश्रीव्यासपणीत
[ २ भूमिखण्डेरामादयो महाप्राज्ञा ययातिनहुषादयः । मन्वादयो महात्मानः प्रभवन्ति लयन्ति च ॥ ४३ ऐद्रं पदं प्रभुञ्जन्ति राजानो धर्मतत्पराः । यथा धर्माङ्गदो वीरः प्रभुनक्ति महत्पदम् ॥ ४४ एवं देवाश्च वेदाश्च पुराणस्मृतिपूर्वकाः । एतत्सर्वं समाख्यातं तवाग्रे द्विजसत्तम ॥ चरितं मुव्रतस्याथ पुण्यं सुगतिदायकम् ।।
इति श्रीमहापुराण पाद्मे भूमिखण्डे ऐन्द्रे मुव्रतोपाट्यानं नामकविंशोऽध्यायः ॥ २० ॥
__ आदितः श्लोकानां समथ्यङ्काः-४३४०
अथ द्वाविशोऽध्यायः ।
ऋपय ऊचुःविचित्रयं कथा पुण्या सर्वधर्मप्रदायिनी । सर्वपापहग प्रोक्ता भवता वदतां वर ॥ ? सृष्टिसंबन्धमेतं नस्तद्भवान्वक्तुमर्हति । पूर्वमेव कथं सृष्टिविस्तरान्मृतनन्दन ॥
सून उवाचविस्तरेण प्रवक्ष्यामि सृष्टिमंहारकारणम् । श्रुतमात्रेण यस्यापि नरः सर्वज्ञतां व्रजेत् ॥ ३ हिरण्यकशिपुर्यो हि तेन व्याप्तं जगत्रयम् । तपसाऽऽराध्य ब्रह्माणं वरं प्राप सुदुर्लभम् ॥ ४ [*तस्मादेवान्महाभागादमरत्वं तथैव च । देवाल्लीकान्समं व्याप्य प्रभुत्वं स्वयमर्जिनम् ॥ ५ ततो देवाः सगन्धर्वा मुनयो वेदपारगाः । नागाश्च किंनगः सिद्धा यक्षाश्चैव तथाऽपर ।। ६ ब्रह्माणं तं पुरस्कृत्य जग्मुर्नागयणं प्रभुम् । क्षीरसागरसंमुप्तं योगनिद्रां गतं प्रभुम् ॥ संविबोध्य महास्तोत्रर्देवाः प्राञ्जलयः स्थिताः ॥ संविबुद्धे तु देवेशे वृत्तान्तं सुदुरान्मनः । आचचक्षुर्महात्मानः समाकर्ण्य जगन्पतिः ।। नृसिंहरूपमास्थाय तं जघान महावलम् । [*पुनर्वागहरूपेण हिरण्याक्षं महाबलम् ।। तद्धाच्चैव संतप्ता असुरा युयुधुश्च तम् । सोऽप्यन्यांश्च जघानाथ दानवान्धारदर्शनान ॥ एवं वै तेषु नष्टेषु दानवेषु महात्मसु । ['अन्यपु तेषु नष्टेपु दितिपुत्रेषु वै तदा ॥ ११ पुनः स्थानं हि प्राप्तेषु देवेषु च महात्मसु । यज्ञप्वथ प्रवृत्तेपु सर्वेषु धर्मकर्मसु ।। स्वस्थेषु सर्वलोकेषु दिति दुःखपीडिता । पुत्रशोकेन संतप्ता हाहाभना विचंतना ।। भर्तारं सूर्यसंकाशं तपस्तेजःसमन्वितम् । दातारं च महात्मानं भर्तारं कश्यपं तदा ॥ १४ भक्त्या प्रणम्य विप्रेन्द्र तमुवाच महामतिम् । भगवन्नष्टपुत्राऽहं कृता देवेन चक्रिणा ॥ १५ दैत्याश्च दानवाः सर्वे देवैश्चैव निपातिताः । पुत्रशोकानलेनाहं संतप्ता मुनिसत्तम ॥ १६
* क ख. ड. च. छ. ट. ड. द. पुस्तकम्याऽय पाटः । एनिहनान्त। नोऽय पाटः क. ख. ४. च. छ. झ. ड. द. पुस्तकस्थः । * एतचिहान्तर्गतोऽयं पाठः क ख.ग. ह. च. छ. झ. ट. ड. ढ पुस्तकस्थः ।।
क. ख. ग. . च. छ. ज. अ. ट. ड. राणाः स्मृ । २ क. ख. ड च. छ. झ. ट. 'म् । अव्यक्त ते महाभाग प्रवीमि तवाग्रतः ।।ग. घ. ट. 'म् । अन्यत्कि ते प्रवक्ष्यामि भवतां यद्विरोचते।इ। ग. घ. ज. ट. महारमे। ४ क. ख. ग. घ. ङ. च. छ. ज. झ. ट. ड. द. सबन्धका । ५ क. ख. ग. घ. च. छ. झ. ट. उ. द. लयस्तदा। सं। ६ क.ख. .च. छ. . ढ. म्। उद्धृता सुधा पुण्या चामुर घातित तदा । सो। ७ क, ख, ड. च. छ. झ. ढ. दुष्टेषु ।
Page #169
--------------------------------------------------------------------------
________________
१८
२२ द्वाविंशोऽध्यायः ]
पद्मपुराणम् । ममाऽऽनन्दकरं पुत्रं सर्वतेजोहरं विभो । सुबलं चारसर्वाङ्ग रवितेजःसमप्रभम् ॥ बुद्धिमन्तं च सर्वज्ञं ज्ञातारं सर्वदेहिनाम् । तपस्तेजःसमायुक्तं वेदशं वेदपारगम् ॥
ब्रह्मज्ञं ज्ञानवेत्तारं देवब्राह्मणपूजकम् । जेतारं सर्वलोकानां 'ममाऽऽनन्दकरं द्विज ॥ १९ सर्वलक्षणसंपन्नं पुत्रं मे दीयतां विभो । एवमाकर्ण्य वै तस्याः कश्यपो वाक्यमुत्तमम् ॥ २० कृपाविष्टमनास्तुष्टो दुःखितां तां द्विजोत्तमः । समुवाच महाभागः कृपणां दीनमानसाम् ॥ २१ नस्याः शिरसे संन्यम्य स्वहस्तं भावतत्परम् । भविष्यति महाभागे यादृशो वाञ्छितः सुतः२२ एवमुक्ता जगामामो मेरुं गिरिवरोत्तमम् । तपस्ने निरालम्बा साधयन्परमद्युतिः ॥ २३ एतस्मिन्नन्तरे सा तु गर्भ दधार चोत्तमम् । सा दितिः सर्वधर्मज्ञा चारुकर्मा मनस्विनी ॥ २४ शतवर्षाप्रमाणं तु शुचिमनी बभूव ह । तयाऽथ जनितः पुत्रो ब्रह्मजःसमन्वितः ॥ २५ [ *अथ कश्यप आयातो हर्पण महनाऽन्विनः ] । चकार नाम मेधावी तस्य पुत्रस्य सत्तमः २६ बल इत्यब्रवीद्विषो नाम नत्सदृशो महान । एवं नाम च कृत्वाऽथ व्रतवन्धं चकार सः ॥ २७ पाह पुत्र महाभाग ब्रह्मचर्य प्रसाधय । एवमेतत्करिष्यामि नद्वाक्यं जगृहे च सः ॥ २८ वेदस्याध्ययनं कुर्याइह्मचर्येण सुव्रतः । एवं वर्षशतं जातं तस्यैवं च तपस्यतः ॥ २९ मातुः समीपमायाति तपस्तेजःसमन्वितः । तपोवीयमयं दिव्यं ब्रह्मचर्य महात्मनः ॥ ३० दितिः पश्यति पुत्रस्य हर्पण महताऽन्विता । तमुवाच महात्मानं बलं पुत्रं तपस्विनम् ॥ ३१ मेधाविनं महाप्राज्ञं प्रज्ञाज्ञानविशाग्दम् । वयि जीवनि भो वन्स प्रजीवन्ति सुता मम ॥ ३२ हिरण्यकशिपायाश्च ये हताश्चक्रपाणिना । वैरं माधय मे वन्म जहि देवारिपूरणे ॥ ३३ दनुश्व नमुवाचाथ बलं पुत्रं महाबलम् । आदाविन्दं हि देवेशं द्रुतं मृदय पुत्रक ॥ ३४ पश्चाद्देवान्निपात्यैतास्ततो गरुडवाहनम् । तथा चाऽऽकण्य सा देवी यदितिः पतिदेवता ॥ ३५ दुःग्वेन महताऽऽविष्टा पुत्रमिन्द्रमभापन । दितिपुत्रो महातेजा महाकायो व्यवर्धितः॥ ३६ देवानां हि वधार्थाय तप॑स्तेपे निरञ्जने । एवं जानीरि देवेश यदि ममिहेच्छसि ॥ ३७ तच्छत्वा वचनं तस्याः स मातुः पाकशामनः । चिन्तामवाप दुःखेन महतीं देवराट् तदा ॥३८ महाभयेन संत्रम्तश्चिन्तयामास वै तदा । कथमनं हनिष्यामि वेदधर्मविदूषकम् ॥ ३९ इति निश्चित्य देवेशो बलस्य निधनं प्रति । एकदा तु वलः सायं संध्यार्थ सिंधुमागतः ॥ ४० कृष्णाजिनेन दिव्येन दण्डकाप्टेन राजितः । अमलेनापि पुण्येन ब्रह्मचर्येण तेजसा सागरस्यापकण्ठ तं संध्यासनमुपागतम् । जपमानं तु तं दैत्यं दर्शयामाम वासवः ॥ वज्रेण पाटयामास देवेन्द्रोऽसौ वलं तदा । एवं निपतितं दृष्ट्वा गतसत्त्वं गतं भुवि ।। हर्षेण महनाऽऽविष्टो देवराण्मुमुदे तदा ॥
* एतचिहान्तर्गतोऽय पाट. क. स्व. ग. घ. इ. च. 7. झ. ट इ. इ. पुस्तकस्थः । जि. पुस्तकं "देवब्राह्मगकण्टकम्" इति पाठो वर्तते तथाऽपि पर्वा "देवब्राह्मगपजकम्" इति विशेषणविरोधादन्य स्तकात् 'ममाऽऽनन्दकर द्विज' इश पाटी मल निवाशितः ॥ * एतच्चिदान्तर्गतोऽय पाठः क, ख. ग. घ. इ. च. छ. झ. इ. ढ. पुस्तकस्थः ।
१ क. ख. र. च. छ. म. ढ. "ग देवते । २ क. ख. ग. घ. द. च. छ.स.ट. ड ढ. र्वपण्डितम् । ज. 'र्वप्राणिनाम् । ३ क. ख. ग. घ. ङ च छ. झ.ट. इ. इ. 'क्त मुबलं चारुलक्षणम्। ४ क ख. च. छ. डणे । सा दितिस्तम्।
५ क. ख. च. छ. झ. ढ. तयोराक' । ६ क.ख. ग.घ इ. च. छ. स. ८. . ढ. 'हाकायो वर्धते ब्रह्मतेजस ।दे' । ७ म. पिस्तप्य अगाद ह । दिव जहाहि । ८ क. स्व. हु. च. छ. झ. ढ. तेन मः । मा ९ क ख.. च छ. झ.ढ.'नं सशान्तं तं।
Page #170
--------------------------------------------------------------------------
________________
१६४ महामुनिश्रीव्यासपणीतं
[ २ भूमिखण्डेएवं निपातितं दैत्यं दितिनन्दनमेव च । वीक्ष्योत्सवं चकाराऽऽशु सुखेन पाकशासनः ॥ ४४
इति श्रीमहापुराणे पाझे भूमिखण्डे बलदैत्यवधो नाम द्वाविंशोऽध्यायः ॥ २२ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४३८४
अथ त्रयोविंशोऽध्यायः ।
...'
.
"
सूत उवाचहतं श्रुत्वा दितिः पुत्रमिन्द्रेण तु महाद्विजाः । दुःखिता करुणं कृत्वा रुरोद च भृशं तथा ॥ ? भर्तारं च पुनः प्राप्य स्वदुःखं समुवाच ह । तव पुत्रो महापाप इन्द्रः सुरगणेश्वरः॥ २ सागरोपगतं दृष्ट्वौ मम पुत्रं बलं तथा । वज्रेण पातयामास जपमानं सनातनम् ॥ एवं श्रुत्वा ततः कुद्धो मरीचितनयस्तदा । क्रोधेन महताऽऽविष्टः प्रजज्बालेव वह्निना ॥ ४ अवलुभ्य जटामेको जुहावासौ द्विजोत्तमः । इन्द्रस्यैव वधार्थाय पुत्रमुत्पादयाम्यहम् ॥ तस्मात्कुण्डात्समुत्पन्नो हुताशनमुखादपि । कृष्णाञ्जनचयांपेतः पिङ्गाक्षो भीषणाकृतिः॥ ६ दंष्ट्राकरालवक्त्रान्तो जगतां भयदायकः । महासत्त्व निभो घोरो मृगचर्मधरस्तथा॥ ७ सखगस्तेजसा दीप्तो महामेघोपमो बली । उवाच कश्यपं विप्रमादेशो मम दीयताम् ॥ ८ कस्मादुत्पादितो विप्र भवता कारणं वद । तमहं साधयिष्यामि प्रसादात्तव सुव्रत ।
कश्यप उवाचअस्या मनोरथं पुत्र पूरयस्व ममैव हि । आदित्याख्यं महाप्राज्ञ जहि इन्द्रं दुरात्मकम् ॥ १० निहते देवराजे तु पदमन्द्रं प्रभुक्ष्व च । एवं तेन समादिष्टः कश्यपेन महात्मना ॥ ११ वृत्रस्तु ह्युद्यम चक्रे तस्येन्द्रस्य वधाय च । चतुर्वेदस्य चाभ्याम स चक्रे पौरुषान्वितः ॥ १२ बलं वीर्य तथा क्षात्रं तेजोधैर्यसमन्वितम् । [* दृष्ट्वा वृत्रस्य दैत्यस्य सहस्राक्षो भयातुरः] ॥ १३ उपायश्चिन्तितस्तस्य वृत्रस्यापि दुरात्मनः । वधार्थ देवराजेन ह्याहृयासो महामुनीन् ॥ सप्तपीन्प्रेषयामास वृत्रं देत्येश्वरं प्रति ॥ भवन्तस्तत्र गच्छन्तु यत्र वृत्रः स तिष्ठति । संधि कुर्वन्तु वै तेन सार्ध मम मुनीश्वराः ॥ १५ एवं तेन समादिष्टा मुनयः सप्त ते तदा । वृत्रासुरं गताः पोचुः सहस्राक्षः प्रयाचति ॥ १६ सख्यं कर्तुं प्रयच्छेत्स क्रियतां दत्यसत्तम । ['ऋषयः सप्त तत्त्वज्ञा ऊचुव॒त्रं महाबलम् ॥ १७ सहस्राक्षो महाप्राज्ञो भवता सह सत्तम । मैत्रमिच्छति वे कर्तुं तत्कथं न करोषि किम् ] ॥१८ अर्धमैन्द्रं पदं वीर स त्वं भुव मुखेन वै । वक्ति त्वामेवमिन्द्रोऽपि ह्यसुरा देवतास्तां ॥ कुरु मैत्री तु तेः सर्वैरं दूरे विसृज्य वै ॥
* एतचिहान्तर्गत पाठोड
. पुस्तकस्थः । एतचिहनानागतोऽयं पाटः क. ख. ग. घ. इ.च.छ.ट. ड. द.
पुस्तकस्थः।
१क. ख, ग, घ. इ. च. छ.झ.ट.ड.द, च। राज्यं चकार धर्मात्मा सु। २ क.ख. दृ.च.छ.झ.ड.. त्वा तया पुत्रं सुबलं बलमेव च । रुदितं करुणं कृत्वा हाहा कष्ट भृशं मम । एवं सुकरुणं कृत्वा बहुकालं तपस्विनी। सा गता कश्यपं कान्तं तमुवाच यशस्विनी । तव । ३ क.व. ग.घ. च. छ. झ.ट.ड. द. वा बलं में ब्रह्मलक्षणम् । व। ४ क.ख. ग. घ. हु च. छ. स. ट. ड. द. धनुर्वेदस्य । ५ क. ख. च. स. महात्मनः । ६ के.ख. ग. ह. च छ. झ. ह. द. था। सखं वर्तन्त ते सर्वे बैरं।
Page #171
--------------------------------------------------------------------------
________________
१६५
३२ त्रयोविंशोऽध्यायः ]
पअपुराणम् । वृत्र उवाचयदि सत्येन देवेन्द्रो मैत्रमिच्छति सत्तमः । सत्यमाश्रित एवाहं करिष्ये नात्र संशयः॥ २० छअमेवं पुरस्कृत्य इन्द्रो द्रोह समाचरेत् । तदा किं क्रियते विमा इत्यर्थे प्रत्ययं हि किम् ॥ २१ अथर्षयस्त्विन्द्रमूचुरित्यर्थप्रत्ययं वद । तत्र त्वं सत्यतां भूहि यदि मैत्रमिहेच्छसि ॥ २२
इन्द्र उवाचयद्यसत्येन वर्तेऽहं भवद्भिः सह च्छमना । ब्रह्महत्यादिकैः पापैलिप्येऽहं नात्र संशयः॥ २३ [*ते वृत्रं दैत्यनाथं तं पुनरूचुर्महौजसः । ब्रह्महत्यादिकः पापैलिप्येऽहं नात्र संशयः ॥ २४ इत्युवाच महाप्राज्ञ त्वामेवं स पुरंदरः । एतेन प्रत्ययेनापि सख्यं कुरु महामते ॥ २५
वृत्र उवाच-- भवतां शिष्टधर्मेण सत्येन तेन तस्य च । मैत्रमेवं करिष्यामि तेन सार्ध द्विजोत्तमाः॥ २६ वृत्रमिन्द्रस्य संस्थानं नीतं ब्राह्मणपुङ्गवैः । इन्द्रस्तमागतं दृष्ट्वा वृत्रमित्रार्थमुद्यतम् ॥ २७ सिंहासनात्समुत्थाय वर्षमादाय सत्वरः । ददौ तस्मै स धर्मात्मा वृत्राय द्विजसत्तमाः ॥ २८ अर्थ भुश्व महाप्राज्ञ ऐन्द्रमेवं महत्पदम् । वर्तितव्यं मुखेनापि चाऽऽवाभ्यां दैत्यसत्तम ॥ २९ एवं विश्वासयन्देत्यं वृत्रं मेत्रेण वे तदा । तेषु तेषु च कार्येषु च्छद्मना द्विजसत्तमाः ॥ ३० छिद्रं पश्यति दुष्टान्मा वृत्रस्यैवं सदेव हि । निराधारत्वमिन्द्रोऽपि दिवारात्रौ प्रवर्तते ॥ ३१ त्रस्य पश्यन्म च्छिद्रं छद्मनाऽपि महात्मनः । उपायं चिन्तयामास वृत्रहत्यै महाबलः ॥ ३२ रम्भा संप्रेषिता तेन मोहायास्यासुरस्य वे । येन केनाप्युपायेन यथाऽहं घातये शुभे॥ ३३ तथा कुरुष्व कल्याणि संमोहाय सुरद्विषः। वनं पुण्यं महदिव्यं पुण्यपादपशोभितम् ॥ ३४ बहुपुष्पफलोपेतं मृगपक्षिसमाकुलम् । विमानरतैर्दिव्यैः परितः परिशोभितम् ॥ दिव्यगन्धर्वसंगीतं भ्रमराकुलितं सदा । कोकिलानां रुतेः पुण्यैः सर्वत्र मधुरायते ॥ ['शिखिसारङ्गनादैश्च सर्वतुकुसुमाकुलम् ] । दिव्यस्तु चन्दनैक्षैः सर्वत्र समलंकृतम् ।। [*वापीकृपतडागेश्व जलपूर्णमनोहरेः । कमलेः शतपत्रश्च पुष्पितेः समलंकृतम् ॥ देवगन्धर्वसिद्धेश्च चारणैश्चैव किंनरः ] । मुनिभिः शुशुभे दिव्यैर्देवोद्यानवनेन च ॥ अप्सरोगणसंकीर्णनानाकौतुकमङ्गलैः । हेमप्रासादसंवाघेर्दण्डच्छत्रेश्च चामरैः ।। ['कलशेश्च पताकाभिः सर्वत्र समलंकृतम् ] । वेदध्वनिसमाकीर्ण गीतध्वनिसमाकुलम् ॥ ४१ एवं नन्दनमासाद्य सा रम्भा चारुहासिनी । अप्सरोभिः समं तत्र क्रीडत्येवं विलासिनी ॥४२
सूत उवाचएकदा तु स वृत्रो वै जगाम नन्दनं वनम् । कतिभिर्दानवैः सार्ध विश्वस्तः परया मुदा ॥ ४३ अलक्ष्यो भ्रमते पार्चे तस्यैव च महात्मनः । देवराजः स विप्रेन्द्राश्छिद्रान्वेषी विशङ्कितः॥ ४४
* एतचिहनान्तर्गतोऽय पाठः क. ख. ग. घ. च. छ. . ड. द.पुस्तकस्थः । । एतचिदान्तर्गतोऽयं पाठः क. ख.
ग.घ.च. छ. झ... पुस्तकस्थ: । एतचिदान्तगतोऽयं पाठः क ख ग. इ.च. छ. झ.ट.. पुस्तकस्थः । + एतथिहान्तर्गतोऽयं पाठः क. ख. ग. च. छ. झ. दृ ढ. पुस्तकस्थः ।
१. 'यं वदेत् । अ। २ क ख. ङ. च. छ. झ. ड. ढ. 'दा । गतेषु तेषु विप्रेषु स्वस्थानं द्वि' । ३ क.ख. ग. घ. १. च. छ. झ. ड. द. प्राचन्तयेत् । ४ ग. घ. 'मानमन्दिरैर्दिव्यः सर्वत्र पाट. 'मानवापिकारामः सर्वत्र प।५ क. ख, ग. घ. ङ, च. छ. १. ड. द. 'ध मुदया परया युतः । ।
Page #172
--------------------------------------------------------------------------
________________
१६६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेस हि त्रो महामाज्ञो विश्वस्तः सर्वकर्मसु । इन्द्रं मित्रं परं ज्ञात्वा भयं चक्रे न तस्य सः ॥४५ भ्रममाणो वनं पश्येत्मवत्र परमं शुभम् । सुरम्यं कौतुकवनं वनिताशतसंकुलम् ॥ ४६ चन्दनस्यापि वृक्षस्य च्छायां शीनां शुभान्विताम् । समाश्रित्य विशालाक्षी रम्भा तत्र च दीव्यति४७ सखीभिस्तु महाभागा दोलारूढा यशस्विनी। गायते सुम्बरं गीतं सर्वविश्वप्रमोहनम् ॥ ४८ तत्र वृत्रः समायातः कामाकुलिनमानसः । दोलारूढां समालोक्य रम्भां तां सुमनोरमाम् ॥ ४९
इति श्रीमहापुराणे पाझे भमिखण्डे वृत्रवचने त्रयोविंशोऽध्यायः ॥ २३ ॥
आदिनः श्लोकानां समष्टयङ्काः-४४३३
अथ चतविशोऽध्यायः ।
m
सूत उवाच
इयं तु का गायति चारुलोचना विलासंयन्ती परितो वनं च ॥
अतीव शोभा लभते मनोहरा ह्यपूर्वभावैः परिमाहयन्ती ।। [*दृष्ट्वा स रम्भां कमलायताक्षी पीनस्तनी चन्दनचिताङ्गीम् ।
पद्मानना कामगृहं न वेषा नो वा रतिश्चारुमनाहरेयम् ।।] संपूर्णभावां परिरूपयुक्तां कामाङ्गलीलामतिमादधानाम् । पश्यामि चैनां च मुकाममोहितां याम्यामि पृच्छामि च का भवेत्सा ॥ ३ इतीव दैत्यः सुविचिन्तयानः कॉलेन मुग्धः स च कालनोदितः । रम्भां तु तां तत्र जगाम सत्वरमुवाच वे दीनमनाः सुलांचनाम् ॥ कस्यासि वा सुन्दरि केन सविता किं नाम ते पुण्यतमं वदस्व मे ।।
तवैव रूपेण महातितेजसा मुग्धोऽस्मि बाले मम वश्यतां बज ॥ ५ एवमुक्ता विशालाक्षी प्राह कामातुरं प्रति । अहं रम्भा महाभाग क्रीडार्थ वनमुत्तमम् ॥ ६ सखीभिः सहिता याता नन्दनं कामदं शुभम् । त्वं च को वा किमर्थं हि मम पार्श्वमुपागतः ॥७
हत्र उवाचश्रूयतामभिधास्यामि योऽहं वाले समागतः । हुताशनात्समुत्पन्नः कश्यपस्य सुतः शुभे ॥ ८ सखाऽहं देवदेवस्य शक्रस्यापि शुभानने । ऐन्द्रं पदं वरारोहे ह्यधं में भुक्तिमागतम् ॥ ९ अहं त्रः कथं देवि मां चैवं त्वं न विन्दसि । त्रैलोक्यं वशमायानं पश्य मे वरवणिनि ॥ १० अहं शरणमायातः कार्माद्वच्मि वरानने । रमस्व मां विशालाक्षि कामनाऽऽकुलितं प्रिये ॥ ११
रम्भोवाचवशगाऽहं तवेवाय भविष्यामि न संशयः । यद्यद्वदाम्यहं वीर तत्तत्कार्य त्वयैव हि ॥ १२
* एतचिनान्तर्गतोऽयं पाठ : क. ख. ग. घ. दु. च. छ. झ. ड न. पुस्तकस्थः । १क. ख. ग. घ. इ. च .न. ड. ढ. मुपुण्यदां । २ क ख. इ.च. छ. झ. इ.ढ. "सभावः परिविश्वमोहना । अतीव बाला शुशुभे मनोहरा संपूर्णभावः परिमोहयेजनम् । ३ क. ख. ग. घ. इ. च. छ. झ.ट.इ. ढ. गशीलामतिशीलभावाम् । प। ४ क. ख. ग. घ. ङ. छ. ज. स. इ. ढ.'म् । यास्याम्यहं वश्यमिहेव ह्यस्या मनोभवनाद्य इहव प्रेषितः । ई। ५ क. ख. इ. च. छ.स. ढ. कामेन । ६ क.ख. ड. च छ.झ. ट.. 'तः । समातुरस्तत्र । ड. 'त: । कामातुरस्तत्र । ७ क. च. ग. घ. ङ. च. छ. झ. ड, ढ. प्रेषिता । ८ क ख. च. छ. झ. ह. द. माद्रक्ष व।
Page #173
--------------------------------------------------------------------------
________________
१६७
२५ पञ्चविंशोऽध्यायः ]
पद्मपुराणम् । एवमस्तु महाभागे तत्तत्सर्व करोम्यहम् । एवं संभाषणं कृत्वा तया सह महाबलः ॥ १३ तस्मिन्बने महापुण्ये रेमे दानवसत्तमः । तस्या गीतेन नृत्येन हास्येन चलितेन वा ॥ १४ अतिमुग्धो महादैत्यः स तस्याः सुरतेन च । तमुवाच महाभागं दानवं सा वरानना ॥ १५ सुरापानं कुरुप्वेति पिवस्व मधुमाधवीम् । तामुवाच विशालाक्षी रम्भां शशनिभाननाम् ।। १६ पुत्रोऽहं ब्राह्मणस्यापि वेदवेदाङ्गपारगः । सुरापानं कथं भद्रे करिष्यामि विनिन्दितम् ॥ १७ नयों तु रम्भया देव्या पीत्या दत्ता सुरा हठात् । तस्या दाक्षिण्यभावस्तु सुरापानं कृतं तदा१८ अनिमुग्धः सुरापानाज्ज्ञानभ्रष्टोऽभवत्तदा । तदन्तरे सुरेन्द्रेण वज्रेण निहतस्तथा।। * १९ ब्रह्महत्यादिकैः पापैः स लिप्तो वृत्रहा नतः। ब्राह्मणास्तु नतः पोचरिन्द्र पापं कृतं त्वया ॥२० अस्मद्वाक्यात्तु विवस्तो वृत्रो नाम महाबलः । हतो विश्वामभावन एवं पापं त्वया कृतम् ॥२१
इन्द्र उवाचयेन केनाप्युपायन हन्तव्योऽरिः सदेव हि । देवब्राह्मगहन्ता च यज्ञधर्मस्य कण्टकः ॥ २२ निहतो दानवी दुष्टी लोकानां च विनाशकृत् । किपर्थ कुपिता यूयमेतन्यायस्य लक्षणम् ॥ २३ विचारश्चापि कर्तव्यो भवद्भिर्दिजसत्तमाः । पश्चात्कार्य प्रकर्तव्यं न्याय्यान्याय्यं विचिन्त्यताम्॥ एवं संबोधिता विप्रा इन्द्रणापि महात्मना । ब्रह्मादिभिः सर्गः सर्वोधितास्ते च सत्तमाः॥ जग्मुः स्वस्थानमेवं हि निहते धर्मकण्टके । इति श्रीमहापुराण पाद्मे भमिरवण्डे त्रागुग्वधो नाम चतुर्विशोऽ यायः ॥ २४ ॥
आदितः श्लोकानां समयङ्काः-४४५८
२५
अथ प विशोऽध्यायः ।
सृत उवाचवृत्रं तु निहतं श्रुत्वा सा दितिदुःखपीडिता । पुत्रशोकेन तेनैव संदग्धा द्विजसत्तमाः॥ ? उवाच च महात्मानं कश्यपं मुनिमत्तमम् । इन्द्रस्यापि सुदुष्टस्य वधार्थ मुनिपुंगवाः ॥ २ ब्रह्मतेजोमयं दिव्यं दुःसहं सर्वदेवनः । पुत्रकं दातुमा सि सुप्रियाऽहं यदा विभो ॥ ३
कश्यप उवाचनिहतो बलवृत्री ती मम पुत्री महावलौ । पापमाश्रित्य देवेन इन्द्रेणापि दुरात्मना ॥ ४ नस्यैव च वधार्थाय पुत्रमेकं ददाम्यहम् । ['वर्षाणां तु शनैकं त्वं शुचिर्भव यशस्विनि]॥ ५ एवमुक्त्वा स योगीन्द्रो हस्तं शिरसि वै तदा । दत्त्वा दित्या सहवासौ गतो मेरोस्तपोवनम् ॥६ नप आस्थाय सा देवी पन्ती वदिशालिनी । शुचिप्मती सदा भूत्वा पुत्राथै द्विजसत्तमाः ॥७ ततो देवः महस्राक्षी ज्ञात्वा तस्यास्तमुद्यमम् । दित्याश्चैवं महाभागा अन्तरप्रेक्षकोऽभवत् ॥ ८
___ * अत्र "'' चिहानतपुस्तक "श्रुत्वा मप्तर्षय. क्रुद्धाम्नत्राऽऽगन्येन्द्रमत्रुवन्” इति श्लोका दृश्यते । + एतचिहनान्तगतोऽय पाटः क ख ग. घ. दुः च. छ. झ. ट इ. ढ. पुस्तकस्थः ।
१. ख, ग, घ, ङ. च. छ. झ. ट. ड. द. ललितन । २ क. ख. ग टु. च. छ.स. ट हैं. ढ. 'भागा वृत्रं दानवसत्तमम । म'। अझ. 'या दैत्यं प्रात्या में वशमानितम् । त'। ४ छ तन इन्द्रेण संमृप्तं वज्रेणापि हतं तदा । । ५ क. ख. ४. च. छ. झ. इ. ढ. 'श्चात्कोपं प्र'। ६ क. ख. र. च. छ. झ. ड. ढ. तपोवननिवासिनी। अ. सदःखिता। ८. 'न्तरिक्षगतोऽभ।
Page #174
--------------------------------------------------------------------------
________________
१६८
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेपञ्चविंशाब्दिको भूत्वा देवराइदेवतापसः । ब्राह्मणस्य च रूपेण तस्याश्वान्तिकमागतः ॥ ९ स तां प्रणम्य धर्मात्मा मातरं तपसान्विताम् । तयोक्तस्तु सहस्राक्षो भवान्को द्विजसत्तम ॥१० तामुवाच सहस्राक्षः पुत्रोऽहं तव शोभने । ब्राह्मणो वेदविद्वांश्च धर्म जानामि सुव्रते ॥ तपसस्तव साहाय्यं करिष्ये नात्र संशयः ॥ शुश्रूषति स चैवं हि मातरं तां तपस्विनीम् । तमिन्द्रं सा न जानाति आगतं दुष्टकारिणम् ॥१२ धर्मपुत्रं विजानाति शुश्रूषन्तं दिने दिने । अङ्ग संवाहयेद्देव्याः पादौ प्रक्षालयेत्तथा ॥ १३ फलं पुष्पं पयः पत्रं वल्कलाजिनमेव च । ददात्येवं स धर्मात्मा प्रीत्या तस्यै सदैव हि ॥ १४ भक्त्या संतोषिता तस्य संतुष्टा तमभाषत । पुत्रे जाने महापुण्य इन्द्रे च निहते सति ॥ १५ कुरु राज्यं महाभागं पुत्रेण मम देवकम् । एवमस्तु महाभागे त्वत्प्रसादाच्छुचिस्मिने ॥ १६ तस्याश्चैवान्तरं प्रेप्सुरभवत्पाकशासनः । पूर्णे वर्षशते तस्या ददर्शान्तरमीश्वरः॥ १७ अकृत्वा पादयोः शोचं दितिः शयनमाविशत् । सुप्ता पश्चाच्छिरः कृत्वा मुक्तकेशा सुविह्वला?८ निद्रामाहारयामास तस्याः कुक्षि प्रविश्य सः । वज्रपाणिस्ततो गर्भ सप्तधा विचकत ह ॥ १० वज्रेण तीक्ष्णधारेण रुरोद उदरे स्थितः । स गर्भस्तत्र विप्रेन्द्रा इन्द्रहस्तगतेन वै ॥ २० रुदमानं महागर्भ तमुवाच पुनः पुनः । शतक्रतुर्महातेजा मा रोदीरित्यभाषत ।। २१ [*सप्तधा कृतवाञ्शकस्तं गर्भ दितिजं पुनः ।] पुनः स रोदमानं तमेकैकं सप्तधाऽकरोत् ॥ २२ ते वै जातास्तु मरुतो देवाः सर्वे महानसः । यथा इन्द्रेण वै प्रोक्ता बभूवुर्नामतस्तथा ॥ २३ अनिवार्यमहाकायास्तीव्रतेजःपराक्रमाः। एकोनाश्च बभूवुस्ते पञ्चाशन्मरुतस्ततः ॥ २४ मरुतो नाम ते ख्याता इन्द्रमेव समाश्रिताः । भूतानामेव सर्वेषां रांचयन्ता जगन्महत् ॥ २५ वरं देवनिकायेषु हरिः पादात्मजापतिः । ['क्रमशस्तानि राज्यानि पृथुपूर्वाणि तानि वै ॥ २६ स देवः पुरुषः कृष्णः सर्वव्यापी जगद्गुरुः । तपोजिष्णुमहातेजाः सर्व एकः प्रजापतिः] ॥ २७ पर्जन्यः पावकः पुण्यः सर्वात्मा सर्व एव हि । तस्य सर्वमिदं पुण्यं जगत्स्थावरजङ्गमम् ।। २८ भूतसगेमिदं सम्यकश्रुत्वाऽथ द्विजसत्तमाः। न किंचिद्भयमस्तीह परलोकभयं कुतः ॥ २९ इमां सृष्टिं महापुण्यां सर्वपापहरां शुभाम् । यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ३० स हि धन्यश्च पुण्यश्च स हि सत्यसमन्वितः। यः शृणोति इमां सृष्टिं स याति परमां गतिम् ३१ सर्वपापविशुद्धात्मा विष्णुलोकं च गच्छति ॥
इति श्रीमहापुराणे पाभे भमिखण्डे मरुदुत्पत्तिर्नाम पश्चविंशोऽध्यायः ॥ २५ ॥ आदितः श्लोकानां समष्टयङ्काः-४४९.०
अर्थकषष्टितमोऽध्यायः । सूत उवाचस प्रभुः सर्वदेवस्तु ह्यभ्यषिच्य ततो नृपम् । पृथु वेनस्य तनयं सवराज्ये महाप्रभुः ॥ १
* एतचिहान्तर्गतोऽयं पाठः क. ख. ग. घ. ड. च. छ. झ. ट. द. पुस्तकस्थः । । क. ख. ग. घ. ड. च छ. स. ट. ड. ढ. पुस्तकस्थोऽयं पाटः ।
क. ख. ग. घ. हु. च. छ. स. ८. ड. ढ. व तोपमः । ब्रा' ।२ क ख. घ. च. छ. झ. ढ ग इन्द्रेण सम । ३ क. ख. ग. घ. ड.च. छ..ट. ड. ढ. दाद्भविष्यति । त। ४ क. च. अतिवीर्यमहाकोपास्ती'। ५ङ 'माः । नाऽऽवृत्तिभय । ६ म. 'च-स्वयंभूःस' । ७ क. ख. च. 'र्वसत्त्व महाप्रभुम् । म ।
Page #175
--------------------------------------------------------------------------
________________
२६ षड्दिशोऽध्यायः ] पद्मपुराणम् ।
१६९ महाबाहु महाकायं यथेन्द्रं च सुरेश्वरम् । क्रमेणापि ततो ब्रह्मा राज्यानि सुविचार्य हि ॥ २ यद्यस्यापि भवेद्याग्यं दातुं तदुपचक्रमे । वृक्षाणां ब्राह्मणानां च ग्रहक्षाणां तथैव च ॥ ३ सामं राज्यऽभ्यषिश्चञ्च तपसां च महामतिः । धर्माणां सर्वयज्ञानां पुण्यानां सौम्यतेजसा ॥ ४ अपांमध्ये तथा देवं तीर्थानां हि तथैव च । वरुणं सोऽभ्यषिश्चदै रत्नानां च द्विजोत्तम ॥ ५ अन्येषां सर्वयक्षाणां गज्ये वैश्रवणं पुनः । विष्णुमेव महाप्राज्ञमादित्यानां पितामहः॥ ६ राज्ये संस्थापयामाम तीथीनां हिनहनवे । सर्वेषामेव पुण्यानां दक्षमेव प्रजापतिम् ॥ ७ समर्थ सर्वधर्मज्ञं प्रजापतिगणेश्वरम् । देत्यानां दानवानां च विष्णुतेजःसमन्वितम् ॥ ८ प्रहलादं स्थापयामास स हि राज्ये प्रजापतिः । यमं वैवस्वतं धर्म पितृराज्येऽभ्यषिश्चयत् ॥ ९ यक्षराक्षसभूतानां पिशाचोरगरक्षसाम्। योगिनीनां च सर्वासां [*वेतालानां महात्मनाम् ।। १० कङ्कालानां हि सर्वेषां कृप्माण्डानां तथैव च । पार्थिवानां तु सर्वेषां गिरिशं शूलपाणिनम् ॥११ पर्वतानां हि मां हिमवन्तं महागिरिम् । नदीनां च तडागानां वापिकानां तथैव च ॥ [ 'कुण्डानां कृपराज्ये हि दिव्येषु च सुरेश्वरः] ॥ सागराणां च सर्वेषां पुष्करं तीथमुत्तमम् । गन्धर्वाणां च सर्वेषां पुण्यात्मानं महाबलम् ॥ १३ नाम्ना चित्ररथं राज्ये सोऽभ्यपिश्चन्मुरेश्वरः । नागानां पुण्यवीर्याणां वासुकिं च चतुर्मुखः।। १४ सणां तु तथा राज्येऽभ्यपिभच म नक्षकम् । वार गानां तथा राज्ये स चरावणमादिशत्॥१५ अश्वानां चैव सर्वेषामुचैःश्रवममेव च । पक्षिणां चैत्र सर्वेषां बननेयमथापि सः ॥ १६ मृगाणां च ततो गज्ये ब्रह्मा सिंहमथाऽऽदिशन् । गोषं तु गवां मध्ये ह्यभ्यषिश्वत्प्रजापतिः १७ वनस्पतीनां सर्वेषां प्लक्षं राजानमादिशत् । एवं गज्यानि पुण्यानि संस्थाप्य स पितामहः ॥१८ दिशापालांस्तता ब्रह्मा स्थापयामाम मत्तमः । वैराजस्य तथा पुत्रं पूर्वस्यां दिश्यसिञ्चयत्।।१९ सुधन्वानं दिशः पालं राजानं मोऽभ्यपिञ्चयन् । दक्षिणम्यां महान्मानं कर्दमस्य प्रजापतेः ।।२० पुत्रं शङ्कपदं नाम राजानं सोऽभ्यषिश्च यत् । पश्चिमायां तथा ब्रह्मा वरुणस्य प्रजापतेः ॥ २१ [*पुत्रं च पुष्करं नाम सोऽभ्यपिश्चप्रजापतिः] । उ तरस्यां दिशि ब्रह्मा नलकूवरमेव च ॥२२ एवं चैवाभ्यपिश्चञ्च [ 'दिक्पालान्स महाजसः । रियं पृथिवी सर्वा सप्तद्वीपा मपत्तना ॥ २३ यथाप्रदेशमद्यापि धर्मेण परिपाल्यने । पृथुश्चैव महाभागो] ह्यभिपित्तो नराधिपः ॥ २४ राजसूयादिभिः सर्वैरभिपिक्तः स एव च । विधिना विधिदृष्टंन स च राज्ये महीपतिः ॥ २५ चाक्षुप नाम्न्यतीने तु मनी चैव महानसि । [*मन्वन्तरे महाभागा देवपुण्ये हितैपिणि ।। २६ ननो वैवस्वतायैव मनवे राज्यमादिशत् । विस्तरं चापि व्याख्यास्ये पृथोश्चैव महात्मनः ॥ यदि यूयं च विप्रेन्द्राः शुश्रृपथ ह्यतन्द्रिताः ॥ एतदेव प्रतिष्ठानं महत्पुण्यं प्रकीर्तितम् । [ 'सर्वेष्वेव पुराणेषु त्वेवं हि निश्चितं सदा ॥ २८
* एतमिदान्तगतोऽय पाठः क. ख. र. च छ. स. इ. इ. पुस्तकम्थः । । एतश्चिदान्तगतोऽयं पाठ: क. ख. ग. है. च... झ. ट ट.पुस्तकस्थः । * एतचिहान्तर्गतोऽयं पाठः क. ख च. छ. झ. पुस्तकस्थः । । एतचिहान्तर्गतोऽयं पाठः के. ख, ग, घ. च. छ. झ. ह. पुस्तकस्थः । * एतच्चिदान्तगतोऽय पाठः क. ख. ग. घ. इ. च. छ. स. ट... ढ. पुस्तकस्थः । । एतचिहान्तर्गतोऽयं पाठःट. ड. पुस्तकस्थः ।
१ क. ख. ग. घ. इ. च.न. झ. 'म जनताहि । २ क. ख. ग. घ. इ. च. छ. झट. ढ. 'गरं स्थापितं पुण्यं सर्वताथमनुत ।३ क. ख. ग. घ. दु. च. छ झ. ट. ड. ढ. वेददृष्टेन । ४ क. ख. इ.च. छ. स. ढ, 'स्ये मनोश्च ।
Page #176
--------------------------------------------------------------------------
________________
१७० महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेपुण्यं यशस्यमायुष्यं स्वर्गवासकरं शुभम् । धन्यं पवित्रं विख्यातं पुत्रदं वुद्धिकारकम् ॥ २० यः शृणोति नरो भक्त्या भावध्यानसमन्वितः । अश्वमेधसहस्रस्य पुण्यं संजायते ध्रुवम् ॥ ३० इति श्रीमहापुराणे पाझे मिखण्डे पृथुचरितप्रस्तावो नाम षड्विंशोऽध्यायः ॥ २६ ॥
आदितः श्लोकानां समष्टयङ्काः-४५२०
अथ मप्तविंशोऽध्यायः ।
ऋपय ऊचु:विस्तरेण समाख्याहि जन्म तस्य महात्मनः । पृथोश्चैव महाभाग श्रीतुकामा वयं पुनः॥ १ राज्ञा तेन यथा दुग्धा चेयं धात्री महात्मना । पुनर्देवैश्व पितृभिमुनिभिस्तत्ववेदिभिः॥ २ यथा देत्येश्च नागेश्च वृक्षश्च पर्वतादिकः । [*शैलेश्चैव पिशाचैश्च गन्धर्वैः पुण्यकर्मभिः॥ । ब्राह्मणेश्च तथा सिद्धाह्मणेभीमविक्रमः । पूर्वमेव यथा दुग्धा ह्यन्यश्चैव महात्मभिः ॥ तेषामेव हि सर्वेषां विशेष पात्रधारणम् ॥ क्षीरस्यापि विधि अहि विशेषं च महामते । वनस्यापि नृपस्यैव पाणिग्व महात्मनः॥ ५ मथितो मुनिभिः पूर्व क्रुद्धश्चापि महात्मभिः । अकस्मान्कारणं सर्व सूतपुत्र वदस्व नः ॥ ६ विचित्रेयं महापुण्या कथा पातकनाशिनी । श्रीतुकामा वयं पुण्यां तृप्तिनव प्रजायते ॥
सूत उवाचवैन्यस्य च पृथोरेव तस्य विस्तरमेव च । जन्म वीर्य यथा क्षात्रं पारुपं द्विजसत्तमाः ॥ प्रवक्ष्यामि यथा सर्व चरितं तस्य धीमतः। शृणुध्वं भा महाभागा मत्ता व द्विजसत्तमाः॥ ९ अभक्ताय न वक्तव्यमश्रद्धाय शठाय च । सुमर्खाय सुमोहाय कुशिप्याय तथव च ।। १० उदासीनाय कुटाय धर्मनाशाय च द्विजाः । अन्यथा पठन यो हि निरयं च प्रयानि हि ॥ ११ भवन्तो भावयुक्ताश्च सत्यधर्मपरायणाः । भवतामग्रतः सर्व चरितं पापनाशनम् ॥ १२ संप्रवक्ष्याम्यशेषेण शृण्वतां सुमहात्मनाम् । स्वर्य यशस्यमायुप्यं धन्यं वदैश्च संमतम् ।। १३ रहस्यमृपिभिः प्रोक्तं प्रवक्ष्यामि द्विजोत्तमाः । यश्चैनं कथन्नित्यं पृथार्वन्यस्य विस्तरम् ॥ १४ ब्राह्मणेभ्यो नमस्कृत्य नैव शोचेत्कृताकृतम् । सप्तजन्मानितं पापं श्रुतमात्रेण नश्यति ॥ १५ ब्राह्मणो वेदवेत्ता च क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छद्रस्तु श्रवणात्सुखी १६ एवं फलमवामोति पठनाच्छ्यणादपि । पृथोर्जन्म चरित्रं च पवित्रं पापनाशनम् ॥ १७ धर्मगोप्ता महामाज्ञो वेदशास्त्रार्थकोविदः । अत्रिवंशसमुत्पन्नः पूर्वमंत्रिसमः प्रभुः ॥ १८ स्रष्टा सर्वस्य धर्मस्य अङ्गो नाम प्रजापतिः । य आसीत्तस्य पुत्रो वै वना नाम प्रजापतिः ॥ १९
* एतच्चिदान्तर्गतोऽय पाटः क. ख. ४. च. छ झ. ढ. पुस्तकस्थः । १ क. ख. ग. घ. ङ. च. छ. झ ट. ड. ढ. 'द वृद्धि' । २ क. ख. ड. च. छ. झ. 'श्च यथा यक्षर्यथा द्रुमः । शै'। ३ क. ख. ग. ध. च. छ. झ. महात्मभिः । ४ क. ख. च. ड. झ. ट. ड. 'स कस्मादिह कारणात् । ऋद्धश्चैव महापुण्यैः । ५ क. ख. इ.च. छ झ. द. मा महाभाग तु । ग घ. ज. ट. ड. मा महापण्यां त। ६ ढ. च । श्रद्धाहीनाय कटाय सर्वना । ७ क. ख. ग. घ. ङ. च. छ. झ. द. संमित । ८ क, ख ग. घ. च... झ. ट. ड. ति यः शृणोति न संशयः । । ९ ज. मन्त्रिम।
Page #177
--------------------------------------------------------------------------
________________
२३
२७ सप्तविंशोऽध्यायः ]
पद्मपुराणम् । धर्ममेवं परित्यज्य सर्वदैव प्रवर्तते । मृत्योः कन्या महाभागा सुनीथा नाम नामतः ॥ तां तु अङ्गो महाभागः सुनीथामुपयेमिवान् । तस्यामुत्पादयामास वेनं धर्मप्रणाशनम् ॥ २१ मातामहस्य दोषेण वनः कालात्मजात्मजः । निजधर्म परित्यज्य बधर्मनिरतोऽभवत् ॥ २२ कामाल्लोभान्महामोहात्पापभेव ममाचरत् । वेदाचारमयं धर्म परित्यज्य नराधिपः ॥ अन्ववर्तत पापेन मदमत्सरमोहितः । वेदाध्ययनहीनाश्च प्रवर्तन्ते तदा द्विजाः॥ २४ निःस्वाध्यायवषटकाराः प्रजास्तस्मिन्पजापतौ । प्रवृत्ता न पपुः सोमं हुतं यज्ञेषु देवताः ॥ २५ इत्युवाच स दुष्टात्मा ब्राह्मणान्प्रति नित्यशः । नाध्येतव्यं न होतव्यं न देयं दानमेव च ॥ २६ न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः । आसीत्प्रतिज्ञा करेयं विनाशे प्रत्युपस्थिते ॥ २७ [*अहमिज्यश्च यष्टा च यज्ञश्चेति पुनः पुनः]। मयि यज्ञा विधातव्या मयि होतव्यमेव च ॥२८ इत्यब्रवीत्सदा वेनो द्यहं विष्णुः सनातनः । अहं ब्रह्माऽहमिन्द्रोऽस्मि रुद्रो मित्रः सदागतिः ॥ अहमेव मदा भोक्ता हव्यकव्यस्य नो परः ॥ अथ ते मुनयः क्रुद्धा वेनं प्रति महाबलाः । ऊचुस्ते संगताः सर्वे राजानं पापचेतनम् ॥ ३०
मुनय ऊचु:राजा हि पृथिवीनारः प्रजा पालयने महा । धर्मतिः स राजेन्द्रस्तस्माद्धान्हि रक्षयेत् ॥ ३१ वयं दीक्षां प्रविशापो यज्ञे द्वादशवार्षिकीम् । अधर्म कुरु मा वेन नैप धर्मः मतामिति ॥ ३२ कुरु धर्म महाराज मन्यपुण्यं समाचरें । गजाऽहं पालयिष्यामि इति ने समयः कृतः॥ ३३ तांस्तथा ब्रुवता वीक्ष्य ऋपीन्दुवृत्तष्टितः । उवाचोद्रमंगवामा क्रुद्धोऽन्तक इवापरः॥ ३४ ज्ञानवीर्यनपःसन्य मया वा कः समो भुवि । प्रभवं सर्वभूतानां धर्माणां च विशेषतः॥ ३५ संमृहा न विदुर्ननं भवन्नी मां विचेनमः । इमां दहेयं पृथिवीं प्लावययं जलैस्तथा ॥ यां भुवं च रुत्ययं नात्र कार्या विचारणा । यदा न शक्यते मोहादवलेपाच पार्थिवः ॥ ३७ अपनतुं तदा वनं ततः क्रुद्वा महपयः । विम्फुरन्तं ततो वेनं वलात्संगृह्य ते रुषा॥ वेनम्य तस्य सव्योकं ममन्यु तमन्यवः । कृष्णाञ्जनचयोपेनमनिहस्खं विलक्षणम् ॥ दीर्घास्यं च विरूपाक्ष नीलकञ्चकवर्चमम् । लम्बोदरं व्यूढकर्णमनिबाहुं दुरोदरम् ।। ४० ददृशुस्ते महात्मानो निपीदत्यवस्ततः । नेपां नद्वचनं श्रुत्वा निपसाद भयातुरः ॥ ४१ पर्वतेषु वनेष्वेव तस्य वंशः प्रतिष्ठितः । निपादाश्च किराताश्च भिल्लानाहलकास्तथा ॥ ४२ भ्रमराश्च पुलिन्दाश्च ये चान्ये म्लेच्छजातयः । पापाचागश्च ते सर्वे तस्मादङ्गात्मजज्ञिरे ॥ ४३ अथ ते ऋषयः सर्व प्रसन्नमनसस्तनः । गतकल्मपमेवात्र ज्ञात्वा वेनं नृपोत्तमम् ॥ ४४ ममन्थुदक्षिणं पाणिं तस्यैव च महात्मनः । मथिते तस्य पाणी तु मंजातः स्वेद एव हि ॥ ४५ पुनममन्थुस्ते विमा दक्षिणं पाणिमेव च । मुकगत्पुरुपी जज्ञे द्वादशादित्यसंनिभः ॥ ४६ तप्तकाश्चनवर्णाङ्गो दिव्यमालाम्बरो वरः । दिव्याभरणशोभाङ्गो दिव्यगन्धानुलेपनः ॥ १७
* ग. घ. एतचिहना-तगत: पाटोऽय ग. घ. ड. पुस्तकस्थः ।
m-
७
१ क. ख. च. छ. झ. ड. त्मकः । नि । २ ट. 'चारं स्वधर्म च ५। ३ ट. न जप्तव्यमि। ४ क. ख. ग. घ... च. छ. झ. ट. ड, ढ, र । प्रजा । ५ क, ख, ग, घ. दु. च. छ. झ. ट. ड. द. 'वतः सर्वान्महर्षीनब्रवीत्तदा । बेग प्रहस्य दबुद्धिग्मिमर्थमनर्यकम् ॥ वेन उवाच ॥ नटा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ॥ श्रुतवीं।६.स. ङ च. छ. झ. 'तिर्भातं दु ।
Page #178
--------------------------------------------------------------------------
________________
१७२ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेमुकुटेनार्कवर्णेन कुण्डलाभ्यां विराजितः । महाकायो महावाहू रूपेणापतिमो भुवि ॥ ४८ खड्गबाणधरो धन्वी कवची च महाप्रभुः । सर्वलक्षणसंपन्नः सर्वालंकारभूषणः ॥ १९ तेजसा रूपभावेन वर्णैश्चैव महामतिः । दिवि चन्द्रो यथा भाति भुवि वेनात्मजस्तथा ॥ ५० तस्मिञ्जाते महाभागे देवाश्च ऋषयोऽमलाः । उत्सवं चक्रिरे सर्वे वेनस्य तनयं प्रति ॥ ५१ दीप्यमानः स्ववपुपा साक्षादग्निरिव ज्वलन् । आद्यमाजगवं नाम धनुर्गृह्य महाबलः॥ ५२ शरांश्च दिव्यानरक्षार्थ कवचं च महापभम् । जाने सनि महाभागे पृथौ वीरे महात्मनि ॥ ५३ संप्रहृष्टानि भूतानि समस्तानि द्विजोत्तमाः। सर्वतीर्थानि तोयानि पुण्यानि विविधानि च ॥ तस्याभिषेकं विप्रेन्द्राः सर्व एवोपचक्रिरे । पितामहस्ततो देवा भृतानि विविधानि च । स्थावराणि चराण्येव ह्यभ्यपिश्चनगधिपम् ॥ ५८ महावीरं प्रजापालं पृथुमेव द्विजोत्तमाः । पृथुवन्या राजगजी ह्यभिषिक्तश्चराचरैः॥ ५६ देवैविप्रस्तथा नागैरभिषिक्तो महामनाः । स राज्यमभिपंद वै पृथुर्वेन्यः प्रतापवान ॥ ५७ तस्य पित्रा प्रजाः सर्वाः केदा नैवानुरञ्जिताः । तेनानुरञ्जिताः सर्वा मुमुदिरे सुग्वेन वै ॥ ५८ अस्यानुरागाद्वीरस्य राजराजेति नाम च । प्रजज्ञऽस्य मुवीरस्य समुद्रेऽपि द्विजोत्तमाः ॥ ५९ आपस्तस्तम्भिरे सर्वा भयात्तस्य महात्मनः । [*प्रयातस्य स्थस्यापि तस्येव च महात्मनः] ६० दुर्गमार्ग विलोप्येव सुमार्ग पर्वता ददुः । आज्ञाभङ्गं न चक्रुश्च गिरयः सर्व एव ते ॥ ६१ अकृष्टपच्या पृथिवी सर्वत्र कामधेनवः । पर्जन्यः कामवी च देवयज्ञा महोत्सवाः॥ ६२ कुर्वन्ति ब्राह्मणाः सर्वे क्षत्रियाश्च तथा परे । सर्वकामफला वृक्षास्तम्मिश्शामति पार्थिवे ॥ ६३ न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् । सर्वे मुम्बन जीवन्ति लोका धर्मपरायणाः ॥ ६४ तस्मिशासति दुर्धर्षे राजराज नृपात्मने । एतस्मिन्नन्तरे काले यज्ञे पैतामहे शुभे ॥ ६५ सूतः सूत्यां समुत्पन्नः सौम्येऽहनि महामतिः । तस्मिन्नव महायज्ञ जज्ञे प्राज्ञाऽथ मागधः॥ ६६ पृथाः स्तवार्थ तो तत्र समाहृता महर्षिभिः । मृतस्य लक्षणं वक्ष्ये महापुण्यं द्विजोत्तमाः ।। ६७ शिखासूत्रेण संयुक्तः स्तोत्राध्ययनतत्परः । सर्वशास्त्रार्थवेत्ताऽसावग्निहोत्रमुपासते ॥ ६८ दानाध्ययनसंयुक्तो ब्रह्माचारपरायणः । देवानां ब्राह्मणानां च पृजनाभिरतः सदा ॥ ६९ याचकस्तावः पुण्यैर्वेदमत्रैर्यजेनिकल । सदाचारपरो नित्यं "मभोज्यो ब्राह्मणः मह ॥ ७० एवं हि मागधो जज्ञे वेदाध्ययनवर्जितः । बन्दिनचारणाश्चान्य ब्रह्माचारविवर्जिताः ॥ ७१ ज्ञेयास्ते च महाभागाः स्तावकाः प्रभवन्ति वै । स्तवनार्थमुभा सृष्टौ निपुणा बन्दिमागधौ ॥७२ तावूचुर्ऋषयः सर्वे स्तूयतामेष पार्थिवः । कमैतदनुरूपं च यादृशोऽयं नराधिपः ॥ ७३ तावूचतुस्तदा सर्वांस्तानृपीन्बन्दिमागधा । आवां देवानृपीश्चैव प्रणियावः स्वकर्मभिः ॥ ७४ न चास्य विद्वो वै कर्म प्रतिष्ठालक्षणं यशः । कर्मगा येन कुर्याव स्तोत्रमस्य महात्मनः ॥ ७५
* एतमिहनान्तगतोऽय पाठः क ख : च. 1. अ ढ. पुस्तकस्थः । १ क. ख. ङ. च. छ. झ. द. महावरम । ग. घ. ट हु महाबलम् । २ न. 'महाद्याश्च ततो भ इक ख. र. च. छ.स. था सर्वैर । ४ क. ख. ग घ. च. राज्ञामधिराज्ये वै । ५ञ. तस्यापि ता:प्र। ६ अ. कर्मणवा । “ क. ख. ग. घ. ड. च.छ. स. ट.. ढ. ध्वजभङ्ग। ८ क. ख. च. 7. झ. ड. द. वेदयज्ञा । ९. क. ख. इ.. च. छ झ. दु द. महात्मनि । १० क ख. ग. घ. ड. च.छ ज. झ. ड. द. वेदाध्ययनतत्परः । ११ अ. ब्रह्माचारमधर्मवान् । १२ ग. घ. ड. संबन्धी । १३ क. ख. ग. घ. ङ. च. छ. श. ड. ढ. 'नः । कथ कुर्याव वै स्तोत्रमविज्ञानर्गुणैस्ततः । संप्रोचुस्ता महात्मानो गुणांस्तस्य महात्मनः । ।
Page #179
--------------------------------------------------------------------------
________________
२७ सप्तविंशोऽध्यायः ] पद्मपुराणम् ।
१७३ जानीवस्तन्न विभेन्द्रा अविज्ञातगुणस्य हि । भविष्यैश्च गुणैः पुण्यैः स्तोतव्योऽयं नराधिपः ॥७६ [*कृतवान्यानि कर्माणि पृथुरेव महायशाः]। ऊचुस्ते मुनयस्तस्य गुणान्दिव्यांश्च भाविनः॥ ७७ सत्यवाज्ञानसंपन्नो बुद्धिमाम्ख्यातविक्रमः । सदा शूरो गुणग्राही पुण्यवांस्त्यागवान्गुणी ॥ ७८ धार्मिकः सत्यवादी च यज्ञानां याजकोत्तमः । प्रियवाक्सत्याग्दान्तो धान्यवान्धनवान्सुधीः ७९ गुणज्ञश्च कृतज्ञश्च धर्मज्ञः सत्यवत्सलः । सर्वगः सर्वदो वेत्ता ब्रह्मण्यो वेदवित्सुधीः ॥ ८० यज्ञवांश्च सुशूरश्च वेदवेदाङ्गपारगः । धन्यो गोप्ता प्रजानां च विजयी ममराङ्गणे ।। ८१ राजसूयादिकानां तु यज्वाऽयं राजसत्तमः । आहर्ता भूतले चैकः सर्वधर्मसमन्वितः ॥ ८२ एते गुणा अस्य चाग्रे भविष्यन्नि महात्मनः । ऋषिभिस्तो नियुक्तौ च कुर्वाणौ सूतमागधौ ८३ गुणश्चैव भविष्यैश्च स्तोत्रं तस्य महात्मनः । नदाप्रभृति वै लोकाः स्तवैः स्तुष्टा महामते ॥ ८४ पुरतश्च भविष्यन्ति दातारः स्तावकैर्गुणैः । ततःप्रभृति लोकेऽस्मिन्स्तवेषु द्विजसत्तमाः ॥ ८५ मागधाद्याः प्रपूज्यन्ते तेषां द्रविणमुत्तमम् । सताय मागधायैव बन्दिनेऽथ महोदयम् ॥ ८६ चारणाय ततः प्रादात्कलिङ्ग देशमेव च । पृथुः पादाच धर्मात्मा हैहयं देशमेव च ॥ ८७ रेवातीरे पुरं कृत्वा स्वनाम्ना नृपसत्तमः । ब्राह्मणेभ्यो द्विज श्रेष्ठास्तदाऽदाद्विपुलं वसु ॥ ८८ सर्वज्ञ सर्वदातारं धर्मवीर्य नरोत्तमम् । ददृशुस्तं प्रजाः सर्वा मुनयश्च ततोऽमलाः ॥ ८९. ऊचुः परस्परं पुण्य एष राजा महामतिः । देवादीनां वृत्तिदाता ह्यस्माकं च विशेषतः ॥ प्रजानां पालकश्चैव वृत्तिदो हि भविष्यति । इयं धात्री महामाज्ञा उप्तं वीजं पुग किल । जीवनार्थ प्रजानां तु ग्रसयित्वा स्थिराऽभवत्।।९१ ततः पृथु द्विजश्रेष्ठाः प्रजाः समभिदुद्रुवुः । विधत्म्वति सुवृत्तिं नो मुनीनां वचनात्तदा ॥ ९२ ग्रसयित्वा नदा तानि पृथ्वी जाता सुनिश्चला । भयं प्रजानां सुमहन्स दृष्ट्वा राजसत्तमः ॥ ९३ महपिवचनाचापि प्रगृध सशरं धनुः । अभ्यधावत वेगेन पृथ्वी क्रुद्रो नराधिपः ॥ कुञ्जरं रूपमास्थाय भयात्तस्य तु मेदिनी । वनेषु दुगदेशेषु गुप्ता भूता चचार सा ॥ ९५ न पश्यति महाप्राज्ञः कुरूपं द्विजमत्तमाः । आचचक्षुमहाभागं कुञ्जरं रूपमास्थिता ॥ ९६ ततः कुञ्जररूपां तामभिदुद्राव पार्थिवः । ताड्यमाना च सा तेन निशितैमागणस्तदा ॥ ९७ हरिरूपं समास्थाय पलायनपराऽभवत् । हरिरूपां पार्थिवस्तामभिदुद्राव वेगवान् ॥ ९८ ततः क्रुद्धो महाप्राज्ञो रोपादरुगलोचनः । सुवाणेनिशिस्तीक्ष्णगजघान स मेदिनीम् ॥ ९९ आकुला व्याकुला जाता बाणाघातहता तदा । महिषीरूपमास्थाय पलायनपराऽभवत् ।। १०० तामप्यधावद्वैगन बाणपाणिधनुर्धरः । सा गांभूत्वा द्विजश्रेष्ठाः स्वर्गमेव गता द्रुतम् ॥ १०१ ब्रह्मणः शरणं प्राप्ता विष्णोश्चैव महात्मनः । रुद्रादीनां च देवानां त्राणस्थानं न विन्दति ॥१०२ अलभन्ती च सा त्राणं वैन्यमेवान्वपद्यत । तस्य पार्वे पुनः प्राप्ता बाणघातसमाकुला ॥ १०३
* एतचिहान्तर्गत: पाठोऽय क. ख. ग. घ. इ. च. छ. झ.ट. ड. द. पुस्तकस्थः ।
१ क. ख. ग. घ. दु. च. छ. झ. ट. ड. द. नरोनमः । २ क. ख. ग. घ. च. छ झ. ट. ड. 'नयः सर्व गणान्दिव्यान्महात्मन । ३. 'द्धिमाश्यतविनमः । । क. ख. इ. च. छ. अ. द. व चव धन्यवाग्धनवान्गुणी। ग । ५क. ख. र. च. छ झ. ढ. धीः । प्रज्ञावां । ६ क. ख. ग. घ. ट. च. छ. झ.ट ह. द. धाता। ७ क. ख. ग. घ. च. छ. झ.ट. इ आचार्याद्याः । ८ क. ख. इ. छ. झ. दानिलि देशनुत्तम् । ९ ग..ट. ड. क्षयं । १० अ. कारं द्वि। ११ क. ख च. छ, झ. 'क्षुर्महात्मानः कु।
Page #180
--------------------------------------------------------------------------
________________
१७४ महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेबद्धाञ्जलिपुटा भूत्वा तं पृथु वाक्यमब्रवीत् । त्राहि त्राहीति राजेन्द्र सा राजानमभाषत ॥ १०४ अहं धात्री महाप्राज्ञ मर्वाधारा वसुंधरा । निहतायां मयि नृप निहतं लोकसप्तकम् ॥ १०५ कृताञ्जलिपुटा भूत्वा पूज्या लोकैस्त्रिभिः सदा । अन्यद्वदामि ते भूप अवध्या स्त्री सदा भवेत् ॥ स्त्रीणां वधे महान्दोपो ह्युक्तः पूर्वमहात्माभिः। [*गवा वध महत्पापं दृष्टमस्ति द्विजोत्तमैः]॥१०७ मया विना महाराज कथं धारयसे प्रजाः । अहं यदा स्यां च धरा तदा लोकाश्चराचराः १०८ स्थिरत्वं यान्ति ते सर्वे स्थिरीभूता यदा द्यहम् । मां विना त इमे लोका विनश्येयश्चराचराः१०० ['पुनः प्रजा विनश्ययुर्मम नाशे समागते । कथं धारयिता चामि प्रजा राजन्विना मया ॥ ११० मयि लोकाः स्थिरा राजन्मयदं धार्यते जगत् । मद्विनाशे विनश्येयुः प्रजाः सर्वा न संशयः] १११ तस्मानार्हसि मां हन्तुं श्रेयश्चेवं चिकीर्षसि । प्रजानां पृथिवीपाल शृणु मे त्वं हितं वचः ॥११२ उपायैश्च महाभाग सुसिद्धिं यान्युपक्रमाः । समालोक्य ह्युपायं त्वं प्रजानां शं विधत्स्व च ११३ [*मां हत्वा त्वं महाराज धारण पालने मदा। पापणे च महाप्राज्ञ मद्विना हि कथं नृप ।।११४ धरिष्यसि प्रजांचेमां कोपं यच्छ त्वमात्मनः। अन्नमयी भविप्यामि धरिप्यामि प्रजामिमाम् ११५ अहं नारी ह्यवध्या च प्रायश्चिती भविष्यसि । अबव्यां च स्त्रियं प्राइस्तिर्यग्योनिगतामपि ११६ विचायव महाराज धर्मेण त्यक्तुमर्हसि । एवं नानाविधर्वाक्यरुतो धाच्या घराधिपः ॥ ११७ कोपमेनं महाराज त्यज दारुणमेव हि । प्रसन्नं त्वयि राजेन्द्र नदा स्वस्था भवाम्यहम् ॥ ११८ एवमुक्तस्तया राजा पृथुन्यः प्रतापवान । तामुवाच महाभागां धरित्री द्विजसत्तमाः॥ ११९
इति श्रीमहापुगणे पाद्म भूमिग्वण्डे पृथपाग्याने मतविशोऽध्यायः ॥ २७ ॥
आदिनः श्लोकानां समष्टयङ्काः-४६३९
अथाटाविशायायः ।
पृथुरुवाचहते तस्मिन्महापाप एकस्मिन्यापचारिणि । लोकाः सुखन जीवन्ति साधवः पुण्यदर्शिनः ॥ १ तस्मादेकं प्रहर्तव्यं पापिष्ठं पापचेतनम् । तस्मात्त्वां हि हनिप्यामि सर्वार्थस्य प्रणाशिनीम् ॥ त्वया बीजानि सर्वाणि ग्रस्तान्येतानि मांप्रतम् । ग्रामं कृत्वा स्थिरी भृत्वा प्रजा हत्वा क यास्यसि हते पापे दुराचारे सुखं जीवन्ति साधवः । तस्मात्पापं प्रहर्तव्यं सत्यमेव न संशयः ॥ पालितव्यं प्रयत्नेन यस्माद्धर्मः प्रवर्तते । [भवत्या तु महत्पापं प्रजासंक्षयकारकम् ।। एकस्यार्थे न यो हन्यादात्मनो वा परस्य वा । लोकोपतापकं हत्वा न भवत्तस्य पातकम् ।।६ यस्मिंस्तु निहते पाप एकस्मिन्स्वे पर तथा । बहवः सुखमंधन्ते हन्यादृष्टं न पातकम् ।।
* एतचिह्नान्तर्गतोऽय पाठः क. ख. च छ. झ. ड. तु. पुस्तकस्थः । एतच्चिहनान्तर्गतोऽयं पाठः क. ख. ग. ड च. छ. स. ट. ह. ढ. पुस्तकस्थः । * एतञ्चिहनान्तर्गतोऽय पाठः क. ख. ङ. च. छ. झ. ढ. पुस्तकस्थः । । एतचिह्नान्त गतोऽयं पाठः क ख. ग, घ इ. च. छ. झ. द. पुस्तकस्थः ।
१क. ख. ड. च. छ. झ. ढ साऽऽतुरा तम। २ क. ख. ग. घ. ई. छ. झ. ट. ढ.दा । उवाच चनं राजानमवर स्त्री सदा नृप । स्त्री। ३. छ. ढ. 'दा स्थिरा राजस्त । ४ क. ख. ङ. च. छ. स. ड. द. जा येन धरिष्यसि । मां ५ छ. 'स्तदा रा । ६ क. ख. ग. घ इ. च. छ. झ. ट. ड. द. प्रजापतिः । ७ क. ख. च. छ. झ. सर्वमत्त्वप्र।
Page #181
--------------------------------------------------------------------------
________________
१७५
२८ अष्टाविंशोऽध्यायः] पद्मपुराणम् । प्रजानिमित्तं त्वामेव हनिष्यामि न संशयः । यदि मे पुण्यसंयुक्तं वचनं न करिष्यसि ॥ ८ जगतोऽस्य हितार्थाय साधु चैवं वसुंधरे । हनिप्ये त्वां शितैर्वाणैर्मद्वाक्यात्तु पराङ्मुखीम् ॥ ९ स्वीयेन तेजसा चैव प्रजास्त्रैलोक्यवासिनीः । पुण्याचाहं धरिष्यामि धर्मेणापि न संशयः ॥ १० मच्छासनं समास्थाय धमेयुक्तं वसुंधरे । इमाः प्रजा आज्ञया मे संजीवय सदेव हि ॥ ११ एवं में शासनं भद्रे ह्यद्यैव हि करिष्यसि । ततः प्रीतोऽस्मि ते नित्यं गोपायिप्यामि सर्वदा ॥ त्वामेव हि न संदोहमन्ये चैव नृपोत्तमाः ॥ धेनुरूपेण मा देवी वाणाश्चितक लेबरा । उवाचेदं पृथु वैन्यं धर्मात्मानं महामतिम् ॥ १३
धरि युवाचतवाऽऽदेश महाराज सत्यपुण्यार्थमंयुतम् । प्रजानिमित्तमत्यर्थ विधास्यामि न संशयः॥ १४ उद्यमेनापि पुण्येन तूपायेस्ते नरेश्वर । समारम्भाः प्रतिध्यन्ति पुण्याश्चैवाप्युपक्रमाः॥ १५ उपायं पश्य राजेन्द्र येन त्वं सत्यवान्भवः । धारयेथाः प्रजाश्चमा यथा सर्वाः प्रवर्धये ॥ १६ संलग्नाश्चोत्तमा वाणा ममाङ्गे गोन्समुद्धर । समां कुरु महाराज निष्टेन्मयि यथा पयः॥ १७
सूत उवाचधनुरग्रेण ताशैलानानारूपान्गुरूंस्तदा । उत्मारयंस्ततोऽसौ हि समरूपां चकार ह॥ १८ ननःप्रभृति ते शैला वृद्धिमापुद्विजोत्तमाः । तम्या अङ्गात्स्वयं वाणान्स्वकीयानृपनन्दनः ॥ १९ [* समुद्धत्य नतो वेन्यः प्रीतेन मनमा तदा । गतान कंदराशेव वाणाघाने समीकृताः ॥ २० एवं पृथ्वीं समां सर्वां चकार पुण्यवर्धनः] । ममां कृत्वा महाभागां वत्समस्या ह्यकल्पयत् ॥२१ मनु स्वायंभुवं पूर्व परिचय पुनः पुनः । अनीनेप्वंव सर्वेषु मनुपु द्विजसत्तमाः ॥ २२ विषमत्वं गता भूमिः पन्था नाऽऽमीच कुत्रचित् । समाति विपमाण्येवं स्वयमासीद्विजोत्तमाः॥२३ पूर्व मनोश्वाक्षुषस्य प्राप्ते चैवान्तरे तथा । जाते पृविमर्ग च विपमे च धरातले ॥ २४ ग्रामाणां च पुराणां च पत्तनानां तथैव च । देशानां क्षेत्रपन्नानां मर्यादा न हि दृश्यते ॥ २५ कृषिनव च वाणिज्यं न गोरक्षा प्रवर्तते । नानृतं भापत कश्चिन्न लोभो न च मत्सरः॥ २६ नाभिमानं च वै पापं न करोति कहानी च । वैवस्वतस्य च मनाः प्राप्त चैवान्तरे द्विजाः॥२७ वैन्यस्य संभवान्पर्व प्रजानामेव संभवः । इमाः प्रजा द्विनाः सर्वा निवासं समरोचयन् ॥ २८ कचिद्रमा गिरी वाऽपि नदीतीरेषु व तदा । कुञ्जपु सवतीर्थपु सागरस्य तटपु च ॥ २९ निवासं चक्रिरे मर्वाः प्रजाः पुण्यन वै तदा । तासामाहारः संजातः फलं पुप्पं तथा मधु ॥ ३० तासां कृच्छण महता चाऽऽहारः स्याद्विजोत्तमाः। पृथुर्वन्यः समालोक्य प्रजानां कष्टमेव हि ॥३१ स्वायंभुवो मनुर्वत्मः कल्पितस्तन भभुजा । स्वपाणिः कल्पितस्तन पात्रमेवं महामते ॥ ३२ स पृथुः पुरुपव्याघ्रो दुदोह वसुधां तदा । सर्वसस्यमयं क्षीरं ससर्वान्नं गुणान्वितम् ॥ ३३ तेन पुण्येन चान्नन सुधाकल्पेन ताः प्रजाः । पितृन्यजन्ति देवान्दै प्रजापतिमुखांस्तथा ॥ ३४ प्रसादात्तस्य वैन्यस्य सुखं जीवन्ति ताः प्रजाः। देवेभ्यश्च पितृभ्यश्च दत्त्वा चान्नं प्रजास्तथा३५
* एतगिहनान्तगतोऽयं पाठः क.ख. ग. घ. इ.च. छ. झ. ड.. पुस्तकस्थः ।
१क ख. इ.च.छ. झ. इ. ४. 'जाममाधव सं। २ अ, 'दाहाम' ३ क.ख.इ. च.छ. झ. ढ.'ताशिलाशिताः। समुद्धर स्वयं गजशल्यन्ति भृशमेव ते। सं। ४ . कामानां । ५ क.ख. . च. छ झ. मुलं । ६ ट.'जाः । तृप्ति नयन्ति देवान्वं प्रजाः पितस्तथाऽपरान् । प्र।
Page #182
--------------------------------------------------------------------------
________________
१७६
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेबामणेभ्यो विशेषेण चातिथिभ्यस्तथैव च । पश्चागुञ्जन्ति पुण्यास्ताः प्रजाः सर्वा द्विजोत्तमाः३६ यज्ञैश्चान्यैर्यजन्ते च तर्पयन्ति जनार्दनम् । तेनान्नेनैव देवेशं तृप्तिं गच्छन्ति देवताः॥ ३७ पुनर्वर्षति पर्जन्यः प्रेषितो माधवेन च । तस्मात्पुण्या महौषध्यः संभवन्ति सुपुण्यदाः॥ ३८ सस्यजातानि सर्वाणि पृथोः प्रभृति नान्यदा। ततोऽन्नेन प्रजाः सर्वा वर्तन्तेऽद्यापि नित्यशः ॥ ३० ऋषिभिश्चैव मिलितैर्दुग्धा चेयं वसुंधरा । पुनर्विप्रेर्महाभागः सत्यवद्भिः सुरैस्तथा ॥ ४० सोमो वत्सस्वरूपोऽभूदोग्धा देवगुरुः स्वयम् । अर्ज भीरं पयःकल्यं येन जीवन्ति चामराः॥ ४१ तेषामन्नेन पुण्येन सर्वे जीवन्ति जन्तवः । सत्यपुण्यैः प्रवर्तन्ते ऋषिदुग्धा वसुंधरा ॥ ४२ अथातः संप्रवक्ष्यामि यथा दुग्धा वसुंधरा । [*पितृभिश्च पुरा वन्सविधिना येन वै तदा ॥ ४३ मुपात्रं राजतं कृत्वा स्वधाक्षीरं द्विजोत्तमाः । परिकल्प्य यमं वत्सं दोग्धा चान्तक एव च] ४४ नागः सर्पस्ततो दुग्धा तक्षकं वत्समेव च । अलाबुपात्रमादाय विषं श्रीरं द्विजोत्तमाः ॥ ४५ नागानां तु तथा दोग्धा धृतराष्ट्रः प्रतापवान । सर्पा नागा द्विजश्रेष्ठास्तेन वर्तन्ति चातुलाः॥४६ [*नागा वर्तन्ति तेनापि ह्यत्युग्रेण द्विजोत्तमाः । विषेण घोररूपेण साथैव भयानकाः ॥ ४७ तेनैव वर्तयन्त्युग्रा महाकाया महाबलाः] । नदाधारास्तदाचारास्तद्वीर्यास्तत्पराक्रमाः॥ ४८ अथातः संप्रवक्ष्यामि यथा दुग्धा वसुंधरा । असुरेनवैः सर्वेः कल्पयित्वा द्विजोत्तमाः॥ ४९ पात्रमत्रानसदृशमायसं सर्वकामिकम् । क्षीरं मायामयं कृत्वा सर्वारातिविनाशनम् ॥ ५० तेषामभूत्स वै वत्सा विरोचनः प्रतापवान । [*ऋत्विन्द्विमा दैत्यानां मधुर्दोग्धा महाबलः ॥५१ तयाऽऽदिमायया दैत्याः प्रवर्तन्ते महाबलाः । महाप्रज्ञा महाकाया महातेजःपराक्रमाः॥] ५२ तलं पौरुषं तेषां तेन जीवन्ति दानवाः । तयेते स्युरथाद्यापि सर्वे मायाविदो द्विजाः॥ [*वर्तन्त्यमितप्रज्ञास्ते तदेषाममितं बलम् ] ॥ तथा तु दुग्धा यक्षैः सा सर्वाधारा सुमेदिनी। [इति शुश्रुम विप्रेन्द्राः पुरा कल्पे महात्मभिः]॥ अन्तर्धानमयं क्षीरं अयस्पात्रेषु विस्तरे । वैश्रवणो महामाज्ञस्तदा वन्सः प्रकल्पितः ॥ ५५ पिता मणिधरस्यापि प्राज्ञो बुद्धिमतां वरः। [*दोग्धा रजतनाभस्तु तस्याश्चाऽऽमीन्महामतिः॥ सर्वज्ञः सर्वधर्मज्ञो यक्षराजसुतो बली । अष्टवाहुमहातेजा द्विशीर्षः सुमहातपाः ॥ ५७ यक्षा वर्तन्ति तेनापि सर्वदेव द्विजोत्तमाः । पुनदुग्धा त्वियं पृथ्वी राक्षसैश्च महावलैः ॥ ५८ तथा चैपा पिशाचैश्च मारुतैर्दुष्टचारिभिः । उत्प्लुतं तत्र कपालं शावं पात्रमयं कृतम् ॥ ५९ सुप्रजां भोक्तुकामास्ते तीव्रकोपपराक्रमाः] । दाग्धा रजतनाभस्तु तपामासीन्महाबलः ॥ सुमाली नाम वत्सश्च शोणितं क्षीरमेव च ॥ रक्षासि यातुधानाश्च पिशाचाश्च महाबलाः । तेन यक्षाश्च जीवन्ति भूतसंघाश्च दारुणाः॥ ६१
___ * एतच्चिदान्तर्गतः पाठः क, ख, ग घ ड च.छ झ ट.ड द. पुस्तकस्थः । * एतचिहान्तगत: पाट: क. ख.ग. घ.ड च. झ.ट.ड. पुस्तकस्थः । * एतांचनान्तर्गतः पाटः क ख. ग १. इ. च.छ.झ.ट ड. द. पुस्तकस्थः । * एतचिहनान्तर्गतः पाठः क. ख ग. घ. ड. च. छ.स. ट ड.द. पुस्तकस्थः । * एतचिहनान्तर्गत. पाठः क.ख.ड.च.छ.झ.ट.ड.ढ. पुस्तकस्थः । * एतचिहनान्तर्मतः पाठः क. ख, ग, घ. दु, च. छ. स. ट. ह. द. पुस्तकस्थः ।
१ क. ख. ग. घ. ङ. छ. झ. ट. ड. द. पृथुर्वैन्यः प्रजापतिः । त'। २ क. ख, च. छ. झ. 'त्यवद्भिस्तपोऽमलेः । सो'। ग घट. त्यमन्त्रीस्तथा बलः । सो। ३ क. ख.च. स. ड. तेषां सत्येन । ४ ङ. सर्वना'। ५ क ख. ङ. च. छ. झ. ड. ढ. तदाहारा।६ क. ख. च. रु. झ. 'त्रमात्मन्न । ७ ग. घ. ट. उत्पत्यां सुमृतं पा' । ८ क. ख. ग. घ. इ. च. छ. ट. ड. ढ. 'सि तानि सर्वाणि पि।
Page #183
--------------------------------------------------------------------------
________________
२८ अष्टाविंशोऽध्यायः]
पद्मपुराणम् । गन्धर्वैरप्सरोभिश्च पुनर्दुग्धा वसुंधरा । कृत्वा वन्म सुविद्वांसं ते च चित्ररथं पुनः॥ ६२ दहः पद्मपात्रे तु गान्धर्व गीतसंकुलम् । सुरुचिर्नाम गन्धर्वस्तेषामासीन्महामतिः ॥ ६३ दोग्धा पुण्यतमश्चैव तस्याश्च द्विजसत्तमाः । [*शुचीनां तामहात्मानः सुक्षीरं दुदुहुस्तदा ॥] गन्धर्वास्तेन जीवन्ति यक्षाश्चाप्सरसस्तथा ॥ पर्वतेश्च महापुण्यैर्दुग्धा चेयं वसुंधग । रत्नानि विविधान्येव चौपधीश्चामृतोपमाः॥ ६५ वनमश्चैव महाभागो हिमवान्परिकल्पितः । मेरुर्दोग्धा च संजातः पात्रं कृत्वा सुसानु च ॥ ६६ तेन श्रीरेण संवृद्धाः शैलाः सर्वे मैहोच्याः । पुनर्दुग्धा महावृक्षैः पुण्यैः कल्पद्रुमादिभिः॥६७ पालाशं पात्रमानिन्युश्छिन्नदग्धप्ररोहणम् । शालो दुदोह पुण्याङ्गः प्लक्षो वत्सोऽभवत्तदा ॥ ६८ गुह्यकैश्चारणः मिट्टै विद्याधरगणैस्तथा । दुग्धा चेयं सर्वधात्री मर्वकामप्रदायिनी ॥ ६९ यं यमिच्छन्ति ये लोका पात्रवत्सविशेषणेः । नेम्तैम्तेषां ददात्येव क्षीरं मद्भावमीदृशम् ॥ ७० इयं धात्री विधात्री च त्वियं श्रेष्ठा वसुंधरा । सर्वकामदुधा धेनुरियं पुण्यैरलंकृता ॥ ७१ इयं ज्येष्ठा कनिष्ठा तु चेयं सृष्टिग्यिं प्रजा । पावनी पुण्यदा पुण्या सर्वसस्यपरोहिणी ॥ ७२ [चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च । महालक्ष्मीरियं विद्या सर्वविश्वमयी सदा ॥ ७३ सर्वकामदुघा दोग्ध्री सर्वबीजप्रगहिणी] । सर्वेपां श्रेयसां माता सर्वलोकधरा वियम् ॥ ७४ पश्चानामपि भूतानां प्रकाशो रूपमेव च । आसीदियं समुद्रान्ता मेदिनीति परिश्रुता ॥ ७५ मधुकैटभयोः क्लप्ता मेदमा समभिता । तेनेयं मेदिनी देवी प्रोच्यते ब्रह्मवादिभिः ॥ ७६ नंतश्च प्रीतिमद्राज्ञः पृथोन्यम्य मत्तमाः । दुहितृत्वमनुप्राप्ता देवी पृथ्वीति चोच्यते ॥ ७७ नेन राज्ञा द्विजश्रेष्ठाः पालिनेयं वसुंधरा । [*ग्रामाधारं गृहाणां च पुरपत्तनमालिनी ]॥ ७८ सस्याकरवती स्फीता सर्वतीथमयी द्विजाः। एवं वसुमती देवी सर्वलोकमयी सदा ॥ ७९ एवंप्रभावो राजेन्द्रः पुगणे परिपठ्यने । पृथुर्वेन्यो महाभागः सर्वधर्मप्रकाशकः ॥ ८० यथा विष्णुर्यथा ब्रह्मा यथा रुद्रः सनातनः । नमस्कार्यालयो देवा देवाचब्रह्मवादिभिः ॥ ८१ ब्राह्मणऋपिभिः मवनमस्कार्यो नृपोत्तमः । वणानामाश्रमाणां यः स्थापकः सर्वलोकधृक् ॥ ८२ पार्थिवैश्च महाभागः पार्थिवत्वमिहेप्सुभिः । आदिराजो नमस्कार्यः पृथुन्यः प्रतापवान् ।। ८३ धनुर्वेदार्थिभिर्यो वै सदैव जयकाइक्षिभिः । नमस्कार्यो महाराजो दृत्तिदाता महीभृताम् ॥ ८४ एवं पात्रविशेषाश्च मयाऽऽख्याता द्विजोत्तमाः । वत्सानां सुविशेषाश्च दोग्धृणां भवदग्रजः ॥८५ क्षीरस्यापि विशेषं तु यथोदिष्टं हि भूभुजः । समाग्व्यानं तथाऽग्रे च भवतां वै यथार्थतः ॥ ८६ धन्यं यशस्यमारोग्यं पुण्यं पापप्रणाशनम् । यः शृणोति चरित्रं तु पृथोस्तस्य द्विजोत्तमाः॥ ८७ तस्य भागीरथीनानमहन्यहनि जायते । सर्वपापविशुद्धात्मा विष्णुलोकं प्रगच्छति ॥ ८८
इति श्रीमहापुराणे पाझे भूमिखण्डे पृथपाख्यान नामाष्टाविंशोऽध्यायः ॥ २८ ॥
आदितः श्लोकानां समथ्यङ्काः-४७२८ । ___ * एतनिहान्तर्गतपाठः क, ख, ग. घ. दु. च. छ. झ.ट. द. पुस्तकस्थः । । एतचिहान्तर्गतोऽयं पाट: क. ख. इ.च. छ. झ. ड. द. पुस्तकस्थः । * एतचिहान्तर्गतोऽयं पाट: क. ख. हु. च. छ. झ. ढ.पुस्तकस्थः ।
-- - -- - - --- -- - - - - - - - - १क.ख. ग. घ. इ.च. छ. झ.टेड..त गन्धर्वा गीततत्पराः । स ।२ क ख. ग. घ. ह.च. छ. झ.ट.ड. द त्वा तु शलजम् । ते'। ३ क.ख. ग. घ. ड. च. छ. झ. ट. ड. द. महाजमः । ४ क. ख. ड.. च. छ. स. ट. इ. ढ. पुष्पाहः । ५. छ. झ. ढ. प्रतिष्टा। क, ख. इ.च. छ. झ. १ ततोऽभ्युपागम । ७ छ. "भावा रा। ८ऊ. छ. द. 'वकर्म' । ९ ज. 'धेाह्मणादि।
Page #184
--------------------------------------------------------------------------
________________
१७८
[२ भूमिखण्डे
महामुनिश्रीव्यासपणीत
भयकोनत्रिंशोऽध्यायः ।
ऋषय ऊचुःमोऽसौ वेनः समाख्यातः पापाचारेण वर्तितः। तस्य पापस्य का वृत्तिः किं फलं प्राप्तवान्द्विज ॥ चरितं तस्य वेनस्य समाख्याहि यथा पुरा । विस्तरेण विदां श्रेष्ठ तमो वद महामते ॥ २
सूत उवाचचरित्रं तस्य वैन्यस्य वेनस्यापि महात्मनः । प्रवक्ष्यामि सुपुण्यं च यथान्यायं यथाश्रुतम् ॥ ३ जाते पृथौ महाभागे तस्मिन्पुत्रे महात्मनि । विमलत्वं गतो राजा धर्मत्वं गतवान्पुनः॥ ४ महापापानि सर्वाणि चार्जितानि नराधिपः । तीर्थसङ्गप्रसङ्गेन तेषां पापं प्रयाति च ॥ ५ सतां सगात्मजायेत पुण्यमेव न संशयः । पापानां तु प्रसङ्गेन पापं सिध्यति नान्यथा ॥ ६ [संभाषादर्शनात्स्पर्शादासनाद्भोजनात्किल । पापिनां संगमाच्चैव किल्बिषं परिसंचरेत ॥ ७ तथा पुण्यात्मकानां च पुण्यमेव प्रसंचरेत् । महातीर्थप्रसङ्गेन पापाः शुध्यन्ति नान्यथा ॥ पुण्यां गतिं प्रयान्त्येव निर्धूताशेषकल्मषाः ॥
ऋषय ऊचुःतत्कथं यान्ति ते पापाः परां सिद्धिं महामते । तन्नो विस्तरतो ब्रूहि श्रोतुं श्रद्धा प्रवर्तते ॥ ९
सूत उवाचलुन्धकाश्च महापापाः संजाता दाशधीवराः। रेवा च यमुना गङ्गा तासामम्भसि संस्थिताः॥ १० मानतोऽज्ञानतः स्नाताः संक्रीडन्ति च वै जले । महानदीप्रसङ्गेन ते यान्ति परमां गतिम् ॥११ सदानाताश्च वै पापसंघं परित्यजन्ति ते । पुण्यतोयप्रसङ्गाच्च ह्याष्टुताः सर्व एव ते ॥ १२ महानद्याः प्रसङ्गमञ्च त्वन्यासां द्विजसत्तमाः। महापुण्यजनस्यापि पापं नश्यति पापिनाम् ॥ प्रसमादर्शनात्स्पर्शानात्र कार्या विचारणा ॥ अबार्थे श्रूयते विषा इतिहासं पुरातनम् । तद्वो ह्यहं प्रवक्ष्यामि बहुपुण्यमदायकम् ॥ १४ कश्चिदस्ति मृगव्याः स तु लुब्धो महामतिः । श्वभिर्वागुरजालैश्च धनुर्बाणैस्तथैव च ॥ १५ मुगान्यातयते नित्यं पिशिवस्वादलम्पटः । एकदा स तु दुष्टात्मा बाणपाणिर्धनुर्धरः ॥ १६ भानैः परिवृतो दुर्ग वनं च प्रविवेश सः। मृगान्रुरून्वराहांश्च भीतान्मृदितवान्बहुन् ॥ १७ रेवातीरं समासाद्य कश्चिच्छफरघातकः । शफरं सूदयित्वा स निर्जगाम बहिर्जलात् ॥ १८ सगव्याधस्य लुब्धस्य भयत्रस्ता ततो मृगी । जीवत्राणपरा साँ च भीता चलितचेतना ॥ १९ त्वरमाणा पलायन्ती रेवातीरं समाश्रिता । श्वभिः संचालिता सा तु बाणघातक्षतातुरा ॥ २० श्वसमानाऽपि वेगेने स लुब्धो मृगघातकः । पृष्ठ एव समायाति पुरतो याति सा मृगी ॥ २१
* एतचिहान्तर्गतः पाठः क. ख. उ. च. छ. स. इ. ट.पुस्तकस्थः । १. 'मस्वं ग'। २ क.ख. ग. घ..च छ. झ ड. म् । दास[शत्वं पापसंघातं परित्यज्य व्रज । ३ म. 'जलस्या ।४ क.ख. च. छ... 'धः सुलोभाख्यो महावने । श्व' ।५ क.ख. र.च. छ. स.ट. 'नं विन्ध्य स्य वै मतः । मृ।६ क. ख. ग. घ. ङ. च. छ. स. ट. ड. द. लोमस्य । ७ क. ख. इ. च. छ. स. ह. साऽऽर्ता जिता ललितवानवा । त्व। ८१. च जिह्वाललि' । ट. च जिह्वालुलि ।९ क. ख. ग. घ. उ. च. छ.स. ट. ड, ढ. 'न सुलोभो मृ। १. छ. ति सा मृगी बागपीडिता । । झ. 'ति मा मृगी बहुचञ्चला ।।
Page #185
--------------------------------------------------------------------------
________________
२९ एकोनत्रिंशोऽध्यायः ]
परपुराणम् । दृष्टवास्तां शफरहा बाणपाणिः समुद्यतः । दुर्वाणस्य च वेगेन बवरुध्य च तां मृगीम् ॥ २२ तावलब्धो मृगव्याधः श्वाभिः सार्ध समागतः । हन्तव्या सा मयैवेयं मृगया मे समागता ॥ २३ तस्य वाक्यं समाकर्ण्य मीनहा मांसलम्पटः । वाणं मुमोच दुष्टात्मा तामुद्दिश्य महाबलः ।। २४ निहता मृगलुब्धेन बाणेन निशितेन च । प्रमृता सा मृगी तत्र बाणाभ्यां पापचिसयोः॥ २५ श्वभिर्दः समाकान्ता त्वरमाणा पपात सा । शिखराच इदे पुण्ये रेवायाः पापनाशने ॥ २६ श्वानश्च त्वरमाणास्ते पतिता विमले इदे । मृगव्याधे वदत्येवं धीवरः क्रोधमूर्छितः॥ २७ [*मदीयेयं मृगी दुष्ट कस्माद्वाणैर्हता त्वया । तमुवाच पुनः सोऽपि मीनहा मृगघातकम् ]॥२८ मदीयं न च संदेहो अबलिप्तः प्रभाषसे । युध्यमानौ ततस्तौ तु द्वावप्येतौ परस्परम् ॥ २९ क्रोधलोभान्महाभागौ पतितौ विमले जले । तस्मिन्काले महापर्व वर्तितं गतिदायकम् ॥ अमावास्यासमायोगं महापुण्यफलमदम् ॥ वेलायां पतिताः सर्वे पर्वणस्तस्य सत्तमाः । ज्ञानध्यानविहीनास्ते भावसत्यविवर्जिताः ॥ १ तीर्थस्नानप्रसङ्गेन मृगी श्वानश्च लुब्धकाः । सर्वपापविनिर्मुक्तास्ते गताः परमां गतिम् ॥ १२ तीर्थानां च प्रभावन सतां सङ्गाविजोत्तमाः। नाशयेत्पापिनां पापं दहेदगिरिवेन्धनम् ॥ ५ यस्मात्तेषां तु संसर्गादृषीणां सुमहात्मनाम् । संभाषादर्शनानष्टं स्पर्शाचैव नृपस्य च ॥ वेनस्य कल्मषं सर्व सतां सङ्गात्पुरा किल ॥ अत्युग्रं पुण्यसंसर्गात्पापमेव न संचरेत् । मातामहस्य दोषेण संलिप्तो वेन एव सः॥ ३५ __ऋषय ऊचुःमातामहस्य को दोषस्तमो विस्तरतो वद । स मृत्युः स च वै कालः स यमो धर्म एव च ॥१६ न हिंसको हि कस्यापि तस्मिन्पापे प्रतिष्ठितः । चराचराश्च ये लोकाः स्वकर्मवशवर्तिनः ॥ ३७ जीवन्ति च म्रियन्ते च भुञ्जन्त्येव स्वकर्मभिः । पापाः पश्यन्ति तं घोरं तेषां कर्म पविश्य सः॥ घोरेष्वेव च सर्वेषु कर्मस्वेव च पातकान् । योजयेन्नाशयेत्सूर्त प्रशस्तश्च दिने दिने ॥ १९ सर्वेष्वेव सुपुण्येषु कर्मस्वेव च पुण्यकान् । योजयेत्सत्यधर्मात्मा तस्य दोषो न दृश्यते ॥ स मृत्योः केन दोषेण पापी वेनस्त्वजायत ।।
सूत उवाचस मृत्युः शासको नित्यं पापानां दुष्टचेतसाम् । वर्तते कालरूपेण तेषां कर्म विमृश्यति॥ ४१ दुष्कृतात्मा दुष्कृतेन कर्मणा नरकं लभेत् । तस्य पापं विदित्वाऽसौ तपत्येव हि तं यमः ॥ ४२ मुकृतात्मा लभेत्स्वर्ग कर्मणा सुकृतेन वे । योजयत्येव तान्सवान्मृत्युरेको महाबलः ॥ ४३ महता सोख्यभावेन गीतमालकारिणा । दानभोगादिभिश्चैव योजयेत्सुकृतात्मकान् ॥ ४४ पीडाभिर्विविधाभिश्च क्लेशैः कष्टैश्च दारुणैः । शासयेत्ताडयेद्विमाः सक्रोधो मृत्युरेव तान् ॥ ४५
* एतचिहान्तर्गतोऽयं पाठः क. ख. ग. घ. उ. च. छ. ज. पुस्तकस्थः । १ क. स. ङ. छ. झ. द. 'तः । धनुरानम्य वें । ग. घ. ज. ड. 'तः । धनुर्वाणस्य वें । २ क. ख. ग. घ. .
च. छ. स. ट... 'योः । श्वानदन्तैः स३ क. ख. छ. स. 'माः । जना ध्या। र.च. द. माः । जपध्या ।४ म. माः। विनश्येत्पा' । ५ क. ख. र. च. छ. झ. त्यप्रपूण्यसंसर्गात्पापिनां पापं नश्यति । अत्युप्रपापिना सजात्यापमेव प्रसंच। ६ म. योगो। म.मैच।पा। ८ क.ख. ड. च. छ.स. ड.'त यमत्येव दिम. 'शस्ताव। . क. स्व. ग. घ. ब. च. छ. झ. ट. ह. द. णः । त्रास ।
Page #186
--------------------------------------------------------------------------
________________
१८०
महामुनिश्रीव्यासपणीनं
[ २ भूमिखण्डेकर्मणैव हि तस्यापि व्यापार परिवर्तयेत् । मृत्योश्चापि महाभागा लोभात्पुण्या प्रजायते ॥ ४६ सुनीथा नाम वै कन्या संजातेषा महात्मनः । पितुः कर्मविपाकेन क्रीडमाना सदैव सा ॥ प्रजानां शास्ति कर्तारं पापपुण्यनिदर्शनम् ॥ सा तु कन्या महाभागा सुनीथा नाम तस्य सा । रममाणा वनं प्राप्ता सखीभिः परिवारिता४८ तत्रापश्यन्महाभागं गन्धर्वतनयं वरम् । गीतकोलाहलस्यापि सुशचं नाम सा तदा ॥ ४९ ददर्श चारुसर्वाङ्गं संतपन्तं महत्तपः । गीतविद्यासुसिद्ध्यर्थं ध्यायामनं सरस्वतीम् ॥ ५० तस्यापराधमेवासी संचकार दिने दिने । सुशङ्कः क्षमते नित्यं गच्छ गच्छेति सोऽब्रवीत् ॥ ५१ प्रेषिता नैव गच्छेत्सा विघ्नमेव समाचरेत् । तेनैवमुक्ता सा क्रुद्धाऽताडयत्तपसि स्थितम् ॥ ५२ तामुवाच ततः क्रुद्धः सुंशङ्कः क्रोधमूर्छितः । दुष्टे पापसमाचारे कस्माद्विन्नं त्वया कृतम् ॥ ५३ ताडनात्ताडनं भद्रे न कुर्वन्ति महाजनाः । आक्रुष्टा नैव क्रुध्यन्ति चंति धर्मस्य संस्थितिः ॥ ५४ त्वयाऽहं घातितः पापे निर्दोपस्तपसि स्थितः। एवमुक्त्वा स धर्मात्मा सुनीथां पापचारिणीम् विरराम महाक्रोधाज्ज्ञात्वा नारी निवर्तितः । ततः सा पापमोहाद्वा वाल्याद्वा तमिहेव च ॥५६ समुवाच महात्मानं मुंशङ्ख तपसि स्थितम् । त्रैलोक्यवासिनां तातो ममैव परिघातकः ॥ ५७ असतो घातयन्नित्यं सतो न परितापयेत् । नैव दोषो भवेत्तस्य महापुण्यन वर्तयेत् ॥ ५८ एवमुक्त्वा सुनीथा तु पितरं वाक्यमब्रवीत् । मया हि ताडितस्तात गन्धर्वतनयो वने ॥ ५९ तपस्तपन्स वे तात कामक्रोधविवर्जितः । मामुवाच स धर्मात्माऽकामरागसमास्थितः ॥ ६० न ताडयेत्ताडयन्तं क्रोशन्तं नैव क्रोशयेत् । इत्युवाच स मां तात तन्मे त्वं कारणं वद ॥ ६१ एवमुक्तः स वै मृत्युः सुनीथां द्विजसत्तमाः । किंचिन्नोवाच धर्मात्मा प्रश्नप्रत्युत्तरं ततः ॥ ६२ वनं प्राप्ता पुनः सा हि सुशावं तपसि स्थितम् । कशाघातस्ततो दुष्टा जघान तपतां वरम् ॥ ६३ सुशवस्ताडितो विप्रा मृत्योश्चैव हि कन्यया। ततः क्रुद्धा महातेजाः शशाप तां सुमध्यमाम् ॥६४ निर्दोषोऽपि च वै भद्रे यस्मात्त्वयैव ताडितः । अहमेवं तपःसंस्थस्तस्माच्छापं ददाम्यहम् ॥६५ गार्हस्थ्यं हि समास्थाय सङ्गो भी यदा तदा।पापाचारमयः पुत्रो देवब्राह्मणनिन्दकः ।। ६६ सर्वपापरतो दुष्टस्तव गर्भाद्भविष्यति । एवं शप्त्वा गतश्चासी तप एव समाश्रितः ॥ ६७ गते तस्मिन्महाभागे सा सुनीथाऽऽगता गृहम् । समाचष्टे महात्मानं पितरं प्रति सा द्विजाः ॥६८ यथा शप्ता तदा तेन गन्धर्वतनयेन तु । तत्सर्व संश्रुतं तेन मृत्युना परिभाषितम् ॥ ६९ कस्मात्त्वया ताडितोऽस्ति तपस्त्री दांपवर्जितः । युक्तं नव कृतं भद्रे तपतस्तस्य ताडनम् ॥ ७० एवमाभाप्य धर्मात्मा मृत्युः परमदुखितः। [* बभूव स हितं तस्या दिष्टमेवं विचिन्तयन् ] ७१
सूत उवाचअत्रिपुत्री महातेजा अङ्गो नाम महीपतिः । एकदा तु गती विप्रास्तद्वनं प्रति नन्दनम् ॥ ७२ तत्र दृष्टो देवराजस्तनेन्द्रः पाकशासनः । अप्सरसां गणयुक्तो गन्धर्वः किंनरस्तथा ॥ ७३ [' गीयमानो महास्तोत्रक्रषिभिर्देवमङ्गलैः । ] गीयमानी गीतकैश्च सुस्वरः सप्तकैस्तथा ॥ ७४ * अ. पुस्तकस्थोऽयमेतचिह्नान्तर्गत: पाट: । एतञ्चिदान्तर्गतोऽयं पाठो ग. घ. इ. छ. झ. ट. ड. द. पुस्तकस्य ।
१ क. स्व. ड. च. छ. झ. ढ. प्रयोजयेत् । २ क. ख. ङ. च. छ. झ. द. विपश्यव की । ३ ट.'म वश्यगा । र । ४ ज. सुसखं । ५ क. ख. ड. च. छ. झ. ड. ढ. सुमखः । ६ क. ख. ड. च. छ. स. ढ. दष्टे । ७ क. खड. च छ. झ. इ. द. सुसख ८ ज. जातो। ९ ड. छ. झ क्त्वा गता सा तु । १० क. ख. ग. घ. ङ. च. छ. झ. ट. ड. द. त्मा क्रोधरा । ११ क. ख. ङ. च. छ. झ. ड ढ. सुसख । १२ क. ख. ङ. च. छ. झ. ड. द. व वने सं। १३ क. ख, ङ. च. छ. झ. . प्रतापवान् ।
Page #187
--------------------------------------------------------------------------
________________
३० त्रिंशोऽध्यायः ] पद्मपुराणम् ।
१८१ वीज्यमानः सुगन्धैश्च व्यजनैः सर्व एव सः]। योषिद्धी रूपयुक्ताभिश्चामरईसगामिभिः॥७५ छत्रेण हंसवर्णेन चन्द्रबिम्बानुकारिणौ । एवं वै राजमानं तु सहस्राक्षं महाबलम् ॥ ७६ दृष्या विस्मयमापेदे वासवं कामसंयुतम् । तस्य पार्थे महाभागां पौलोमी चारुलोचनाम् ॥ ७७ रूपेण तेजमा चैव तपसा च यशस्विनीम् । सौभाग्येन विराजन्ती पातिव्रत्ययुतां सतीम् ॥७८ तया सह सहस्राक्षः स रेमे नन्दने वने । तस्य लीला समालोक्य ह्यङ्गो राजा द्विजोत्तमाः॥७९ धन्यो वै देवराजोऽयमीदृशैः परिवारितः । अहोऽस्य तपसो वीर्य येन प्राप्तं महत्पदम् ॥ ८० यदाऽस्य सदृशः पुत्रः सर्वलोकप्रधानकः । स्यान्मे तदा महत्सौख्यं प्राप्स्यामीह न संशयः॥८१ इति चिन्तापरो भूत्वा त्वरमाणो गृहं गतः ॥
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाग्यान एकोनत्रिंशोऽध्यायः ॥ २९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४८१०
८२
अथ त्रिशोऽध्यायः ।
सूत उवाचअथ त्वङ्गो महातेजा दृष्ट्वा चन्द्रस्य संपदम् । भोगांश्चैव विलासं च लीलां तस्य महात्मनः॥१ कथं वा ईदृशः पुत्री मम स्याद्धर्मसंयुतः । चिन्तयित्वा क्षणं चैव स चाङ्गः ग्वेदसंयुतः॥ २ ['स्वकं गेहं ममायातः स त्वंगः सत्यतत्परः] । अत्रिं पप्रच्छ पितरं प्रणता नम्रकंधरः॥ ३ कोऽयं पुण्यसमाचार इन्द्रत्वं प्राप्तवान्महान् । कस्य धर्मस्य वै व्युष्टिः किं कृतं कर्म चेदृशम् ॥४ [*कः कृतो धर्म एतेन कमाराधितवान्मुने] । नन्मे त्वं विस्तरेणापि वद सत्यवतां वर ॥ ५
अत्रिरुखाचसाई पृष्टं महाभाग त्वया वै धर्मकारणम् । चरितं तस्य देवस्य तन्मे निगदतः शृणु ॥ ६ सुव्रनो नाम मेधावी पुरा ब्राह्मणसत्तमः । तेन कृष्णो हपीकेशस्तपसा चैव तोपितः ॥ ७ पुण्यगर्भमतः प्राप्ती अदित्यां कश्यपात्किल । विष्णाश्चैव प्रमादन देवराजो बभूव सः॥ ८
अङ्ग उवाचकथमिन्द्रसमः पुत्रो मम स्यात्पुत्रवत्सल । तदुपायं समाचक्ष्व भवाज्ञानवतां वरः ॥ ९
अत्रिरुवाचसमासेनापि तस्यैव सुव्रतस्य महात्मनः । चरित्रमखिलं पुण्यं निशामय महामते ॥ १० सुव्रतो नाम मेधावी पुराऽऽराधितवान्हरिम् । तस्य भावं सुभक्तिं च ध्यानं चैव महात्मनः ११ समालोक्य जगन्नाथो दत्तवान्वै महत्पदम् । स एन्दं सर्वभोगाढ्यं त्रैलोक्यं सचराचरम् ॥ १२ विष्णोचव प्रसादाद्धि चानुभुङ्क्ते त्रिलोकधुक । एवं ते सर्वमाख्यातमिन्द्रस्यापि विचेष्टितम् ॥१३
* एतच्चिदान्तर्गतः पाठः क. ख. ग. घ. इ. च. झ. छ. ट. इ. द. पुस्तकस्थः । । एतचिदार्गतोऽयं पाठः क. ख.
ग. घ. इ. च.छ. झ.ट. डद. पस्तकस्थः ।
तामहान्तगतोऽयं पाठी इ. पुस्तकस्थः ।
१क. ख. ग. घ. इ. च. छ. झ. ट. इ. इ. णा । राजमान महस्राक्षं सवोभरणभूषितम् । २ क. ख. उ. च. छ. झ. इ. द. रुमङ्गलाम् । ३ क. ख. दुः. च. छ. झ. द. "क्य तुङ्गश्चैव द्वि। ४ क. ख. हु. च. छ. झ. द. तुङ्गो। ५ क. ख. ड. च. छ. झ. द. तुङ्गः। ६ क. ख. ग. घ. इ. च. छ. झ. ड. द. धु माधु महाभाग यद्येवं पृच्छसे मयि । च। ७ क. ख. इ. च. छ. झ. द. तुङ्ग । ८ क. ख. टु, च. छ. झ. द. 'ण्यं तुङ्गस्याग्रे निवेदितम् । मुं। ग. घ. ट. 8. ण्य स्वहस्याने निवेदितम् । मु। ९. इन्द्रः।
Page #188
--------------------------------------------------------------------------
________________
१८२
महामुनिश्रीव्यासमणीत
[ २ भूमिखण्डेभक्त्या तुष्यति गोविन्दो भावध्यानेन सत्तम । सर्व ददाति सततं भक्त्या संतोषितो हरिः १४ वस्मादाराध्य गोविन्द सर्वदं सर्वसंभवम् । सर्वशं सर्ववेत्तारं सर्वेशं पुरुषं परम् ॥ वस्मात्माप्स्यसि सर्व त्वं यद्यदिच्छसि नन्दन ॥
सुखस्य दाता परमार्थदाता मोक्षस्य दाता जगतामिहेशः। तस्मात्तमाराधय गच्छ पुत्र संमाप्स्यसे हीन्द्रसमं हि पुत्रम् ॥ आकर्ण्य वाक्यं परमार्थयुक्तं महात्मनाऽसौ ऋषिणा हि तेन । संगृह्य तत्त्वं वचनं हि तस्यै आराधितुं शाश्वतमव्ययं सः॥ आमन्त्र्य चोङ्गः पितरं महात्मा ब्रह्मात्मजं ब्रह्मसमानमेव । संप्राप्तवान्मेरुगिरेस्तु शृङ्ग तत्काञ्चनै रत्नमयैः समेतम् ॥ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने त्रिंशोऽध्यायः ॥ ३० ॥
आदितः श्लोकानां समष्ट्यङ्काः-४८३८
अर्थकत्रिंशोऽध्यायः ।
059
सूत उवाचनानारत्नैः सुदीप्ताङ्गैर्हाटकेनापि सर्वतः । राजमानो गिरिश्रेष्ठो यथा सूर्यः स्वरश्मिभिः॥ १ छायामशाका संप्राप्य शतिलां सुखदायिनीम् । ध्यायन्ति योगिनः सर्वे युपविष्टा दृढासने ॥२ कचित्तपन्ति मुनयः कचिद्गायन्ति किंनराः । संतुष्टाश्चैव गन्धर्वाः सुवीणातालधारिणः ॥ ३ वालमानलये लीनाः स्वरैः सप्तभिरन्वितैः । मूर्छनारत्निसंयुक्तैर्व्यक्तं गीतं मनोरमम् ॥ ४ तस्मिन्हि पर्वतश्रेष्ठे चन्दनाच्छादसंस्थिताः । गन्धर्वा गीततत्त्वज्ञा गीतं गायन्ति तत्पराः ॥ ५ नृत्यन्ति योषितस्तत्र देवानां पर्वतोत्तमे । पापघ्नी पुण्यदा दिव्या सुश्रेयःसुभदायिनी ॥ ६ वेदध्वनिः सुमचुरा श्रूयते पर्वतोत्तमे । चन्दनाशोकपुन्नागेः शालेस्तालेस्तमालकैः॥ ७ वृक्षः सुमेघसंकाशै राजते पर्वतोत्तमः । संतानकैः कल्पगङ्गायाः पयसाऽऽकुलैः॥ ८ नगेन्द्रो भाति सर्वत्र नागौः सुपुष्पितैः । नानाधातुसमाकीर्णो नानारत्नमयो गिरिः॥ ९ नानाकौतुकसंयुक्तो नानामालसंयुतः । देववृन्दैः सुसंयुक्तश्चाप्सरोगणसंकुलः ॥ १० ऋषिभिर्मुनिभिः सिदै[र्गन्धर्वैः परिभाति सः । गजैश्वाचलसंकाशैः सिंहनादेविराजते ॥ ११ शरभैर्मत्तशार्दूलै]मर्गयूथैरलंकृतः । वापीकूपतडागैश्च संपूर्णः शीतलोदकैः ॥ १२ हंसकारण्डवाकीर्णैः पर्वतः परिशोभते । स्वर्णोत्पलैश्च श्वेतेश्च [*रक्तोत्पलैर्विराजते ॥ १३ नदीस्रवणसंघातैर्विमलेश्चोदकैस्तथा । शालेस्तालैस्तमालेस्तु रौप्यैश्च स्फाटिकैस्तथा ॥ १४ विस्तीर्णैः काश्चनर्दिव्यैः सूर्यवह्निसमप्रभः । शिलातलेश्च संपूर्णः शैलराजो विराजते ॥ १५
* एतचिहान्तर्गतोऽयं पाठः क. ख. ग. स. ङ. च. छ. स. ड. द. पुस्तकस्थः। 1 एतचिहान्तर्गतोऽयं पाठः क. ख... च. छ.स. १. द. पुस्तकस्थः ।
क. ख. डच. छ. स...दस्य प्रणम्य तं शा।२ क. ख. र. च. छ. झ. तुङ्गः । ३ क. ख. ग. घ. ऊ. च. छ.म. ट... द. वटैः। ४. ख. र. च छ.स.ह. ढ. क्ष रम्भापादपसंकु। ५ ख. ग. घ. स. च. ट... नाक । ६क. स... च. छ. अ. द. गधृतेर। क. ख. ग. घ. क. च. छ. स. . द. विमलोदकैः । ८ क. ख. ग. घ. ऊ. च. छ. .. सर्वत्र।
Page #189
--------------------------------------------------------------------------
________________
३१ एकत्रिंशोऽध्यायः ]
पत्रपुराणम् । विमानैर्देवतानां च भासादैः पर्वतोत्त(प)मैः । इसकेन्दुमतीकाशैर्हमदण्डैरलंकृतः॥ कलशैश्वामरैर्युक्तैः प्रासादैः परिशोभितः । नानागुणममुदितदेववृन्दैश्च राजते ॥ देववृन्दैरनेकैश्च] गन्धर्वैश्चारणैस्तथा । सर्वत्र राजते पुण्यो मेरुगिरिवरोसमः ॥ तस्माद्गङ्गानदी पुण्या पुण्यलभ्या महानदी। प्रसूता पुण्यतीर्थाढया हंसपथैः समाकुला ॥ १९ मुनिभिः सेव्यमाना सा ऋषिसंधैर्महानदी । एवंगुणं गिरिश्रेष्ठं पुण्यकौतुकमङ्गलम् ॥ २०
अश्यात्रिसुतः पुण्यः प्रविवेश महामुनिः । गङ्गातीरे सुपुण्ये च त्वेकान्ते रत्नकन्दरे ॥ २१ तत्रोपविश्य मेधावी कामक्रोधविवर्जितः । सर्वेन्द्रियाणि संयम्य हृषीकेशं मनःकृतम् ॥ २२ ध्यायमानः स धर्मात्मा कृष्णं क्लेशापहं प्रभुम् । आसने शयने याने ध्याने च मधुसूदनम् ॥२३ नित्यं पश्यति युक्तात्मा योगयुक्तो जितेन्द्रियः । चराचरेषु जीवेषु तेषु पश्यति केशवम् ॥ २४
आर्टेषु चेव शुष्केषु सर्वेष्वन्येषु स द्विजः। एवं वर्षशतं जातं तप्यमानस्य तस्य च ॥ २५ बहुविनाश्च घोराश्च दर्शनं यान्ति नित्यशः । तेजसा तस्य देवस्य नृसिंहस्य महात्मनः ॥ २६ निरातङ्कः स धर्मात्मा दहत्यनिरिवेन्धनम् । नियमैः संयमैश्वान्यैरुपवासैविजोतमाः॥ २७ क्षीयमाणस्तु संजातो दीप्यमानः स्वतेजसा । सूर्यपावकसंकाशस्त्वङ्ग एवं प्रदृश्यते ॥ २८ एवं तपःसुनिरतं ध्यायमानं जनार्दनम् । आविर्भूयाब्रवीदेवो वरं वरय मानद ।। तं च दृष्ट्वा हृषीकेशमङ्गः परमनिर्वृतः । तुष्टाव प्रणतो भूत्वा वासुदेवं प्रसन्नधीः ।।
अङ्ग उवाचत्वं गतिः सर्वभूतानां भूतभावन पावन । भूतात्मा सर्वभूतेशो नमस्तुभ्यं गुणात्मने ॥ गुणरूपाय गुह्याय गुणातीताय ते नमः । गुणाय गुणकर्त्रे च गुणाब्याय गुणात्मने ॥ भवाय भवकर्वे च भक्तानां भवहारिणे । भवाय भवगुह्याय नमो भवविनाशिने ॥ ३३ यज्ञाय यज्ञरूपाय यज्ञेशाय नमो नमः । यज्ञकमेप्रसङ्गाय नमः शशधराय च ॥ नमो हिरण्यवर्णाय नमो रथाङ्गधारिणे । सत्याय सत्यभावाय सर्वसत्यमयाय च ॥ धर्माय धर्मकर्ने च सर्वकर्ने च ते नमः । धर्माङ्गाय सुवीराय धर्माधाराय ते नमः॥ १६ नमः पुण्याय पुत्राय ह्यपुत्राय महात्मने । [ *मायामोहविनाशाय सर्वमायाकराय ते ]॥ ३७ मायाधराय मूतोय त्वमूर्ताय नमो नमः [ 'सर्वमूर्तिधरायैव शंकराय नमो नमः ] ॥ २८ ब्रह्मणे ब्रह्मरूपाय परब्रह्मस्वरूपिणे । नमस्ते सर्वधाम्ने चे नमो धामधराय च ॥ ३९ श्रीमते श्रीनिवासाय श्रीधराय नमो नमः । क्षीरसागरवासाय चामृताय च ते नमः ॥ ४० महौषधाय घोराय महाप्रज्ञापराय च । अकराय प्रमेध्याय मध्यानां पतये नमः॥ ४१ अनन्ताय ह्यशेषाय चानघाय नमो नमः । आकाशस्य प्रकाशाय पक्षिरूपाय ते नमः॥ ४२ हुताय हुतभोक्त्रे च हवीरूपाय ते नमः । बुद्धाय बुधरूपाय सदाबुद्धाय ते नमः॥ ४३
* एतचिहान्तर्गतः पाठः क. स्व. ड. च. छ. झ. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाटः क. ख. रु. च. छ. स. द. पुस्तकस्थः ।
१ क. ख. ङ. च. छ. स. ड. द. पुण्यतोया। ट पुण्यवन्या । २ क. स. हु. च. छ. स. इ. द.म् । तुज ।३.ख. ङ. च. छ. स. ड. ढ. 'न्ते चारुक । ४ क.ख.ड.च.छ.सत्तमः । क्षी। ५ क. ख. ङ. च. छ. स. द. तुम।६म. भवोभवाय गु । ७ट, ड. कत्रे च संघाय । ८ क.ख.ग.घ.ङ.च.छ.स.ट.इ.इ. मो नमो हिरण्याय न । ९च. च मूलधर्मधराय। १.ग. प. वीराय । धीराय । ११ क ख ङ. च. ज. ढ.य वहिरू । १२ क.ख..च. ढ. 'मः।नमो न्याय बनाय स्वधाकाराय ते ।
Page #190
--------------------------------------------------------------------------
________________
१८४
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
स्वाहाकाराय शुद्धाय ह्यव्यक्ताय महात्मने । व्यासाय वासवायैव वसुरूपाय ते नमः ॥ वासुदेवाय विश्वाय वह्निरूपाय ते नमः । [हरये केवलायैव वामनाय नमो नमः ॥ नमो नृसिंहदेवाय सत्त्वपालाय ते नमः । नमो गोविन्द गोपाय नम एकाक्षराय च ॥ नमः सर्वक्षरायैव हंसरूपाय ते नमः । त्रितत्त्वाय नमस्तुभ्यं पञ्चतत्त्वाय ते नमः ।। पञ्चविंशतितत्त्वाय तत्त्वाधाराय वै नमः । कृष्णाय कृष्णरूपाय लक्ष्मीनाथाय ते नमः ॥ नमः पद्मपलाशाक्ष आनन्दाय पराय च । नमो विश्वंभरायैव पापनाशाय वै नमः || नमः पुण्यसुपुण्याय सत्यधर्माय ते नमः ॥
४४
४५
४६
४७
४८
४९.
नमो नमः शाश्वत अव्ययाय नमो नमः संघ (सर्व) नभोमयाय । श्रीपद्मनाभाय महेश्वराय नमामि ते केशव पादपद्मम् ।। आनन्दकन्द कमलाप्रिय वासुदेव सर्वेश ईश मधुसूदन देहि दास्यम् । पादौ नमामि तव केशव जन्म जन्म कृपां कुरुष्व मम शान्तिद शङ्खपाणे || ५१ संसारदारुणहुताशनतापदग्धं पुत्रादिवन्धुमरणैर्वहु शोकनापैः ।
ज्ञानाम्बुदेन मम प्लावय पद्मनाभ दीनस्य मच्छरणरूप भवस्त्र नाथ ||
५०
५२
५४
एवं स्तोत्रं समाकर्ण्य तु (त्व) ङ्गस्यापि महात्मनः । दर्शयित्वा स्वकं रूपं घनश्यामं महौजसम् ५ ३ शङ्खचक्रगदापाणि पद्महस्तं महाप्रभम् । वैनतेयसमा रूढमात्मरूपं प्रदर्शितम् || सर्वाभरणशोभाङ्गं हारकङ्कणकुण्डलैः । राजमानं परं दिव्यं निर्मलं वनमालया ॥ तुङ्गस्याग्रे हृषीकेशः शोभमानं महाप्रभम् । श्रीवत्साङ्केन पुण्येन कौस्तुभेन जनार्दनः ॥ दर्शयित्वा स्वकं देहं सर्वदेवमयो हरिः । सर्वालंकारशांभाव्यं तुङ्गस्याग्रे जनार्दनः || स उवाच महात्मानं तं तुङ्गमृषिसत्तमम् । भो भो विप्र महाभाग श्रूयतां वचनं शुभम् ॥ मेघगम्भीरघोषेण समाभाप्य द्विजोत्तमम् । तपसा तेन तुष्टोऽस्मि वरं वरय शोभनम् ॥ तुष्टमानं हृषीकेशं तं दृष्ट्वा कमलापतिम् । दीप्यमानं विराजन्तं विश्वरूपं जनेश्वरम् ।। पादाम्बुजद्वयं तस्य प्रणम्य च पुनः पुनः । हर्षेण महताऽऽविष्टस्तमुवाssकु कार्दनम् ॥ दासोऽहं तव देवेश शङ्खचक्रगदाधर । वरं मे दातुकामोऽसि देहि रत्नमय सुतम् ।। fafa चन्द्रो यथा भाति सर्वतेजःसमन्वितः । तादृशं देहि मे पुत्रं संकलः रक्षकम् ॥ सर्वदेवप्रियं देव ब्रह्मण्यं धर्मपण्डितम् । दातारं ज्ञानसंपन्नं धर्मतेजः समन्वितम् ॥ त्रैलोक्यरक्षकं कृष्ण सत्यधर्मानुपालकम् । यज्वनामुत्तमं चैकं शूरं त्रैलोक्यभूषणम् ।। ब्रह्मण्यं वेदसिद्धांशं सत्यसंधं जितेन्द्रियम् । अजितं सर्वजेतारं विष्णुतेजः समप्रभम् ॥ वैष्णवं पुण्यकर्तारं पुण्यजं पुण्यलक्षणम् । शान्तं तु तपसोपेतं सर्वशास्त्रविशारदम् ] || सुशीलं सर्वधर्मज्ञं भवतो गुणसंयुतम् । ईदृशं देहि मे पुत्रं दातुकामों यदा वरम् ॥
1
वासुदेव उवाच
एभिर्गुणैः समोपेतस्तव पुत्रो भविष्यति । अत्रिवंशस्य वै धर्ता विश्वस्यास्य महामते ।
* एतच्चिह्नान्तर्गतोऽयं पाठः क. ख. ङ. च. छ. झ. ट. पुस्तकस्थः ।
१ ङ. झ. ट. कपिलायैव । २ क. ख. ड. च. ड. ट. तेजसे । त्रि । ३ ड. च. ट. महाप्रभुम् । ४. दविद्वांसं स ५ क. ख. ङ. च. झ. ८. मू । वेदज्ञं योगिनां श्रेष्ठं भ ।
५६
५७
५८
६०
६१
६२
६३
६४
६५
६६
६७
६८
६९
Page #191
--------------------------------------------------------------------------
________________
१८५
३२ द्वात्रिंशोऽध्यायः ]
पद्मपुराणम् । तेजसा यशसा पुण्यैः पितरं चोद्धरिष्यति । उद्धरिष्यति यः सत्यैः पितरं च पितामहम् ॥७० भवान्याप्स्यसि मे सर्व तद्विष्णोः परमं पदम् । इत्युक्त्वा देवदेवेशस्तमङ्गं प्रति स द्विजः ॥ ७१ कस्यचित्पुण्यवीर्यस्य पुण्यां कन्यां विवाहय । तस्यामुत्पादय सुतं पुण्यं पुण्यावहं प्रियम् ॥ ७२ स भविष्यति धर्मात्मा मेत्प्रसादान्महामुने । [*सर्वज्ञः सर्ववेत्ता च यादृशो वाञ्छितस्त्वया ]॥ एवं वरं ततो दत्त्वा त्वन्तर्धानं गतो हरिः॥
७३ इति श्रीमहापुगणे पाये भूमिखण्डे वेनोपाख्यानेऽङ्ग वरप्रदानं नामकत्रिंशोऽध्यायः ॥ ३१॥
आदितः श्लोकानां समयङ्काः-४०.११
कार.॥
अथ द्वात्रिशोऽध्यायः ।
ऋषय ऊचुःशप्ता गन्धर्वमुख्यन सुशङ्गेन महात्मना । तस्याः शापः कथं जानः किं किं कर्म कृतं तया ॥ १ सा लेभे कीदृशं पुत्रं तस्य शापाद्विदां वर । सुनीथायाश्चरित्रं तु त्वं नो विस्तरतो वद ॥ २
सूत उवाचमुशङ्गेनापि तेनैव सा शमा ननुमध्यमा । पितुः स्थानं गता सा तु सुनीथा दुःखपीडिता ॥ ३ स्वचरित्रं तदा सर्व पितरं पनि चाब्रवीत् । श्रुतवान्मोऽपि धर्मान्मा मृत्युधर्मवतां वरः ॥ ४ तामुवाच सुनीयां तु सुनां शप्तां महात्मना । भवनी दुप्कृतं पापं धर्मतेजःप्रणाशनम् ॥ ५ कस्मात्कृतवती भद्रे मुनेस्तस्य हि ताडनम् । [* विरुद्ध सर्वलोकस्य भवत्या परिकल्पितम् ] ॥६ कामक्रोधविहीनं तं सुशान्तं धर्मवत्मलम् । तपांमागविलग्नं च परब्रह्मणि संस्थितम् ॥ ७ तमेव घातयेद्या वे तस्य पापं शृणुष्व हि । पापात्मा जायते पुत्रि किल्विषं भुञ्जते स हि ॥ ८ ताडयन्तं ताडयद्यः क्रोशन्तं क्रोशयेत्पुनः । तस्य पापं स वै भुझे ताडितस्य न संशयः ॥ ९ स वै शान्तः संजितात्मा ताडयन्तं न ताडयेत् । निर्दोष प्रति येनापि ताडनं च कृतं सुते ॥१० पश्चान्मोहेन पापेन निदोषोऽपि च ताडयत । पापं कर्तुश्च यत्पापं निर्दोपं प्रति गच्छति ॥ ११ नाडनं नैव तस्माद्धि कार्य दोषवतोऽपि च । दुष्कृतं च मह-पुत्रि त्वयंवं परिपालितम् ॥ १२ शप्ता तेनापि पश्चाच तस्मात्पुण्यं समाचर । सतां संगममासाद्य सदैव परिवर्तय ॥ १३ योगध्यानेन दानेन परिवतय नित्यशः । मतां सङ्गो महापुण्यो बहुक्षेमपदायकः ॥ वाले पश्य सदृष्टान्तं सनां सङ्गस्य यद्गम् । यो संस्पर्शनाम्नानापानादर्शनतोऽपि वा ॥१५ मुनयः सिदिमायान्ति वाद्याभ्यन्तरक्षालिताः। आयुप्मन्तो भवन्त्यंत लोकाः सर्वे चराचराः ॥
* एतशिबान्तगतोऽय पाट: इ.पम्तकस्थः । एतमिहान्तर्गतः पाटः क. स्व. इ. च... इ.द. पुस्तकस्थः ।
१ .ख. हु. च. छ. झ. द. स्थानं। २ क, स्व. इ. च.. झ.द, शम्त तुई। ३ क. ख. च. छ. स. 'तं तस्मापात्री न संशयः । म । ४ क. ख, ग, घ. ह. च. छ. झ.ट. ड.द. म् । भविष्यतिन मंदेहो मा५क.ख.उ.च. छ. म. द. मन्त्रमादान्महामते । क.ख.ग.प.ड.च.छ.झ. ट. ड. द. गन्धपुत्रेण मु। ७ छ. झ. सुमखेन । ८ ज. तस्य शापात्कथं । ९ क.ख.ग.घ.नु.च.छ.ट.ड.द, पाइद्विजोत्तम । स।१ क, ख, ग. इ. च. छ. झ. ट. इ. इ.मृत्युः सत्यव'११क.ख. स.च. छ. झ. द. न.. 'ट्रे सुशान्तस्य । १२ क. ख. इ. च. छ. झ. द. ते बहु । ता । १३ क. ख. म. घ. ड. च. छ. ट. ड... नन्दिनि । १४ क. ख. इ. च. छ. झ. द. शुचिष्मन्तो ।
२४
Page #192
--------------------------------------------------------------------------
________________
१८६
महामुनिश्रीव्यासप्रणीतं -
[ १ भूमिखण्डे -
1
१७
१०
[*अपि संतोषशीलश्च मृदुगामी प्रियंकरः । निर्मलो रसवांश्चासौ पुण्यवीर्यो मलापहः ।। तथा शान्तो भवेत्पुत्रि सर्वसौख्यप्रदायकः । यथा वह्निप्रसङ्गाच्च मलं त्यजति काञ्चनम् ।। १८ तथा सतां हि संसर्गात्पापं त्यजति मानवः । सत्यवह्निप्रदीप्तश्च प्रज्वलेत्पुण्यतेजसा ॥ सत्येन दीप्तिमचैव ज्ञानेनापि सुनिर्मलः । अत्युष्णो ध्यानभावेन ह्यस्पृश्यः पापजैर्नरैः ॥ २० सत्यवह्नेः : प्रसङ्गाच्च पापेन्धनं दिधक्षति । तस्मात्सत्यस्य संसर्गः कर्तव्यां नान्यथा त्वया ] ॥ २१ तस्मात्पुत्रि महाभागे चिन्तयाधोक्षजं हरिम् । पापभावं परित्यज्य पुण्यमेव समाश्रय ॥
२३
सूत उवाच --
एवं पित्रा सुनीथा सा दुःखिता प्रविबोधिता । नमस्कृत्य पितुः पादों सा गता निर्जनं वनम् ॥ arerrar परित्यज्य बाल्यभावं तपस्विनी । मोहद्रोहौ च मायां च त्यक्त्वा चैकान्तमास्थिता २४ तस्याः सख्यः समाजग्मू रम्भाद्यास्तास्तपोन्विताः । ददृशुस्तां विशालाक्ष्यः सुनीथां दुःखभागिनीम ध्यायन्तीं चिन्तयानां तामूचुस्ताः समुपागताः । कस्माच्चिन्तसि भद्रं ते त्वनया चिन्तयाऽन्विता ॥ संतापकारणं ब्रूहि चिन्ता दुःखप्रदायिनी । एकैव सार्थका चिन्ता धर्मस्यार्थे विचिन्त्यते ॥ २७ द्वितीया सार्थका चिन्ता योगिनां धर्मनन्दिनि । अन्या चानर्थका चिन्ता तां नैव परिकल्पयेत् ।। कॉमनाशकरी चिन्ता बलतेजः प्रणाशिनी । नाशयेत्सर्वसौख्यं तु रूपहानिं विदर्शयेत् ॥ २९ [ तृष्णामोहौ तथा लोभमेनांश्चिन्ता हि प्रापयेत् । पापमुत्पादयेचिन्ता चिन्तिता च दिने दिने ३० चिन्ता व्याधिप्रकाशाय नरकाय प्रकल्पयेत् ] । तस्माच्चिन्तां परित्यज्य चानुवर्तस्व शोभनं ।। ३१ अर्जितं कर्मणा पूर्व स्वयमेव नरेण तु । तदेव भुतेऽसौ जन्तुज्ञानवान्न विचिन्तयेत् || तस्माच्चिन्तां परित्यज्य सुखदुःखादिकं वद । तामां तद्वचनं श्रुत्वा सुनीथा वाक्यमब्रवीत् ।। ३३ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनेोपाख्याने सुनीथाचरितं नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥ आदितः श्लोकानां समश्यङ्काः – ४९४४
३२
अथ त्रयस्त्रिशोऽध्यायः ।
सूत उवाच
यथा शप्ता बने पूर्व सुशङ्खेन महात्मना । तासु सर्वे यथाssव्यातं सखीप्वेवं विचेष्टितम् ।। आत्मनश्च महाभागा दुःखेनापि प्रपीडिता ।।
सुनीथोवाच
अन्यच्चाहं प्रवक्ष्यामि सख्यः शृण्वन्तु सांप्रतम् ||
मदीयां रूपसंपत्ति वयसां गुणसंपदम् । विपश्यन्मां पितुश्चिन्ता संजाता मम कारणात् ।। देवेभ्यो दातुकामोऽसौ मुनिभ्यस्तु महायशाः । स्वहस्ते तु निगृह्येव देवानिदमुदाहरत् । गुणाढ्येयं सुता बाला ममत्रं चारुलोचना । दातुकामोऽस्मि भद्रं वो गुणिने व महात्मनं ॥
एतच्चिहान्तर्गतः पाठः क. ख. ङ च छ झ. ड. ट. पुस्तकस्थः । एतच्चिदान्तर्गताऽय पाठी ड. पुस्तकस्थः ।
*
४
१ क. ख. उ. च. छ. झ. ट. भारं पं । २क. ख. ड. च. छ. झ. ट. 'जग्मुः क्रीडार्थ लीलयाऽन्वि । ३ क ख. ड. च. छ. झ. ट . ट. भद्रे त्वं त्वं । ४ क. ख. इ. च. छ. झ. 'कायना । ५ क. ख. ड. च. छ. झ. ड. ह. सुखेन । ६ क. ख. ड.च. छ. ट.ड. ड. वं समाख्या ।
Page #193
--------------------------------------------------------------------------
________________
३३ त्रयस्त्रिंशोऽध्यायः ]
पद्मपुराणम् ।
८
९
११
मृत्योर्वाक्यं ततो देवा ऋषयः शुश्रुवुस्तथा । तमूचुर्भाषमाणं ते देवा इन्द्रपुरोगमाः ।। तव कन्या गुणान्येयं त्यानां परमावधिः । दोषेणैकेन संदुष्टा ऋषिशापेन तेन वै ॥ अस्यामुत्पत्स्यते पुत्रो दुष्टवीर्यः पुमान्किल । भविताऽसौ महापापी पुण्यवंशविनाशकः ॥ गङ्गातोयेन संपूर्णो यथा कुम्भः प्रदृश्यते । सुराया बिन्दुना लिप्तो मद्यकुम्भः प्रजायते ॥ पापस्य पापसंसर्गात्कुलं पौषि प्रजायते । आरनालस्य वै विन्दुः क्षीरमध्ये प्रयाति चेत् ।। १० पञ्चान्नाशयते क्षीरमात्मरूपं प्रकाशयेत् । तस्माद्विनाशयेत्पुण्यं पापपुत्रो न संशयः ॥ अनेनैव हि दोषेण तवेयं पापभागिनी । अन्यस्मै दीयतां गच्छ देवैरुक्तः पिता मम ॥ सिगन्धर्वैर्ऋषिभिश्च महात्मभिः । तैश्वापि सं परित्यक्तः पिता मे दुःखपीडितः ममाप्येवं प्रतीकारं न कुर्वन्ति हि मैज्जनाः । एवं पापमयं कर्म मया चैव पुरा कृतम् ॥ तश्चाहं स्वयत्नेन वनमेव समाश्रिता । तप एव चरिष्यामि करिष्ये कायशोषणम् ॥ भवतीभिः सुपृष्टाऽहं कार्यकारणमेव हि । मम चिन्तानुगं कर्म मया सख्यः प्रकाशितम् ।। १६ एवमुक्त्वा सुनीथा च मृत्योः कन्या यशस्विनी । विरराम सुदुःखार्ता किंचिन्नोवाच वै पुनः १७
१२
1
१३
१४
१५
सख्य ऊचुः–
दुःग्यमंत्र महाभागे त्याज्यं कायविनाशनम् ! नास्ति कस्य कुले दोषो देवः प्रोक्तः समाश्रिर्तः१८
प्रमुक्तं पुरा तेन ब्रह्मणा हरिमनियों । देवश्वापि न हि त्यक्तो ब्रह्मा पूज्यतमोऽभवत् ।। १९ ब्रह्महत्याप्रमुक्तोऽसौ देवराजोऽपि पश्यते । देवैः सार्धं महाभागैस्त्रैलोक्यं परिभुञ्जति ।। २० गौतमस्य प्रियां भार्यामहल्यां गतवान्पुरा । परदाराभिगामित्वं देवत्वे परिवर्तते ॥
२१
१८७
६
२२
२५
२६
ब्रह्महत्यापमं कर्म दारुणं कृतवान्हरः । ब्रह्मणस्तु कपालेन चाद्यापि परिवर्तते ।। देहो निपतितो (तः) पश्य निमिशापेन वा पुनः । अगस्त्यः कुम्भसंभूतस्त्रैलोक्यं परिकल्पयेत् ॥ २३ लोकस्थाश्च प्रजा यस्य देवायाश्व चराचराः । कृष्णो भुक्ने महाशापं भार्गवेण कृतं पुरा ॥ २४ गुरुदारान्गतश्चन्द्रः क्षीणश्चैव प्रदृश्यते । भविष्यति महातेजा राजराजः प्रतापवान् ॥ पाण्डुपुत्री महाप्राज्ञां धर्मात्मा स युधिष्ठिरः । गुरोश्चैव वधार्थाीय त्वनृतं स वदिष्यति ॥ एतेष्वेव महत्पापं वर्तितं च महत्सु च । वैगुण्यं कस्य वै नास्ति कस्य नास्ति किलाञ्जनम् ||२७ भवती स्वल्पदोषेण लिप्ताऽनेन वरानने । उपकारं करिष्यामस्तवैव वरवर्णिनि । तवाङ्गे ये गुणाः सन्ति सतां स्त्रीणां यथा शुभे । अन्यत्रापि न पश्यामस्तान्गुणांश्चारुवल्लभे ।। २९ रूपमंत्र वरस्त्रीणां प्रथमं भूपणं शुभे । शीलमेव द्वितीयं च तृतीयं मत्यमेव च ॥ आर्यत्वं च चतुर्थ च पञ्चमं धर्ममेव हि । पठ्ठे सतीत्वं दृढता सप्तमं साहसी
२८
३०
ऽष्टमम् ॥
३१
कखगघ च छ झ. ट. शीलानां । ३ गट ड पापस्य
१ क ख ग घ ड च छ ज झ ट स्तदा । तं जा । ४ क. ख... छ. झ.व. तह । ५ च .. येश पा ६ क. ग घ ड च छ ज झ ट ड . मननाः । ७ क. ख ड.च.छ.झ.ट. म् । संतप्ता दुःखशोकेन । ८ क.खडच. छ. झ.इ.इ. वै: पापं समाश्रितम् । क्षि ९ क.ख. ङ. च. छ. झ. ट.. त: । जिह्ममुं । १० क.ख. ग. ह. च.छ.ज.ट हरमे । ११ न. क्य मुक्त एव हि । गी । १२ ग. घ. ज. ते। देवानिपतित तत्र ऋषिभिर्वेदपारगैः । ॐ । १३ क.ख. इ च. छ. झट नः । आदित्यः कुष्ठमयुक्तस्त्रलोक्यं हि प्रकाशये । छ. नः | अदित्यः पद्गुसंयुक्त । १४क. ख. ड च छ. झ. ड. ह. लोका नमन्ति त देवं दे । च.ज. ट. लोकस्यास्य परं दे दें । १५ क. ग्व. इ. च. छ. झ. ह. व गुणः स्त्रीं । १६ क ख ग घ ङ च छ ज झ ट. ड. ट. हि । मधुरत्वं ततः प्रोक्तं षष्ठमेवं वरानने । शुद्धत्वं सप्तमं वाले त्यन्तर्बाह्येषु योषिताम् ॥ अष्टमं हि पतिर्भावं शुश्रूषा नवमं किल । सहिष्णुश म प्रोक्तं रतिश्चैकादशं तथा । पातिव्रत्य ततः प्रां ।
Page #194
--------------------------------------------------------------------------
________________
१८८
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेनवमं मङ्गलं गानं दशमं व्यवसायता । एकादशस्तथा स्त्रीणां कामाधिक्यं प्रकीर्तितम् ॥ ३२ मधुरं वचनं प्रोक्तं द्वादशं वरवर्णिनि । तैस्त्वं संभाविता बाले मा भैर्देवि वरानने ॥ ३३ येनोपायेन ते भर्ता भविष्यति सुधर्मकृत् । तमुपायं प्रपश्यामस्तवार्थ वयमेव हि ॥ स्वस्था भव महाभागे मा वै त्वं साहसं. कुरु ॥
सूत उवाचएवमुक्ता सुनीथा तु पुनरूचे सखीस्तु ताः । कथयध्वं ममोपायं येन भर्ता भविप्यति ॥ ३५ तामूचुस्ता वरा नार्यो रम्भाद्याश्चारुलोचनाः । रूपमाधुर्यसंयुक्ता भविती(त्री) भूतिवर्धिनी ॥३६ ब्रह्मशापेन संभीता वयमत्र समागताः । [*तां प्रोचुहि विशालाक्षी मृत्युकन्यां सुलोचनाम्]३७ विद्यामेकां प्रदास्यामः पुरुषाणां प्रमोहिनीम् । मर्वमायाविदां भद्रे सर्वभद्रप्रदायिनीम् ॥ ३८ विद्याबलं ततो दद्युस्तस्यै ताः सुखदायकम् । यं यं मोहयितुं भद्र इच्छस्येवं सुरादिकम् ॥ ३० तं तं सद्यो मोहय वा इत्युक्ता सा तथाऽकरोत् । विद्यायां हि सुसिद्धायां सा मुनीथा सुनन्दिता समेतैव सखीभिस्तु पुरुषान्सा विपश्यति । अटमाना गता पुण्यं नन्दनं वनमुत्तमम् ॥ ४१ गङ्गातीरे ततो दृष्ट्वा ब्राह्मणं रूपसंयुतम् । सर्वलक्षणसंपन्नं सूर्यतेजःसमप्रभम् ॥ रूपेणाप्रतिम लोके द्वितीयमिव मन्मथम् । दंवरूपं महाभागं भाग्यवन्तं सुभाग्यदम् ॥ ४३ अनौपम्यं महात्मानं विष्णुतेजःसमन्वितम् । वैष्णवं सर्वपापघ्नं विष्णुतुल्यपराक्रमम् ॥ कामक्रोधविहीनं तमत्रिवंशविभूषणम् ॥
दृष्ट्वा स्वरूपं तपसा तपन्तं दिव्यमभावं परितप्यमानम् । पप्रच्छ रम्भां स्वसवीं सुमोहात्कोऽयं दिविष्टप्रवरो महात्मा ॥ इति श्रीमहापुराणे पाझे मिखण्टे वेनोपाख्याने त्रयस्त्रिंशोऽध्यायः ॥ ३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४९.८९
०
-
अथ चतुस्त्रिशोऽध्याय.।
रम्भोवाचब्रह्मा ह्यव्यक्तसंभूतस्तस्माज्जज्ञे प्रजापतिः । अत्रिनाम स धर्मात्मा तस्य पुत्रो महामनाः ॥ १ अङ्गो नाम अयं भद्रे नन्दनं वनमागतः । इन्द्रस्य संपदं दृष्ट्वा नानातेजःसमन्विताम् ॥ कृता स्पृहा त्वनेनापि इन्द्रस्य सदृशे पदे । ईदृशो हि यदा पुत्रो मम स्याद्वंशवर्धनः ॥ ३ सुश्रेयो मे भवेज्जन्म यशःकीर्तिसमन्वितम् । आराधितो हृषीकेशस्तपोभिनियमेस्ततः ॥ सुप्रसने हृषीकेशे वरं याचितवानयम् । इन्द्रस्य सदृशं पुत्रं विष्णुतेजःपराक्रमम् ॥ ५ वैष्णवं सर्वपापघ्नं देहि मे मधुसूदन । दत्त एवं मया पुत्र ईदृशः पंरिपालकः ॥ ६ तदामभृति विप्रेन्द्रः पुण्यां कन्यां प्रपश्यति । यथा त्वं चारुसर्वाङ्गी तथाऽयं परिपश्यति ॥ ७
____ * एतच्चिदान्तर्गतोऽय पाट क. ख. ग. इ. च. छ. झ. ट. इ. द. पुस्तकस्थः । १ क. ख.. च. छ. ह. द. सभूषिता। २ क.ख. ग. घ. दु. च. छ.झ.ट. द. हि । तामचुस्ता वराः सख्यो मा। ३ क. ख. र. च. छ.स. ड. द. भ्रमत्येव । ४ क. ख. र. च. छ. झ. ढ. तुङ्गो। ५ क.ख.इ.च. छ. ३. ड. स्याद्धर्मसंयुतः । सु। ६ क.स. ङ च. छ. स. द. सर्वधारकः ।
Page #195
--------------------------------------------------------------------------
________________
३५ पञ्चत्रिंशोऽध्यायः ] पद्मपुराणम् । पनं गच्छ वरत्वेन अस्मात्पुत्रो भविष्यति । पुण्यात्मा सर्वधर्मज्ञो विष्णुतेजःपराक्रमः॥ ८ एतत्ते सर्वमाख्यातं यथा त्वं परिपृच्छास । अयं भर्ता तब श्रेष्ठो भवेद्देवि न संशयः॥ ९ मेशकस्यापि यः शापो वृथा सोऽपि भविष्यति । एवं जाते महाभागे पुत्रे धर्मप्रचारिणि ॥ १० भविष्यति सुखं भद्रे सत्यं सत्यं वदाम्यहम् । सुक्षेत्रे कषको यादृग्बीजं वति तत्परः ॥ ११ स तथा भुञ्जते देवि यथा बीजं तथा फलम् । अन्यथा नैव जायेत तत्सर्व सदृशं भवेत् ॥ १२ अयमेव महाभागस्तपस्वी पुण्यवीर्यवान् । अस्य वीर्यात्समुत्पन्नो ह्यस्यैव गुणसंपदा ॥ १३ युक्तः पुत्रो महातेजाः सर्वधर्मभृतां वरः। भविष्यति महाभागो युक्तात्मा योगतत्त्ववित् ॥ १४
एवं हि वाक्यं सुनिशम्य वाला रम्भाप्रयुक्तं शिवदायकं तत् ।। विचिन्त्य बुद्ध्या हि सखीमुखोद्गतं मेनेऽथ सर्व परिसत्यमेव हि ॥ १५ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वनोपाख्याने चतुस्बिशोऽध्यायः ॥ ३४ ।।
आदितः श्लोकानां समष्ट्यङ्काः-५००५
अथ पत्रिशोऽध्यायः।
सुनीथोवाचसत्यमुक्तं त्वया भद्र एवमेतत्करोम्यहम् । अनया विद्यया विषं मोहयिष्यामि नान्यथा ॥ १ साहाय्यं देहि मे पुण्यं येन गच्छामि सांप्रतम् । एवमुक्ता तया रम्भा तामुवाच यशस्विनी ॥२ कीदृशं दमि साहाय्यं तत्त्वं कथय भामिनि । दूतत्वं गच्छ मे भद्र एनं प्रति सुसांप्रतम् ॥ ३ एवमुक्त्वा तु सा रम्भां विरराम सुलोचना । एवमेतत्प्रतिज्ञातं रम्भया देवभार्यया ॥ ४ करिप्ये तव साहाय्यमादेशो मम दीयताम् । सद्भावेन विशालाक्षी रूपयौवनशालिनी ॥ ५ मायया दिव्यरूपा सा संबभूव वरानना । रूपेणाप्रतिमा लोके मोहयन्ती जगत्रयम ॥ ६ मेरोश्चैव महापुण्ये शिखरे चारुकन्दरे । नानाधातुसमाकीर्णे नानारत्नोपशोभिते ॥ देववृक्षैः समाकीर्णे बहुपुष्पोपशोभिते । [*देववृन्दसमाकीर्णे गन्धर्वाप्सरसेविते] ॥ ८ मनोहरे सुरम्ये च शीतच्छायासमाकुले । चन्दनानामशोकानां नरूणां चारुहासिनी ॥ ९ दोलायां सा समारूढा सर्वशृङ्गारशोभिता । कोशेयेन सुनीलेन राजमाना वरानना ॥ १० अंतीवशोभमानेन कञ्चकेन द्विजोत्तमाः। सर्वाङ्गसुन्दरी बाला वीणावादनतत्परा ॥ ११ गायमाना वराङ्गी तं सुस्वरं सुविमोहनम् । ताभिः परिवृता बाला सखीभिः सुमनोहरा ॥ १२ अगस्तु कन्दरे पुण्य एकान्ते ध्यानमास्थितः । कामक्रोधविहीनस्तु ध्यायमानो जनार्दनम् ॥१३ स श्रुत्वा सुस्वरं गीतं मधुरं सुमनोहरम् । तालमानक्रियोपेतं सर्वसत्त्वविकर्षणम् ॥ १४ ध्यानाचलितचित्तस्तु मायागीतेन मोहितः । समुत्थायाऽऽसनात्तूर्ण पश्यमानो मुहुर्मुहुः॥ १५
* एतच्चिद्वान्तर्गतोऽयं पाठः क. ख. ग. घ. इ. च. छ. झ. ट. इ. ढ. पुस्तकस्थः । १ क.ख इ.च. छ.झ. ट वगरोहे । २ क. ख. एच.छ.झ.ट सुसखस्या । क. ख. ङ.च.छ.झ. ट. हि मुनीथया तदा तत्त्वार्थमेतत्परि। ४ क. ख.ङ. च.उ.म.न. मनस्विनीम् । ५ क. ख. हु च. छ. स. द. 'पसचये । दें। क. ख. र. च.
झ. बन्धूकम्पवर्णेन । ७ क. ख. ङ. च. छ. झ. ड. द. णातालकराविला । गा। ८ क. ख. ग. घ. ङ. च. छ. स.ट. ढ. र विश्वमों। ९ क. स. ङ. च. छ. झ. द. तुङ्गस्तु । १० क. ग. घ. हु. च. छ. स.ट. ड. द. चचाल तेजस्वी मा।
Page #196
--------------------------------------------------------------------------
________________
१९० महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेजगाम तत्र वेगेन मायाचलितमानसः । दोलासंस्था विपश्यैव वीणादण्डकधारिणीम् ॥ १६ हास्यमानां सुगायन्ती पूर्णचन्द्रनिभाननाम् । मोहितस्तेन गीतेन रूपेणापि महायशाः॥ १७ तस्या लावण्यभावेन मन्मथस्य शराहतः । आकुलव्याकुलो जातो मुनिपुत्रो द्विजोत्तमाः ॥ १८ प्रलपत्यतिमाहेन जृम्भते च पुनः पुनः । स्वेदः कम्पोऽथ संतापस्तस्याङ्गे जायते क्षणात् ॥ १९ मुह्यते च महामोहैरानः स्खलितमानसः । वपमानस्ततः शुष्को दूयमानः समागतः ॥ २० तामालोक्य विशालाक्षी मृत्योः कन्यां यशस्विनीम् । अथांवाच महात्मा स सुनीयां चारुहासिनीम्।। का त्वं कस्य वरारोहे सखीभिः परिवारिता । केन कार्येण संप्राप्ता केन त्वं प्रेषिता वनम् ।।२२ तवाङ्ग सुन्दरं सर्व समाभाति वरानने । समाचक्ष्व ममाद्यैव प्रसादसुमुग्वी भव ।। २३ मायामोहेन संमुग्धस्तस्याः कर्म न विन्दति । मार्गणमन्मथस्यापि परिविद्धो महामुनिः ॥ २४ एवंविधं महद्वाक्यं समाकये महामतः । नोवाच किंचित्सा विप्रं समालोक्य सखीमुखम् ॥ २५ रम्भायाः सा सुनीथा तु संज्ञया परितोषिता । समुवाच ततो रम्भा सादरं तं द्विजोत्तमम् २६ इयं कन्या महाभागा मृत्योश्चापि महात्मनः । सुनीथा सुपसिद्धेयं सर्वलक्षणसंयुता ॥ २७ पतिमन्वेषते बाला धर्मवन्तं तपोनिधिम् । शान्तं दान्तं महाप्राज्ञं वेदविद्याविशारदम् ॥ २८ तामुवाच ततस्त्वङ्गो रम्भामप्सरसां वराम् । मया चाऽऽराधितो विष्णुः सर्वविश्वमयो हरिः २९ तेन दत्तो वरी मह्यं पुत्राख्यः सर्वसिद्धिदः । तनिमित्तमहं भद्रे सुतार्थ नित्यमेव च ॥ ३० कस्यचित्पुण्यवीर्यस्य कन्यामकामचिन्तयम् । सर्दवाहं न पश्यामि सुशुभामान्मनः कचित् ॥३१ इयं धर्मस्य वै कन्या धर्माचारा वरानना । मामेव हि भजन्वषा यदि कान्तमिहेच्छति ॥ ३२ यं यमिच्छदियं बाला तं तं दानि न संशयः । देयं वाऽदयमवापि त्वस्याः मंगमकारणात् ।। ३३ एवमेव त्वया देयं रम्भोवाच द्विजोत्तमम् । [*विप्रेन्द्र त्वं शृणुष्वव मम वाक्यं च सांप्रतम् ॥ ३४ एषा नैव त्वया त्याज्या धर्मपन्नी मदव हि । अस्या दोपगुणों चैव ग्राद्यो नैव कदा त्वया ॥ इत्यर्थे प्रत्ययं विप्र प्रत्यक्षं परिदर्शय ।। स्वहस्तं देहि विप्रन्द्र सत्यप्रत्ययदायकम् । एवमस्तु मया दत्ता ह्यस्या हस्ता न संशयः ।। ३६
सूत उवाचएवं संबन्धिकं कृत्वा सत्यपत्ययकारकम् । गान्धर्वेण विवाहेन सुनीथामुपयमिवान् ।। ३७ तस्मै दत्त्वा सुनीयां तां रम्भा हृष्टन चतसा । मा तां चाऽऽमत्रयित्वावै गता गेहं स्वकं पुनः॥ प्रहृष्टचेतसः सख्यः स्वस्थानं प्रतिजग्मिरे । गतासु तासु मर्वासु सखीपु द्विजसत्तमः ॥ ३९ रेमे त्वजस्तया सार्ध प्रियया भार्यया सह । तस्यामुत्पाद्य पुत्रकं सर्वलक्षणसंयुतम् ॥ ४० चकार नाम तस्येवं वेनाख्यं तनयस्य हि । वध स महातजाः सुनीथातनयस्तदा ॥ ४१ वेदशास्त्रमधीत्येव धनुर्वेदं गुणान्वितम् । सर्वासां सांऽपि मेधावी विद्यानां पारमेयिवानं ॥ ४२ स तस्य तनयो वेनः शिष्टाचारेण वर्तते । स वनो ब्राह्मणश्रेष्ठाः क्षत्राचारपरोऽभवत् ।। ४३ दिवि चेन्द्रो यथा भाति सर्वतेजःसमन्वितः । स भात्येवं महाप्राज्ञः स्वबलेन पराक्रमः ॥ ४४
* एञ्चिद्वान्तर्गतोऽयं पाठो झ. पुस्तकस्थः । क. ख. ङ. च. छ. झ. ढ. स्ततस्तुङ्गो । २ क.ख.च.छ.झ. महामुनेः । ३ क.ख.ग. घ. इ. च. छ. झ. ट. ड. द. 'यं श्रृयतां द्विजसत्तम । रम्भोवाच-एषा । ४ क. ख. ड. च. छ. झ. द. मे तुङ्ग । ५ क.ख.इ.च.छ.झ.द. 'न् । तुङ्गम्य । ८. 'न् । अगस्य । ६ क. ख. ड. च. छ. झ. द. 'मः । चाक्षप ।
W
Page #197
--------------------------------------------------------------------------
________________
३६ षट्त्रिंशोऽध्यायः ]
पद्मपुराणम् ।
नाहुषस्यान्तरे प्राप्ते वैवस्वतसमागते । प्रजापालं विना लोके मजाः सीदन्ति वै सदा ॥ ऋषयो धर्मतत्त्वज्ञाः प्रजानोस्तपोधनाः । चिन्तयन्ति महीपालं धर्मज्ञं सत्यपण्डितम् ।। तं वेनमेव ददृशुः संपन्नं सर्वलक्षणैः । प्राजापत्ये पदे चैनमभ्यषिञ्चन्द्विजोत्तमाः ।। अभिषिक्ते महाभागे त्वङ्गपुत्रे तदा नृपे । ते प्रजापतयः सर्वे जग्मुस्ते च तपोवनम् || गतेषु तेषु सर्वेषु वेनो राज्यं करोति सः ॥
अथ पचिशोऽयायः ।
१९१
४५
४६
४७
सूत उवाच -
५०
५१
५३
सा सुनीथा सुतं दृष्ट्वा सर्वराज्यप्रसाधकम् । विशङ्कते प्रभावेन शापात्तस्य महात्मनः ॥ ममापत्यो महाभागो मत्मा संभविष्यति । इत्येवं चिन्तयेन्नित्यं पूर्वपापाद्विशङ्किता ।। धर्माङ्गानि सुपुण्यानि सुताङ्गे परिदर्शयेत् । सत्यभावादिकान्पुण्यान्गुणान्मा वै प्रकाशयेत् ।। ५२ इत्युवाच सुतं सा हि चाहं धर्मसुता सुत । पिता ते धर्मतन्त्रज्ञस्तस्माद्धर्म समाचर ॥ इत्येवं बोधयेन्नित्यं पुत्रं वेनं तदा सती । मातापित्रोस्तयोर्वाक्यं प्रज्ञायुक्तं स पालयेत् ॥ ५४ एवं वेनः प्रजापालः संजातः क्षितिमण्डले । लोकाः सुखेन जीवन्ति प्रजा धर्मेण रञ्जिताः ॥५५ एवं राज्यप्रभावं तु वेनस्यापि महात्मनः । धर्मप्रभावा वर्तन्ते तस्मिञ्शासतिं पार्थिवे ॥ ५६ इति श्रीमहापुराणे पाझे समिखण्डे वेनोपायाने पत्रिशोऽध्यायः ॥ ३५ ॥ आदितः श्लोकानां समयङ्काः – २०६१
ऋषय ऊचुः
एवं वेनस्य वै राज्ञः सृष्टिरेव महात्मनः । धर्माचारं परित्यज्य कथं पाप मतिर्भवेत् ।। सूत उवाच --
ज्ञानविज्ञानसंपन्ना मुनयस्तत्त्ववेदिनः । शुभाशुभं वदन्त्येनं तन्न स्यादिह चान्यथा ॥ तप्यमानेन तेनापि सुशङ्खेन महात्मना । दत्तः शापः कथं त्रिमा न यथावच्च जायते ॥ वनस्य पातकाचारं सर्वमेव वदाम्यहम् ॥
४८
४९
४
५
६
७
तस्मि शासति धर्मज्ञे प्रजापाले महात्मनि । पुरुषः कश्विदायतो ब्रह्मलिङ्गधरस्तदा ॥ नग्नरूपी महाकायः सितमण्डी महाप्रभः । मार्जनीं शिखिपत्राणां कक्षायां स हि धारयन् ।। गृहीत्वा पानपात्रं च नालिकेरमयं करे । पठमानी मरुच्छास्त्रं वेदशास्त्रविदूषकम् ।। यत्र वेना महाराजस्तत्रोपायात्वरान्वितः । सभायां तस्य वेनस्य प्रविवेश स पापवान् । तं दृष्ट्वा समनुप्राप्तं वेनः प्रश्नं तदाऽकरोत् । भवान्को हि समायात पथरी मम ॥ सभायां वद मामत्र वर्ण कस्मात्समागतः । को वेपः किं तु ते नाम को धर्मः कर्म किं तत्र ।। ९ को वेदस्ते के आचार: को नयः का प्रभावना । किं ज्ञानं कः प्रभावस्ते किं सत्यं धर्मलक्षणम् तत्त्वं सर्व समाचक्ष्व ममाग्रे सत्यमेव च । श्रुत्वा वेनस्य तद्वाक्यं पापो वाक्यमुदाहरत् ॥ ११
८
१ क. ख. ङ. ट. न्द्र, 'न्न लक्षणैर्गुणैः । २क. ख. ङ च छझ दे पुण्ये अभ्यः । ३ क. ख. ड. च. छ. झ. ट. 'गे तुङ्ग ं । ४ क. ख. ङ च छ झट धर्मत्राता भ' । ५ क ख ङ. च. झ. ट. यातः पद्मलिं । छ. 'यातश्छद्माले । ६क. ख. ग. घ. इ. च. छ. झ. ट. 'दधर्मवि । ७ क ख ङ च छ झड र कि तपः का ।
Page #198
--------------------------------------------------------------------------
________________
१९२ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेपाप उवाचकरोष्येवं च्या भावं महामूढो न संशयः । अहं धर्मस्य सर्वस्वमहं पूज्यतमः सुरैः॥ १२ अहं ज्ञानमहं सत्यमहं धाता सनातनः । अहं धर्म अहं मोक्षः सर्वदेवमयो ह्यहम् ॥ १३ ब्रह्मदेहात्समुद्भूतः सत्यसंधोऽस्मि नान्यथा । जिनरूपं विजानीहि सत्यधर्मकलेवरम् ॥ मम रूपं हि ध्यायन्ति योगिनो ज्ञानतत्पराः ॥
वेन उवाचतवैव कीदृशो धर्मः किं ते दर्शनमेव च । किमाचारो वदस्वैहि इत्युक्तं तेन भूभुजा ॥ १५
पाप उवाचअर्हन्तो देवता यत्र निर्ग्रन्थो गुरुरुच्यते । दया वै परमो धर्मस्तत्र मोक्षः प्रदृश्यते ॥ १६ ईदृशोऽस्मिन्न संदेह आचारं प्रवदाम्यहम् । यजनं याजनं नापि वेदाध्ययनमेव च ॥ १७ नास्ति संध्या तपो दानं स्वधास्वाहाविवर्जितम् । हव्यकव्यादिकं नास्ति नास्ति यज्ञादिका क्रिया पितॄणां तर्पणं नास्ति नातिथिवैश्वदेविकम् । कृष्णस्य न तथा पूजा ह्यहन्तध्यानमुत्तमम् ॥ १९ एवं धर्मसमाचारो मैनमार्गे प्रदृश्यते । एतत्ते सर्वमाख्यानं जैनधर्मस्य लक्षणम् ॥ २०
वन उवाचवेदे प्रोक्तो यथा धर्मो यत्र यज्ञादिकाः क्रियाः। पितॄणां तर्पणं श्राद्धं वैश्वदेवं न दृश्यते ॥२१ न दानं न तपो वाऽस्ति किं वे धर्मस्य लक्षणम् । वद सत्यं ममाग्रे त्वं दयाधर्मश्च कीदृशः ॥ २२
पाप उवाचपञ्चतचर्मद्धोऽयं प्राणिनां काय एव च । आन्माँ वायुस्वरूपोऽयं तेपा नास्ति प्रसङ्गना॥ २३ यथा जलेषु भूनानामपि सङ्गमवहि तत् । जायते बुबुदाकारं तद्वद्भुतसमागमः ॥ २४ पृथ्वीभावो रजःस्थस्तु चाऽऽपस्तत्रैव संस्थिताः। ज्योनिस्तत्र प्रदृश्येत वायुरावर्तते च त्रीन् ॥२५ आकाशमाणोत्पश्चाबुबुदत्वं प्रजायते । अप्सु मध्य प्रभात्येव सुतेजो वर्तुलं परम् ॥ २६ क्षणमात्र प्रदृश्येत तत्क्षणं नैव दृश्यते । तद्वद्भूतसमायोगः सर्वत्र परिदृश्यते ।। अन्तकाले प्रयात्यात्मा पञ्च पञ्चसु यान्ति ने। मोहमुग्धास्तता मर्त्या वर्तन्ते च परस्परम् ॥२८ श्राद्धं कुर्वन्ति मोहेन क्षयाहे पितृतर्पणम् । काऽऽस्ते मृतः समश्नाति कीदृशोऽमा नरोत्तमः।।२९ किं ज्ञानं कीदृशं कार्य केन दृष्टं वदस्व नः । मिष्टमन्नं प्रभुक्त्वा त तृप्ति यान्ति च ब्राह्मणाः३० कस्य श्राद्धं पदीयेत सा तु श्रद्धा निरर्थिका । अन्यदेवं प्रवक्ष्यामि वेदानां कर्म दारुणम् ।।३१ यदाऽतिथिहं याति भोजनं लभते ध्रुवम् । तदा चाऽऽहत्य राजेन्द्र अतिथि परिभोजयेत ॥३२ अश्वमेधे मख त्वश्वं गोमध वृषमेव च । नरमध नरं राजन्वाजपय तथा ह्यजम् ॥ राजसूये महाराज प्राणिनां घातनं बहु । पुण्डरीक गजं हन्याद्रजमधे तु कुञ्जरम् ॥ ३४ सौत्रामण्यां पशु मध्यमेवमेव प्रदृश्यते । नानारूपेषु सर्वेषु श्रूयतां नृपनन्दन ॥
१ क, ख. इ. च. छ झ. ढ. राज्यं । २ क, ख. ड, च... झ. ड शं कर्म कि। ३ क ख. इ. च. छ. झ. ते। दर्शनेऽस्मि । ग. घ. ट. ड, 'ते । दशितोऽस्मि । ४ क. ख. च. छ. झ. द. क्षपणस्य वरा । ५ञ. जा अहे तु ध्या। ६ ज. प्रमेयोऽयं । ७ क. ख. च. त्मावपुःस्व । ८ ज. 'मनो हि । ९ अ. 'यना तितं पृथक् । आ। १० ब. श्वात्तमुद्ध्यर्थ प्र'। ११ क. ख. र. च. छ. स. नपोत्तम । १२ क. ख. इ. च. छ झ. ढ. 'ति महाक्षं पचते द्विजः। अजं या राजरा । १३ क. ख. ह. च. छ. स. ड. द. मेधे मेषमेव ।
Page #199
--------------------------------------------------------------------------
________________
३६ षट्त्रिंशोऽध्यायः ] पद्मपुराणम् ।
१९१ नानाजातिविशेषाणां पशूनां घातनं स्मृतम् । कस्मादि दीयते दानं किं दानस्य लक्षण, ३६ न दत्तमुत्कटं ज्ञेयं क्रियते यदि भोजनम् । अत्यन्तदोषहीनांस्तान्हिसन्ति यान्महामखे ॥ ३७ तत्र किं दृश्यते धर्मः किं फलं तत्र भूपते । पशूनां मारणं यत्र निर्दिष्ट वेदपण्डितैः ॥ १८ तस्माद्विनष्टधर्म च न पुण्यं मोक्षदायकम् । दयां विना हि यो धर्मः स धर्मो विफलायते ॥ १९ जीवानां पालनं यत्र तत्र धर्मो न संशयः । स्वाहाकारः स्वधाकारस्तपः सेयोऽभिजायते ॥४० दयाहीनं निष्फलं स्यान्नास्ति धर्मस्तु तत्र हि । एते वेदा अवेदाः स्युर्दया यत्र न विद्यते ॥ ४१ दयादानपरो नित्यं जीवमेव प्ररक्षयेत् । चाण्डालो वा स शद्रो वा स वै ब्राह्मण उच्यते ॥४२ ब्राह्मणो निर्दयो यो वै पशुघातपरायणः । स वै सुनिर्दयः पापी कठिनः क्रूरचेतनः ॥ ४३ वचनैः कथ्यते वेदः स वेदो ज्ञानवर्जितः । यत्र ज्ञानं भवेन्नित्यं स वै वेदः प्रतिष्ठितः॥ ४४ दयाहीनेषु वेदेषु विप्रेषु च महामते । नास्ति सत्य क्रिया तत्र वेदविप्रेषु वै कदा ॥ ४५ वेदा अवेदा राजेन्द्र ब्राह्मणाः सत्यवर्जिताः । दानस्यापि फलं नास्ति तस्मादानं न दीयते ४६ यथा श्राद्धस्य वै चिह्न तथा दानस्य लक्षणम् । जिनस्यापि च यद्धर्म भुक्तिमुक्तिप्रदायकम्।।४७ तवाग्रेऽहं प्रवक्ष्यामि बहुपुण्यप्रदायकम् । आदौ दया प्रकर्तव्या शान्तभूतेन चेतसा ॥ १८ आराधयेद्धृदा देवं जिनमेकं चराचरम् । मनसा शुद्धभावेन जिनमेकं प्रपूजयेत् ॥ ४९ नमस्कारः प्रकर्तव्यस्तस्य देवस्य नान्यथा । मातापित्रोस्तु वै पादौ कदा नैवाभिवन्दयेत् ॥ ५० अन्येषामेव का वार्ता श्रूयतां राजसत्तम ॥
५१ वेन उवाचएते विप्राश्च ह्याचार्या गङ्गायाः सरितस्तथा । वदन्ति पुण्यतीर्थानि बहुपुण्यप्रदानि च ॥ तत्कि वदस्व सत्यं मे यदि धर्ममिहेच्छास ॥
पाप उवाचआकाशाद्वै महाराज सद्यो वर्षन्ति वै घनाः । भूमौ हि पर्वतेष्वेव सर्वत्र पतते जलम् ॥ ५३ तदाप्लाव्य ततस्तिष्ठेनद्यां सर्वत्र भावयेत् । नयो जलप्रवाहास्तु तासु तीर्थ श्रुतं कथम् ॥ ५४ जलाशया महाराज तडागाः सागरास्तथा । पृथिव्या धारकाचैव गिरयो ह्यश्मराशयः॥ ५५ नास्त्येतेषु च वै तीर्थ *जलेर्जलदमुत्तमम् । म्नाने दाने यथा पुण्यं कस्मात्सत्रेषु नैव हि ॥ ५६ दृष्ट्वा स्नानेन वै सिद्धिर्मीनाः सिध्यन्ति नान्यथा। यत्र जीवस्तत्र तीर्थ तत्र धर्मः सनातनः॥ तपोदानादिकं सर्व पुण्यं तत्र प्रतिष्ठितम् ।।
एको जिनः सर्वमयो नृपेन्द्र नास्त्येव धर्म परमं हि तीर्थम । अयं तु लोके परमस्तु तस्माद्ध्यायस्व नित्यं सुसुखो भविष्यास ॥
* “जलैर्यत्र दनु" इत्यन्यपुस्तके वर्तते तथाऽपि [ जलदर्जलमु ] इति समीचीनपाठ इति भाति ।
१ क. ख. र.च.छ. द. म् । पश्चाद्धि । २ क.ख. च.न । ३ क. म् । तदनमत्थितं ज्ञेयं क्रियते भरिभो । ४ क.ख. र. च. छ. झ. 'स्माद्धि तत्र वै धर्मे न । ५ क. ख. इ. च. छ. श. सत्यो नृपोत्तम।दं । ६ स्व. वेदो न वें। क. ख. ग. घ. इ.च. छ. इ.ट. ह. द. 'त्यं तत्र । ८ क.ख..च. छ. स. इ. ढ. 'ठेयां स । ९म 'टवा दाने । १० . "न ते सिद्धमविसि ।
Page #200
--------------------------------------------------------------------------
________________
१९४
महामुनिश्रीव्यासमणीतं
[ २ भूमिखण्डेविनिन्य धर्म सकलं सवेदं दानं सुपुण्यं परियज्ञरूपम् । पापस्य भावैबहुबोधितो नृपस्त्वङ्गस्य पुत्रो भुवि तेन पापिना ॥ इति श्रीमहापुराणे पाछे भूमिखण्डे वेनोपाख्याने षट्त्रिंशोऽध्यायः ॥ ३६ ॥
आदितः श्लोकानां समष्टयङ्काः-५१२०
अथ सप्तत्रिंशोऽध्यायः ।
सूत उवाचएवं संबोधितो वेनः पापभावं गतः किल । पुरुषेण तेन पापेन महापापन मोहितः ॥ ? नमस्कृत्य ततः पादौ तस्यैव च दुरात्मनः । वेदधर्म परित्यज्य सत्यधर्मादिको क्रियाम् ॥ २ सुयज्ञानां निवृत्तिः स्याद्वेदानां हि तथैव च । पुण्यशास्त्रमयो धर्मस्तदा तेरप्रवर्तितः ॥ ३ सर्वपापमयो लोकः संजातस्तस्य शासनात् । तेन यज्ञाश्च वेदाश्च धर्मशास्त्रार्थमुत्तमम् ॥ ४ न दानाध्ययनं विप्रास्तस्मिञ्शासति पार्थिवे । एवं धर्मप्रलोपोऽभून्महत्पापं प्रवर्तितम् ॥ ५ अङ्गेन वार्यमाणस्तु [*चान्यथा कुरुते भृशम् । पितुः पादौ ननामाथ मातुश्चैव दुरात्मवान् ॥ ६ सनकस्यापि विप्रस्य ह्यहमेकः प्रतापवान् । पित्रा निवार्यमाणश्च मात्रा चेव दुरात्मवान् ॥ ७ न करोति शुभं पुण्यं तीर्थदानादिकं तथा । आत्मभावं स्वरूपं च बहुकालं महायशाः॥ ८ पुनः पुनर्विचार्यैव कस्मात्पापी त्वजायत । [ 'तुङ्गः प्रजापतेः पुत्रो वंशलाञ्छनमागतम्] ॥ ९ ततः पप्रच्छ धर्मात्माँ राजा मधुरमेव च । कस्मादोषात्समुत्पनी वद सत्यं मम प्रिये ॥ १०
सुनीथोवाचेबाल्ये कृतं मया पापं सुशङ्खस्य महात्मनः। तपसि संस्थितस्यापि नान्यत्किंचित्कृतं मया ॥ ११ शताऽहं कुप्यता तेन दुष्टा ते संततिर्भवेत् । इति जाने महाभाग तेनायं दुष्टतां गतः ॥ १२ तच्छ्रुत्वा वचनं राजा दिष्टमेवान्वपद्यत । अथ सप्तर्षयस्तत्र वेनपार्श्व समागताः ॥ समाश्चास्य ततः प्रोचुरङ्गस्य तनयं प्रति ॥
ऋषय ऊचुःमा वेन साहस कार्षीः प्रजापालो भवानिह । त्वयि सर्वमिदं लोकं त्रैलोक्यं सचराचरम् ।। १४ धर्माधर्मात्मकं राजन्सकलं हि प्रतिष्ठितम् । पापकर्म परित्यज्य धर्मकर्म समाचर ॥ एवमुक्ते तु तैर्वाक्ये प्रहसन्वाक्यमब्रवीत् ॥
*एतचिहान्तर्गतः पाठः क. ख. दृ. च. छ. स. ८. पुस्तकस्थः। एतच्चिद्वान्तर्गतः पाठः क ख. ड. च. छ. श.इ. पुस्तकस्थः ।
१क.ख.प.छ च.छ स.ढ. पस्तुग । २ क.ख.ड.च.झ. जनेन । ३ क.ख.ड च. छ.म. द. त्यपुण्यादि । ४ क. ख. अ.च.छ स.ड. 'मयं धर्म तदा नैव प्रवर्तितम् । स । ५ क.ख.ड.च.छ. झ. द. तुझेन । ६ ङ. छ. झ. अयमें। ७ क.स्व.ग घ.
. च. छ. स. ट. ड. द. त्मा सुतां मृत्योर्महात्मनः । । ८ क.ख.ड.च.छ.झ ढ. कस्य दोषा । ९ क.ख.ग. च-पूर्वमेव सुवृत्तान्तमात्मन: पुण्यवादिनी ॥ समाचष्टे तदाऽाय मम दोषान्महामते ॥ सजात ईदृशः पुत्रो महापापी द्विजोत्तम ॥ बीडमाना समाभाज्य भर्तारं भयवितला ॥ ममाकर्ण्य महातेजास्तया सह वन ययौ ॥ गते तस्मिन्महाभागे सभायें च वनं ता। । १० ड. द राजनलो।
Page #201
--------------------------------------------------------------------------
________________
१९५
३७ सप्तत्रिंशोऽध्यायः]
पापुराणम् । वेन उवाचअहमेव परो धर्मोऽहमेवाहः सनातनः। अहं धाता यह गोप्ता त्वहं वै सत्यमेव च ॥ १७ *अहं धर्मो महापुण्यो जैनधर्मः सनातनः । ] मामेव कर्मणा विप्रा भजध्वं धर्मरूपिणम् ॥ १८
ऋषय ऊचुःब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः । सर्वेषामेव वर्णानां श्रुतिरेषा सनातनी ॥ १९ वेदाचारेण वर्तन्ते तेन जीवन्ति जन्तवः । ब्रह्मवंशात्समुद्भूतो भवान्ब्राह्मण एव च ॥ २० पश्चाद्राजा पृथिव्यां तु संजातः ख्यातविक्रमः । राज्ञः पुण्येन राजेन्द्र मुखं जीवन्ति वै पँजाः२१ राज्ञः पापेन नश्यन्ति तस्मात्सत्यं समाचर । ममादृतस्त्वया धर्मः कृतश्चापि नराधिप ॥ २२ नस्मात्रेतायुगस्यायं द्वापरस्य तथा न हि । कलेश्चैव प्रदेशे तु वर्तयिष्यन्ति मानवाः॥ २३ जैनधर्म समाश्रित्य सर्वे पापप्रमोहिताः । वेदाचारं परित्यज्य पापं यास्यन्ति मानवाः ॥ २४ [पापस्य मूलमेवं वै जैनधर्म न संशयः। अनेन मुग्धा राजेन्द्र महामोहेन पातिताः॥ २५ मानवाः] पापसंघातास्तेषां नाशाय नान्यथा । भविष्यत्येव गोविन्दः सर्वपापापहारकः॥ २६ म्लेच्छरूपं समाश्रित्य संहरिष्यति पातकान् । पापेषु संगनेष्वेवं म्लेच्छनाशाय वै पुनः॥ २७ कल्किरेव स्वयं देवो भविष्यति न संशयः। व्यवहारं कलेश्चैव त्यज पुण्यं समाश्रय ॥ वर्तयस्व हि देहेन प्रजापालो भव स्वयम् ।।
वेन उवाचअहं ज्ञानवतां श्रेष्ठो विश्वज्ञानं च वै द्विजाः । योऽन्यथा वर्तते चैव स दण्ड्यो भवति ध्रुवम् ॥२९ अंत्यर्थ भाषमाणं तं राजानं पापचेतसम् । कुपितास्ते महात्मानः सर्वे वै ब्रह्मणः सुताः॥३० कुपितेष्वेव विप्रेषु वेनो राजा महात्मसु । नेषां शापभयाच्चत्र वल्मीकं प्रविवेश ह ॥ ३१ अथ ते मुनयः क्रुद्धा वेनं पश्यन्ति सर्वतः । नेतिं न प्रनष्टं तु वल्मीकस्थं तु सांप्रतम् ॥ ३२ बलादानिन्युस्ते विमा क्रूरं तं पापचेतसम् । दृष्ट्वा च पापकमाणं मुनयः सुसमाहिताः॥ १३ सव्यं पाणिं ममन्थुस्ते भूपस्य जातमन्यवः । तस्माज्जातो महाहस्वो नीलवर्णो भयंकरः॥ ३४ बर्बरो रक्तनेत्रस्तु बाणपाणिर्धनुर्धरः । सर्वेषामेव पापानां निपादानां बभूव ह ॥ धाता पालयिता राजा म्लेच्छानां तु विशेषतः । तं दृष्ट्वा पापकर्माणमृषयस्तु महामते ॥ ३६ ममन्थुर्दक्षिणं पाणिं वेनस्यापि दुरात्मनः । तस्माजज्ञे महात्माऽसौ येन दुग्धा वसुंधरा ॥ ३७ पृथुर्नाम महाप्राज्ञो राजराजो महाबलः । तस्य पुण्यप्रमादाच वेनो धर्मार्थकोविदः॥ ३८ चक्रवर्तिपदं भुक्त्वा प्रसादात्तस्य चक्रिणः । जगाम वैष्णवं लोकं तद्विष्णोः परमं पदम् ॥ ३९
इति श्रीमहापुराणे पाने भमिखण्डे वेनोपाख्याने सप्तत्रिंशोऽध्यायः ॥ ३० ॥
आदितः श्लोकानां समष्ट्यङ्काः-५१५९
* एतचिहान्तर्गतोऽय पाठः क. ख. च छ. ड. पुस्तकस्थः । । एतचिहान्तर्गतः पाठो ग. घ. पुस्तकस्थः ।
१ ग. ट. ह. मो अहमेव स'। २ क.ख. ड च. छ. ड. द. 'हं वेदार्थ एव । ३ ग. घ. ट. 'ग्यो यच ध। ४ ङ छ सट द्विजाः । ५ क. ख. च. छ. स. ट. इ. प्रवेशे । ६ क. ख. कु. च. छ. श्रेष्ठः सर्वज्ञातं मया इह । यो। 3. श्रेष्ठः सर्वज्ञानं हि मे द्वि। ७ क. ख. ङ, च. छ. झ. द. अत्यन्तं । ८ क.ख. ङ. च. छ. स. २. सप्तैते । ९क. स्व. ड. च. छ. झ. द. जानें।
Page #202
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डे
अथाष्टात्रिंशोऽध्यायः।
ऋषय ऊचुःकथं वेनो गतः स्वर्ग पापं कृत्वा सुदारुणम् । तत्त्वतो विस्तरेणापि वद सत्यवतां वर ॥ १
सूत उवाचऋषीणां पुण्यसंसर्गात्संभाषाच द्विजोत्तमाः । कायस्य मथनात्पापं वदन्त्यस्य विनिर्गतम् ॥ २ पश्चाद्वेनः सुपुण्यात्मा ज्ञानं लेभे च शाश्वतम् । रेवाया दक्षिणे कूले तपश्चचार स द्विजः ॥ ३ तृणबिन्दोर्ऋषेश्चैव ह्याश्रमे पापनाशने । वर्षाणां च शतं साग्रं कामक्रोधविवर्जितः ॥ तेस्य वै तपसा देवः शनचक्रगदाधरः । प्रसन्नोऽभून्महाभागा निष्पापस्य नृपस्य वै ॥ उवाच च प्रसन्नात्मा ब्रियतां वरमुत्तमम् ॥
वेन उवाचयदि देव प्रसन्नोऽसि देहि मे वरमुत्तमम् । अनेनापि शरीरेण गन्तुमिच्छामि त्वत्पदम् ॥ ६ [*पित्रा सार्धं महाभाग मात्रा चैव सुरेश्वर । तवैव तेजसा देव तद्विष्णोः परमं पदम् ॥ ७
भगवानुवाचक गतोऽसौ महामोहो येन त्वं मोहितो नृप । लोभेन मोहयुक्तेन तमोमार्गे निपातितः॥ ८
वेन उवाचयन्मे पूर्वकृतं पापं तेनाहं मोहितो विभो । अतो मामुद्धरास्मात्त्वं पापाच्चैव सुदारुणात् ॥ अजप्तव्यमथोपव्यं(?) तद्वदानुग्रहाद्विभो ।
भगवानुवाचसाधु भूप महाभाग पापं ते नाशमागतम् । शुद्धोऽसि तपसा च त्वं ततः पुण्यं वदाम्यहम्।।१० पुरा वै ब्रह्मणा तात पृष्टोऽहं भवता यथा । तस्मै यदुदितं वत्स तत्ते सर्व वदाम्यहम् ॥ ११ एकदा ब्रह्मणा ध्यानस्थितेन नाभिपङ्कजे । मादुरास तदा तस्य वरदानाय सुव्रत ॥ १२ तेन पृष्टं महत्पुण्यं स्तोत्रं पापप्रणाशनम् । वासुदेवाभिधानं च सुगतिप्रदमिच्छता ॥ १३ स्तोत्राणां परमं तस्मै वासुदेवाभिधं महत् । सर्वसौख्यपदं नृणां पठतां जपतां सदा ॥ उपादिशं महाभाग विष्णुप्रीतिकरं परम् ॥
विष्णुरुवाचएतत्सर्वं जगद्व्याप्तं मया त्वव्यक्तमूर्तिना । अतो मां मुनयः प्राहुर्विष्णुं विष्णुपरायणाः॥ १५ वसन्ति यत्र भूतानि वसत्येषु च यो विभुः । स वासुदेवो विज्ञेयो विद्वद्भिरहमादरात् ॥ १६ संकषेति प्रजाश्चान्ते ह्यव्यक्ताय यतो विभुः । ततः संकषेणो नाम्ना विज्ञेयः शरणागतेः ॥ १७ इङ्गिते कामरूपोऽहं बहु स्यामितिकाम्यया । प्रद्युम्नोऽहं बुधैस्तस्माद्विज्ञेयोऽस्मि मुताधिभिः।।१८ अत्र लोके विनावेशी सर्वेशौ हरकेशवौ । निरुद्धोऽहं योगबलान केनातोऽनिरुद्धवत् ॥ १९ विश्वाख्योऽहं प्रतिजगज्ज्ञानविज्ञानसंयुतः । अहमित्यभिमानी च जाग्रचिन्तासमाकुलः ॥ २० तैजसोऽहं जगच्चेष्टामयश्चेन्द्रियरूपवान् । ज्ञानकर्मसमुद्रिक्तः स्वभावस्थां गतो यहम् ॥ २१
* एनचिहान्तर्गतोऽयं पाठः क. ख. ङ. च. छ. झ. ट. द. पुस्तकस्थः । १ क. ख. ग. घ. ङ. च. छ. झ. ट. ठ. ढ. 'पं बहिस्तस्य । २ क.ख.इ.च छ.स. १. तस्योग्रत । ३ ज. इभि(ति) ते ।
Page #203
--------------------------------------------------------------------------
________________
१९७
३८ अष्टात्रिंशोऽध्यायः ]
पद्मपुराणम् । प्राज्ञोऽहमधिदैवात्मा विश्वाधिष्ठानगोचरः । सुषुप्तावास्थितो लोकादुदासीनो विकल्पितः ॥ २२ तरीयोऽहं निर्विकारी गुणावस्थाविवर्जितः । निर्लिप्तः साक्षिवद्विश्वप्रतिबिम्बितविग्रहः ॥ २३ चिदाभासश्चिदानन्दश्चिन्मयश्चित्स्वरूपवान् । नित्योऽक्षरो ब्रह्मरूपो ब्रह्मन्नेवमवेहि माम् ॥ २४
भगवानुवाचइत्युक्त्वाऽन्तर्दधे विष्णुः स्वरूपं ब्रह्मणे पुरा। सोऽपि ज्ञात्वा जगद्याप्तिं कृतात्मा समभूक्षणात् राजस्त्वमपि शुद्धात्मा पृथोर्जन्मन एव च । तथाऽप्याराधय विभुं स्तोत्रेणानेन सुव्रत ॥ २६ तुष्टो विष्णुस्तमभ्याह वरं वरय मानद ।
वेन उवाचमुगनिं देहि मे विष्णो दुष्कृतात्तारयस्व माम् । शरणं त्वां प्रपन्नोऽस्मि कारणं वद सद्तेः ॥२८
विष्णुरुवाचपूर्वमेव महाभाग त्वङ्गेनापि महात्मना । अहमाराधितस्तेन तस्मै दत्तो वरो मया ॥ २९ प्रयास्यसे महाभाग विष्णोर्लोकमनुत्तमम् । कर्मणा स्वेन पूर्वेण पुण्येन नृपनन्दनम् ॥ ३० [*आत्मार्थे त्वं महाभाग वरमेकं प्रयाचय]। शृणु वेन महाभाग वृत्तान्तं पूर्वसंभवम् ॥ ३१ तब मात्रे पुरा दत्तः शापः क्रुद्धेन भूपते । सुशङ्खन सुनीथाय वाल्ये पूर्व महात्मना ॥ ३२ ततस्त्वङ्गे वरो दत्तो मयैव विदितात्मना । त्वां समुद्धर्तुकामेन सुपुत्रस्ते भविष्यति ॥ ३३ एवमुक्त्वा तु पितरं नवाहं गुणवन्मल । भवदङ्गान्समुद्रतः करिष्ये लोकपालनम् ॥ ३४ दिवीन्द्रो हि यथा भाति तथाऽहं भूतले स्थितः। आत्मा वै जायते पुत्र इति सत्यवती श्रुतिः३५ अतस्त्वं सुगतिं वत्स लभिष्यसि वरान्मम । गत्यर्थमात्मनो राजन्दानमेकं समाचर ॥ ३६ यस्त्वां पातकरूपोऽहं सुनीथायाः परंतप । अब्रुवं नग्नरूपेण कर्तुं त्वां तु विधर्मगम् ॥ ३७ अन्यथा तु सुशङ्कस्य वाक्यमेवान्यथा भवेत् । अतो विधिनिषेधश्च ह्यहमेव नृपोत्तम ॥ ३८ कर्मानुरूपफलदो बुद्ध्यतीतो गुणाग्रह । दानमेव परं श्रेष्ठं दानं सर्वप्रभावकम् ॥ ३९ तस्मादानं ददस्व त्वं दानात्पुण्यं प्रवर्तते । दानेन नश्यने पापं तस्मादानं ददस्व हि ॥ ४० अश्वमेधादिकेयज्ञेयजस्व नृपनन्दन । भूमिदानादिकं दानं ब्राह्मणेभ्यः शुभावहम् ॥ ४१ सुदानात्प्राप्यते भोगः सुदानात्प्राप्यते यशः । सुदानाजायते कीर्तिः सुदानात्माप्यते सुखम्॥४२ दानेन स्वर्गमामोति फलं तत्र भुनक्ति च । दत्तस्यापि सुदानस्य श्रद्धायुक्तस्य सर्वदा ॥ ४३ काले प्राप्ते भजेत्तीर्थ पुण्यस्यापि फलं त्विदम् । पात्रभूताय विप्राय श्रद्धायुक्तेन चेतसा ॥ ४४ यो ददाति महादानं गोभूस्वर्णान्नपूर्वकम् । तस्याहं सकलं दमि मनसा यद्यदिच्छति ॥ ४५
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्यानेऽष्टात्रिंशोऽध्यायः ॥ ३८ ॥
___ आदितः श्लोकानां समष्ठ्यकाः-५२०४
* एतच्चिदान्तर्गतोऽयं पाटः क. ख. ग. घ. इ. च. छ. झ. ड. द. पुस्तकस्थः ।
१ क. ख. ग. घ. ङ. च. छ. झ.ट. ड. वासुदेव उवाच । २ क, च.र्वत्र पावनम् । ३ क.ख.इ.च.छ.झ. द. सत्तम । ४ ख. स. ढ, 'पि सुदानदः । पा'। ५ क.ख.इ.च.छ.झ.ट. 'द्धापूतेन । ६ क.ख..च.छ.ड.८. 'नं मयि भा निवेश्य च । त।
Page #204
--------------------------------------------------------------------------
________________
१९८
महामुनिश्रीव्यासप्रणीतं -
अकोनचत्वारिंशोऽध्यायः ।
[ २ भूमिखण्डे -
वेन उवाच
कालस्य तस्य मे ब्रूहि लक्षणं बुद्धिपूर्वकम् । [तीर्थस्यापि च यद्रूपं पात्रस्यापि सुलक्षणम् ] || ? दानस्यापि जगन्नाथ विधिं विस्तरतो वद । प्रसादसुमुखो भूत्वां श्रद्धा श्रोतुं प्रवर्तते ॥
२
विष्णुरुवाच --
1
३
I
१०
१३
दानकालं प्रवक्ष्यामि नित्यनैमित्तिकं नृप । काम्यं चापि महाराज चतुर्थ प्रायिकं पुनः ॥ सूर्यस्योदयवेलायां पापं नश्यति सर्वतः । अन्धकारादिकानां च घोराणां नाशकारकः । ४ दिवि सूर्यो ममांशोऽयं तेर्जेसां कल्पितो निधिः । तस्यैव तेजसा दग्धं भस्मतां याति किल्विषम् ॥५ उदयन्तं ममांशं यो दृष्ट्वा दत्ते तु वार्यपि । तस्य किं कथ्यते भ्रूप नित्यं पुण्यविवर्धकम् ।। ६ प्राप्तायां हि सुवेलायां तस्यां दानं करोति यः । स्नात्वाऽभ्यर्च्य पितॄन्देवञ्श्रद्धाभक्तिसमन्वितः यथाशक्तिप्रभावेन दयायुक्तेन चेतसा । अन्नं फलं पयः पुष्पं वस्त्रं ताम्बूलभूषणम् ॥ हेमरत्नादिकं चैव तस्य पुण्यमनन्तकम् । मध्याह्ने च तथा राजन्नपराह्ने तथैव च ।। मामुद्दिश्य हि यो दद्यात्तस्य पुण्यमनन्तकम् । खानपानादिकं सर्वमिष्टं लेपनकुङ्कुमम् ॥ कर्पूरो(रा)दिकमेवापि वस्त्रालंकार भूषणम् । अविच्छिन्नं ददात्येवं भोगसौख्यप्रदायकम् ।। ११ नित्यकालो मयाऽऽख्यातो दानपूजार्थिनां शुभः । अथातः संप्रवक्ष्यामि नैमित्तिकमनुत्तमम् १२ त्रिकालेष्वपि दातव्यं दानमेव न संशयः । शून्यं दिनं न कर्तव्यमात्मनो हितमिच्छता ।। यस्मिन्काले प्रदत्तं हि किंचिद्दानं नराधिप । तत्प्रभावान्महाप्राज्ञो बहुसामर्थ्यसंयुतः ।। १४ धनाढ्यो गुणवान्युक्तः पण्डितोऽतिविचक्षणः । पक्षमासदिनं यावन्न दत्तं वै यदाऽशनम् ॥ १५ तावद्वै वारयाम्येनं भक्ष्याच्चैव नरोत्तमम् । स्वमलं भक्षितं चैव ह्यदत्वा दानमुत्तमम् ॥ उत्पादयाम्यहं रोगं सर्वभोगनिवारणम् । तेषां कायेषु संसृष्टं बहुपीडाप्रदायकम् ।। ['मन्दानलेन संयुक्तं ज्वरं संतापकारकम् ।] त्रिकालेषु न दत्ते या ब्राह्मणेषु सुरेषु च ।। स्वयमश्नाति मिष्टं तु तेन पापं महत्कृतम् । प्रायश्चित्तेन रौद्रेण तमेवं परिशाषयेत् ॥ उपवासैर्महाराज कायशोषकरादिभिः । चर्मकारो यथा चर्म कुण्डस्योपरि निर्घृणः ॥ शोधयेच्च कषायैश्च तच्चर्म स्फोटयत्यथ । तथाऽहं पापकर्तारं शोधयामि न संशयः ॥ ओषधीनां प्रयोगैश्च कषायैः कटुकैर्भुवम् । उष्णोदकैश्च संतापैर्वायुरूपेण नान्यथ ॥ सुखं भुंक्ते ततः सोऽग्रे भोगान्पुण्यान्मनोनुगानं । न करोति समर्थः सन्सर्वदानमनुत्तमम् ॥ २३ * एतच्चिद्वान्तर्गतः पाठः क. ख. ड.च. छ. झ. ट. पुस्तकस्थः । एतविदान्तर्गतोऽयं पाठः क.ख.ड.च. छ. झ. ड.ट. पुस्तकस्थः ।
१६
१७
१८
२२
८
१९
२०
२१
१ क. स्व. ग.घ. ड.च. छ. झ.ट.ड.इ. सर्वे । २ क.ख.ड.च. छ. झ.ड.ट. 'त्वा दया में यदि व । ३ क.ख.ग.घ.ङ.च. छ. झ. ट.ड.उ. वासुदेव उवाच । ४ क. ख. ड.च. छ. झ. ड. ट. 'जसा में प्रकल्पितः । त। ग घ 'जमामेव कल्पितः । तं । ५ ङ. यो धामचक्रं सुदारुणम् । तत्र मे कथ्यते कालो बहुपुण्यप्रवर्धकः । प्रा । ६ उ. वान्दानदाता भवेत्पुनः । य । ७ क. ख.ग. घ. ङ.च.ड.ढ श्रद्धापूतेन । ८ क.ख.ग. घ. ङ.च. छ.झ.ड.ट. 'कं मिष्टं लेपनाङ्गं तु कु । ९ ग घ वै तदा बहु । तमेवं धारयत्येव बुद्ध्या चैव नरोत्तम । स्वं । १० क. ख. ड.च. छ. झ.ड.ट. शोधयेत् । ११ क. ख. ङ. च. छ. झ.ट. कुद्रव्यं । १२ क. ख. च. ड. पैर्विश्वरू ं । ग. घ. छ. ‘पैर्वैद्यरू ं। ट. 'पैर्बोधरू ं । ८. 'पैर्वेदरू ं । १३ क. ख. ङ. च. छ. झ. था । अन्ये भुञ्जन्ति तस्याप्रे भो । १४ ग. घ. ८. ड. भुञ्जन्ति तस्या । १५ क. ख. ङ. च. छ. झ ेनू । किं करोति समर्थश्च न दत्तं दाग. घ. ट. नू । किं करोति समर्थः सन्स ।
Page #205
--------------------------------------------------------------------------
________________
३९ एकोनचत्वारिंशोऽध्यायः ] पद्मपुराणम् । महता पापरोगेण तमेवं परितापये । नित्यकाले हि यदत्तमात्मार्थे दानमथिने ।। न तत्तं हि राजेन्द्र श्रद्धापूतेन चेतसा । तथा तांस्तारयाम्येतानुपायैर्दारुणैः किल ॥ २५
वासुदेव उवाचनैमित्तिकांस्तथा कालान्पुण्यांश्चैव तवाग्रतः । प्रवक्ष्यामि नरश्रेष्ठ स्वबुद्ध्या शृणु तत्त्वतः ॥ २६ अमावास्या महाराज पौर्णमामी तथैव च । यदा भवति संक्रान्तिर्व्यतीपातो नरेश्वर ॥ २७ प्रतिश्च तथा प्रोक्ता ह्येकादशी तथा भवेत् । महामाघी तथाऽऽषाढी वैशाखी कार्तिकी तथा २८ अमासोमसमायोगे मन्वादिषु युगादिषु । गजच्छाया तथा प्रोक्ता पितृक्षयतिथिस्तथा ॥ २९ पते नैमित्तिकाः प्रोक्तास्तवाग्रे नृपसत्तम । एतेषु दीयते दानं तस्य दानस्य यत्फलम् ॥ ३० तत्फलं तु प्रवक्ष्यामि श्रूयतां नृपमत्तम । मामुद्दिश्य तु यो भक्त्या ब्राह्मणाय प्रयच्छति ॥ ३१ तस्याहं निर्विकल्पेन प्रयच्छामि न मंशयः । महन्सोव्यं महाराज स्वर्गमोक्षादिकं बहु ॥ ३२ काम्यं कालं प्रवक्ष्यामि दानस्य फलदायकम् । बनानामेव सर्वेषां [देवादीनां तथैव च ॥३३ दानस्य पुण्यकालं तं संप्रोक्तं द्विजसत्तमैः । आभ्युदयिकमेवापि कालं वक्ष्यामि ते नृपं ॥ ३४ शुभानामेव सर्वेषां] वैवाहिकमनुत्तमम् । पुत्रस्य जातमात्रस्य चौलमौञ्यादिकं तथा ॥ ३५ प्रासादध्वजदेवानां प्रतिष्ठादिककर्मणि । वापीकूपतडागानां गृहारामस्य यत्नतः ॥ ३६ तदाऽऽभ्युदयिकं प्रोक्तं मातृणां यत्र पूजनम् । तस्मिन्काले ददेदानं सर्वसिद्धिप्रदायकम् ॥ ३७ त्रिविधो य स्तु ते कालः प्रोक्तश्चैव नृपोत्तम । अन्यच्चैव प्रवक्ष्यामि पापपीडानिवारणम् ॥ ३८ मृत्युकाले च संप्राप्ते क्षयं ज्ञात्वा नृपोत्तम । तत्र दानं प्रदातव्यं यममार्गसुखपदम् ॥ ३९ नित्यनैमित्तिकाकालात्काम्याभ्युदयिकात्तथा। अन्त्यः कालः ममाख्याता महाराज तवाग्रतः॥४० एते कालाः ममाख्याताः स्वकर्मफलदायकाः । नीर्थस्य लक्षणं राजन्मवक्ष्यामि तवाग्रतः ॥ ४१ सुतीर्थानामियं गङ्गा भाति पुण्या सरस्वती । रेवा च यमुना तापी तथा चर्मण्वती नदी ॥ ४२ सरयूघर्घरा वेणा पुण्या पापप्रणाशिनी । कावेरी कपिला चान्या विशाला विश्वपावनी ॥ ४३ गोदावरी समाख्याता तुङ्गभद्रा नरोत्तम । ['पापानां भीतिदा नित्यं भीमरथी प्रपठ्यते ॥ ४४ वंदिका कृष्णगङ्गा च ह्यन्याः सरिद्वरोत्तमाः । एतासां पुण्यकालेषु सन्ति तीर्थान्यनेकशः ॥ ४५ ग्रामे वा यदि वाऽरण्ये नघः सर्वत्र पावनाः । तत्र तत्र प्रकर्तव्याः नानदानादिकाः क्रियाः ॥ यदा न ज्ञायते नाम तासां तीर्थस्य सत्तम । नाम चैव प्रकर्तव्यं विष्णुतीर्थमिदं नृप ॥ ४७ तीर्थेषु तद्वदेवोऽहं तीर्थ चापि न संशयः । मामेवोच्चारयेद्यो वै तीर्थदेवेषु साधकः ॥ ४८ तस्य पुण्यफलं जातं मन्नाम्ना नृपनन्दन । अज्ञातानां च तीथीनां देवानां नृपसत्तम ॥ ४९ स्नाने दाने महाराज मन्नामैव समुच्चरेत् । तीर्थानामेव राजेन्द्र धात्री नाम इदं कृतम् ॥ ५० सिन्धवः सप्त पुण्याख्याः सर्वस्थाः क्षितिमण्डले । यत्र तत्र प्रकर्तव्यं स्नानदानादिकं नृप ॥५१ अक्षय्यं फलमामोति सुतीर्थानां प्रसादतः।
*एतचिहान्तर्गतः पाठः क.ख.ग.घ..च.छ.झ.ट.इ... पुस्तकस्थः । एतचिहान्तर्गतः पाठः क.ख.ड.च.म.ड... पुस्तकस्थः।
१ ट. मश्रुभिः । न । २ क.ख.ड.च.छ.झ.ट.ड... 'प्रे परिकीर्तिताः । ए। ३ क.ख.ड.च.छ.झ.द.प।मखाना। ४ग. घ. ट. द. 'वृद्धिष। ५ क.ख.ड.च.छ.झ.. 'म् । आभ्युदयिकमेवं ते कालं प्रोक्तं द्विजोत्त। ६ इ. षु सर्वदा वासो ममास्त्यत्र न। ७ क.ख. ग. घ. ड. च. छ. झ. ट.इ. इ.म । नामान्येव नास्तत्र म। ८क. ख. ग. घ. डा. च. छ.स. इ. द. त्रा माला इमाः कृताः। मि ।
Page #206
--------------------------------------------------------------------------
________________
२०० महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेतीर्थरूपा महारूपाः सागराः सप्त एव च । मानसायास्तथा राजन्सरस्यश्च प्रकीर्तिताः ॥ ५३ निर्जला अपि ताः प्रोक्तास्तीर्थरूपा न संशयः। स्वल्पा नद्यो महाराज तासु तीर्थ प्रतिष्ठितम्॥ खातेष्वेव च सर्वेषु वर्जयित्वा च कूपकम् । पर्वतास्तीर्थरूपाश्च [*मेर्वाद्याश्च महीतले ॥ ५५ यज्ञभूमिश्च यज्ञश्च ] अग्निहोत्रे यथा स्थितः। श्राद्धभूमिस्तथा शुद्धा देवशाला तथा पुनः ॥५६ होमशाला तथा प्रोक्ता वेदाध्ययनवेश्म च । गृहेषु पुण्यसंयुक्तं गोस्थानं वरमुत्तमम् ॥ ५७ सोमपायी वसेवत्र तीर्थ तत्र प्रतिष्ठितम् । आरामा यत्र वै पुण्या अश्वत्थो यत्र तिष्ठति ॥ ५८ ब्रह्मवृक्षो भवेद्यत्रै वटवृक्षस्तथैव च । [अन्ये च वन्यसंघाते तथा तीर्थ प्रतिष्ठितम् ॥ ५० [*एते तीर्थाः समाख्याताः पिता माता तथैव च । पुराणं पठ्यते यत्र गुरुयंत्र च तिष्ठति ॥ सुभार्या विद्यते यत्र तत्र तीर्थ न संशयः ॥ पिता चैव सुपुत्रश्च विद्यते यत्र तीर्थकम् । एतान्यपि च तीर्थानि राजवेश्म तथैव च ॥ ६१
वेन उवाचपात्रस्य लक्षणं ब्रूहि यस्मै देयं सुरोत्तम । प्रसादसुमुखो भूत्वा कृपां कृत्वा च माधव ॥ ६२
विष्णुरुवाचशणु राजन्महापाज्ञ पात्रस्यापि सुलक्षणम् । यस्मै देयं तु दानं च श्रद्धापूतैर्महात्मभिः॥ ६३ ब्राह्मणं सुकुलोपेतं वेदाध्ययनतत्परम् । शान्तं दान्तं दयांपेतं शुद्धमेव विशेषतः ॥ प्रज्ञावन्तं ज्ञानवन्तं देवपूजनतत्परम् । तपस्यन्तं महाभागं वैष्णवं ज्ञानपण्डितम् ॥ धर्मज्ञं च सुशीलं च पाखण्डैस्तु विवर्जितम् । एवं पात्रं समासाद्य देयमन्यद्वदाम्यहम् ॥ ६६ 'एवमेतैर्गुणैर्युक्तं स्वसपुत्रं तथैव च । एवं पात्रं विजानीहि दुहितातनयं ततः ॥ जामातरं महाराज भावरेतैस्तु संयुतम् । गुरुं च दीक्षितं चैव पात्रभूतं नरोत्तम । एतान्येव सुपात्राणि दानयोग्यानि सत्तम । वेदाचारसमोपेतः पात्रत्वं चैव गच्छति ॥ ६९ वर्जयेकितवं विमं तथा काणं च वर्जयेत् । अतिकृष्णं महाराज कैपिलं परिवर्जयेत् ॥ ७० कर्कटाक्षं सुनीलं च श्यावदन्तं विवजेयेत् । नीलदन्तं तथा राजन्पीतदन्तं तथैव च ॥ ७१ गोदन्तं कृष्णदन्तं च बरं वातरोगिणम् । हीनाङ्गमधिकाङ्गं च कुष्टिनं कुनखं तथा ।। ७२ दुश्चर्माणं महाराज खल्वाटं परिवर्जयेत् । अन्यायेषु रता यस्य जाया विप्रस्य भूपते ॥ ७३ तस्य दानं न दातव्यं यदि ब्रह्मसमो भवेत् । स्त्रीजिताय न दातव्यं शोकार्ताय महामते ॥ ७४ व्याधिताय न दातव्यं मृतभोजिषु भूपते । चौराय च न दातव्यं संद्यः स्तेनसमो भवेत् ॥ ७५
* एतचिहान्तर्गत: पाट: क.ख. इ.च. छ. झ. ड.. पुस्तकस्थः । एतचिहान्तगतः पाठः क. ख. ग. घ.ड.च. छ. श. ह. द. पुस्तकस्थः । * एतचिह्नान्तर्गतः पाठः क. ख. ग. घ. ड. च. छ. झ. ड. द. पुस्तकस्थः ।
१ क. ख.च. छ. झ.ड. ढ. जराः पल्वला: प्रो । २ क.ख.च.छ.झ.ड.द. म् । ख्यातेष्वेतेषु स । ग.घ.टम् । ख्याते । ३१. मिश्च श्राद्धं च दें। ४ ट. 'त्र बिस्व । ५ क. ख. ग.घ. ड. च. छ. झ. ट... ढ. 'यः । सुपुत्रास्तष्ठते यत्र तीर्थ तत्र न संशयः । ए। ६ क. ख. ड. च. छ. स. द. म् । सत्यवन्तं महापुण्यं वै । ७ क. ख. ड. च. छ. स. ढ. अलोल्यं । ट. गतलौल्यं । ८ क. ख. ङ. च. छ. स. ढ. नरोत्तम । ए। ९ क ख. ग. घ. ड.च.छ.झ.ट.ड.दृ. 'पेतस्तृप्ति नैव च गये। १.क. ख.ड.च.ड. द. त्किल तं वि। ११ क.ख.ड.च.छ.झ.ढ. 'णं सुधर्तकम् । । १२ ग.घ.ह. कुपितं । १३ ग. घ. 'दण्डं तथा राजन्पीतदण्ड त ।१४ क. ख. ङ. च. छ. स. ढ. गाघ्नं सक। १५ क. ख. र. च. झ. ढ. 'बरमतिश्मश्रुलम् । ग. घ.ज. "बरं वातशेष्मिणम् । ढ, 'बरं श्लेष्मिणं तथा।हीं। १६ क. ख. ङ. च. छ.स. ड. द. सपद्यत्रिस ।
Page #207
--------------------------------------------------------------------------
________________
४० चत्वारिंशोऽध्यायः ] पद्मपुराणम् ।
२०१ अंतिस्तब्धाय नो देयं शठाय च विशेषतः । वेदशास्त्रसमायुक्तः सदाचारेण वर्जितः ॥ श्राद्धे दाने च राजेन्द्र नैव युक्तः कदाचन ॥ अथ दानं प्रवक्ष्यामि येत्फलं पुण्यदायकम् । काले तीर्थेषु पात्राणां श्रद्धायोगाच्च जायते ॥७७ नास्ति श्रद्धासमं पुण्यं नास्ति श्रद्धासमं सुखम् । नास्ति श्रद्धाममं तीर्थ संसारे प्राणिनां नृप । श्रद्धाभावेन संयुक्तो मामेव परिसंस्मरेत् । पात्रहस्ते प्रदातव्यं द्रव्यमेव नृपोत्तम ॥ ७९ एवंविधस्य दानस्य विधियुक्तस्य यत्फलम् । अनन्तं तदवामीति मन्प्रमादात्सुखी भवेत् ।। ८० ___ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वनं पाग्यान एकोनचन्वारिंशोऽध्यायः ॥ ३९ ॥
आदितः श्लोकानां समयङ्काः-५२८४
अथ चत्वारिशोऽध्यायः ।
वेन उवाचनित्यदाने फलं चैव त्वत्तः पूर्व मया श्रुतम् । नैमित्तिकस्य दानस्य दत्तस्यापि हि यत्फलम् ॥१ वन्सर्वं हि ममाचक्ष्व प्रसार्दा जगदीश्वर । शृण्वस्तृप्ति न गच्छामि श्रोतुं श्रद्धा प्रवर्तते ॥ २
विष्णुरुवाचनैमित्तिकं प्रवक्ष्यामि दानमेव नृपोत्तम । महापर्वणि संप्राप्ते येन दानानि श्रद्धया ॥ ३ मत्पात्रेभ्यः प्रदत्तानि तस्य पुण्यफलं शृणु । गजं रथं प्रदत्तं यो ह्यश्वं चापि नृपोत्तम ॥ ४ सं च भृत्यैस्तु संयुक्तः पुण्यदेशे नृपोत्तमः । जायने हि महाराज मत्प्रसादान संशयः॥ ५ राजा भवति धमात्मा ज्ञानवान्बलवान्सुधीः । अजयः सर्वभूतानां महातेजाःप्रजायते ॥ ६ महापर्वणि संप्राप्ते भूमिदानं ददाति यः । गोदानं वा महाराज सर्वभोगपतिर्भवेत् ।। ७ ब्राह्मणाय सुपुण्याय दानं दद्यात्प्रयत्नतः । महादानं तु यो दद्यात्तीर्थे पर्वणि चाऽऽगते ॥ ८ [*तेषां चिह्न प्रवक्ष्यामि भूपतित्वं प्रजायते । ] तीर्थ पवणि मंगाने गुप्तदानं ददाति यः॥ ९ निधीनामाशु मंप्राप्तिरक्षरा परिजायने । महापर्वणि संप्राप्ते तीर्थेपु ब्राह्मणाय च ॥ १० सुचेलं च महादानं काञ्चनेन समन्वितम् । पुण्यं फलं प्रवक्ष्यामि तस्य दानस्य भूपते ॥ ११ जायन्ते बहवः पुत्राः सद्गुणा वंदपारगाः। आयुष्मन्तः प्रजावन्तो यशःपुण्यसमन्विताः ॥ १२ विपुलाश्चैव यज्वांनो ज्ञाततच्या महामन । सौख्यं च लभते पुण्यं धर्मवान्परिजायते ।। महापर्वणि संप्राप्त तीर्थ संप्राप्य यत्नतः । कपिला काञ्चनीं दद्याहाह्मणाय महात्मने ॥ १४ तस्य पुण्यं प्रवक्ष्यामि दानस्यास्य महामत । कपिलादा महाराज महासौख्यं प्रभुञ्जते ॥ १५ यावहह्मा प्रजीवंत तावत्तिष्ठन्ति सर्वशः । महापर्वणि संप्राप्त ह्यलंकृत्य च गां तदा ॥ १६
* एतांच्चदान्तर्गतः पाट: क. ग. घ दु. च. छ. श. ट. इ. द. पुस्तकस्थः । . १ क. ख. च. छ. झ. अतृप्तश्च न दातव्य शौं । इ. द. अतृप्ताय न दातव्य । य. घ. ट. अतिधृष्टे न दातव्यं श। २ क. ख. ड. च. छ. झ द. मफलं । ३ क. ख. च. छ. झ. 'व्य स्वल्पम । 6 क. इ. च. छ. झ. द. 'दाद्धि प्रयत्नत । श। ५ ग, घ, ट. ते यः पृथ्वीदान नृ । ६ ग. घ. ट. सन यक्तः पुण्यदेहे नृ। ७ क. इ. च. इ. 'लोकप। ८ क. हु.च. छ. झ.ड. द. 'दानानि यो दद्यातीर्थ पर्वणि पात्रवित् । ते । ग. घ. ट. 'दानानि यो दद्यात्तीर्थे सर्वाणि पात्रावत् । ते । ९ क. च. 'ते । सर्वशास्त्रविदो हृष्टाः सगणा । १० ट. 'वन्तः पशपत्रम। ११ क. ग. घ. तु. च. छ. श. ट. ह. द. जायन्ते । १२ क. हु. च. छ. झ. द. ज्यान: स्फीता लक्ष्मीमहा । १३ ग. घ. ड. सकाबनीं।
Page #208
--------------------------------------------------------------------------
________________
२०२
महामुनिश्रीन्यासमणीतं
[२ भूमिखण्डेकाश्चनेनापि संयुक्ता वस्त्रालंकारभूषणैः । तस्य दानस्य राजेन्द्र फलभोगं वदाम्यहम् ॥ १७ विपुला जायते लक्ष्मीर्दानभोगसमाकुला । सर्वविद्यापतिर्भूत्वा विष्णुभक्तो भवेत्किल ॥ १८ विष्णुलोके वसेन्मयों यावत्तिष्ठति मेदिनी । तीर्थ गत्वा तु यो दद्याद्राह्मणेषु विभूषणम् ॥१९ भुक्त्वा तु विपुलान्भोगानिन्द्रेण सह मोदते । महापणि संप्राप्ते वस्त्रं च द्विजपुङ्गवे ॥ २० दत्त्वाऽग्नं भूमिसंयुक्तं पात्रे श्रद्धासमन्वितः । मोदते स तु वैकुण्ठे विष्णुतुल्यपराक्रमः ॥ २१ सवस्त्रं काञ्चनं दत्त्वा द्विजाय परिशीलिने । स्वेच्छया ह्यग्निसदृशो वैकुण्ठे वसते ध्रुवम् ॥ २२ सुवर्णस्य सुकुम्भं च घृतेन [ *परिपूरयेत् । पिधानं रौप्यं कर्तव्यं वस्त्रहारैरलंकृतम् ॥ २३ पुष्पमालान्वितं कुर्याद्ब्रह्मसूत्रेण शोभितम् । प्रतिष्ठयेद्वेदमत्रैस्तं संपूज्य ] महामते ॥ २४ उपचारैर्वरेश्चैव पोडशैः परिपूजयेत् । स्वलंकृत्य ततो दद्याद्राह्मणाय महामते ॥ २५ षोडशैव ततो गावः सवस्त्राः कांस्यदोहिनीः । कुम्भयुक्ताश्च चत्वारो दक्षिणां च सकाञ्चनाम् २६ तथा द्वादशका गावो वस्त्रालंकारभूषणाः । पृथग्भृताय विप्राय दातव्या नात्र संशयः ॥ २७ एवमादीनि दानानि ह्यन्यानि नृपनन्दन । तीर्थकालं सुसंप्राप्य पात्रसंपत्तिमेव च ॥ श्रद्धाभावेन दातव्यं बहुपुण्यकरं भवेत् ॥
विष्णुरुवाचविष्णुमुद्दिश्य यद्दानं कामनापरिकल्पितम् । तस्य दानस्य भावेन भावेन परिभावितः ॥ २९ तादृक्फलं समश्नाति मानुषो नात्र संशयः। आभ्युदयिकं प्रवक्ष्यामि यज्ञादिषु प्रदीयते ॥ ३० तेन दानेन तस्यापि शुद्धेन च नृपोत्तम । प्रज्ञादृद्धिमवामोति नैव दुःखं च विन्दति ॥ ३१ भोगान्भुङ्क्ते स धर्मात्मा जीवमानस्तु सांप्रतम् । ऐन्द्रांस्तु भुतेऽसौ भोगान्दाता दिव्यगतिः पुनः३२ स्वकुल नयते स्वर्ग कल्पानां च सहस्रकम् । एवमाभ्युदयं प्रोक्तमथान्यं ते वदाम्यहम् ॥ ३३ कायस्य संक्षयं ज्ञात्वा जरया परिपीडितम् । दानं तेन प्रदातव्यमाशां कस्य न कारयेत् ॥ ३४ मृते मयि च मे पुत्रा अन्ये स्वजनवान्धवाः । कथमते भविष्यन्ति मां विना सुहृदो मम ॥ ३५ तेषां मोहात्ममुग्धोऽपि न ददाति स किंचन । मृत्यु प्रयाति मोहात्मा रुदन्ति मित्रबान्धवाः ३६ दुःखेन पीडिताः सर्वे मायामोहेन पीडिताः । संकल्पयन्ति दानानि मोक्षं वै चिन्तयन्ति च ३७ तस्मिन्मते महाराज मायामोहे गते सति । विस्मरन्ति च दानानि लोभात्मानो ददन्ति न ॥३८ योऽसो मृतो महाराज यमपथं सुदुःखितः । तृषाक्षुधासमाक्रान्ता बहुदुःखः प्रपीडितः ॥ ३९ तस्मादान प्रदातव्यं स्वयमेव न संशयः । कस्य पुत्राश्च पौत्राश्च कस्य भार्या नृपोत्तम ॥ ४० संसारे नास्ति कः कस्य तस्माद्दानं प्रदीयते । ज्ञानवता प्रदातव्यं स्वयमेव न संशयः ॥ ४१ अन्नं पानं च ताम्बूलमुदकं काश्चनं तथा । सुगां संवत्सां भूमिं च फलानि विविधानि च ४२
___ * एतच्चिहान्तर्गतः पाठः क. ड च. छ. झ. ड. . पुस्तकस्थः । १ क. च. 'लभावं व। २ इ.क्त स्वर्णपात्रस। ३ क, ड, च. छ. ज. स. ट. ड. द. ते दिवि । ४ क.च. 'ठेस सुखी भवेत्।सु । ५ ङ. ढ. सुरूपाः। ६ क. ड. च. छ. झ. ह. 'मादिसुदा ७ क. ड. च. छ. झ. ड. ढ.'च-व्रतमु । ग. घ. 'च-ब्रह्मम। क. ग. घ. ङ. च. छ. झ. ट, इ. ढ. प्रजाव। ९ क. ड.छ. स. ठ. दिव्यां गतिं गतः । स्व। १ क. उ. च, छ. 'नः । सुकुले जायते स्वर्गात्पुण्यानां च महात्मनाम् । ए । ग. स. ट. 'नः । सुकुले जायते स्वर्गात्कुल्यानां च महात्मनाम्। एं। 3. सुकले जायते स्वगात्कुलानां च महात्मनाम् । ए। ११ ग. घ. सूवत्सां । १२ क. ङ.च. झ.ट. त्सां छत्रं व भामि चैव बनेकधाम् । ज।
Page #209
--------------------------------------------------------------------------
________________
२०३
४१ एकचत्वारिंशोऽध्यायः] पद्मपुराणम् । जलपात्राण्यनेकानि सोदकानि नृपोत्तम । वाहनानि विचित्राणि पानान्येव महामते ॥ १३ नानागन्धं सकर्पूर पादयो सुखभदौ । उपानही प्रदातव्यौ यदीच्छेद्विपुलं शुभम् ॥ एतैर्दानमहाराज यममार्ग सुखेन वै । प्रयाति मानवो नूनं यमदूतैरलंकृतम् ॥
इति श्रीमहापुराणे पाद्म भूमिखण्डे वेनोपाख्याने चत्वारिंशोऽध्यायः ॥ ४० ॥
आदितः श्लोकानां समष्ट्यङ्काः-५३२९
अथैकचत्वारिंशोऽध्यायः ।
& wa N
वेन उवाच-- पुत्रो भार्या कथं तीर्थ माता पिता कथं वद । गुरुश्चैव कथं तीर्थ तन्मे विस्तरतो वद ॥ १
विष्णुरुवाचअस्ति वाराणसी रम्या गङ्गायुक्ता महापुरी । तस्यां वसति वैश्यो हि कृकलो नाम नामतः॥२ तस्य भार्या महासाध्वी साधुव्रतपरायणा । धर्माचारपरा नित्यं सा वै पतिपरायणा ॥ ३ सुकला नाम पुण्यागी सुपुत्रा चारुमङ्गला । सत्यंवदा शुंभा शुद्धा प्रियाकारा प्रियव्रता ॥ ४ एवंगुणसमायुक्ता सुभगा चोरुहामिनी । स वैश्य उत्तमो वाग्मी धर्मज्ञो ज्ञानवान्गुणी ॥ ५ पुराणे श्रौतधर्मे च सदा श्रवणतत्परः । तीर्थयात्राप्रसङ्गेन बहुपुण्यपदायकम् ॥ श्रद्धया निर्गतो यात्रा नीर्थानां पुण्यमङ्गलम् । ब्राह्मणानां प्रमङ्गेन सार्थवाहेन तेन वै ॥ ७ पस्थितो धर्ममार्ग तु तमुवाच पतिव्रता । पतिस्नेहेन संमुग्धा भतारं वाक्यमब्रवीत् ॥
सुकलोवाचअहं ते धर्मतः पत्नी सहपुण्यकरा प्रिय । पतिमार्ग प्रयाताऽहं पतिदेवं यजाम्यहम् ॥ ९ कदा नैवं भवांस्त्याज्यः सद्भावाच्च द्विजोत्तम । तव च्छायां समाश्रित्य करिष्ये व्रतमुत्तमम् ॥१० पतिव्रताख्यं पापघ्नं नारीणां गतिदायकम् । पुण्या स्त्री कथ्यते लोके या स्यात्पतिपरायणा ॥११ युवतीनां पृथक्तीर्थ विना भर्तुर्द्विजोत्तम । सुखदं नास्ति वै लोके स्वर्गमोक्षमदायकम् ॥ १२ सव्यं पादं स्वभर्तुश्च प्रयागं विद्धि मत्तम । वामं च पुष्करं तस्य या नारी परिकल्पयेत् ॥ १३ तस्य पादोदकस्नानात्तत्पुण्यं परिजायते । प्रयागपुष्करसमं स्नानं स्त्रीणां न संशयः ॥ १४ सर्वतीर्थसमो भर्ता सर्वधर्ममयः पतिः । मरवानां यजनात्पुण्यं यद्वै भवति दीक्षिते ॥ तत्पुण्यं समवाप्नोति भतुश्चेव हि मांप्रतम् ॥ प्रयागं पुष्करं चैव यात्रां कृत्वा हि यद्भवेत् । तत्फलं समवामोति भर्तुः शुश्रूषणादपि ।। १६ समासेन प्रवक्ष्यामि तन्मे निगदतः शृणु । नास्त्यस्या हि पृथग्धर्मः पतिशुश्रूषणं विना ॥ १७ तस्मात्कान्त सहायं ते कुर्वाणा सुखदायिनी । तव च्छायां समाश्रित्य त्वागमिष्यामि नान्यथा१८
१ क.च. स. ड. मोदकानि । २ ह. र यममार्ग सुखप्रदम् । उ । ३ क. इ.च.छ.स.८. सुखम् । ४ क.ग.घ.ड.च. छ.स. ट. इ. द. वो राजन्यम । ५ ङ. इ. ८. कृतः । । ६ क.ख.ग.घ..च.छ.स.ड... सदा । ७ ग. घ. प्रियका । ८ क. ख. ड. च. छ. झ. ट. प्रियप्रिया । ड. प्रियंकरा । ९ क.ख.च.स. शुभकारिणी । ङ. छ. चारुकारिणी। १० क. स. च. झ. व मया त्याज्यं भवता च द्वि। ङ. छ. द. व मया त्याज्यं स्याद्भवन्तं वै द्वि। ११ क. ख. ङ. च. छ. स. द. ध्ये धर्ममु । १२ क. ख. ङ. च. छ. झ. ढ, परिक्षालयत्। १३ क. ख. हु. च. छ. स. ह. 'पुण्यम । ग. घ.. वतीर्थम । १४ क. ख. ङ. च. छ. द. 'म् । गयादीनां सुतीर्थानां या ।
Page #210
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं -
विष्णुरुवाच
२०
रूपं शीलं गुणं भक्तिं समालोक्य च सर्वथा । सौकुमार्य विचार्यैव कृकलः स पुनः पुनः ।। १० यद्येवं स्याद्गमिष्यामि दुर्गमार्ग सुदुःखदम् । रूपमेव भवेच्चास्याः शीतातपतिम् ॥ 1 पद्मपत्रप्रतीकाशमस्याश्चाङ्गं मवर्णकम् । महावातेन शीतेन कृष्णवर्ण भविष्यति ॥ पथि कर्कश सुग्रावैः पादौ चास्याः सुकोमलौ । एप्येते वेदनां तीव्रां यथा गन्तुं न च क्षमा ।। २२ तृष्णाभिः परीताङ्गी की केयं भविष्यति । वामाङ्गी मम च स्थानं धर्मस्थानं वरानना ।। २३
२५
२०४
[ २ भूमिखण्डे
प्राणप्रिया नित्यं नित्यं धर्मस्य चाऽऽश्रयः । नाशमेति यहा बाला मम नाशी भवेदिह ॥२४ इयं मे जीविका नित्यमियं प्राणस्य चेश्वरी । न नयिष्ये च तत्तीर्थमेकचैव व्रजाम्यहम् ॥ २५ चिन्तयित्वा क्षणं तेन कृकलेन महात्मना । तस्य चित्तानुगो भावस्तया ज्ञातो नृपोत्तम ।। २६ पुनश्वोवाच सुकला भर्तारं प्रस्थितं तदा । अनघा नैव संत्याज्या पुरुषः शृणु सत्तम ।। मूलमेव हि धर्मस्य पुरुषस्य महामते । ज्ञात्वा चैवं महाभाग नय मामपि सांप्रतम् ||
२७
विष्णुरुवाच -
३१
३३
श्रुत्वा सर्वं हि तेनापि प्रियया बहुभाषितम् । महस्यैव वचो त मा मैवं कृपणं वेद ।। नैव त्याज्या भवेद्भार्या प्राप्ता धर्मेण वै प्रिये । येन भार्या परित्यक्ता सुनीता धर्मचारिणी ।। ३० दशाङ्गधर्मस्तेनापि परित्यक्तो वरानने । तस्मात्त्वामेव भद्रं ते नैव त्यक्ष्ये कढ़ी मिये ॥ एवमाभाष्य तां भार्या संबोध्य च पुनः पुनः । तया चाज्ञातमात्रेण सार्थेन स तु संगतः ।। ३२ गते तस्मिन्महाभागे कृकले पुण्यकर्मणि । देवकर्मसुवेलायां काले पुण्ये शुभानना ॥ नैव पश्यति भर्तारमागतं मन्दिरं निजम् । समुत्थाय त्वरायुक्ता रुदन्ती सुकला तदां ॥ ३४ पृच्छति स्माथ सा बाला भर्तुः शांकातिपीडिता । युष्माभिर्वै महाभागा दृष्टोऽसौ कृकलो मम३५ प्राणेश्वरो गतः कापि भवन्तो मम बान्धवाः । [*यदि दृष्टो महाभागाः कुकलो मम सांप्रतम् ३६ भर्ता मे पुण्यकर्ता वै सर्वज्ञः सत्यपण्डितः ] । कथयन्तु महात्मानो यदि दृष्टां महामतिः ।। ३७ तस्यास्तद्भाषितं श्रुत्वा ताम्रचुस्ते महामतिम् । धर्मयात्राप्रसङ्गन नाथस्ते कलः शुभे ।। ३८ तीर्थयात्रां गतो भद्रे कस्माच्छांचसि सुव्रते । साधयित्वा महातीर्थं पुनरेष्यति शोभने ॥ एवमाश्वासिताँ भीरुः पुरुषैराप्तकारिभिः । पुनर्गेहं गता राजन्सुकला चारुभाषिणी ॥ रुरोद करुणं दुःखं सुकलाऽपि परायणा । यावदायाति मे भर्ता भूमौ स्वप्स्यामि संस्तरे ॥ ४१ घृतं तैलं न भोक्ष्येऽहं दधि क्षीरं तथैव च । लवणं च परित्यक्तं ताम्बूलं हि तथैव च ।। ४२ मधुरं च तथा राजंस्त्यक्तं गुडादिकं तथा । एकाहारा निराधारा तावत्स्थास्यं न संशयः ॥ ४३ [+ यावच्चाssगमनं भर्तुः पुनरेव भविष्यति । एवं दुःखान्विता भृत्वा एकवेणीधरा पुनः ] ||४४ एककञ्चुकसंवीत मलिना च बभूव सा । मलिनेनापि वस्त्रेण त्वेकेनैव स्थिता पुनः ||
३९
४०
४५
* एतच्चिदान्तर्गतः पाठो ड. पुस्तकस्थः । एतचिद्वान्तर्गत: पाटो ग. घ. ड. छ. झ. ड. ट. पुस्तकस्थः ।
+
ܘܕ
१ ङ. छ. झ. ट. क्य वयस्तथा । २ड. ड. छ. झ.ह. झञ्झावातन । ३ ज. शकृपयः पा ४ ग. घ. ट. पथा । ड. पथि । ५ क. ख. च. 'ङ्गी दृश्येयं न भ । ६ क. ख. च. झ. नित्यं प्रिया प्रा । ७ क. ख. ड. च. छ. झ. ट. स्वतन्त्रा । ८ क. ख. ड. झ. ड. ड. ते तामेवं कृकलः पुनः । । ९ ट. पुनः । १० क. ख. च. 'दाचन । ए । ११ क. ख. ङ. च. झ. ट. महासतीम् । १३ ग घ ट ता तैस्तु ता पतिभावा बं ।
छ. झ. ८. 'दा । वयस्याः पृच्छति भर्तुर्दु खशों । १२ क. ख. ङ च छ वयस्यैश्वारुवादिभिः । ड. ता तैस्तु वयस्यैश्रावादिभिः । १४ ग घ ट
Page #211
--------------------------------------------------------------------------
________________
४१ एकचत्वारिंशोऽध्यायः ]
पद्मपुराणम् ।
२०५
हाहाकारं प्रमुञ्चन्ती निश्वसन्ती सुदुःखिता । वियोगवह्निना दग्धा कृष्णाङ्गी मलधारिणी ।। ४६ एवं दुःखसमाचारा सुकृशा विहला तदा । रोदमाना दिवारात्रौ निद्रां लेभे न वै निशि ॥ ४७ क्षुधा न विन्दते राजन्दुःखेन विदली कृता । अथ सख्यः समायाताः पप्रच्छुः सुकलां तदा ॥ ४८ सख्य ऊचुः
--
सुकले चारुसर्वाङ्गे कस्माद्रोदिषि सांप्रतम् । ततो नः कारणं ब्रूहि दुःखस्य च वरानने ॥ ४९ सुकलोवाच
समां त्यक्त्वा गतो भर्ता धर्मार्थ धर्मतत्परः । तीर्थयात्राप्रसङ्गेन त्वटते मेदिनीं ततः ।। ५० मां त्यक्त्वा स गतः स्वामी निर्दोषां पापवर्जिताम् । अहं साध्वी समाचारा सदापुण्या पतिव्रता ५१ मां त्यक्त्वा स तो भर्ता तीर्थसाधनतत्परः । तेनाहं दुःखिता मख्यो वियोगेनापि पीडिता ।। ५२ जीवनाशो वरं श्रेष्ठं वरं वै विषभक्षणम् । वरमभिप्रवेशो वै वरं कायविनाशनम् ।। ५३ नारी प्रियां परित्यज्य भर्ता याति सुनिपुरः । भर्तृत्यागो वरं नैव प्राणत्यागो वरं सखि ।। ५४ वियोगं न समर्थाऽहं सहितुं नित्यदारुणम् । तेनाहं दुःखिता सख्यो वियोगेनापि नित्यशः ।। ५५
सख्य ऊचुः
1
तीर्थयात्रां गतो भर्ता पुनरेष्यति ते पतिः । वृथा शोषयसे कार्य वृथा शोकं करोषि वै ॥ ५६ वृथा त्वं तपसे वाले वृथा भोगान्परित्यजेः । पिवस्व चान्नं भुङ्क्ष्व स्वं यद्दत्तं पूर्वजन्मनि ॥५७ कस्य भर्ता सुताः कस्य कस्य स्वजनवान्धवाः । कः कस्य नास्ति संसारे संबन्धं केन वै न हि ॥ भक्ष्यते भुज्यते वाले संसारस्य हि तत्फलम् । मृते प्राणिनि कोऽश्नाति को हि पश्यति तत्फलम् पीयते भुज्यते बाल एतत्संसारसत्फलम् ॥
५९.
सुकलोवाच
६४
भवतीभिः प्रयुक्तं तन्न स्याद्वेदेन संमतम् । [ स्वभर्तुर्वा पृथग्भूता तिष्ठत्येका सदैव हि ।। ६० पापरूपा भवेन्नारी तां न मन्यन्ति मज्जनाः । ] भर्तुः सार्धं सदा सख्यो दृष्टो वेदेषु सर्वदा ॥ ६१ संबन्धः पुण्यसंसर्गाज्जायते नान्यकारणात् । नारीणां च सदा तीर्थ भर्ता शास्त्रेषु पठ्यते ॥ ६२ मेवाssवाहयेन्नित्यं वाचा कायेन कर्मभिः । मनसा पूजयेन्नित्यं सत्यभावेन तत्परा ॥ ६३ एतत्पार्श्व महातीर्थ दक्षिणाङ्गं सदैव हि । तमाश्रित्य यदा नारी गृहस्था परिवर्तते ॥ यजते दानपुण्यैश्च तस्य दानस्य यत्फलम् । वाराणस्यां च गङ्गायां यत्फलं न च पुष्करे ॥ ६५ द्वारकायां न चावन्त्यां केदारे शशिभूषणे । लभते नैव सा नारी यजमाना सदा किल । ६६ तादृशं फलमेवं सा न प्राप्नोति कदा सखि । सुसुखं पुत्रसौभाग्यं स्नानं दानं च भूषणम् ॥ ६७ वस्त्रालंकारसौभाग्यं रूपं तेजः फलं सदा । यशः कीर्तिमवाप्नोति गुणं च वरवर्णिनि । भर्तुः प्रसादाच्च सर्वं लभते नात्र संशयः ।।
६८
७०
farara यदा कान्ते अन्यधर्म करोति या । निष्फलं जायते तस्याः पुंश्चली परिकथ्यते ।। ६९ नारीणां यौवनं रूपमवतारं स्मृतं ध्रुवम् । एकश्वापि हि भर्तुश्च तस्यार्थे भूमिमण्डले || सुपुत्रा सुयशा नारी परिकथ्येत वै सदा । तुष्टे भर्तरि संमारं दृश्या नारी न संशयः ॥ * एतचिहार्न्तगतः पाठः क ख ग घ ङ च छ झ. ड. ट. पुस्तकस्थः ।
७१
१ ग. घ. ड. सुकला विमनास्तदा । २ ग. घ. ट. ड. मह्यं । ३ ग घ ङ. झ. ट. ड. द. पानं । ४ ङ. छ. ट. ड. तमेवाऽऽराधये । ५ ज ट 'स्यां गयायां च यौं ।
1
Page #212
--------------------------------------------------------------------------
________________
२०६
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
पतिहीना यदा नारी भवेत्सा भूमिमण्डले । कुतस्तस्याः सुखं रूपं यशः कीर्तिः सुता भुवि ॥७२ सुदौर्भाग्यं महादुःखं संसारे परिभुज्यते । पापभागा भवेत्सा च दुःखाचारा सदैव हि ॥ ७३ तुष्टे भर्तरि तस्यास्तु तुष्टाः स्युः सर्वदेवताः । तुष्टे भर्तरि तुष्यन्ति ऋषयो देवमानवाः ।। ७४ भर्ता नाथो गुरुर्भर्ता देवता दैवतैः सह । भर्ता तीर्थश्च पुण्यश्च नारीणां नृपनन्दन ॥ ७५ शृङ्गारं भूषणं रूपं वर्णसौगन्ध्यमेव च । कृत्वा संतिष्ठते नित्यं वर्जयित्वा सुपर्वसु ॥ शृङ्गारभूषणैः सा तु शुशुभे सा यदा पतिः । [ *पत्या विना भवत्येवं क्षीरं सर्पमुखे यथा ॥ ७७ भर्तुरर्थे महाभागा सुत्रता चारुमङ्गला । गते भर्तरि या नारी शृङ्गारं कुरुते यदि ।। रूपं वर्ण च तत्सर्व श्रमरूपेण जायते । वदन्ति भूतले लोकाः पुंश्चलीयं न संशयः ] ॥ तस्माद्भर्तुर्वियुक्ताया नार्याः शृणुत भूतले ॥
७६
७८
७९
इछन्त्या वै महासौख्यं भवितव्यं कदाचन । सुतापायाः परो धर्मो भर्ता शास्त्रेषु गीयते ॥ ८० तस्माद्वै शाश्वतो धर्मो न त्याज्यो भार्यया किल । एवं धर्म विजानामि कथं भर्ता परित्यजेत् ।। ८१ इत्यर्थे श्रूयते सख्य इतिहासं पुरातनम् । सुदेवायाश्च चरितं सुपुण्यं पापनाशनम् ॥
८२
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने सुकलाचरित एकचत्वारिंशोऽध्यायः ॥ ४१ ॥ आदितः श्लोकानां समश्यङ्काः – ५४११
अथ द्वाचत्वारिशोऽध्यायः ।
सख्य ऊचु:
या सुदेवा त्वया प्रोक्ता किमाचारा वदस्व नः । त्वया प्रोक्तं महाभागे वद नः सत्यमेव च ॥ १ सुकलोवाच
अयोध्यायां महाराजा स आसीद्धर्मकोविदः । मनुपुत्रो महाभागः सर्वधर्मार्थतत्परः || इक्ष्वाकुर्नाम सर्वज्ञो देवब्राह्मणपूजकः । तस्य भार्या सदा पुण्या पतिव्रतपरायणा || तया सार्धं यजेद्यज्ञांस्तीर्थानि विविधानि च । देवराजस्य वीरस्य काशीशस्य महात्मनः सुदेवा नाम वै कन्या सत्याचारपरायणा । उपयेमे महाराज इक्ष्वाकुस्तां महीपतिः ॥ सुदेवां चारुसर्वाङ्गीं सत्यव्रतपरायणाम् । तया सार्धं यजेद्यज्ञान्सुपुण्यान्पुण्यनायकः ॥ स रेमे नृपशार्दूलो गृहे च प्रियया तदा । एकदा तु महाराजस्तया सार्धं वनं ययौ ।। गङ्गारण्यं समासाद्य गयायां क्रीडते सदा । सिंहान्हत्वा वराहांश्च गजान्समहिषांस्ततः || क्रीडमानस्य तस्यापि वराहश्च समागतः । बहुशूकरयूथेन पुत्रपौत्रैरलंकृतः ॥ एका च शूकरी तस्य प्रिया पार्श्वे प्रतिष्ठति । दृष्ट्वाऽथ शूकरश्चैनं राजानं मृगयारतम् ॥ पर्वताधारमाश्रित्य भार्यया सह सूकरः । तिष्ठत्येकः सुवीर्येण पुत्रान्पौत्रान्गुरू शिशून् ॥ ११ ज्ञात्वा तेषां महाराज मृगाणां कदनं महत् । तानुवाच सुतान्पौत्रान्भार्या तां च स शूकरः ।। १२ * एतचिह्नान्तर्गतः पाठो ग. घ. ज. ट. ड ढ पुस्तकस्थः ।
२
३
४
6
.
९
१ ज. सुसौभाग्यं न संसारे दौर्भाग्यं चापि भुञ्जते । २ ग घ ङ. ट. ड. सुभार्यायाः । ३ ग. घ. शास्त्रधर्मस्तु न । ४ ग. घ. ङ. छ. झ. ट. ढ. मृगयां । ड. गङ्गायां । ५ अ. ति । वराहं शुकरयूथैस्तमेव परिवारितम् । दृष्ट्वा तु राजराजेन दुर्जयो मृगयादिभिः । प ६ घ ह तिष्ठति । पुत्रपौत्रः परिवृतस्तिष्ठत्येव दिवानिशम् । ज्ञा' ।
Page #213
--------------------------------------------------------------------------
________________
४२ द्विचत्वारिंशोऽध्यायः ] पद्मपुराणम् । कोशलाधिपतिर्वीरो मनुपुत्रो महाबलः । क्रीडते मृगयां कान्ते मृगान्संहरते बहून् ॥ ११ समां दृष्ट्वा महाराज एष्यते नात्र संशयः। अन्येषां लघुकानां मे नास्ति पाणभयं ध्रुवम् ॥१४ मम रूपं नृपो दृष्ट्वा क्षमां नैव करिष्यति । हर्षेण महताऽऽविष्टो बाणपाणिर्धनुर्धरः॥ १५ अभियुक्तो महातेजा लुब्धकैः परिवारितः । प्रिये करिष्यते घातं ममाप्येव न संशयः॥ १६ शूकर्युवाच
यदा यदा पश्यसि लुब्धकान्वहन्महावने कान्त समायुधान्वहून् । एभिस्तु पुत्रर्मम पौत्रकैः समं दूरं परं याहि पलायमानः ।। त्यक्त्वा सुधेये बलपौरुषं महान्महाभयेनापि विषण्णचेतनः। दृष्ट्वा नृपेन्द्रं पुरुषार्थमुत्तमं करोषि किं कान्त वदस्व कारणम् ॥ तस्यास्तु वाक्यं स निशम्य कोल उवाच तां शूकरराज उत्तरम् । यदर्थभीतोऽस्मि सुलुब्धकात्प्रिये दृष्ट्वा गतो दूरं निशम्य शूकरान् ॥ सुलुब्धकाः पापशठा महाप्रिये कुर्वन्ति पापं परिदुर्गकन्दरे । सदैव दुष्टा बहुपापचित्तका जाताश्च सर्वे परिपापिनां कुले ॥ तेषां हि हस्तान्मरणाद्विभेमि मृतोऽपि यास्यामि पुनरेव पापम् । दूरं गिरि पर्वतकन्दरं च व्रजामि कान्ते अपमृत्युभीतः ॥ अयं हि पुण्यो नृपनाथ आगतो विश्वाधिपः केशवरूपभूपः। युद्धं करिष्ये समरे महात्मना सार्धं प्रिये पौरुपविक्रमेण ॥ जेष्यामि भूपं यदि स्वेन तेजसा भोक्ष्यामि कीर्तिं त्वतुलां पृथिव्याम् । नो वा हतो वीरवरेण संगरे यास्यामि लोकं मधुसूदनस्य ॥ ममाङ्गभूतेन पलेन मेदसा तृप्तिं परां यास्यति भूमिनाथः। तृप्ता भविष्यन्ति सुलोकदेवता यस्मादयं चाऽऽगतो वज्रपाणिः ॥ अस्यैव हस्तान्मरणं यदा भवेल्लाभश्च मे सुन्दरि कीर्तिरुत्तमा।
तस्माद्यशो भूमितलं जगत्रये बजामि लोकं मधुसूदनस्य ॥ नवं भीतोऽस्मि क्षुब्धोऽस्मि गतोऽहं गिरिसानुषु । पापादीतो गतः कान्ते धर्म दृष्ट्वा स्थिरो ह्यहम् ।। न जाने पातकं पूर्वमन्यजन्मनि चार्जितम् । येनाहं शूकरी योनि गतोऽहं पापसंचयात् ॥ २७ क्षालयिष्याम्यहं घोरं पातक पूर्वसंचयम् । वाणादकर्महाघोरस्तीक्ष्णश्च निशितैः शतैः॥ २८ पुत्रान्पौत्रान्वरां कन्यां कुटुम्बं बालवृद्धकम् । गिरिं गच्छ गृहीत्वा त्वं मम मोहमिमं त्यजें ॥२९ मम स्नेहं परित्यज्य हरिरेष समागतः । अस्य हस्तात्प्रयास्यामि तद्विष्णोः परमं पदम् ॥ ३० देवेनापि ममायैव स्वर्गद्वारमनुत्तमम् । उद्घाटितकपाटं तु यास्यामि सुमंहदिवम् ३१
__ सुकलोवाचतच्छ्रुत्वा वचनं तस्य शूकरस्य महात्मनः । उवाच तत्प्रिया सख्यः सीदमानान्तरा तदा ॥ ३२
शूकर्युवाचयस्मिन्यूथे भवेत्स्वामी पुत्रपौत्रैरलंकृतः। मित्रैश्च भ्रातृभिश्चैव अन्यैः स्वजनबान्धवैः॥ ३३ . .ट. बाणभयं । २ इ. त्वचलां । ३ ड. पात्रांश्च कन्याश्च कुटुम्ब सहबालक । ४ ज. ज । मया मोहः परित्यक्तो ह'। ५ज. 'महागतिम् ।
Page #214
--------------------------------------------------------------------------
________________
२०८ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेतथैवालंकृतो यूथो भवता परिशोभते । त्वां विनाऽयं महाभाग कीटंग्यूथो भविष्यति ॥ ३४ तवैव सुबलेनापि गर्जमानाश्च शूकराः। विचरन्ति गिरी कान्त तनया मम बालकाः॥ ३५ मृदून्मूलांस्तु भक्षन्ति निर्भयास्तव तेजसा । दुर्गेषु वनकुञ्जेषु पर्वतान्तर्दरीषु च ॥ ३६ न कुर्वन्ति भयं तीव्र सिंहानामिह पर्वते । मानवानां महाभाग पालितास्तव तेजसा ॥ ३७ त्वया त्यक्ता अमी सर्वे बालका ममदारकाः। दि(दी)नाश्चैव वराकाश्च भविष्यन्ति विचेतनाः३८ नित्यं चैव सुखं कर्म गत्वा पश्यन्ति बालकाः। पतिहीना यथा नारी शोभते नेव शोभना॥३९ अलंकृता चापि दिव्यैरलंकारैः सुकाञ्चनैः । रत्नैः परिच्छदैर्वस्त्रैः पितृमातृमहादरैः॥ ४० श्वश्रूश्वशुरकैश्वान्यैः पतिहीना न भाति सा । चन्द्रहीना यथा रात्रिः पुत्रहीनं यथा कुलम् ॥४१ दीपहीनं यथा गेहं नेव भाति कदा किल । त्वां विनाऽयं तथा यूथो नेव शोभति मानद ।।४२ आचारेण यथा मयों ज्ञानहीनो यतिः किल । मंत्रहीनं यथा राज्यं तथाऽयं नैव शोभते॥ ४३ कैवर्तेन विना नावः संपूर्णाः परिमागरे । न भान्न्येव यथा सार्थः मार्थवाहेन वै तथा ॥ ४४ सेनाध्यक्षेण च विना यथा सेन्यं न भाति च । त्वां विना वे तथा सेन्यं शूकराणां महामते ॥ दीनो भविष्यति यथा वेदहीनो यथा द्विजः । मयि भारं कुटुम्बस्य विनिवेश्य प्रगच्छसि ॥४६ मरणं ज्ञात्वा सुलभं का प्रतिज्ञा तवंशी । त्वां विनाऽहं न शक्नोमि धर्तुं प्राणान्मियेश्वर ॥ ४७ त्वयैव सहिता स्वर्ग भूमि वाऽपि महामते । नरकं वा प्रभाक्ष्यामि मत्यं सत्यं वदाम्यहम् ॥ ४८ अथ पुत्रान्सपुत्रांश्च गृहीत्वा यूथमुत्तमम् । आवां बजाव यूथेश दुर्गमेवं सुकन्दरम् ॥ ४९ जीवितव्यं परित्यज्य मरणायाभिगम्यते । तत्र किं दृश्यते लाभो मरणे वद सांप्रतम् ॥ ५०
वराह उवाचवीराणां त्वं न जानासि सुधर्म शृणु सांप्रतम् । युद्धाथिना हि वीरेण वीरं गत्वा प्रयाचितम् ॥ देहि मे योधनं संख्ये युद्धार्थी त्वहमागतः । परण याचितं युद्धं न ददाति यदा भटः॥ ५२ कामाल्लोभाद्भयाद्वाऽपि मोहाद्वा शृणु वल्लभ । कुम्भीपाके स नरके वसेद्युगसहस्रकम् ।। ५३ क्षत्रियाणां परो धर्मो युद्धं देयं न संशयः । तद्युद्धं दीयमानेन रङ्गभूमि गतेन वै ॥ ५४ जित्वा शत्रु पुनस्तत्र यशः कीर्ति प्रभुञ्जते । नो वा हतोऽपि युद्धेऽस्मिन्युध्यमानः सुनिर्भयः ॥ वीरलोकमवाप्नोति दिव्याल्लोकान्प्रभुञ्जते । यावद्वर्षसहस्राणां विंशत्येका प्रिये शृणे ॥ ५६ वीरलोके वसेत्तावद्देववीरैर्महीयते । मनुपुत्रः समायातः स्वयं वीरो न संशयः॥ ५७ संग्राम याचमानस्तु युद्धं देयं मया ध्रुवम् । युद्धातिथिः समायाता विष्णुरूपः सनातनः ॥ सत्कारो युद्धरूपेण कर्तव्यश्च मया शुभे ॥
शूकयुवाचयदा युद्धं त्वया देयं राज्ञे चैव महात्मने । ततोऽहं पौरुपं कान्त पश्यं वै तव कीदृशम् ॥ ५९ एवमुक्त्वा प्रियान्पुत्रान्समाहूय त्वरान्विता । उवाच पुत्रका यूयं शृणुध्वं वचनं मम ॥ ६० बुद्धातिथिः समायावो विष्णुरूपः सनातनः । मया तत्र प्रगन्तव्यं यत्रायं हि गमिष्यति ॥ ६१
१ ग. घ. ज. ट. 'दृप्रपो भ । २ ग. घ. ड. ज. स. ट. ड. द. यथा। ३ ड. झ. . मत्रिहीनो यथा राजा त । ब. मबहीनो यथा राजा त। ४ ग. प. ज.ट. 'ते । सर्वमेव प्र। ५ ग. घ. ज. त्वं राजनीति स्वध। ६ ज. युधि । ङ. द. नरः । ७ ज. भे । भुड़े पापं स नरके यावद्यु। ८ ङ. ढ. व्यान्भोगान्प्र। ९ ज. णु । । नर्भले वीरलोकादवीर्य महीतले । म।
Page #215
--------------------------------------------------------------------------
________________
२०९
४३ त्रिचत्वारिंशोऽध्यायः ] पद्मपुराणम् । यावत्तिष्ठति वै नाथो भवता प्रतिपालकः । यूयं गछन्तु वै दूरं दुर्ग गिरिगुहामुखम् ॥ ६२ मवं जीवत मे वत्सा वैर्जयित्वा सुलुब्धकान् । मया तत्र प्रगन्तव्यं यत्रैष हि गमिष्यति ॥ ६३ भवतां श्रेष्ठोऽयं भ्राता यूथरक्षां करिष्यति । एते पितृव्यकाः सर्वे भवतां त्राणकारकाः ॥ दूरं प्रयान्तु वे सर्वे मां विहाय सुपुत्रकाः ॥
पुत्रा ऊचुःअयं हि पर्वतः श्रेष्ठो बहुमूलफलोदकः । भयं तु कस्य वै नास्ति सुखं जीवनमस्ति वै ॥ ६५ युवाभ्यां हि अकस्माद्धि युद्धमुक्तं भयंकरम् । तन्नो हि कारणं मातर्वद सत्यमिहैव हि ॥ ६६
शुकयुवाच---- अयं राजा महारौद्रः कालरूपः समागतः । क्रीडने मृगया लुब्धो मृगान्हत्वा बहून्वने ॥ ६७ इक्ष्वाकुर्नाम दुर्धर्षो मनुपुत्रो महाबलः । संहरिष्यति कालोऽयं दूरं यान्तु सुपुत्रकाः॥ ६८
पुत्रा ऊचुः-- मातरं पितरं त्यक्त्वा यः प्रयानि स पापधीः । महारौद्रं मुघोरं तु नरकं याति नान्यथा ॥ ६९ मातुः पुण्यं पयः पीत्वा पुष्टो भवति निघृणः । मातरं पितरं त्यज्य यः प्रयाति सुदुर्बलः ॥७० पूयं नरकं पिवेन्नित्यं कृमिदुर्गन्धमंकुलभ् । मानस्तम्मान यास्यामो गुरुं त्यक्त्वा इहैव च ॥ ७१ एवं वेदादसंजातं (?) तेपां धर्मार्थसंयुतं । व्यूहं कृत्वा स्थिताः मवें बलनेजःममाकुलाः ॥ ७२ साहसोत्साहसंदृष्टाः पश्यन्ति नृपनन्दनम् । नदन्तः पारुपयुक्ताः क्रीडमाना वने तदा ॥ ७३ इति श्रीमहापुराणे पाझे भमिखण्डे बनोपान्याने मुकलाचरिते द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥
आदितः श्लोकानां समठ्यङ्काः-८४८३
अथ त्रिचत्वारिंशोऽध्यायः ।
सुकलोवाच---- एवं ते शकराः सर्वे युद्धाय समुपस्थिताः । [*पुरः स्थितस्य ते राज्ञो ह्यवतस्थुश्च लुब्धकाः॥१ महावराहो राजेन्द्र गिरिसानुं समाश्रितः । महता यथभावन व्यहं कृत्वा प्रतिष्ठति ॥ २ कपिलः स्थूलपीनाङ्गो महादष्ट्री मेहामुग्वः । दु:महः शकरो राजन्गर्जने चातिभैरवम् ] ॥ ३ स तं पश्य महाराज शालतालवनाश्रयम् । तेषां तद्वचनं श्रुत्वा मनुपुत्रः प्रतापवान् ॥ ४ [गृह्यतां शूरवाराहं विध्यतां बलदर्पितम् । एवमाभाप्य नान्वीरो मनुपुत्रः प्रतापवान् ] ॥ ५ अथ ते लुब्धकाः सर्वे मृगयामदमोहिताः । संनद्धा दंशिताः सर्वे श्वानः सार्ध प्रजग्मिरे ॥ ६ हर्षण महताऽऽविष्टो राजराजा महाबलः । अश्वारूहः स्वमन्येन चारुरङ्गेन संयुतः ॥ ७ गङ्गातीरं समासाद्य मेरुं गिरिवरोत्तमम् । रत्नधातुसमाकीर्ण नानाक्षेरलंकृतम् ॥ * एतचिहान्तर्गतः पाठो ग. घ. ज. ट. इ. पस्तकस्थः। एतचिहान्तर्गतः पाठः क. ख. इ. च. छ. झ. ड. ढ.पुस्तकस्थः। ----- -------- - -- - - -- - -
१ ज. तातो। २ क. ख. च. छ. झ. 'तां प्रीति । ३ ग. ज. ट इ. वश्वयित्वा । ४ इ. यत्र नाथो ग । ५ ज. ति मुखार्थधीः । ६ ज. दारुणम् । ७ ज णः । तां त्यक्त्वा पय भोज्यं च नरकं मंप्रयाति हि। पूयं तत्र पि। ८ ज.म् । तस्माद्वयं स्थिताः सर्वे बलतेजःसमा कुलाः । युवाभ्यां सहिताः सर्वे मातर्यात्स्याम भूभुजा । एवमुक्त्वा ततः सर्वे यथं कृत्वा च ते तथा । न । ९ इ. महाबलः । १० ज. दर्मदः शकरोऽत्यर्थ गर्ज। ११ ज. सायुधाः । १२ ड. वृक्षसमाकुलम् ।
१७
Page #216
--------------------------------------------------------------------------
________________
२१०
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
सुकलोवाचे
[*यो बलधाममरीचिचयकरनिकरमयमोङ्गोऽत्युच्चं गगनमेव संप्राप्तो नानानगाचरितशोभो गिरिराजो भाति ॥
९.
ये।जनबहलीवमलगङ्गामवाहसमुच्चरत्तीरवीची तरङ्गभङ्गैर्मुक्ताफलसदृशर्निर्मलाम्बुकणैः सर्वत्रमक्षालितशिलातलो ] गिरीन्द्रः सुश्रियः (श्रीकः) ।।
१०
देवेश्वारणकिनरैः परिवृतो गन्धर्वविद्याधरैः सिद्धैरप्सरसां गणैर्मुनिजनैर्नागेन्द्र विद्याधरैः । श्रीखण्डैर्वहुचन्दनैस्तु सरलैः शाळेस्तमालैगिरिः पुन्नागैर्बहुसिद्धिदायकवनैः कल्पद्रुमैः शोभते ॥
3
१४
१६
नानाधातुविचित्रो वै नानारत्नविचित्रितैः । विमानैः काञ्चनैर्दण्डैः कलॅत्रैरुपशोभते || नालीकेरवनैर्दिव्यैः पूगवृक्षैर्विराजते । दिव्यपुन्नागवकुलैः कदलीखण्डमण्डितैः ।। सुपुष्पैश्वम्पकैरद्रिः पाटलैः केतकैस्तथा । नानावल्लीवितानैश्च पुष्पितैः पद्मकैस्तथा ॥ नाना[+वर्णैः सुपुण्यैश्च नानावृक्षैरलंकृतः । दिव्य ] वृक्षैः समाकीर्णः स्फाटिकैश्च शिलातलैः ॥ १५ योगियोगीन्द्रसंसिद्धैः कन्दरान्तर्निवासिभिः । निर्झरैश्चैव रम्यैश्च बहुप्रस्रवणैर्गिरिः ।। नदीप्रवाहसंहृष्टैः संगमैरुपशोभते । हुदैश्व पल्वलैः कुण्डैर्निर्मलोकधारिभिः ॥ गिरिराजो विभात्येकः सानुभिः सह संस्थितैः । शरभैश्चैव शार्दूलैर्मृगयूथैरलंकृतः ।। महामत्तैश्च मातङ्गेर्महिषै रुरुभिः सदा । अनेकैर्दिव्यभावैश्च गिरिराजो विभाति सः ॥ अयोध्याधिपतिर्वीर इक्ष्वाकुर्मनुनन्दनः । तया सुभार्यया युक्तश्चतुरङ्गबलेन वै ।। पुरतो लुब्धका यान्ति श्वानः शूराश्च शीघ्रगाः । यत्राssस्ते शुकरः शरो भार्यया सहितो वली २१ बहुभिः शूकरैर्गुप्तो गुरुभिः शिशुभिस्तथा । मेरुभूमिं समाश्रित्य गङ्गातीराश्रमं ततः ।। सुकलोवाचे
२०
२२
२३
२४
२५
तामुवाच वहस्तु सुप्रियां हर्षसंयुतः । प्रिये पश्य समायातः कोशलाधिपतिर्बली ।। मामुद्दिश्य महाप्राज्ञो मृगयां क्रीडते नृपः । युद्धमेकः करिष्यामि सुरासुरप्रहर्षणम् || अथ भूपो महातेजा बाणपाणिर्धनुर्धरः । सुदेवां सत्यधर्माङ्गीं तामुवाच महर्षितः । पश्य कान्ते महाकालं गर्जमानं यथा घनम् | [ परिवारसमायुक्तं दुःसहं मृगघातिभिः ।। २६ अद्यैवाहं हनिष्यामि सुबाणैर्निशितैः प्रिये । मामेव हि महाशरी शु(यु)द्धाय समुपाश्रयेत् || २७ एवमुक्त्वा प्रियो भार्या लुब्धकान्वाक्यमब्रवीत् । यथा शूरी महाशूराः मेषयध्वं हि शुकरम् २८ अथ ते प्रेषिताः शूरा बलतेजः पराक्रमाः ] । गर्जमानाः प्रधावन्ति' बलतेजः पराक्रमाः ॥ २९ कोलं प्रति गताः सर्वे वायुवेगेन सांप्रतम् । विध्यन्ति बाणजालैस्तं निशितैर्वनचारकाः ॥ नानाशस्त्रैश्च शुभ्रैस्तु वराहं वीररूपिणम् ॥
१२
१३
१७
१८
१०.
३०
* एतचिह्नान्तर्गतः पाठो ग घ ज. ट. ड. पुस्तकस्थः । एतच्चिदान्तगतः पाठो ग घ ङ. ट. ड. ट. पुस्तकस्थः । * एतच्चिहान्तर्गतः पाठो ग. घ. उ. ड. ट. पुस्तकस्थः ।
१ ज. च- सुमेरुर्नाम नगोत्तमः प्रदीप्तमरीचिः प्रो । २ ज न्द्रकैरन्वितः । श्री । ३. नदिव्यः क । ४ इ. छ. ८. 'ल' । ५ ग. घ. ज. ट. संबद्धः सं' । ड. संसिद्धः सं । ६ ज. सुदेवया । ७. घ. ज. ट. रैर्युक्तो गु । ८. प्र. ज. ड. `रात्समन्ततः । ९ ज. च तं दृष्ट्वावाच वाराहः सु । १० ट रारोहां सु । १५ ड. न्ति परितः कालयोधिनः । को' । १२ ड कुन्तैश्च ।
Page #217
--------------------------------------------------------------------------
________________
४३ त्रिचत्वारिंशोऽध्यायः ]
पद्मपुराणम् ।
[*सुकलोवाच
पतन्ति बाणतोमरा विमुक्ता लुब्धकैः शरा घना गिरिं प्रवर्षिणो यथा तथा धरान्तरे ।। eat हारिभिः से निर्जितस्ततस्तथा शतैस्तु यूथपालकः स कोलः संगरं गतः ॥ स्वपुत्रपौत्रबान्धवैः परांश्च संहरेत्स वे पतन्ति ते स्वर्दथ्र्या हता हवेलुब्धकाः ।। पतन्ति पादहस्तकाः स्थितस्य वेग भ्रामणैः
सलुब्धगर्जमेव तं वराहोऽपश्यदागतम् ॥
स्वतेजसा विनाशितं मुखाग्रदंष्ट्रया ह गतः स यत्र भूपतिः स्वतेजसा महामतिः ।। विवक्षये स्वपुत्रकान्प्रियांश्च पुत्रवान्धवान्
+
11
इक्ष्वाकुनाथं सुमहत्प्रसह्य संत्रास्य क्रुद्धः स हि शुकरेशः । युद्धं वने वाञ्छति तेन सार्धमिक्ष्वाकुणा संगरहर्षयुक्तः ॥ वाराहः पुनरेव युद्धकुशलः संवाञ्छते संगरं तुण्डाग्रेण सुतीक्ष्णदन्तनखरैः क्रुद्धो घरां क्षोभयन् । हुङ्कारोच्चारगर्वान्प्रहरति विमलं भूपतिं तं च राजज्ञात्वा विष्णुपराक्रमं मनुसुतस्त्वानन्दरोमाञ्चितः || दृष्ट्वा शूकररूपं यमतुलं मेने पंतिदेवराइ carfi मनसा विचिन्त्य सहसा वाराहरूपेण वै । संप्रेक्ष्यैव महाबलं बहुतरं युक्तं त्वरेवरणं सैन्यं कालविनाशनाय सहसा संग्रह संगृह्यताम् ॥ Arvara वारणा रथाश्व वेगवत्तराः सुवाणखधारिणो भृशुण्डिभिश्च मुहरेः ॥
सपाशपाणिलुब्धका नदन्ति तत्र तत्परा निवारितो न तिष्ठते हया गजाश्च यद्गताः ।।
कचित्कचिन्न दृश्यते क्वचित्कचित्प्रदृश्यते [*कचिद्भयं प्रदर्शयेत्कचिद्धयान्प्रमर्दयेत् ] ॥ मर्दयित्वा भटाञ्शूरान्वाराहो रणदुर्जयः । शब्दं चकार दुर्धर्षः क्रोधारुणितलोचनः ॥ कोशलाधिपतिरस्तं दृष्ट्वा रणदुर्जयम् । युध्यमानं महाकायं मुञ्चन्तं मेघवत्स्वनम् ॥ गर्जति समरं विचरति विलसति वीरान्स्वतेजसा वीरः । तडिदिव मुखे सुदंष्ट्रस्त (प्रा त )स्य विभात्युल्लसत्येव ॥
२११
३१
३२
३३
३४
३५
३६
३७
३८
३९
४०
४१
* एतच्चिहान्तर्गतः पाठी ग. घ. ट. ड. पुस्तकस्थः । अत्र चतुर्थचरणः सर्वपुस्तकेषु भ्रष्ट एव दृश्यते । * एतच्चिद्वान्तर्गतः पाठः क. ख. ङ च छ झ. अ. ट. पुस्तकस्थः ।
१ इ. स गर्जितस्तथा शतैः श २ ड. 'तं महासमुहसंयुतं । ३ ड. 'पतिर्भुवरी दें' ।
Page #218
--------------------------------------------------------------------------
________________
४३
२१२ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेमनुपुत्रस्तथा दृष्ट्वा कोलं च निशितैः शरैः । प्रतिभिन्नमेकैकं शस्त्राहतं च बन्धुभिः ॥ ४२
पुनरपि युद्धं प्रवाञ्छति*............. नरपतिरुवाच सैन्याः किमिह न गृह्यन्तु(?)ओजसा शूराः॥
युध्यध्वं तत्र निशितैर्वाणेस्तीक्ष्णैरनेनापि ॥ समाकर्ण्य ततो वाक्यं क्रुद्धस्यापि महात्मनः । ततस्ते सैनिकाः सर्वे युद्धाय समुपस्थिताः॥४४ अनेकैर्भटसाहस्रर्वने तं समरे स्थितम् । दिक्षु सर्वासु संहत्य विभिदुः शुकरं रणे ॥ ४५
(म)विद्धश्च कश्चित्तदा बाणजालैः सुयोधैश्च संग्रामभृमो विशालैः।
कचिच्चक्रवातः कचिद्वज्रपातहतं दुर्जयं सगरे तं महान्तः ॥ ततः पौरुषः क्रोधयुक्तः स कोलः सुविच्छिद्य पाशारणे प्रस्थितःमः। महाशूकरैः सार्धमेव प्रयातस्ततः शोणितस्यापि धाराभिषिक्तः ।। करोति प्रहारं च तुण्डेन वीरो हयानां द्विपानां च चिच्छेद वीरः। स्वदंष्टाग्रभागेन(ण) तीक्ष्णेन वीरान्पदातीन्हि संपातयेद्रोपभावः।
जघानास्य शुण्डं गजम्यापि रुष्टो भटान्हतान्पादनवस्तु हृष्टः॥] ४८ ततस्ते शूकराः सर्वे लब्धकाश्च परस्परम् । युयुधुः सङ्गरं कृत्वा रोपारुणविलोचनाः॥ ४९ लुब्धकैश्च हताः कोलाः कोलश्चापि सुलुब्धकाः। निहताः पातिता भूमौ क्षतजेनापि सारुणाः५० जीवं त्यक्त्वा हताः कोललुब्धकाः पतिता रणे । मृताश्च शकरास्तत्र शूराः प्राणांश्च तत्यजुः५१ यत्र यत्र मृता भूमी पातिता मृगघातकाः । वहवः शकरा राजन्स्वव्यापारैनिपातिताः॥ ५२ कति नष्टा हताः कोला नीता दुर्गपु मंश्रिताः। कुछुपु कन्दरान्तपु गृहान्तपु नृपात्तम ॥ ५३ लुब्धकाश्च मृताः केचिच्छिन्ना दंष्ट्राग्रशकरः। प्राणांस्त्यक्त्वा गताः स्वर्ग खण्डशो विदलीकृताः॥५४ वागुरापाशजालार्थं कृतकापञ्जरास्ततः । नाडीश्च पातिता भृमी यत्र तत्र समन्ततः॥ ५ एकोऽपि दयितासाथै वाराहः परितिष्ठति । पात्रकः सप्तपञ्चश्च()युद्धार्थी बलदर्पितः ॥ ५६ तमुवाच तदा कान्तं शूकरं शूकरी पुनः । गच्छ कान्त मा सार्धमभिस्तु बालकः मह ॥ ५७ पाह प्रीतस्तु तां तत्र स्वप्रियां तु किरिःकिटिः()। क गच्छामि प्रभन्नोऽहं स्थानं नास्ति महीतले मयि नष्टे महाभागे कोलयथं विनश्यति ॥ द्वयोश्च सिंहयोर्मध्ये शूकरः पिबते जलम् । द्वयोः शकरयोमध्ये सिंहो नैव पिवत्पयः॥ ५९ एवं शूकरजातीषु दृश्यते बलमुत्तमम् । तदहं नाशयाम्येव यदा भग्ना व्रजाम्यहम् ॥ ६० जाने धर्म महाभागे बहुश्रेयोविदायकम् । कामाल्लोभाद्भयाद्वाऽपि युध्यमानः प्रणश्यति ॥ ६१ रणतीर्थ परित्यज्य स स्यात्पापी न संशयः । निशितं शस्त्रसंव्यहं दृष्ट्वा हर्प प्रगच्छति ॥ ६२ अवगाह्याऽऽशु सिन्धुं स तीर्थपारं प्रगच्छति । स याति वैष्णवं लोकं पुत्राणां शनमुद्धरत् ॥ ६३ ['समायान्तं च(तश्च)तदहं कथं भनो व्रजाम्यहम् । योधनं शस्त्रसंकीर्ण प्रवीरानन्ददायकम् ६४ दृष्ट्वा प्रयाति संहृष्टस्तस्य पुण्यफलं शृणु । पदे पदे महत्स्नानं भागीरथ्याः प्रजायते ॥ ६५ रणाद्भग्नो गृहं याति कामाल्लोभात्मिये शृणु । मातृदोष प्रकाशेत्स क्रियाजातश्च कथ्यते ॥ ६६
* चतुर्ध्वपि पुस्तकेषु भ्रष्ट एवात्रस्थः पाठः । । एतच्चिदान्तर्गतोऽयं पाटः ट. पुस्तकस्थः। १ ट. . वने । २ ङ. द. श्वानः । ३ ड. राजश्चक्रपातनि । ४ अ. 'श्व कुटका । ५ ज. युद्धानष्टः प्र । ६ ग. घ. अ. छ. ज.स. ट. द. पुरुषाञ्शत । ड. पितृणां । ७ ड. देऽश्वमेधस्य फलं तस्य प्र।
Page #219
--------------------------------------------------------------------------
________________
४४ चतुश्चत्वारिंशोऽध्यायः] पद्मपुराणम् । अब यज्ञाश्च तीर्थाश्च अत्र देवा महौजसः । पश्यन्ति कौतुकं कान्ते मुनयः सिद्धचारणाः ॥६७ लोक्यं वर्तते तत्र यत्र वीरप्रकाशनम् । समराद्भग्नं प्रपश्यन्ति सर्वे त्रैलोक्यवासिनः ॥ ६८ शपन्ति निघृणं पापं प्रहसन्ति पुनः पुनः । दुर्गतिं दर्शयेत्तस्य धर्मराजो न संशयः ॥ ६९ संभवः समरे युद्ध स्वशिराच्छोणितं पिबेत् । अश्वमेधफलं भुङ्क्ते इन्द्रलोकं प्रगच्छति ॥ ७० यदा जयति संग्रामे शत्रूशूरो वरानने । तदा प्रभुञ्जते लक्ष्मी नानाभोगान संशयः॥ ७१ यदा तत्र त्यजेत्प्राणान्संमुग्वश्च निराश्रयः । म गच्छेत्परमं लोकं देवकन्याः प्रभुञ्जते ॥ ७२ एवं धर्म विजानामि कथं भग्नो बजाम्यहम् । अनेन समरे युद्धं करिष्ये नात्र संशयः॥ ७३ मनोः पुत्रेण धीरेण राज्ञा इक्ष्वाकुणा सह । डिम्भान्गृह्य प्रयाहि त्वं सुखं जीव वरानने ॥ ७४ नम्य श्रुत्वा वचः प्राह बद्धाऽहं तव बन्धनैः । स्नेहमानप्रहास्यैश्च रतिक्रीडनकैः प्रिय ।। ७५ पुग्नस्ते मुतैः माध प्राणांस्त्यक्ष्यामि मानद । एवमेव सुमंभाप्य परस्परहितैषिणौ ॥ ७६ युद्धाय निश्चितो भूत्वा समालोकयनो रिएन । कोशलाधिपतिर्वीरं तमिक्ष्वाकुर्महामतिम् ॥ ७७
यथैव मेघः परिगर्जने दिवि पाटसुकाले सुतडिन्प्रकाशैः। तथैव संगर्जति कान्तया ममं समाहयेद्राजवरं बुराः ।।
७८ तं गर्नमानं ददृशे महात्मा वगहमेकं पुरुषार्थयुक्तम् ।
ससार स्वेनैव जवेन युक्तः सुसंमुग्वस्तस्य नृवीरधीरः॥ इति श्रीमहापुगणे पाझे भमिग्वण्डे वेनोपाग्याने मुकयाचग्नेि त्रिचत्वारिंशनमोऽध्यायः ॥४३॥
आदितः श्लोकानां समश्यङ्काः-५५६२
अथ चतुश्रन्वारिशोऽध्यायः ।
सुकलोवाच -- स्वसन्यं दुंधरं दृष्ट्वा निर्जितं दुधरेण तम् । चुकोप भूपतिः करं दुःसहं सूकरं पति ॥ धनुगदाय वेगेन वाणं कालोपमं तदा । तस्याभिमुग्यमेवासौ हयेनाभिमसार सः॥
[*स यदा नॅपति हयपृष्ठगतं वरपौरुपयुक्तमामित्रहणम् ।
परिपश्यति शूकरयूथपतिः प्रगतोऽभिमुग्गं रणभूमितले ।। निशितेन शरेण हतो हि यदा नृपतेहयपादतले प्रगतः। तमिहेव विलय च वेगमनाः प्रखरण जवेन च कोलवरः ॥
* एनच्चिद्वान्तर्गत: पाठो ज. पुस्तकस्थः ।
१ ग. घ. ज. ट. ड. वीरेण । - ग. घ. ज. ट. ड. मह । ३ ग घ. ज. ट. . 'ध्य मंप्रधार्य परस्परम् । यु। ग. घ. ज. स. ड. दुर्जय । ५ ट. 'त पुरतो रणे । चु। ६ ग. घ. इ. ज इ. १. कालानलोपमम् । त । ७ ड. नृपो हयमारुत्व वर पारुषयुक्तमनन्तबलम् । स निशम्य शकरनाथो रणे प्रगतो हि मुसमुखभूमितलम् । निशितेन शरेण हतो नृपतिना हयपादतलप्रगतः कुमतिः । तमिहंव विलट्य च वेगमनाः प्रखरेण जवेन तु कोलवरः । निशतेन हतो नृपतिना न हि याति क्षिती परियुद्धगतिः । निहतस्तरग: म च वीरवस्तरग: पतितो भुवि आस्यहतः । लघुस्यन्दनमेव गतो नृपतिनिशितेन शरेण हतः स किरिःकिटिः । स हि गर्जति शकरजातिग्वो ह्यपरिस्थितपारुषतेजवरः । गदया निहतः स भूपतिना शिरमध्यग्णन कृता तेन यथा । परित्यज्य त वितमेव स्वक गत एव हरहमेव वरम् । कृत्वा हि युद्ध समरे हि तेन राज्ञा समं शुकरराजराजः । पपात भूमौ निहतो यदा स वषिरे ।
Page #220
--------------------------------------------------------------------------
________________
२१४
महामुनिश्रीव्यासप्रणीतं -
व्यथितस्तुरगः स किरिः किटिना न हि याति क्षितौ स हि विद्धगतिः । तुरगः पतितो भुवि तुण्डहतो लघुस्यन्दनमेव गतो नृपतिः ॥ स हि गर्जति शूकरजातिरवैरथ संस्थितकोशलयेन जत्रैः । गदया निहतः किल भूपतिना रणमध्यगतः स हि यूथपतिः ॥ परित्यज्य तनुं च स्वकां हि तदा गत एव हरेर्गृहमेव वरम् ॥ कृत्वा हि युद्धं समरे हि तेन राज्ञा समं शूकरराजराजः ॥ पपात भूमौ मरुता नगो यथा ववर्षिरे देववराः सुपुष्पैः ॥ ] तस्योपरि पुष्पचयः सुजातः संतानकानामपि सौरभश्व ॥ सकुङ्कुमैचन्दनदृष्टिमेव कुर्वन्ति देवाः परितुष्टमानाः || विपश्यमानः स हि तेन राज्ञा चतुर्भुजः सोऽपि बभूव राजन (?) | दिव्याम्बरो भूषण दिव्यरूपः स्वतेजसा भाति दिवाकरो यथा ॥ दिव्येन यानेन गतो दिवं तदा सुपूज्यमानः सुरराजदेवैः || गन्धर्वराजः स बभूव भूयः पूर्व स्वकं कायमित्र त्यक्त्वा ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने सुकलाचरिते चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥ आदितः श्लोकानां समथ्र्यङ्काः -- ५५७३
अथ पञ्चचत्वारिशोऽध्यायः ।
[ २ भूमिखण्डे
५
*
एतच्चिहान्तर्गतोऽयं पाठः क ख ग घ ङ च छ झ ट ड ढ पुस्तकस्थः ।
१ ङ. ट. श्वानश्च । २ ज. 'ताः । कनीयसस्त्रयस्त्वेव गता गिरिवनान्तरम् । तौ जग्मतु रणभुवं तेषा ।
19
८
१०
सुकलोवाच
2
३
अथ ते लुब्धकाः सर्वे शूकरी प्रति जग्मिरे । शूराश्च दारुणाः प्राप्ताः पाशहस्ताश्च भीषणाः || १ चतुरश्च ततो डिम्भान्वृत्वा स्थिता च शुकरी । कुटुम्बेन समं कान्तं हतं दृष्ट्वा महाहवे || भर्तुर्मे चिन्तितं प्राप्तमृषिदेवैश्व पूजितः । गतः स्वर्गं महात्माऽसौ वीरेणानेन कर्मणा ॥ अनेनापि यथा यास्ये स्वर्ग भर्ता स तिष्ठति । तथा सुनिश्चितं कृत्वा पुत्रान्प्रति विचिन्तितम् ॥ ४ यदा जीवन्ति मे बालाश्चत्वारो वंशधारकाः । भवत्यस्य सुवीरश्व कोलस्यापि महात्मनः ॥ केनोपायेन पुत्रान्वै रक्षायुक्तान्करोम्यहम् । इति चिन्तापरा भूत्वा दृष्ट्वा पर्वतसंकटम् ॥ तत्र मार्ग सुविस्तीर्ण निष्काशाय प्रयास्यते । तानुवाच महाराज पुत्रान्प्रति विमोहिता ॥ यावत्तिष्ठाम्यहं पुत्रास्तावद्गच्छन्तु शीघ्रगाः । तेषां मध्ये सुतो ज्येष्ठः कथं यास्यामि मातरम् ॥८ त्यक्त्वा स्वजीव लोभाच्च धिङ्मां मातः सुजीवितम् । पितृर्वैरं करिष्यामि साधयिष्ये रणे रिपुम् ।। गृहीत्वा त्वं कनीयसो भ्रातॄंस्त्रीन्दुर्गकन्दरम् ।।
९.
११
१०
मातरं पितरं त्यक्त्वा यो याति स हि पापधीः । नरकं च प्रयात्येव कृमिकोटिसमाकुलम् ॥ तमुवाच सुदुःखार्ता त्वां त्यक्त्वाऽहं कथं सुत । प्रयास्यामि महापापा त्रयो गच्छन्तु मे सुतः ॥ ११ त्रयस्तु पुरतः कृत्वा द्वाभ्यामपि च भूपते । जग्मतुर्दुर्गमार्गेण [तेषामेव सुपश्यताम् || तेजसा सुबलेनापि गर्जन्तश्च पुनः पुनः ॥
6
१२
Page #221
--------------------------------------------------------------------------
________________
२१५
४६ षट्चत्वारिंशोऽध्यायः] पद्मपुराणम् । अथ ते लुब्धकाः शूराः संप्राप्ताश्च स्वरंहसा । यथा तेनापि मार्गेण] त्रयस्ते प्रेषिता नृपम् ॥१३ तिते तत्पथं रुद्ध्वा द्वावेतो जननीसुतो । लुब्धकाश्च ततः प्राप्ताः खड्गबाणधनुर्धरीः॥ १४ प्रहन्यस्तोमरस्तीक्ष्णैश्चक्रेश्च मुशलैस्ततः । मातरं पृष्ठतः कृत्वा तनयो युयुधे स तैः॥ १५ टंट्या निहताः केचित्केचित्तुण्डेन पातिताः। संजघान खुराप्रैश्च शूराश्च पतिता रणे ॥ १६ युयुधे शूकरः संख्ये दृष्टो राज्ञा महात्मना। पितुः सकाशाच्छूरोऽयमिति ज्ञात्वा स संमुखः ॥१७ वाणपाणिर्महातेजा मनुसूनुः प्रतापवान् । निशितेनापि बाणेन अर्धचन्द्रानुकारिणा ॥ १८ राज्ञा हनः पपातोा विद्धोरस्को महात्मना । ममार सहसा भूमौ पपात स हि शूकरः ॥ १९ पुत्रमोहात्परं विना तस्योपरि गता स्वयम् । तया च निहताः शूरास्तुण्डघातैमहीतले ॥ २० निपेतुर्लुब्धकाः शूराः कति नष्टा मृता नृप । द्रावयन्ती महत्सैन्यं दंष्ट्रया शूकरी ततः ॥ २१ यथा कृत्या समुद्भता महाभयविदायिका । तमुवाच ततो राजी देवराजसुता प्रिया ॥ २२ अनया निहतं राजन्महत्सैन्यं तवैव हि । कस्मादुपक्षसे कान्त तन्मे त्वं कारणं वद ॥ २३ तामुवाच महाराजो नाहं हन्मि इमां स्त्रियम् । महादोष(पः)पिये दृष्टं (टः)स्त्रीवधे दैवतैः किल२४ तस्मान्न घातये नारी प्रेषयेऽहं न कंचन । अस्या वधनिमित्तार्थे पापादिभेमि सुन्दरि ॥ २५ एवमुक्त्वा तदा राजा विरराम महामतिः । लुब्धको भार्गवो नाम ददृशे से तु शूकरीम् ॥ २६ कुवेती कदनं तेपां दुःसहां सुभटेरपि । प्रविव्याध सुवेगेन वाणेन निशितेन हि ॥ संलग्नेन सुवाणेन शोणितेन परिघुता । शोभमाना त्वरं प्राप्ता वीरश्रिया समाकुला ॥ २८ तुण्डन निहतं संख्ये झंझेरं तु तया पुनः। पतमानन तेनापि झणझणहता तदा ॥ २९ खड़गेन निशितेनापि पपान विदलीकृता । श्वसमाना रणे राजन्मूर्छा याति परिष्ठुता ॥ ३० दुःखेन महताऽऽविष्टा जीवमाना महीनले ।।
इति श्रीमहापुराणे पाझे भमिग्वण्डे सुकलाचरिने पनचत्वारिशोऽध्यायः ॥ ४ ॥
आदितः श्लोकानां समष्ट्यङ्काः--५६०४
२७
अथ पटचत्वारिशोऽध्यायः ।
सुकलोवाचश्वमती शूकरीं दृष्ट्वा पतितां पुत्रवत्सलाम् । मुंदेवा कृपयाऽऽविष्टा गता तां दुःखितां प्रति ॥१ अभिपिय मुखं तस्याः शीतलनोदकेन वा । पुनः सर्वाङ्गमेवापि दुःखितां रणशालिनीम् ॥ २ पुण्यतोयेन शीतेन सा उवाचाभिपिश्चतीम्। [उवाच मानुषीं वाचं सुस्वरं नृपतेः प्रियाम् ॥ ३ भद्रं भवतु ते देवि त्वभिपिक्ता त्वया यदि । संस्पर्शादर्शनात्तेऽद्य गतो में पापसंचयः ॥ ४ तदाकर्ण्य महद्वाक्यमद्भुताकारसंयुतम् । चित्रमेतन्मया दृष्टं कृतं त्रेतानयं(?)कदा ॥ ५
* एशिदान्तर्गतः पाठः क. ख. ग. घ. १. च. झ. 2. इ. द. पुस्तकस्थः । १ ज. राः । प्रासश्च तोम । २ छ. तीक्ष्णः शरैश्च । ३ ग. घ. ट. इ. ध खुरः । दं। ४ ज. ताः । अन्ये खुराग्र. निहताः शू । ५ज. 'ख्य राज्ञा तेन म। ६ इ. ८. 'त्रशोकात्प। ७ ग. भृगुवा । ८ ग. सु तु सुन्दरीम् । ज. शरसुन्दरीम् । ९ ग. घ. ट. कटेन । ज. दंदया। १० ग. घ. भृगवं । ज. इ. भृगुवान् । ११ इ. द. झर्झरेण ह। १२ ज. विह्वली' । १३ ग. घ. सुरुचा। १४ ग. घ. ज. ट. 'च्य खुरांस्तस्याः । १५ ज. शुकरीं । १६ ज. मुदेवा । १७ ज. भवेश्च मे दें। १८ जटं सुकृत तर्कये यथा । प ।
Page #222
--------------------------------------------------------------------------
________________
२१६
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डे[* पशुजातिमती चेयं सौष्ठवं भाषते स्फुटम् । ] स्वरव्यञ्जनसंपन्न संस्कृतमुत्तमं मम ॥ ६ हर्षेण विस्मयेनापि कृत्वा साहसमुत्तमम् । तत्रस्था सा महाभागा तं पतिं वाक्यमब्रवीत् ॥ ७ पश्य राजन्नपूर्वेयं संस्कृतं भाषते महत् । पशुयोनिगता चेयं यथा वै मानुषी वदेत् ॥ ८ तदाकर्ण्य ततो राजा सर्वज्ञानवतां वरः। अद्भुतमद्भुताकारं यन्न दृष्टं श्रुतं मया ॥ तामुवाच ततो राजा सुभियां सुश्रवां तदा । पृच्छ चैनां शुभां कान्ते का चेयं तु भविष्यति?. श्रुत्वा तु नृपतेर्वाक्यं सा पप्रच्छ च शूकरीम् । का भविष्यसि त्वं भद्रे चित्रं ते दृश्यते बहु ११ पशुयोनिगता त्वं वै भाषसे मानुषं वचः । सौष्ठवं ज्ञानसंपन्नं वद मे पूर्वचेष्टितम् ॥ १२ भर्तुश्चापि महाभागे भटस्यापि महात्मनः । कोऽयं पूर्व महावीर्यो गतः स्वर्ग पराक्रमैः॥ १३ आत्मनश्च सुभर्तुश्च सर्व पूर्वानुगं वद । एवमुक्त्वा महामार्गा विरराम नृपोत्तम ॥ १४
शूकर्युवाचयदि पृच्छसि मां भद्रे ममास्य च महात्मनः । तन्सर्व ते प्रवक्ष्यामि चरितं पूर्वचेष्टितम् ॥ १५ अयं पूर्व महामाज्ञो गन्धर्वो गीतपण्डितः । रङ्गविद्याधरो नाम सर्वशास्त्रार्थकोविदः ॥ १६ मेरुं गिरिवरश्रेष्ठं चारुकन्दरनिर्झरम् । तमाश्रित्य महातेजाः पुलस्त्या मुनिसत्तमः ॥ १७ तपश्चचार तेजस्वी निळलीकेन चेतसा । रङ्गविद्याधरस्तत्र संगतः स्वेच्छया शुभे ॥ १८ वृक्षच्छायां समाश्रित्य गीतमभ्यसते तदा । स्वरतालसमापतं लयमानसमन्वितम् ॥ तेत्तु श्रुत्वा मुनिस्तस्य ध्यानाञ्चलितमानसः । गायन्तं तमुवाचेदं गीतविद्याधरं प्रति ॥ २० भवद्गीतेन दिव्येन देवा मुह्यन्ति नान्यथा । सुस्वरेण सुपुण्येन तालमानन पण्डित ॥ लययुक्तेन भावेन मूर्छनासहितेन च । मे मनः स्खलितं ध्यानाद्गीतनानेन सुव्रत ॥ २२ इदं स्थान परित्यज्य अन्यत्स्थानं व्रजस्व ह ।।
गीतविद्याधर उवाचआत्मज्ञानसमां विद्यामहमत्र प्रसाधये । दुःखं न दमि कस्यापि सुख लोकेषु सर्वदा ॥ २४ गीतेनानेन दिव्येन सर्वास्तुष्यन्ति देवताः। शंभुश्वापि समानीतो गीतबनिरतो द्विज ॥ २५ गीतं सर्वरसं प्रोक्तं गीतमानन्ददायकम् । शृङ्गाराद्या रसाः सर्वे गीतनापि प्रतिष्ठिताः ॥ २६ शोभामायान्ति गीतेन वेदाश्चत्वार उत्तम । गीतन देवताः सर्वास्तापमायान्ति नान्यथा ॥ २७ तदेवं निन्दसे गीतमामेवं परिवादयः । न न्यायाऽयं महाभाग तवैव इह दृश्यते ॥ २८
पुलस्त्य उवाचसत्यमुक्तं त्वयाऽद्यैव गीतार्थे बहुपुण्यदम् । शृणु त्वं मामकं वाक्यं मानं त्यज महामने । २० नाहं गीतं प्रकुत्सामि गीतं वन्दामि नान्यथा । विद्याश्चतुर्दश सर्वा एकभावेन भाविताः ॥ ३०
* एतच्चिदान्तर्गतः पाठो ग. घ. ज. ट. ड पुस्तकस्थः । १ ज. ड. पि दृष्ट्वाऽऽश्चर्यमनुत्त । २ ज. च मुदेवां तु स्वप्रियां हृष्टमानमः । पृ । ३ ग.ट. सुरुचां । १ ग.घ. मि भद्रं ते चि । ५१ राजपत्नी । ६ ज. 'गा सुदेवा विरराम ह । श। ७ ग. घ. ज. ट. ड. 'वविद्यार्थ । ८ ग. घ. ट. ड. "निर्भर। ज. तच्च श्रुत्वा मुनिर्गीतं ध्या। १० ग. घ. ज. ट. ड. द रङ्गवि । ११ ग.घ. 'त । नय । १२ ज.ड. सर्वतः । १३ ग. घ. विद्याधर । ज. रडाविद्याधर । १४ ग. ड. आत्मजातिस । ज. आत्मजातिसमां विद्या महत्तम प्र। १५ ग. घ ज. ट. ड.पि मुन लोकस्य स । १६ ज न तुष्यन्ति देवताः सदा । शं । १७ ग, घ, अ.ट. ड. त्याज्यों । १८ घ. ज. वदामि । इ. विन्दामि ।
-
-
-
Page #223
--------------------------------------------------------------------------
________________
४६ षट्चत्वारिंशोऽध्यायः] पद्मपुराणम् ।
२१७ प्राणिनां सिद्धिमायान्ति मनसा निश्चलेन च । तपश्च तद्वन्मत्राश्च सिध्यन्त एकचिन्तया ॥ ३१ इपीकाणां महावर्गश्चपलोऽयमसंमतः । विषयेष्वेव सर्वेषु नयत्यात्मानं सर्वदा ॥ ३२ चालयित्वा मनस्तस्माख्यानादेव न संशयः । यत्र शब्द न रूपं च युवती नैव तिष्ठति ॥ ३३ मनयस्तत्र गच्छन्ति तपःसिद्ध्यर्थ हेतवे । अयं गीतः पुनीतस्ते बहुसौख्यमदायकः॥ ३४ तपसे मर्वदा वीर तिष्ठामो वनसंस्थिताः । अन्यस्थानं प्रयाहि त्वं नो वा वयं व्रजामहे ॥ ३५
गीतविद्याधर उवाचइन्द्रियाणां बलं वर्ग जितं येन महात्मना । सनपाः कथ्यते योगी स च धीरः स साधकः।।३६ शनं श्रुत्वाऽथ वा दृष्ट्वा रूपमेवं महामते । चलने नैव यो ध्यानात्स धीरस्तपसाधकः ।। ३७ भवन्तस्तेजसा हीना जितेन्द्रियास्तु नान्यथा । स्वर्गेऽपि नास्ति सामर्थ्य मम गीतस्य दूषणे ३८ वर्जयन्ति वनं सर्व हीनवीर्या न मंशयः । इदं माधारणं विप्र वनमेव न संशयः ॥ ३९ देवानां सर्वजीवानां यथा मम तथा तव । कथं गच्छाम्यहं त्यक्त्वा वनमेवमनुत्तमम् ॥ ४० यूयं गच्छन्तु तिष्ठन्तु यद्भव्यं तत्तु नान्यथा । एवमाभाष्य नं विषं गीतविद्याधरस्तर्दा ॥ ४१ समाकर्ण्य ततस्तेन मुनिना नस्य उत्तरम् । चिन्तयामास मेधावी किं कृत्वा सुकृतं भवेत् ॥ ४२ क्षमां कृत्वा जगामाथ अन्यत्स्थानं द्विजोत्तमः । तपश्चचार धर्मान्मा योगासनगतः मदा ॥ ४३ कामं क्रोधं परित्यज्य मोहं लोभं तथैव च । सर्वेन्द्रियाणि संयम्य मनसा सममेव च ॥ एवं स्थितस्तदा योगी पुलस्त्यो मुनिसत्तमः ।।
सुकलोवाच --- गते तस्मिन्महाभागे पुलस्त्य मुनिपुङ्गव । कालादिष्टन तेनापि गीतविद्याधरण च ॥ चिन्तिनं सुचिरं कालं नष्टोऽयं हि भयान्मम । क गतस्तिष्ठते कापि किं करोति कथं च संः ४६ ज्ञात्वाऽयमात्मजं तेन एकान्तवतशालिनम् । गतो वगहरूपेण तस्याऽऽश्रममनुत्तमम् ॥ ४७ आसनस्थं महात्मानं तेजोज्वालासमाविलम् । दृष्ट्वा चकार व क्षाभं विप्रस्य तस्य भामिनि।।४८ धर्षयेन्नियतं विमं तुण्डाग्रेण कुचेष्टया । पशुं ज्ञात्वा महागज क्षमते तस्य दुप्कृतम् ॥ ४९ मूत्रते पुरतो गत्वा विष्ठां च कुरुने तनः । नृत्य क्रीडते तत्र पतन प्राङ्गणे पुनः॥ ५० पशुं ज्ञात्वा परित्यक्तो मनिना तेन भूपते । एकदा तु तदाऽऽयातस्तेन रूपेण वै पुनः॥ ५१ अट्टाहासेन पुन:स्यमेवं कृतं तदा । रोदनं च कृतं तत्र गीतं गायति सुस्वरम् ॥ ५२ चालयेत्तं तथा विमं गीतविद्याधगे नृप । चेष्टितं तस्य वै दृष्ट्वा घोणी एप भवेन हि ॥ ५३ ज्ञात्वा तस्य तु वृत्तान्तमामेवं परिचालयेत् । पशुं ज्ञात्वा मया त्यक्तो दुष्ट एष सुनिघृणः ॥ ५४ एवं ज्ञात्वा महात्मानं गन्धर्वाधममेव हि । चुकोप मुनिशार्दूलस्तं शशाप महामतिः ।। ५५ यस्माच्छुकररूपेण मामेवं परिचालयः । तस्माद्वज महापाप योनि चैव च शौकरीम् ॥ ५६ शप्तस्तेनापि विप्रेण गतो देवं पुरंदरम् । तमुवाच महात्मानं कम्पमानो वरानने ॥ ५७ शृणु वाक्यं महस्राक्ष तव वाक्यं कृतं मया । तप एव हि कुर्वन्तं दारुणं मुनिपुंगवम् ॥ ५८
१ ग घ. 'तः प्रणीत । २ ज. 'च-जितन्द्रियस्तु व योगी तपते सर्वदाऽऽत्म। ३ ज. धीरः कृच्छ्रमा । ४ ग. घ. वरं । ५ ग.घ.ट.ड. यच्छ्रेष्ठ तत्प्रकुर्वताम् । ए । ज. यथेष्टं तत्प्रकुर्वताम् । ए ६ ज. दा । विरराम मुनिश्चापि श्रुत्वा तस्य तथोत्त । ७ ज. सः। गत्वा प्रतापयाम्येनमकान्त कृच्छशालि'। ८ क. ख. ग. घ. ड. च. छ. ह. ढ. 'त्वा पद्मात्म।
ज. ट. आश्रमस्थं । १. ज. विघ्नं । ११ अ. प्रावृणे । १२ ज. 'दा स तु दुष्टात्मा तेन । १३ ड ण देवरूपं प्रणाशिवम् । तस्मात्स्थानादत: सोऽपि प्रणनाम प। १४ क.ख. ग. घ.. घ. छ.स. ट... कार्य।
Page #224
--------------------------------------------------------------------------
________________
२१८ महामुनिश्रीव्यासपणीत
[२ भूमिखण्डेतस्मात्तपःप्रभावं तं चालितं क्षोभितं मया । शप्तस्तेनास्मि विप्रेण देवरूपं प्रणाशितम् ॥ ५९ पशुयोनिं गतं चेन्द्र मामे परिरक्षय । ज्ञात्वा तस्य स वृत्तान्तं गीतविद्याधरस्य च ॥ ६० तेन साधं गतश्चेन्द्रस्तं मुनि प्रत्यभाषत । दीयतामनुग्रहो नाथ सुसिद्धोऽसि द्विजोत्तम ॥ क्षम्यतामस्य वै पापं यदनेन हि ते कृतम् ॥
पुलस्त्य उवाचवचनात्तव देवेश क्षन्तव्यं च मयाऽपि हि । भविष्यति महाराज मनुपुत्रो महाबलः ॥ ६२ इक्ष्वाकुर्नाम धर्मात्मा सर्वधर्मानुपालकः । तस्य हस्तायदा मृत्युरस्यैव च भविष्यति ॥ ६३ तदेष वै स्वकं देहं प्राप्स्यते नात्र संशयः । एतत्ते सर्ववृत्तान्तं तैव चैव निवेदितम् ॥ ६४ आत्मनश्च प्रवक्ष्यामि पत्या साधं शृणुष्व हि । मया च पातकं घोरं यत्कृतं पापया पुरा ॥ ६५ इति श्रीमहापुराणे पाझे मिखण्डे वेनोपाख्याने मुकलाचरिते षटचत्वारिंशोऽध्यायः ॥ ४६ ॥
आदितः श्लोकानां समयङ्काः-५६६९
अथ सप्तचत्वारिंशोऽध्यायः ।
मुकलोवाच---- मुंश्रवा चारुसर्वाङ्गी तामुवाचाथ शूकरीम् । पशुयोनिं गता त्वं हि [*कथं वदमि मंस्कृतम् ।। १ एवंविधं महाज्ञानं कस्मातं वदस्व मे । कथं जानामि वै भर्नुश्चरितमात्मनः शुभे ।। २
भूकर्युवाच--- पँशार्भावेन मोहन मुष्टाऽह वरवर्णिनि ] । निहता खडबाणेश्च पतिता रणमूर्धनि ॥ ३ मूर्छाऽभिपरिक्लिन्ना ज्ञानहीना वरानने । त्वयाऽभिषिक्ता तोयेन पुण्यहस्तेन सुन्दरि ॥ ४ पुण्योदकेन शीतेन तव हस्तगतेन वे । अभिषिक्ते हि मे काये मोहो नष्टां विहाय माम् ॥ ५ यथा भानोः सुतेजोभिरन्धकारः प्रयाति सः। तथा तवाभिषेकेण मम पापं गतं भुभे ॥ ६ प्रसादात्तव चार्वणि लब्धं ज्ञानं पुरातनम् । पुण्यां गतिं प्रयास्यामि इति ज्ञातं मया शुभे ॥ ७ श्रूयतामभिधास्यामि पूर्ववृत्तान्तमात्मनः । यत्कृतं तु मया भद्रे पापया दुष्कृतं बहु ॥ ८ कलिङ्गाख्ये शुभे देशे श्रीपुरं नाम पत्तनम् । सर्वसिद्धिसमाकीर्ण चतुर्वर्णनिषेवितम् ॥ वसति स्म द्विजः कश्चिद्वसुदत्तेति नामतः । ब्रह्माचारपरो नित्यं सत्यधर्मपरायणः॥ १० वेदेवत्ता ज्ञानवेत्ता शुचिष्मानगुणवान्धनी । धनधान्यसमाकीर्णः पुत्रपौत्रैरलंकृतः॥ ११ तस्याहं तु सुता भद्रे सौदरेः स्वजनवान्धवैः। अलंकारः सुशृङ्गारेभूषिताऽस्मि वरानने ।। १२ सुदेवा नाम मे तातश्चकार स महामतिः। तस्याहं दयिता नित्यं पितुश्चापि महात्मनः ॥ १३ रूपेणापतिमा जाता संसारे नास्ति तादृशी । रूपयौवनगर्वेण मत्ताऽहं चारुहासिनी ॥ १४
* एतच्चिदान्तर्गतः पाठो ग. घ. ज. ट. ड पुस्तकस्थः । . ज. स्मात्तु तपसे विप्रश्चालितः क्षोभितो मया । २ ग, घ. ज. ट. ड 'र्मार्थपा। ३ ग. घ. ज, तस्य देवि नि'। ४ ज. 'तं पूर्वजन्मनि । ई।५ ग. घ. ज. ड. सुदेवा । ८. सुरुचा । ६ ड. दृशम् । ७ इ. पशुयोगेन । ८ ग. घ. ज. द. ड. 'याऽतिपरिच्छिन्ना । ९ क. 'म् । तस्मिातो वराकस्म नाना वसुदत्ते न सः । १० ट. 'श्चिद्वासुदेवेति । ११ ज. ब्रह्मचर्यप। १२ घ. घ. ज. ड. वेदवेदान्तवेत्ताऽसौ शु। १३ ग. घ. 'ने । वसुदेवा ततो नाम चका। ज. ने । वसुदेवति मे नाम चका। द.'ने । वासुदेवस्ततो नाम चका। ह.'ने । मुदेवेति च मे नाम चका।
Page #225
--------------------------------------------------------------------------
________________
२१९
४७ सप्तचत्वारिंशोऽध्यायः ]
पद्मपुराणम् । अहं कन्या सुरूपा वै सर्वालंकारशोभिता । मां दृष्ट्वा तु ततो लोकाः सर्वे स्वजनवर्गकाः ॥ १५ मामेवं याचमानास्ते विवाहार्थं वरानने । याचिताऽहं द्विजैः सर्वैर्न ददाति पिता मम ॥ ११ स्नेहाच्चैव महाभागे सुमोहाच महामतिः । न दत्ताऽहं तदा तेन पित्रा 'चैव महात्मना ॥ १७ संप्राप्तं यौवनं बाल्ये मयि भावसमन्वितम् । रूपं मे तादृशं दृष्ट्वा मम माता सुदुःखिता ॥ १८ पितरं मे ह्युवाचाथ कस्मात्कन्या न दीयते । त्वं कस्मै मुद्विजायैव ब्राह्मणाय महात्मने ।। १९ देहि कन्यां महाभाग संप्राप्ता यौवनं त्वियम् । वेमुदत्तो द्विज श्रेष्ठः प्रत्युवाच द्विजोत्तमः ॥ २० मातरं मे महाभागां श्रूयतां वचनं मम । महामोहेन मुग्धोऽस्मि सुताया वरवणिनि ॥ २१ यो मे गृहस्थो विमो वै भविष्यति शुभे शृणु । तस्मै कन्यां प्रदास्यामि जामात्रे च न संशयः२२ [*मम प्राणात्प्रिया चेर्य सुदेवा नात्र संशयः । एवमुक्त्वा मदर्थ स विरराम पिता मम।।] २३ कौशिकस्य कुले जातः सर्वविद्याविशारदः । ब्राह्मणानां गुणैर्युक्तः शीलवान्गुणवाशुचिः॥२४ वेदाध्ययनसंपन्नं पठमानं हि सुस्वरम् । भिक्षार्थ द्वारमायान्तं पितृमातृविवर्जितम् ॥ २५ तं दृष्ट्वा समनुप्राप्तं रूपवन्तं महामतिम् । तं पप्रच्छ पिता चैवं को भवान्दै भविष्यसि ॥ २६ किं ते नाम कुलं मोत्रमाचारं वद सांप्रतम् । समाकर्ण्य पितुर्वाक्यं वसुदत्तमुवाच सः॥ २७ कौशिकस्यान्वये जातो वेदवेदाङ्गपारगः । शिवशर्मेति मे नाम पितृमातृविवर्जितः ॥ २८ सन्ति मे भ्रातरश्चान्ये चत्वारो वेदपारगाः। [ 'एवं कुलं समाख्यातमाचारं कुलसंभवम्॥२९ एवं सर्व समाख्यातं पितरं शिवशर्मणा । शुभे लग्ने तिथौ प्राप्ते नक्षत्रे भगदेवते ॥ ३० पित्रा दत्ताऽस्मि सुभगे तस्मै विप्राय वै तदा । पितृगेहं वसाम्येका तेन सार्धं महात्मना ॥ ३१ नेव शुश्रूषितो भर्ता मया स पापया तदा । पितृमातृसुंद्रव्येण गर्वेणापि प्रमोहिता ॥ १२ अङ्गसंवाहनं तस्य न कृतं हि मया कदा । रतिभावेन स्नेहेन वचनेन मया शुभे ॥ ऋरबुद्ध्या हि दृष्टोऽसौ सर्वदा पापया मया । पुंश्वलीनां प्रसङ्गेन तद्भावं हि गता शुभे॥ ३४ मातापित्रोश्च भर्तुश्च भ्रातृणां हितमेव च । न करोम्यहमेवापि यत्र तत्र व्रजाम्यहम् ॥ ३५ एवं मे दुष्कृतं दृष्ट्वा शिवशर्मा पतिर्मम । स्नेहाच्छ्शुरवर्गस्य मम भर्ता महामतिः॥ ३६ न किंचिदते सोऽपि भमते दुष्कृतं मम । वार्यमाणा कुटुम्बन अहमेव सुपापिनी ॥ ३७ तस्य शीलं विदित्वा ते साधुत्वं शिवशर्मणः । पिता माता त्विमे सर्वे मम पापेन दुःखिताः।।३८ भर्ता मे दुष्कृतं दृष्ट्वा तस्य गृहाद्विनिर्गतः । तं देशं ग्राममेवं हि परित्यज्य गतस्ततः ॥ ३९ गते भर्तरि मे तातः संजातश्चिन्तयाऽन्वितः । मम दुःखेन दुःखात्मा यथा रोगेण पीडितः॥४० मम माता उवाचैव भर्तारं दःखपीडितम् । कस्माञ्चिन्तयसे कान्त वद दुःखं ममाग्रतः॥ ४१ वसुदत्त उवाचैनां मातरं मम संमुखः । सुतां त्यक्त्वा गतो विमो जामाता शृणु वल्लभे॥ ४२ इयं पापसमाचारा निघृणा पापचारिणी । अनया हि परित्यक्तः शिवशर्मा महामतिः ॥ ४३
* एतचिहान्तर्गतः पाठो ग. घ. हु. छ. स.ट. पुस्तकस्थः। एतचिहान्तगत: पाठी ग. घ. ज.ट. ह. पुस्तकस्थः ।
१ ज. मम । २ ग, घ ज. ट. 'ल्ये वयमा चस। ड. ल्ये मदभा। ३. 'ते। यौवनस्था त्वया कान्त बा। ४ ज. म् । तच्छ्रत्वा वसुदत्तोऽसौ प्र । ५ ट. वासुदेवो। ६ ज. 'यं वसुदेवा न सं। ७ ग. घ. इ. छ. स. वसुदत्तः । 2. वासुदेवः । ८ ड. 'वान्रूपवा । ९८. सस्वरम् । १० ८. ज. द. महामतिः । ११ ज. म् । पप्रच्छ च कुलं शील कन्यादानार्थमेव त।१२ ग. घ. ज.मे पित' । १३ ग. घ. ज. ट. 'मुभद्रेण । १४ ज. 'ता भ्रातरश्च म । १५ ग. घ. ज. ट. ड. 'याऽपि । १६ ग, घ, ज. ट. महामुनिः ।
Page #226
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[२ भूमिखण्डेसमस्तस्य कुटुम्बस्य दाक्षिण्येन महामतिः । ममायं स द्विजः कान्ते सुदेवां नैव भाषते ॥ ४४ वैसते सौम्यभावेन नैव निन्दति कुत्सति । सुदेवां पापसंचारां स वै पण्डितबुद्धिमानं ॥ ४५ भविष्यति त्वियं दुष्टा सुदेवा कुलनाशिनी । अहमेनां परित्यक्ष्ये ब्रह्माचारविनाशिनीम् ॥ ४६
ब्राह्मण्युवाचअद्य ज्ञातं त्वया कान्त सुताया गुणदृषणम् । तब मोहेन स्नेहेन नष्टेयं शृणु सांप्रतम् ॥ ४७ अपत्यं लालयेत्तावद्यावत्पश्चमवार्षिकम् । शिक्षाबुद्ध्या सदा कान्त पुनर्मोहेन पोषयेत् ॥ ४८ स्नानाच्छादनभक्ष्यैश्च भोज्यैः पेयेर्न संशयः । गुणेषु योजयेत्कान्त सद्विद्यासु च तान्सुनान ४९ गुणशिक्षार्थनिर्मोहः पिता भवति सर्वदा । पालने पोषणे कान्त संमोहः परिजायते ॥ ५० गुणं न वर्णयेत्पुत्रं कुत्सयेच्च दिने दिने । कठिनं च वदेत्रित्यं [*वचनैः परिपीडयेत् ॥ ५१ यथा हि साधयेन्नित्यं] सुविद्यां ज्ञानतत्परः । अभिमाने छलेनापि पापं त्यज्य प्रदूरतः ॥ निपुणो जायते नित्यं विद्यासु च गुणेषु च ॥ माता च ताडयेत्कन्यां स्नुषां श्वश्रूश्च ताडयेत् । गुरुश्च ताडयेच्छिप्यं ततः सिध्यति नान्यथा ५३ भायों च ताडयेत्कान्तो ह्यमात्यं नृपतिस्तथा । हयं च वाहयेद्वीरो गजं मात्री दिने दिने ॥ ५४ शिक्षाबुद्ध्या प्रसिध्यन्ति ताडनान्पालनाद्विभो । त्वयेयं नाशिता नाथ सर्वदेव न संशयः ॥ ५५ साधे सुब्राह्मणेनापि भवता शिवशमेणा । निरङ्कशा कृता गहे तेन नष्टा महामते ॥ ५६ तावद्धि धारयेत्कन्यां गृहे कान्त वचः शृणु । अष्टवर्षान्विता यावत्मबलां नैव धारयेत् ॥ ५७ पितुर्गेहे स्थिता पुत्री यत्पापं हि प्रकुर्वते । उभाभ्यामपि तद्याति त्वेनस्ताभ्यामपि ध्रुवम् ॥ ५८ तस्मान्न धारयेत्पुत्री समर्थी निजमन्दिरे । यस्य दत्ता भवत्मा वे तस्य गह प्रपाषयत् ॥ ५९ ['तत्र यत्माधयेत्कान्त सगुणं भक्तिपूर्वकम् । कुलस्य जायते कीर्तिः पिता सुखेन जीवति।। ६० तत्रस्था कुरुते पापं तत्पापं भुञ्जते पतिः । तत्रस्था वर्धते नित्यं पुत्रः पोत्रः सदेव सा ॥ ६१ पिता कीर्तिमवामोति सुतायाः सुगुणः प्रिय । तस्मान्न धारयन्कान्त गेहे पुत्री सभर्तृकाम् ६२ इत्यर्थे श्रूयते कान्त इतिहास (सी) भविष्यति । अष्टाविंशनिक प्राप्त युग द्वापरके महत ॥ ६३ उग्रसेनस्य वीरस्य यदुज्येष्ठस्य यत्प्रभो । चरित्रं ते प्रवक्ष्यामि शृणुर्वकमना द्विज ॥ ६४ इति श्रीमहापुगणे पाये भमिखण्डे वेनोपाख्यान सुकलाचरितं सप्तचत्वारिशोऽध्यायः ॥ ४ ॥
__ आदितः श्लोकानां समष्ट्यङ्काः-५७३३
अथाष्टचत्वारिंशोऽध्यायः ।
ब्राह्मण्युवाच-- मायुरे विषये रम्य मथुरायां नृपोत्तमः । उग्रसनेति विख्याती यादवः परवीरहा ।।
* एतचिहान्तर्गतः पाटो ग. घ. ज. ट. ड पुस्तकस्थः । । एञ्चिहान्तर्गतः पाठः क. ख. ग. घ. ड. च. छ. झ. ट. इ. ८. पुस्तकस्थः ।
१ज. 'यं गौरवात्कान्ते। २ ग. घ. ज. ट. ड. वदते । ३ ज. 'न नवनां परिकु । ४ न. ति । वसुदेवा पापवृत्ति ज्ञात्वाऽसी पण्डितो द्विजः । म'। ५ ज.न् । किं भविष्यात मे पण्यमनया पापवृत्तया। अहमेनां परित्यक्ष्ये यम ब्रह्मवि. नाशिनी ।मा । ६ द. पुत्रान्मोहे । ७. लालने । ८ ज. 'ते । मुगणं ९ ग. घ. ज. ट. कुत्सितं । १.ट. शिक्ष्या बुं। ६।११ ग. घ. ज. ट. इ. प्रवासयें। १२ क. सह । ग. घ. ज. ट. किल । १३ ज. के तदा । उ।
Page #227
--------------------------------------------------------------------------
________________
४९ एकोनपञ्चाशत्तमोऽध्यायः ] पवपुराणम् ।
२२१ सर्वधर्मार्थतत्त्वज्ञो वेदशः श्रुतवान्बली । दाता भोक्ता गुणग्राही सगुणान्वेत्ति भूपतिः॥ २ राज्यं चकार मेधावी प्रजा धर्मेण पालयेत् । एवमेव महातेजा उग्रसेनः प्रतापवान् ॥ ३ वैदर्भविषये पुण्ये सत्यकेतुः प्रतापवान् । तस्य कन्या महाभागा पद्माक्षी कमलानना ॥ ४ नाम्ना पद्मावती नाम सत्यधर्मपरायणा । सा स्त्रीणां च गुणयुक्ता द्वितीयेव समुद्रजा ॥ ५ वैदर्भी शुशुभे राजस्वगुणैः सत्यकारणैः । माथुरस्तूग्रसेनस्तु ह्युपयेमे सुलोचनाम् ॥ ६ तया सह महाभागः सुखं रेमे प्रतापवान् । अतिप्रीतो गुणैस्तस्यास्तया सह सुखी भवेत् ।। ७ तस्याः स्नेहेन प्रीत्या वै स मुग्धो मथुरेश्वरः । पद्मावती महाभाग तस्य प्राणप्रियाऽभवत् ॥ ८ तया विना न बुभुजे तया सह प्रक्रीडयेत् । तया विना न वै लेभे परमं सुखमेव सः॥ ९ एवं प्रीतिकरौ जातो परस्परमनुत्तमौ । स्नेहवन्तौ द्विनश्रेष्ठ सुखसंप्रीतिदायको ॥ १० सत्यकेतुश्च राजेन्द्रः सस्मार स पद्यावतीम् । स्वसुतां तां महाभागां माता तस्याः सुदुःखिता॥११ सा दूतान्प्रेषयामास वैदर्भी माथुरं प्रति । उग्रसेनं नृवीरेन्द्र सादरेण द्विजोतम ॥ १२ गत्वा दूतोऽथ मथुरां राजानं वाक्यमब्रवीत् । विदर्भाधिपतिं भक्त्या स स्नेहेन न्यवेदयत् ॥१३ आत्मनः कुशलं घूते भवतां परिपृच्छति । सत्यकेतुर्महाराज त्वामेवं परिस्निग्धवान् ॥ १४ दर्शनाय सुतां चाऽऽर्य पद्यावतीं च प्रेषय । यदि त्वं मन्यसे नाथ प्रीतिस्नेह हि तस्य च ॥१५ प्रेषयस्व महाभागां तव प्रीतिकरां सदा । औत्सुक्येन महाराज सा शोकेनानुवर्तते ॥ १६ समाकर्ण्य ततो वाक्यमुग्रसेनो नरोत्तमः । पीत्या स्नेहेन तस्यापि सत्यकेतोर्महात्मनः ॥ १७ दाक्षिण्येन च विप्रेन्द्र प्रेषयामास भूपतिः । पद्मावती पियां भार्यामुग्रसेनः प्रतापवान् ॥ १८ प्रेषिता तेन राजेन्द्र गता पद्मावती स्वकम् । पूर्व गृहं सती सा तु महाहर्षेण संयुता ॥ १९ पितृपूर्व कुटुम्बं तु ददृशे चारुमङ्गला । पितुः पादौ ननामाथ शिरसा सत्यतत्परा ॥ २० आगतायां महाराज पद्मावत्यां द्विजोत्तम । हर्षेण महताऽऽविष्टो विदर्भाधिपतिपः॥ २१ वर्धिता मानंदानेश्च वस्त्रालंकारभूषणः । पद्मावती मुखेनापि पितुर्गेहे प्रवर्तते ॥ सखीभिः सहिता सा तु निःशवं परिवर्तते । रमते सा तदा तत्र यथापूर्व तथैव च ॥ गृहे वने तडागेषु प्रासादेषु तथैव च । पुनर्वाला बभूवाथ निर्लज्जैव पर्वतेते ॥ निःशङ्का वर्तते विप्र सखीभिः सह सर्वदा । पतिव्रता महाभागा हर्षेण महताऽन्विता ॥ २५ मुखं तु पितृगेहस्य दुर्लभं श्वाशुरे गृहे । एवं ज्ञात्वा तदा रेमे कदा ईदृग्भविष्यति ॥ २६ अनेन मोहभावेन क्रीडालुब्धा वरानना । सखीभिः सहिता नित्यं वनेषूपवने तदा ॥ २७ इति श्रीमहापुराणे पाझे भमिखण्डे वेनोपाख्याने मुकलाचरितेऽटाचत्वारिंशोऽध्यायः ॥ ८ ॥
आदितः श्लोकानां समष्टयङ्काः-५७६०
अर्थकोनपश्चाशत्तमोऽध्यायः ।
ब्राह्मण्युवाचएकदा तु महाभाग गता सा पर्वतोत्तमम् । रमणीयं वनं दृष्ट्वा कदलीखण्डमण्डितम् ॥ १
१ ग घ. ज. वान्वशी । दा'। २ ज. 'णान्वितविग्रहः । रा।३ ग. घ. ट. ड. महासेन । ४ ज. 'जे क्रीढत्येव निरन्तरम् । त। ५ ज. यादवेन्द्र । ६ म. 'तमः । उप्रमेन महाराज रा। उ. 'समः । उग्रमेन स गत्वा तुरा। ७ ज. से वीर श्वश्रोः प्रीतिकरं सदा । । ८ ग. घ. ज. नरेश्वरः । ९ ज. पितुः । १० ग. घ. ट. संकुलम् । ११ ज. महाभाग । १२ ज. नृपोत्तमः । १३ ज. 'तिस्तदा । । १४ ज. 'नदेश्चैव ।१५ ज. व च पूर्ववत् । निः । १६ ज. 'नेषु बजते सदा।
Page #228
--------------------------------------------------------------------------
________________
२२२
." our १ .
महामुनिश्रीव्यासप्रणीत- [२ भूमिखण्डेशालेस्तालेस्तमालैश्च नालिकेरैस्तथोत्कटैः । पूगीफलैर्मातुलुकै रङ्गश्चारुजम्बुकैः ।। चम्पकैः पाटलैः पुण्यैः पुष्पितैः केतकैवरैः । अशोकबकुलोपेतं नानाऔरलंकृतम् ॥ ३ पर्वतं पुष्पवन्तं च पुष्पितैश्च नगोत्तमैः । सर्वत्र शोभितं रम्यं नानाधातुसमाकुलम् ॥ ४ [*गौररम्यतरं दृष्ट्वा तदेव वनमुत्तमम् ] । तडागं सर्वतो भद्रं पुण्यतोयेन पूरितम् ॥ कमलैः पुष्पितैश्वान्यैः सुगन्धैः कनकोत्पलैः । श्वेतोत्पलैविभासन्तं रक्तोत्पलमुपुष्पितैः॥ नीलोत्पलैश्च कलारेईसैश्च जलकुकुरैः । पक्षिभिर्जलजैश्वान्यैर्नानाधातुसमाकुलम् ॥ ७ तडागं सर्वतः शुभ्रं नानापक्षिगणैर्युतम् । कोकिलानां रुतैः पुण्यैः सुखरैः परिशोभितम् ॥ ८ मयूराणां तथा शब्दैः सर्व च मधुरायते । षट्पदानां सुनादेन सर्वत्र परिशोभते ॥ ९ एवंविधं गिरिं रम्यं तदेव वनमुत्तमम् । तडागं सर्वतो भद्रं ददृशे नृपनन्दिनी ॥ १० वैदर्भी क्रीडमाना सा सखीभिः सहिता तदा । समालोक्य वनं पुण्यं सर्वत्र कुसुमाकुलम् ॥११ चापल्येन प्रभावेन स्त्रीभावेन च लीलया । पद्मावती सरस्तीरे सखीभिः सहिता तदा ॥ १२ जलक्रीडासमालीना हंसते गायते पुनः । सुखेन रममाणा सा तस्मिन्सरसि भामिनी ॥ १३ एवं विप्र तदा सा तु सुखेन परिवर्तते । गोभिलो नाम वै दैत्यो भृत्यो वोश्रवणस्य च ॥ १४ दिव्येनापि विमानेन सर्वभोगपरिष्कृतः । याति चाऽऽकाशमार्गेण तडागस्योर्वमागतः॥ १५ तेन दृष्टा विशालाक्षी वेदी निर्भया तदा । सर्वयोषिद्वरा सा हि उग्रसेनस्य वे मिया ॥ १६ रूपेणाप्रतिमा लोके सर्वाङ्गेषु विराजते । रतिर्वे मन्मथस्यापि किं वाऽपीयं हरिप्रिया ॥ १७ किं वाऽपि पार्वती देवी शची किं वा भविष्यति । यादृशी दृश्यते चेयं नारीणामुत्तमा वरा १८ अन्या चेवेशी नास्ति द्वितीया क्षितिमण्डले । नक्षत्रेषु यथा चन्द्रः संपूर्णो भाति शोभन: १९ गुणरूपकलाभिस्तु तथा भाति वरानना । पुष्करेषु यथा हंसस्तथेयं चारुहासिनी ॥ २० अहो रूपमहो भावमस्यास्तु परिदृश्यते । का कस्य शोभना बाला चारुवृत्तपयोधरा ॥ २१ विपश्य गोभिलो दैत्यः पद्मावती वराननाम् । चिन्तयित्वा क्षणं विम का कस्यापि भविष्यति॥ ज्ञानेन महता ज्ञात्वा वैदर्भीति न संशयः । दयिता उग्रसेनस्य पतिव्रतपरायणा ॥ २३
आत्मबलेन तिष्ठन्ती दुष्पाप्या पुरुषेरपि । उग्रसेनो महामूर्खः प्रेषिता येन वे वरा ॥ २४ पितुर्गेहमियं बाला स तु भाग्येन वर्जितः । अनया विना स जीवेच्च कथं कूटमतिः सदा ॥२५ किंवा नपुंसको राजा एनां यो हि परित्यजेत् । तां दृष्ट्वा स तु कामात्मा संजातस्तत्क्षणादपि॥ इयं पतिव्रता बाला दुष्पाप्या पुरुषैरपि । कथं भोक्ष्याम्यहं गत्वा कामोऽति मम पीडयेत् ॥ २७ अभुक्त्वाऽहं यदा यास्ये मृत्युमेम तदा भवेत् । अद्येव हि न संदेहो यतः कामो महाबलः ॥२८ इतिचिन्तापरो भूत्वा उपायं ससृजे तदा । कृत्वा मायामयं रूपमुग्रसेनस्य भूपतेः ॥ २९ यादृशस्तूग्रसेनश्च साङ्गोपाङ्गो महानृपः । गोभिलस्तादृशो भूत्वा गत्या च स्वरभाषया ॥ ३० यथावस्त्रो यथावेषो वयसा च तथा पुनः । दिव्यमालाम्बरधरी दिव्यगन्धानुलेपनः ॥ ३१ सर्वाभरणशोभाको यादृशो माथुरेश्वरः । भूत्वा च तादृशो दैत्य उग्रसेनमयस्तदा ॥ ३२
* एतचिहान्तर्गतोऽयं पाठो ज. पुस्तकस्थः। १ ग. घ. ङ. . ढ. पुष्पैः । २ . द. वटैः । । ३ ज. सन्नेहं । ४ ग. घ. ट. ह. विश्वसिता सा। ५ ग. घ. ज. ट. इ. दैत्यः पुत्रो ३ । ६ ग. घ. ह. ट. इ. ८ परिप्लुतः । ७ ज. मूढमतिः । ८ ग. घ ज. ड. 'माल्याम्म' । ९ ज. शः परिवेश्व।
Page #229
--------------------------------------------------------------------------
________________
५० पञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् ।
२२१ मायया परया युक्तो रूपतारुण्यसंयुतः । पर्वताग्रे अशोकस्य छायामाश्रित्य संस्थितः ॥ ३३ शिलातलस्थो दुष्टात्मा वीणां दण्डेन वार(द)कः। सुस्वरं गायमानस्तु गीतं विश्वप्रमोदनम् ।।३४ तालमानक्रियोपेतं सप्तस्वरविभूषितम् । गीतं गायति दुष्टात्मा तस्या रूपेण मोहितः ॥ ३५ पर्वताग्रे स्थितो विम हर्षेण महताऽन्वितः । सखीमध्यगता सा तु पद्मावती वरानना ॥ ३६ अश्रुवे सुस्वरं गीतं तालमानलयान्वितम् । कोऽयं गायति धर्मात्मा महत्सौख्यप्रदायकम् ॥ ३७ गीतं हि सत्कियोपेतं सर्वभावसमन्वितम् । सखीभिः सहिता गत्वा औत्सुक्येन नृपात्मजा॥३८ अशोकच्छायामाश्रित्य विमलेऽथ शिलातले । दृष्ट्वा भूपालवेषेण गोभिलं दानवाघमम् ॥ ३९ पुष्पमालाम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाभरणशोभाढ्यं पद्मावती पतिव्रता ॥ ४० माथुरेशः समायातः कदा धर्मपरायणः । मम नाथो महात्मा वै राज्यं त्यक्त्वा प्रदूरतः॥ ४१ यावद्विचिन्तयेत्सा च तावत्पापेन तेन मा । समाहूतां सुवस्वा च एहि त्वं हि प्रिये मम ॥ ४२ चकिता शङ्किता सा च कथं भर्ता समागतः। लज्जिता दुःखिता जाता अधः कृत्वा ततो मुखम्४३ अहं पापा दुराचारा निःशङ्का परिवर्तिता । कोपमेवं महाभागः करिष्यति न संशयः ॥ ४४ यावद्धि चिन्तयेत्सा च तावत्तेनापि पापिना। समाहता स्वयं सा च एोहि त्वं मम प्रिये ॥४५ त्वया विना कृतो देवि प्राणान्धर्तु वरानने । न हि शक्नोम्यहं कान्ते जीवितं प्रियमेव च ॥ तव स्नेहेने मुग्धोऽस्मि त्वां त्यक्त्वा नोत्सहे भृशम् ॥
ब्राह्मण्युवाच-- एवमुक्त्वा(क्ता) गता तस्य संमुखी लज्जयाऽन्विता ।समालिङ्ग य ततो दैत्यं सती पद्मावती तदा४७ एकान्तं तु समानीता सुभुक्ता स्वेच्छया ततः दैत्येन गोभिलेनापि सत्यकेतोः सुता तदा ॥४८
सुकलोवाचमुखस्थानेऽस्य संकेतमविन्दन्ती वरानना । स्ववस्त्रं सा परिगृह्य शङ्किता दुःखिताऽभवत् ॥ ४९ सा सक्रोधमुवाचाथ गोभिलं दानवाघमम् । कस्त्वं पापसमाचारो निघृणो दानवाकृतिः ॥ ५० शतुकामा समुद्युक्ता दुःखेनाऽऽकुलितेक्षणा । वेपमाना नदो राजन्दुःखभौरेण पीडिता ॥ ५१ मम कान्तच्छलेनैवं त्वमागतो दुरात्मवान् । नाशितं धर्मवत्कायं पतिव्रतमनुत्तमम् ॥ ५२ सुस्वरं रुदितं कृत्वा मम जन्म त्वया हृतम् । [*पश्य मे बलमत्रैव शापं दास्ये सुदारुणम्॥५३ एवं संभाषमाणां तां शप्नुकामां स गोभिलः ॥ इति श्रीमहापुगणे पाद्म भूमिखण्डे वेनोपाख्याने मुकलाचरित एकोनपचाशत्तमोऽध्यायः ॥ ४५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-५८१४
अथ पधाशनमोऽध्यायः । मुकलोवाच
* एतच्चिदान्तर्गतः पाठो ज. पुस्तकम्थः ।। १ ड. ढ. 'मोहनम् । २ ज. 'तः । स्थितस्ता भोक्तकामस्तु ह। ३ ग. ज. ट. दु. हि मनोपे । ४ ग. ट... 'न चेतसा । ५ अ. ता त्वरंभाव है। ज. 'यः । एनश्चोवाच दैत्येन्द्रश्चिन्तयन्ती तदा स्थिताम् । त्वया विना क्षपन्देवि दिनानि कतिचित्त्वहम् ॥ दीनोऽस्मि सततं भद्रे प्रा। ७ ग. ड. मायिना । ८ ट. ह. क्षणं । छ. झ. ऋतं । ९ग.घ... छ. झ. ड. ढ. 'न लुब्धोऽस्मि । १० ज. मुदा । ११ ग. घ. ज. ट. दारुणाकृ' । १२ ज. 'दाऽत्यर्थ दुः। १३ ग. घ. ट. भावन पी। १४ ज. व आगतस्त्वं सद्ष्टधीः । ना। १५ च स्वरमुदि। १६ ज. हतम् । १७ म. ब्राह्मण्युवाच ।
Page #230
--------------------------------------------------------------------------
________________
२२४ महामुनिश्रीव्यासप्रणीत
[२ भूमिखण्डेतस्यास्तु वचनं श्रुत्वा गोभिलो वाक्यमब्रवीत् । भवती शप्तुकामाऽसि कस्मान्मे कारणं वद ॥१ केन दोषेण लिप्तोऽस्मि यस्मात्त्वं शतुमुद्यता। गोभिलो नाम दैत्योऽस्मि पौलस्त्यस्य भटः शुभेः दैत्याचारेण वर्गमि जाने विद्यामनुत्तमाम् । वेदशास्त्रार्थवेत्ताऽस्मि कलासु निपुणः पुनः ॥ ३ एवं सर्व विजानामि दैत्याचारं शृणुष्व मे । परस्वं परदारांश्च बलाङ्ग्रेञ्जामि नान्यथा ॥ ४ वयं दैत्याः समाकर्ण्य दैत्याचारेण सांप्रतम् । वर्तामो ज्ञातिभावेन सत्यं सत्यं वदाम्यहम् ॥ ५ ब्राह्मणानां हि च्छिद्राणि विपश्यामो दिने दिने। तेषां हि तपसां नाशं विनैः कुर्मो न संशयः६ छिद्रं प्राप्य न संदेहो नाशयामो न संशयः । ब्राह्मणाश्रूयतां भद्रे देवयज्ञं वरानने ॥ ७ नाशयामो वयं यज्ञान्धर्म यज्ञं न संशयः । [*सुब्राह्मणान्परित्यज्य देवं नारायणं प्रभुम् ॥ ८ पतिव्रता महाभागां सुंदती भर्तृतत्पराम् । दूरेणापि परित्यज्य तिष्ठामो नात्र संशयः ॥ ९ तेजो देवि मुविमस्य हरेश्चैव महात्मनः । अन्याः पतिव्रता याश्च शk दैत्याश्च न क्षमाः ॥ १० पतिव्रताभयेनापि विष्णोः सुब्राह्मणस्य च । नश्यन्ति दानवाः सर्वे दूर राक्षसपुंगवाः॥ ११ अहं दानवधर्मेण विचरामि महीतलम् । कस्मात्त्वं शतुकामाऽसि मम दोषो विचार्यताम् ॥ १२
पद्मावत्युवाचमम धर्मः मुकायश्च त्वयेव परिनाशितः । अहं पतिव्रता साध्वी पतिकामा तपस्विनी ॥ १३ स्वमार्गे संस्थिता पाप मायया परिनाशिता । तस्मात्यामप्यहं दुष्ट आधक्ष्यामि न संशयः ॥१४
गोभिल उवाचधर्ममेवं प्रवक्ष्यामि भवती यदि मन्यते । अग्निविद्राह्मणस्यापि श्रूयतां नृपनन्दिनि ॥ १५ जुहोति च त्रिकालं यो न त्यजेदग्निमन्दिरम् । स चाग्निहोत्री भवति यजत्येवं दिन दिने ॥१६ अन्यच्चैवं प्रवक्ष्यामि भृत्यधर्म वरानने । मनसा कमेणा वाचा विशुद्धो यो हि नित्यशः ॥ १७ नित्यमादेशकारी यो भक्ष्यात्तिष्ठति चाग्रतः। स भृत्यः कथ्यते देवि पुण्यभोक्ता न संशयः॥१८ यः पुत्रो गुणवाज्ञाता पितरं पालयेच्छुभः । मातरं च विशेषेण मनसा कायकर्मभिः॥ १९ तस्य भागीरथीस्नानमहन्यहनि जायते । अन्यथा कुरुते यो हि स पापीयान संशयः ॥ २० अन्यच्चैवं प्रवक्ष्यामि पतिव्रतमनुत्तमम् । वाचा सुमनसा चैव कर्मणा शृणु भामिनि ॥ शुश्रूषां कुरुते या हि भर्तुश्चैव दिने दिन । तुष्टे भर्तरि या पीता न त्यजेत्क्रोधनं पुनः ॥ तस्य दोष न गृह्णाति ताडिता तुष्यत पुनः॥ भर्तुः कर्मसु सर्वेषु पुरतस्तिष्ठते सदा । सा चापि कथ्यते नारी पतिव्रतपरायणा ॥ २३ पतितं पितरं पुत्रैबेहुदोषसमन्वितम् । तस्मादपि च न त्याज्यं क्रोधितं कुंष्ठिनं तदा ॥ २४ एवं पुत्राः शुश्रूषन्ति पितरं मातरं किल । ते यान्ति परमं लोकं तद्विप्णाः परमं पदम् ॥ २५ एवं हि स्वामिनं येऽपि उपचर्यन्ति भृत्यकाः । पत्युलॊकं प्रयान्त्येते प्रसादात्स्वामिनस्तदा॥२६
* एतचिहान्तर्गतः पाठः क.ख. हु. च. छ.. ड.इ. पुस्तकस्थः ।
१ ज. 'स्त्यस्यामरः शु। २ ज. दुझे सदा ह्यहम् । व' । ग. घ. ट. ड. 'दुआम्यहं तथा । ३ ड. मुनिभावेन । ४. छ.श. द. सुमातें। ड. सुशीलां। ५ छ. द्विकालं । ६ ड. 'ज्यं कुाष्टनं क्रोधितं त । ७ छ. व्याधिनं। ८ ड. इन्द्रलोकं ।
Page #231
--------------------------------------------------------------------------
________________
५० पञ्चाशत्तमोऽध्यायः ] पअपुराणम् ।
२२५ अनि नैव त्यजेविप्रो ब्रह्मलोकं प्रयाति सः । अग्नित्यागकरो विमो वृषलीपतिरुच्यते ॥ २७ स्वामिद्रोही भवेन्द्रत्यः स्वामित्यागान संशयः। अनि च पितरं चैव न त्यजेत्स्वामिन शुभे २८ व्याज्यं विप्रसुते भृत्यैः सत्यं सत्यं वदाम्यहम् । परित्यज्य प्रगच्छन्ति ते यान्ति नरकार्णवम्२९ पतितं व्याधितं देवि विकलं कुष्टिनं भवेत् । सर्वधर्मविहीनं तु कृतपातकसंचयम् ॥ भर्तारं न त्यजेबारी यदि श्रेय इहेच्छति ॥
प्रत्यक्त्वा कान्तं व्रजेन्नारी अन्यत्कार्यमिहेच्छति । सा स्याद्धि पुंश्चली लोके सर्वधर्मबहिष्कृता३१ गते भर्तरि या ग्रामं भागं शृङ्गारमेव च । लोल्याच कुरुते नारी पुंश्चली वदते जनः ॥ ३२ एवं धर्म विजानामि वेदशास्त्रैश्च संमतम् । दानवा राक्षसाः प्रेता धात्रा सृष्टा यदा तु ते ॥ ३५ तत्ते हि कारणं मर्व प्रवक्ष्यामि न संशयः । ब्राह्मणा दानवेष्विह पिशाचे राक्षसेषु च ॥ ३४ धर्माधर्मफलं प्रोक्तमधीतं तैस्तु सुन्दरि । विन्दन्ति सकलं सर्व आचरन्ति न दोनवाः ॥ ३५ विधिहीनं प्रकुर्वन्ति दानवा ज्ञानजिताः । अन्यायेन वजन्त्येते मानवा विधिवर्जिताः॥ ३६ तेषां संस्कारका धात्रा केतास्ते चापि नान्यथा । विधिहीनं प्रकुर्वन्ति ये तु धर्म नराधमाः ३७ तान्वयं शासयामा वै दण्डेन महता किल । भवत्या दारुणं कर्म कृतमेव सुनिघृणम् ॥ ३८ गार्हस्थ्यं हि परित्यज्य ात्राऽऽयाता किमर्थं वै । वदस्येवं मुखेनापि अहं हि पतिदेवता ॥ ३९ कर्मणा नास्ति तदृष्टं पतिदैवतमेव ते । निःशङ्का वसे सा वे प्रमत्ता गिरिकानने ॥ ४० मया त्वं साधिता पापा दण्डेन महता शृणु । भर्तारं च परित्यज्य किमर्थ त्वमिहाऽऽगता ॥४१ शृङ्गारं भूषणं वेषं कृत्वा निष्ठसि निघणे । किमर्थ हि कृतं पापे कस्य हेतोर्वदस्व मे ॥ ४२ अधर्मचारिणी दुष्टा पतिं त्यक्त्वा समागता । काऽऽस्ते तत्पतिदैवत्वं दर्शय त्वं ममाग्रतः ॥ ४३ भवती पुंश्चली [' नाम यया त्यक्तः स्वकः पतिः। पृथक्शय्या यदा नारी तदा सा पुंश्चली मता] योजनानां शतकस्य अन्तरण प्रवर्तमे । कास्ति ते पतिदेवत्वं पुंश्चल्याचारचारीिण ॥ ४५ निर्लज्जे निघृणे दुष्टे किं मे वदसि संमुखी । तपसः कास्ति ते भावः क तेजो बलमेव च ॥ दर्शयस्व ममाद्यैव बलवीर्यपराक्रमम् ॥
पद्मावत्युवाचस्नेहेनापि समानीता श्रूयताममुगधम । भर्नु हादहं पित्रा काऽऽस्ते तत्र च पातकम् ॥ ४७ नव कामान्न लोभाच्च न माहान च मत्सरात। आगताऽहं परित्यज्य पतिभावेन संस्थिता॥४८ भतृरूपच्छलेनापि त्वयैव परिवश्चिता । भवन्तं माथुरं ज्ञात्वाऽऽगताऽहं संमुखं तव ॥ ४९ मायाविनं यदा जाने त्वामेवं दानवाधम । एकन हुंकृतेनैव भस्मीभूतं करोम्यहम् ॥ ५०
गोभिल उवाच-- चक्षु_ना न पश्यन्ति मानवाः शृणु सांप्रतम् । धर्मनेत्रविहीना त्वं कथं जानासि मामिह ॥५१ यदा ते भाव उत्पन्नः पितुर्गेहं प्रति अणु । पतिभावं परित्यज्य मुक्ता ध्यानेन त्वं तदा ॥ ५२ ज्ञान तत्त्वं यदा नष्टं स्फुटं च हृदयं तव । कथं मां त्वं विजानासि ज्ञानचक्षुईता भुवि ॥ ५३
*एतच्चिदान्तर्गतः पाठो ड. पुस्तकस्थः । । एतचिहान्तर्गतः पाठो ग. घ. इ. छ. स. ड. द. पुस्तकस्थः ।
१ ड. छ. स. ड. द. मार्थ सकलं । २ ज. ल ते तु कर्मच्छिद्रादिपूरणम् । वि । ३ क. ख. ग. घ. उ. च. छ. म. ट. ड. द. मानवाः । ४ ज. अज्ञानेन प्रकुर्वन्ति ये तु विध्युदिताः क्रियाः । ते । ५ ज. कृतं तच्छृणु सांप्रतम्।वि। ६ ज.म पति त्यक्त्वा यदागता । पृ । ७ ज. दुर्मुखी ।
Page #232
--------------------------------------------------------------------------
________________
२२६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेकस्या माता पिता भ्राता कस्याः स्वजनबान्धवाः । सर्वस्थाने पतिर्खेको भार्यायास्तु न संशयः॥ इत्युक्त्वा हि महस्यैव गोभिलो दानवाधमः । न भयं विद्यते तेऽद्य ममापि शृणु पुश्चलि ॥ ५५ किं भवेत्तव रोषेण वृयैव परिकैम्पसे । मम गेहं समाश्रित्य भुंक्त्वा भोगान्मनोनुगान् ॥ ५६
पद्मावत्युवाचगच्छ पापसमाचार किं त्वं वदसि निघृण । सतीभावेन संस्थाऽस्मि पतिव्रतपरायणा ॥ ५७ धक्ष्यामि त्वां महापाप यद्येवं तु वदिष्यसि ॥ एवमुक्त्वा तु सा कान्त निषसाद महीतले । दुःखेन महताऽऽविष्टा तामुवाच स गोभिलः ॥५९ तवोदरे मया न्यासः स्ववीर्यस्य कृतः शुभे । तस्मादुत्पत्स्यते पुत्रलोक्यक्षोभकारकः ॥ एवमुक्त्वा जगामाथ गोभिलो दानवस्तदा ॥ गते तस्मिन्दुराचारे दानवे पापचारिणि । दुःखेन महताऽऽविष्टा नृपकन्या रुरोद ह॥ ६१ इति श्रीमहापुराणे पाद्मे भूभिखण्डे वेनोपाख्याने सुकलाचरिते पञ्चाशत्तमोऽध्यायः ॥ ५० ॥
आदितः श्लोकानां समष्ट्यङ्काः-५८७५
अर्थकपञ्चाशत्तमोऽध्यायः ।
ब्राह्मण्युवाचगते तस्मिन्दुराचारे गोभिले पापचेतसि । पद्मावती रुरोदाथ दुःखेन महताऽन्विता ॥ ? तस्यास्तु रुदितं श्रुत्वा सख्यः सर्वा द्विजोत्तम । पप्रच्छुस्तां राजकन्यां ताः सर्वाश्च वैराननाम् २ कस्माद्रोदिषि भद्रं ते कथयस्व हि चेष्टितम् । क गतोऽसौ महाराजा माथुराधिपतिस्तव ॥ ३ येन त्वं हि समाहृता प्रिये त्यक्त्वा वदस्व नः । ता उवाच सुदुःखेन रुदमाना पुनः पुनः॥४ तया आवेदितं सर्व यज्जातं दोषसंभवम् । ताभिनीता पितुर्गेहं वेपमाना सुदुःखिता ॥ ५ मातुः समक्षं तस्यास्तु आचचक्षुस्तदा स्त्रियः । समाकर्ण्य ततो देवी गता सा भर्तमन्दिरम् ॥ ६ भर्तारं श्रावयामास सुतात्तान्तमेव हि । समाकर्ण्य ततो राजा महादुःखी त्वजायत ॥ ७ यानाच्छादनकं दत्त्वा परिवारसमन्विताम् । मथुरां प्रेषयामास गता सा प्रियमन्दिरम् ॥ ८ सुतादोष समाच्छाद्य पिता माता द्विजोत्तम । उग्रसेनस्तु धर्मात्मा पद्मावती समागताम् ॥ ९ स दृष्ट्वा मुमुदे देवीमुवाचेदं वचः पुनः । त्वया विना न शक्नोमि जीवितुं हि वरानने ॥ १० बहु प्रभासि मे प्रीता गुणेः शीलैस्तु सर्वदा । भक्त्या सत्येन मे कान्ते पतिदेवत्यकेर्गुणैः ॥ ११ समाभाष्य मियां भार्या पद्मावती नरेश्वरः । तया साधं स वै रेम उग्रसेनो नृपोत्तमः ।। १२ ववृधे दारुणो गर्भः सर्वलोकभयंकरः । पद्मावती विजानाति तस्य गर्भस्य कारणम् ॥ १३ स्वोदरे वर्धमानस्य चिन्तयन्ती दिवानिशम् । अनेनापि विजातेन लोकनाशकरेण वै ॥ १४ अनेनापि न मे कार्य दुष्टपुत्रेण सांप्रतम् । औषधी पृच्छते सा तु गर्भपातस्य सर्वतः ॥ १५ नौरीमहौषधी सा हि विन्दती च दिने दिने । गर्भस्य पातनायैव उपाया बहुशः कृताः ॥ १६
१ ग. घ. ज. आत्मा । २ ग. घ. ज. ट. 'कत्यसे । ३ छ. देहं । ४ ङ. ज. द. भुक्ष्व । ५ ट. दैत्यं । ६ ग.घ.अ. ट. १. 'लोक्ये चातिसुन्दरः । ए। ७ ग. घ. ड. वराननाः । ८ ग. घ. ह. छ. ज. झ. इ. ८. 'येत्युक्त्वा । ९ ग. घ. ज. ट. 'नः । प्रचोदितं तया स । इ. 'नः । तासामावे । १० ज. 'तादुष्कृतमे । ११ घ. 'त । भूषणाच्छादनं द । १२ ग. घ. जट, इ. नानाम।
Page #233
--------------------------------------------------------------------------
________________
५१एकपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् ।
२२७ बधे दारुणो गर्भः सर्वलोकभयंकरः । तामुवाच ततो गर्भः पद्मावतीं स मातरम् ॥ १७
मात्तं व्यथसे मातश्चौषधीभिर्दिने दिने । पुण्येन वर्धते चाऽऽयुः पापेनाल्पं तु जीवितम् १८ आत्मकर्मविपाकेन जीवन्ति च म्रियन्ति च । आमगर्भा म्रियन्त्यन्ते त्वपकास्तु महीतले ॥ १९ जातमात्रा म्रियन्त्यन्ये कति ते यौवनान्विताः । बालवृद्धाश्च तरुणा आयुषो वशतां गताः॥२० सर्वे कर्मविपाकेन जीवन्ति च म्रियन्ति च । ओषध्यो मत्रदेवाश्च निमित्तानि न संशयः ॥२१ मामेव हि न जानासि भवती यादृशो ह्यहम् । दृष्टः श्रुतस्त्वया पूर्व कालनेमिर्महाबलः ॥ २२ दानवानां महावीर्यस्त्रैलोक्यस्य भयप्रदः । देवासुरमहायुद्धे हतोऽहं विष्णुना पुरा ॥ २३ साधनाय च तद्वैरमागतोऽस्मि तवोदरे । साहसं च श्रमं माना कुरुष्व दिने दिने ॥ २४ एवमुक्त्वो द्विजश्रेष्ठ मातरं विरराम सः। माता चं उद्यमं त्यज्य महादुःखादभूत्तदा ॥ २५ देशाब्दाश्च गता यावत्तावदृद्धिमवामुयात् । पश्चाजज्ञे महातेजाः कंसोऽभून्स महाबलः ॥ २६ येन संत्रासिता लोकास्त्रैलोक्यस्य निवासिनः । यो हतो वासुदेवेन गतो मोक्षं न संशयः ॥२७ एवं श्रुतं मया कान्त भवितव्यं भविष्यति । पुराणेप्वेव सर्वेषु निश्चितं कथितं तव ॥ २८ पितृगेहे स्थिता कन्या नाशमेवं प्रयाति सा । गृहवासाय मे कान्त[*कन्यामोहं न कारयेत् २९ इमां दुष्टां महापापां परित्यज्य स्थिरो भव । प्राप्तव्यं तु महापापं दुःखं दारुणमेव च ॥ लोके श्रेयस्कर कान्त] तेद्भुव त्वं मया सह ।।
शूकर्युवाचंएतद्वाक्यं सुमनं तु श्रुत्वा स हि द्विजोत्तमः । त्यागे मनिं चकारासौ ममाहूता व(त्व)हं तथा ।। सकलं वस्त्रशृङ्गारं मम दत्तं शुभे शृणु । तवैव दुर्नयर्विप्रः शिवशर्मा द्विजोत्तमः ॥ ३२ गतो वै मतिमान्दुष्टे कुलदुष्टपचारिणि । यत्र ते तिष्ठते भर्ता तत्र गच्छ न संशयः॥ न्वया यद्रोचते स्थानं यथा दृष्टं तथा कुरु ॥ एवमुक्त्वा महाभागे पितृमातृकुटुम्बकैः । परित्यक्ता गता शीघ्र निर्लजाऽहं वरानने ॥ ३४ न लभाम्यहमेवापि वासस्थानं सुखं शुभे । भसंयन्ति च मां लोकाः पुंश्चलीयं समागता ॥ ३५ अटमाना गता देशात्कुलमानेन वजिता । देशे गुर्जरके पुण्ये माराष्ट्र शिवमन्दिरे ॥ ३६ वनस्थलेति विख्यातं नगरं वृद्धिसंकुलम् । अतीव पीडिता देवी क्षुधयाऽहं यदा भृणु ॥ ३७ कपरं हि करे गृह्य भिक्षार्थमुपचक्रमे । गृहाणां द्वारदेशेषु प्रविशामि सुदुःखिता॥ ३८ मम रूपं विपश्यन्ति लोकाः कुत्सन्ति भामिनि । न ददति च मे भिक्षां पापा चेयं समागता ॥ एवं दुःखसमाचारा महारोगेण पीडिता । अटमाना यदा दृष्टं गृहमेकमनुत्तमम् ।। ४० तुङ्गमाकारसंवेष्टं वेदशालासमन्वितम् । वेदध्वनिसमाकीर्ण बहुविमसमाकुलम् ॥ धनधान्यसमाँकीर्ण दासीदासैरलंकृतम् । प्रविवेश गृहं रम्यं लक्ष्म्या मुदितमेव तत् ॥
* एतचिदान्तर्गतः पाठो अ. पुस्तके नास्ति । १ ज.ड. हासुरः।दा।२ ज. स्मि धरातले साग.घ.टस्मि वरानने । सा।३ ग. घ. ज, ट... क्त्वा ततस्तां च मा । ४ ग. घ. ज. ट. ड. च वचनं तस्य श्रुत्वा दःखातिदःखिता । । ५ ज. दश मासा ग । ढ. दशाहाश्च । ६ ग. घ. ज. ट. 'तेजा दुःसहश्च म। ७ ग. घ. ज. ट. गतः स्वर्ग न । ८ ग. घ. ट. निखिल । ज. लिखितं । ग. घ. ज. ट. तद्बज त्वं । १० ज 'च-तयाक्त वमदत्तस्त श्र। ११४. वस्तुश। १२८. 'टे वातदु। १३ ङ. छ.. 'नस्थानेति । १४ . छ. स. द. तदा । १५ ग. घ. ज. ट. मलरू। १६ ग. घ. ङ. छ. झ. ट. द. मया । १७ ग. स. ज. ट. 'मायुक्त दासीदासेन संकुलम् ।
४
Page #234
--------------------------------------------------------------------------
________________
२२८
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
४३
तगृहं सर्वतो भद्रं तस्यैव शिवशर्मणः । भिक्षां देहीत्युवाचार्थ सुदेवा दुःखपीडिता ।। शिवशर्माऽथ शुश्राव भिक्षाशब्दं द्विजोत्तमः । मङ्गला नाम वै भार्या लक्ष्मीरूपा वरानना ।। ४४ [*ni इसन्प्राह धर्मात्मा शिवशर्मा महामतिः । हंसन्तीं दुर्बलां प्राप्तां भिक्षार्थी द्वारमागताम् ४५ समाहूय प्रिये चैनां देहि त्वं भोजनं शुभे । कृपया परयाऽऽविष्टा ज्ञात्वा मां तु समागताम् ४६ प्रोवाच मङ्गला कान्तं दास्यामि प्रियभोजनम् । एवमुक्त्वा च भर्तारं मङ्गला मङ्गलान्विता ॥ ४७ पुनर्मा भोजयामास मिष्टान्नेन सुदुर्बलाम् । मामुवाच स धर्मात्मा शिवशर्मा महामुनिः ॥ ४८ का त्वमत्र समायाता कथं वा भ्रमसे जगत् । केन कार्येण सर्वत्र कथयस्व ममाग्रतः ॥ एवमाकर्ण्य तद्वाक्यं भर्तुःश्चैव महात्मनः । स्वरेण लक्षितः कान्तो मया वै पापया तदा ॥ व्रीडयाऽधोमुखी जाता दृष्टो भर्ता यदा मया । मङ्गला चारुसर्वाङ्गी भर्तारमिदमब्रवीत् ।। का चेयं हि समाचक्ष्व त्वां दृष्ट्वा हि विलज्जति । कथयस्व प्रसादेन का च एषा भविष्यति ५२ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वनोपाख्याने सुकलाचरित एकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ५९२७
४९
५०
५१
अथ द्विपञ्चाशत्तमोऽध्यायः ।
शिवशर्मोवाच
२
३
४
६
७
मङ्गले श्रूयतां वाक्यं यदि पृच्छसि सांप्रतम् । यदर्थं हि त्वया पृष्टं तन्निबध वरानने ॥ इयं हि सांप्रतं प्राप्ता बराकी भिक्षुरूपिणी । वसुदत्तस्य विप्रस्य सुतेयं चारुलोचने ।। सुदेवा नाम भद्रेर्यं मम जाया प्रिया सदा । केनापि कारणेनैव देशं त्यक्त्वा समागता ।। मम दुःखेन दग्धेयं वियोगेन वरानने । मां ज्ञात्वा सा समायाता भिक्षुरूपेण ते गृहम् ॥ एवं ज्ञात्वा त्वया भद्र आतिथ्यं परिशोभनम् । कर्तव्यं च न संदेह ईच्छन्त्या मम सुप्रियम् ॥ ५ भर्तुर्वाक्यं निशम्यैव मङ्गला पतिदेवता । हर्षेण महताऽऽविष्टा स्वयमेव सुमङ्गला ।। स्नानाच्छादनभोज्यं च मम चक्रे वरानने । रत्नकाञ्चनयुक्तैश्च भरणैश्च पतिव्रता || अहं हि भूषिता भद्रे तथैव पतिकाम्यया । तयाऽहं सुखिता देवि मानस्नानैश्च भोजनैः ॥ ८ भर्त्राऽहं मानिता भद्रे जातं दुःखमनन्तकम् । ममोरसि महाती सर्वप्राणविनाशनम् ॥ तस्या मानं मया दृष्टमात्मनश्च सुदुष्कृतम् । चिन्ता मे दारुणा जाता यया प्राणा व्रजन्ति मे १० कदा सुवचनं दत्तं न मया पापया भृशम् । अस्यैव विप्रवर्यस्य ह्याचरन्त्या च दुष्कृतम् ।। ११ पादप्रक्षालनं नैव चाङ्गसंवाहनं न हि । एकान्तं न मया दत्तं तस्यैव हि महात्मनः ॥ १२ कथं संभाष्यमस्यैव करिष्ये पापनिश्चया । रात्रौ चैव तदा तत्र पतिता दुःखसागरे || १३ एवं हि चिन्तमानायाः स्फुटितं हृदयं मम । गताः प्राणाः शरीरं में त्यक्त्वा तत्र वरानने ।। १४ * एतचिहान्तर्गतः पाटो . पुस्तके नास्ति ।
९
१३
१ ज. थ तदाऽहं दुः । २ ज वराकीं । ३ ग. घ. ज. ट. ड. महामतिः । ४ ग घ ङ. छ. झ. ट. ड. कस्य । ५ ज. तत्सर्वे । ६ ग. घ. ज. ट. ड. न कस्य का च भ । ७ ज. ने। त्वद्रेहे सां । ८ ज. ने। वसुदेवा नाम चेय । ९. घ. ज. यं न मे जा । १० ज. इत्युवाच मम प्रियः । भ । ११ ग. घ. ज. ट. श्च आसनैश्च । १२ क. ख. ग घ. छ. ज. श. ट. ड. यथा । १३ ज. मे पतितं धरणतिले । अ' ।
Page #235
--------------------------------------------------------------------------
________________
५२ द्विपञ्चाशत्तमोऽध्यायः ]
पद्मपुराणम् ।
२२९
१६
१७
१८
१९
२०
२१
२२
२३
अथ दूताः समायाता धर्मराजस्य वै तदा । [वीराश्च दारुणाः क्रूरा गदाचक्रासिधारिणः १५ तैस्तु बद्धा महाभागे शृङ्गलैर्डबन्धनैः । नीता यमपुरं तैस्तु रुदमाना सुदुःखिता ॥ मुद्गरैस्ताड्यमानाऽहं दुर्गमार्गेण पीडिता । भर्त्स्यमाना यमस्याग्रे तैस्तत्राहं प्रवेशिता ।। es यमराजेन सक्रोधेन महात्मना । अङ्गारसंचये क्षिप्ता क्षिप्ता नरकसंचये ॥ लोहस्य पुरुषं कृत्वा अग्निना परितापितः । ममोरसि समुत्क्षिप्तो निजभर्तुश्च वचनात् ॥ नानापीडातिसंतप्ता नरकाग्निप्रतापिता । तैलद्रोण्यां परिक्षिप्ता करम्भवालुकोपरि ] | असिपत्रैश्च संछिन्ना जलयत्रेण भ्रामिता । कूटशाल्मलिवृक्षेषु क्षिप्ताऽनेन महात्मना ॥ सर्वेष्वेव नरकेषु क्षिप्ताऽहं नृपनन्दिनि । पीडायुक्तेषु तत्रेषु तेनैवापि महात्मना || पूयशोणितविष्ठायां पातिता कृमिमंकुले । करपत्रैः पाटिताऽहं शक्तिभिस्ताडिता भृशम् ।। अन्येष्वेव नरकेषु पातिता नृपनन्दिनि । योनिवक्त्रे प्रक्षिप्ताऽस्मि पातिता दुःखकण्टके ।। धर्मराजेन तेनाहं नरकेषु निपातिता । बहुला योनिमासाद्य भुक्तं दुःखं सुदारुणम् ॥ गताऽहं क्रोष्टुकी योनि श्वानयोनिं पुनर्गता । सर्पकुक्कुटमार्जारीमाखुयोनिं गता वहम् ।। एवं योनिविशेषेषु पापयोनिषु तेन च । क्षिप्ताऽस्मि धर्मराज्ञा वै पीडासु सर्वयोनिषु ॥ तेनैवाहं कृता भूमौ शकरी नृपनन्दिनि । तत्र हस्ते महाभागे सन्ति तीर्थान्यनेकशः ॥ तेनोदकेन सिक्ताऽस्मि त्वयैव वरवर्णिनि । मम पापं गतं देवि प्रसादात्तव सुन्दरि ॥ तवैव तेजः पुण्येन जातं ज्ञानं वरानने । इदानीमुद्धर त्वं मां पतितां नर्कसंकटात् ॥ यदा नोद्धरमे देवि पुनर्यास्यामि दारुणाम् । नर्कयांनिं महाभागे त्राहि मां दुःखभागिनीम् ।। गताऽहं पापभावेन दीनाऽहं च निराश्रया ॥
1
२४
२५
२६
२७
२८
२९
३०
३१
सुश्रवोवाच
किं कृतं हि मया भद्रे सुकृतं पुण्यसंभवम् । येनाहमुद्धरे त्वां वै तन्मे वदस्व सांप्रतम् ॥ शूकर्युवाच --
३२
३३
३४
३५
अयं राजा महाभाग इक्ष्वाकुर्मनुनन्दनः । विष्णुरेष महाप्राज्ञो भवती श्रीर्हि नान्यथा ॥ पतिव्रता महाभागा पतिव्रतपरायणा । त्वं सती सर्वदा भद्रे सर्वतीर्थमयी प्रिया ॥ देवी सर्वमयी नित्यं देवी सर्वमयी सदा । महापतिव्रता लोक एका त्वं नृपतेः प्रिया ॥ arrator भर्ता भवर्त्यां हि न संशयः । एकस्य दिवसस्यापि पुण्यं देहि वरानने ।। ३६ पतिशुश्रूषितस्यापि यदि मे कुरुषे प्रियम् । मम माता पिता त्वं वै त्वं मे गुरुः सनातनः ।। ३७ अहं पापा दुराचारा असत्या ज्ञानवर्जिता । मामुद्धर महाभागे भीताऽहं यमताडनात् ॥
३८
सुकलोवाच
एवं श्रुत्वा तदा राज्ञी समालोक्य नृपं तदा । किं करोमि महाराज एषा किं वदते प्रभो ॥ ३९
* एतच्चिदान्तर्गतः पाठी ग. घ. ज. ट. ड. पुस्तकस्थः ।
१ ग. घ. ट. नर्कसंकटे । ज. नरकार्णवे २ ग. घ. ज. ड. सुदेवों । ३ ग घ ज ट ड द सुनिश्चित ं । ४ ग. घ. ट. सत्यसपन्ना पुण्यस्त्री सत्यसंपदा । सर्वतीर्थमयी देवी सर्वतीर्थमयी । ज. सत्यसंपन्ना पुण्यस्त्री सत्यसंपदा । सर्वतीर्थमयी देवी सर्वपुण्यमयी तथा । महा । ५ ज. एतस्य नृ । ६ ग. घ. ज. ट. त्या एकचित्तया । ए ङ. द. त्या नु अहर्निशम् । ए । छ. `त्या पुण्यकारणात् । ए। ड. त्या त्वेकचित्तया । ए ७ ग. घ. ज. ट ड ताऽपि त्वं बन्धुस्त्वं च गुरुः सखा । अ । ८ ज. असती ।
Page #236
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
इक्ष्वाकुरुवाच
४१
एतां दुःखां बराकीं वै पापयोनिं गतां शुभे । समुद्धर स्वपुण्यैस्त्वं महच्छ्रेयो भविष्यति ॥ ४० एवमुक्ती वरा नारी सुश्रवा चारुमङ्गला । वर्षैकस्य सुपुण्यं ते मया दत्तं वरानने ॥ एवमुक्तेन वाक्येन तया देव्या हि तत्क्षणात् । रूपयौवनसंपन्ना दिव्यमालाविभूषिता ।। ४२ दिव्यदेहा च संभूता तेजोज्वालासमाकुला । सर्वभूषणशोभाढ्या नानारत्नैश्च शोभिता ।। ४३ संजाता दिव्यरूपा सा दिव्यगन्धानुलेपना । दिव्यं विमानमारूढा अन्तरिक्षं गता सती ॥ ४४ तामुवाच ततो राज्ञीं प्रणता नतकन्धरा । स्वस्त्यस्तु ते महाभागे प्रसादात्तव सुन्दरि ।। व्रजामि पातकान्मुक्ता स्वर्ग पुण्यतमं शुभम् । प्रणम्यैव गता स्वर्ग सुदेवा शृणु सत्तम एतत्ते सर्वमाख्यातं सुकलाया निवेदितम् ॥
४५
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने सुकलाचरिते सुदेवास्वर्गारोहणं नाम द्विपश्चाशत्तमोऽध्यायः ॥ ५२ ॥ आदितः श्लोकानां समथ्यङ्काः – ५९७४
अथ त्रिपञ्चाशत्तमोऽध्यायः ।
२३०
सुकलोवाच
एवं धर्म श्रुतं पूर्व पुराणेषु मया तदा । पतिहीना कथं भोगं करिष्ये पापनिश्चया ॥ कान्तेन तु विना तेन जीवं काये न धारये । एवमुक्त्वा परं धर्मे पतिव्रतमनुत्तमम् ॥ तास्तु सत्यपरा नार्यो हर्षेण महताऽन्विताः । श्रुत्वा धर्म परं पुण्यं नारीणां गतिदायकम् ।। ३ स्तुवन्ति तां महाभागां सुकलां धर्मवत्सलाम् । ब्राह्मणाः सुस्वराः सर्वे पुण्यस्त्रियो नरोत्तम ॥ ४ विष्णुरुवाच -
७
तस्या ध्यानप्रभावं तु पतिकाम प्रभावताम् । अत्यर्थ दृष्टवानिन्द्रः सुविचिन्त्य सुरेश्वरः ॥ सुकलायाः परं भावं सुविचार्य नरेश्वर । अचलं धैर्यमस्याश्च पतिष्येऽहं न संशयः ॥ सस्मार मन्मथं देवं त्वरमाणः सुराधिपः । पुष्पचापं स संगृह्य मीनकेतुः समागतः ॥ प्रियया तया समायुक्तो रत्या दृष्टो महाबलः । बद्धाञ्जलिपुटो भूत्वा सहस्राक्षमुवाच सः ॥ ८ कस्मादहं त्वया नाथ अधुना संस्मृतो विभो । आदेशो दीयतां मेऽद्य सर्वभावेन मानद । इन्द्र उवाच
९
४६
४७
* एतच्चिहान्तर्गतोऽयं पाठो ज. पुस्तकस्थः ।
१०
सुकलेयं महाभागा पतिव्रतपरायणा । शृणुष्व कामदेव त्वं कुरु साहाय्यमुत्तमम् ॥ निकर्षिष्ये महाभागां सुकलां पुण्यमङ्गलाम् । [*तच्छ्रुत्वा वचनं तस्य शक्रस्य तमथाब्रवीत् ] ११ एवमस्तु सहस्राक्ष करिष्यामि न संशयः । साहाय्यं देवदेवेश तव कौतुककारणात् || १२ एवमुक्त्वा महातेजाः कन्दर्पो मुनिदुर्जयः । देवाखेतुं समर्थोऽहं समुनीनृषिसत्तमान् ॥ १३ किं पुनः कामिनी देव यस्याने नास्ति वै बलम् । कामिनीनामहं देव अङ्गेषु निवसाम्यहम् १४
१ ज. 'ता तदा राज्ञी सु । २ ग. घ. ज. ट. ड. सुदेवा । पतिव्रता । ता । ५ ज. बान्धवाः । ६ ङ. ट. ह्मणाश्व सुराः । ७ज. धर्षयिष्य इमां कामं साहाय्यं कुरु सांप्रतम् । त ं ।
१
३ग. घ. ज. ट. ड. पुण्यं । ४ ज. में सा चचाल स्वराश्चैव पुण्याश्चैव स्त्रियो नृप । वि। ८ ज. मूं ।
Page #237
--------------------------------------------------------------------------
________________
५३ त्रिपञ्चाशत्तमोऽध्यायः] पद्मपुराणम् ।
२१ भाले कचेषु नेत्रेषु कुचाग्रेषु च सर्वदा । नाभौ कटौ पृष्ठदेशे जघने योनिमण्डले ॥ १५ अधरे दन्तभागेषु कक्षायां हि न संशयः । [*अङ्गेष्वेवं प्रत्यङ्गेषु सर्वत्र निवसाम्यहम् ॥ १६ नारी मम गृहं देव सदा तत्र वसाम्यहम् । तत्रस्थः पुरुषान्सर्वान्मारयामि न संशयः॥ १७ स्वभावेनाबला नारी संतप्ता मम मागेणेः । भ्रातरं पितरं दृष्ट्वा अन्यं स्वजनबान्धवम् ॥ १८ सरूपं सगुणं देव मम बाणाहता सती।] चलते नात्र संदेहो विपाकं नैव चिन्तयेत् ॥ १९ योनिः स्पैन्दति नारीणां स्तनौ चैव सुरेश्वर। नास्ति धैर्य सुरेशान सुकलां नाशयाम्यहम्॥२०
इन्द्र उवाचपरुषोऽहं भविष्यामि रूपवान्गुणवान्धनी । कौतुकार्थमिमां नारी चालयामि मनोद्भव ॥ २१
नेव कामान संत्रासान वा लोभान कारणात् । न वै मोहान वै क्रोधात्सत्यं सत्यं रतिप्रिय २२ कथं मे दृश्यते तस्या महत्सत्यं पतिव्रतम् । निष्कर्षिष्य इतो गत्वा भवन्मोहोऽत्र कारणम् ॥२३ एवं कामं च संदिश्य जगाम सुरराट् स्वयम् ]। मन्मथाकृतिः संभूतो रूपवान्गुणवान्स्वयम्॥२४ सर्वाभरणशोभाङ्गः सर्वभोगसमन्वितः । भोगलीलासमाकीर्णः सर्वदौदार्यसंयुतः ॥ २५ यत्र सा तिष्ठत देवी कुकलस्य प्रिया नृप । आत्मलीलां च रूपं च गुणभावं प्रदर्शयेत् ॥ २६ नैव पश्यति सा तं तु पुरुषं रूपसंपदम् । यत्र यत्र व्रजेत्सा हि तत्र तां पश्यते नृप ॥ २७ साभिलाषेण मनसा तामेवं परिपश्यति । कामचेष्टां सहस्राक्षो दर्शयन्सर्वभावकैः ॥ २८ चतुप्पथे पथे तीर्थे यत्र देवी प्रयाति सा । तत्र तत्र सहस्राक्षस्तामेव परिपश्यति ॥ २९ इन्द्रण प्रेषिता दूती तत्पार्थ प्रति सा गता । सुकलां च महाभागां प्रत्युवाच प्रहस्य वै ॥ ३० अहो सत्यमहो धैर्यमहो कीर्तिरहो क्षमा । अस्या रूपेण संसारे नास्ति नारी वरानना ॥ ३१ का त्वं भवसि कल्याणि कस्य भायो भविष्यास । यस्य त्वं सगुणा भायो स धन्यः पुण्यभाग्भुवि॥ तस्यास्तु वचनं श्रुत्वा तामुवाच मनस्विनी । वैश्यजात्यां समुत्पन्नो धर्मात्मा सत्यवत्सलः॥३३ तस्याहं हि प्रिया भार्या सत्यसंधस्य धीमतः । कृकलस्यापि वैश्यस्य सत्यमेव वदामि ते ॥३४ मम भर्ता स धर्मात्मा तीर्थयात्रां गतः सुधीः । तस्मिन्गते महाभागे मम भर्तरि सांप्रतम् ॥ ३५ अतिक्रान्ताः शृणुष्व त्वं त्रयश्चैवापि वत्सराः। ततोऽहं दुःखिता जाता विना तेन महात्मना३६ एतत्ते सर्वमाख्यातमात्मवृत्तान्तमेव च । भवती पृच्छेती का मां भविष्यति वदस्व मे ॥ ३७ सुकलाया वचः श्रुत्वा दूत्या आभाषितं पुनः । मामेवं पृच्छसे भद्रे तत्ते सर्व वदाम्यहम् ॥३८ अहं तवान्तिकं प्राप्ता कार्यार्थ वरवणिनि । श्रूयतामाभिधास्यामि श्रुत्वा चैवावधार्यताम् ॥ ३९ गतस्ते निघृणो भर्ता त्वां त्यक्त्वा तु वरानने । किं करिष्यास तेनापि [*प्रियाघातकरेण च ॥ यस्त्वां त्यक्त्वा गतः पापी साव्याचारसमन्विताम् । किंवा स ते गतो बाले तत्र जीवति वै मृतः॥ किं करिष्यति तेनापि भवती खिद्यते वृथा । कस्मानाशयसे त्वं च देहं हेमसमप्रभम् ॥ ४२ बाल्ये वयसि संप्राप्त मानवो न च विन्दति । एकं सुखं महाभागे बालक्रीडां विना शुभे ॥४३
* एतच्चिद्वान्तर्गतः पाठो ग. घ. ट. पुस्तकस्थः । । एतञ्चिह्नान्तर्गतः पाठो ग. घ. ज. ट. ह. पुस्तकस्थः । __* एचिहान्तर्गतः पाठो ग. घ. छ. ज. झ. ट. इ.पुस्तकस्थः ।
१ ग. घ. ज. ट. पातकं । २ अ. स्कन्दति। ३ ग. घ. ट. ड. सर्वावयवस। ज. सर्वावयवसुंदरः । य । ४ ग. घ. ज. ट. ड. तु सुरूपं नृपस । ५ ग. घ. ट. ड. 'त्र तत्र ब्रजेनप। ६ ग. घ. ड. छ. ज. स. इ. द. हो कान्तिर। ७ ज. सदृशी। ८ ग. घ. ज. ट. ड. यशस्विनी । ९ ग. घ. ज. ट. 'च्छति का वं हसिष्यासे व।
Page #238
--------------------------------------------------------------------------
________________
२३२ महामुनिश्रीव्यासमणीतं
[२ भूमिखण्डेवार्धक्ये दुःखसंप्राप्तिर्जरा कार्य प्रहारयेत् । तारुण्ये भुज्यतां भोगाः सुखान्सर्वान्वरानने ॥ १४ यावत्तिष्ठति तारुण्ये तावञ्जति मानवः । सुखभोगादिकं सर्व स्वेच्छया सेवते नरः॥ ४५ यावत्तिष्ठति तारुण्यं तावद्भोगान्प्रभुञ्जते । वयस्यपि गते भद्रे तारण्ये किं करिष्यसि ॥ ४६ संप्राप्ते वार्धके देवि किंचित्कार्य न सिध्यति । स्थविरश्च तपः कर्तुं सुखकार्य न गच्छति ॥ ४७ व(प)यस्यपि गते बाले क्रियते सेतुबन्धनम् । तादृशोऽयं भवेत्कायस्तारुण्ये तु गते शुभे ॥ ४८ तस्मात्सुसंमुखेनापि पिबस्व मधुमाधवीम् । काम एष दहत्यङ्गं तवेदं चारुलोचने ॥ ४९ अयमेकः समायातः पुरुषो रूपवान्गुणी । अयं हि पुरुषव्याघ्रः सर्वज्ञो गुणवान्धनी ॥ ५० तवार्थे नित्यसंयुक्तः स्नेहेन वरवणिनि । वृद्धत्वं नास्ति चैवास्य स्वयं सिद्धः सुसिद्धिदः ॥५१ अजरो निर्जरो व्यापी सुसिद्धः सर्ववित्तमः । अकामः कामदो लोक आत्मरूपेण वर्तते ॥ ५२ यथा गेहस्य संस्थानं तथा गेहस्य दृश्यते । यथा वार्धकिना कायो यथा सूत्रेण मन्दिरम् ॥ ५३ अश्मकाष्ठसुसंपनैर्नानादारुसमुद्भवैः । मृत्तिकाष्टो(?)दकेनापि प्रमाता परिमाणयेत् ॥ ५४ लेपितं लेपनैः काष्ठं चित्रं भवति चित्रकैः । प्रथमं रूपमायाति गृहं सूत्रेण मूलतः॥ ५५ पुष्णन्ति(प्णाति) च स्वयं तत्तु लेपना दिने दिने । वायुना दोलितं नित्यं गृहं च मलिनायते ॥५६ मध्यमा वार्तुतः(?) कालो गृहस्य परिकथ्यते । रूपहानिर्भवेत्तस्य गृहस्वामी विलेपयेत् ॥ ५७ स्वेच्छया च गृहस्वामी रूपवन्तं नयगृहम् । संपन्ने ?) तस्य गेहम्य दृतिके परिकथ्यते ॥ ५८ काष्ठशिल्पस्य शीर्णत्वं बहुकालेः प्रयाति(?) ते ।।
मुकलोवाचबाल्यं नास्त्यपि जीवस्य तारुण्यं नास्ति जीवित । स्थानभ्रष्टा प्रजायन्ते मूलाग्रं प्रचलन्ति ते५९ न सहेल्लेपनाभारमाधारण प्रतिष्ठति । एतद्गृहस्य वार्धक्यं कथितं शृणु इतिक ॥ ६० पतमानं गृहं गत्वा गृहस्वामी परित्यजेत् । गेहमन्यं प्रविन्देद्यः प्रयान्येवं हि सत्वरम् ॥ ६१ तथा बाल्यं च तारुण्यं नृणां वृद्धत्वमेव च । म बाल्ये बालरूपश्च ज्ञानहीनं प्रकारयेत् ॥ ६२ चिन्तयेत्काममेवापि वस्त्रालंकारभूषणैः । लेपनैश्चन्दनैश्चान्यस्ताम्बलप्रभवादिभिः ॥ ६३ कार्यस्तारुण्यतां याति अतिरूपो विजायते । बाह्याभ्यन्तरमवापि रसः सर्वैः प्रपोषयेत् ।। ६४ तेन पोपणभावेन परिपुष्टः प्रजायते । जायते मांसवृद्धिस्तु रसेश्चापि नृपात्तम ॥ . . ६५ याति विस्तरतां राजन्नङ्गान्याप्यायितान्यपि । प्रत्यङ्गानि रसश्चैव स्वं स्वं रूपं प्रयान्ति वै ॥६६ दन्ताधरी स्तनो बाह कटिपृष्ठे ऊरू उभे । हस्तपादतलो तदबुद्धितत्त्वं तु च प्रपंदिरे ॥ ६७ उभाभ्यामपि तान्येवं वृद्धिमायान्ति तानि वै । अङ्गानि रसमांमाभ्यां स्वरूपाणि भवन्ति ते॥६८ तैः स्वरूपैर्भवेन्मयों रसदृद्धश्च दूतिके । स्वरूपः कथ्यते मया लोके केनं प्रियो भवेत् ॥ ६९
१ ग. ज. ड. रुण्यं तात्तिष्ठति । २ ग. घ. ज. 'रुण्यं कि करिष्यति । स । ३ ज. ने । वनेऽत्रैकः । ४ ग. घ. ड. रुषः प्राप्तः स । ५ग. घ. ट. ड. संगुप्तः स्ने । ६ ट. देहस्य । ७ . ट. किक: कायस्तथा । ८ ड. मत्रितम् । ९ ज. ट. 'नाद्यर्दिने । १० ङ. द. तारुण्यं । ११ १. नः । १२ ग. घ. ज. . ड. दतिके। १३ घ. ते । ध्यानस्थानं प्रजायन्ते सूत्रोऽयं प्रवल । ट. 'ते। ध्यानस्थानं प्रजायेत सत्रोऽयं प्रचलायते । १४ ग. घ. ट. 'हत्तजराभावमा । १५ ग. घ. ज. ट. के । एतन्मात्रं गृहं ज्ञात्वा । ड. के । एतन्मात्र। १६ ग. घ. ज. गेहं सत्यं प्र। १७ ग. घ. ज. ट. च । संपन्ने बाल्यरूपेच ज्ञा। ज. वा। १८ ग. घ. ड. 'यस्तु वशतां याति मनिरू । १९ ग. घ. "पि सर्वेः सर्वैः प्र। ज. पि सर्वैः सर्व प्र। ट. 'पि सर्वैः पूर्वः प्र। २० क. ख. ग. घ. छ. ज. झ. ट. ड. "ग्तुिष्टः । २१ ग. घ. ज. ट. व बुद्धि। २२ ग. घ. ज. झ. ट. ड. 'न. प्रशोभते । वि।
Page #239
--------------------------------------------------------------------------
________________
५३त्रिपञ्चाशत्तमोऽध्यायः ]
पद्मपुराणम् । विनामूत्रस्य वै कोशः काय एष च दूतिके । अपवित्रं शरीरेऽयं सदा स्रवति निघृणः ॥ ७० तस्य किं वर्ण्यते रूपं जलबुबुदवच्छुभे । यावत्पञ्चाशद्वर्षाणि तावत्तिष्ठति वै दृढः ॥ ७१ पश्चाच्च जायते हानिरस्यैवापि दिने दिने । दन्ताः शिथिलता यान्ति लालायते तथा मुखम् ।।७२ चक्षुामपि न पश्येत्कर्णाभ्यां न शृणोति च । गन्तुं कर्तुं न शक्नोति हस्तपादैश्च दूतिके ७३ अक्षमो जायते कायो जराकालेन पीडितः । तद्रसः शोषमायाति तदाऽग्निना प्रशोषितः॥ अक्षमो जायते दूति केन रूपमिहेष्यते ॥ यथा जीर्णे गृहे याति क्षयमेव न संशयः । तथा संक्षयमायाति वार्धक्ये तु कलेवरम् ।। ७५ मम रूपं समं जातं वर्णस्यवं दिने दिने । केनाहं रूपसंयुक्ता केन रूपन्वमिष्यते॥ ७६ यथा जीर्णो गृहो याति केनासौ पुरुषो बली । यस्यार्थमागता दूति भवनि केन संशयः ॥ ७७ किमत्रैव त्वया दृष्टं ममाङ्गे वद सांप्रतम् । तस्याङ्गादिह मे दूति नास्ति चाधिकमेव च ॥ ७८ यथा त्वं च तथाऽसौ वै तथाऽहं नात्र संशयः। कस्य रूपं न विद्यत रूपं स्त्री नास्ति भूतले ।।७९ उच्छ्रयाः पतनान्ताश्च नगास्तु गिरयः शुभे। कालेन पीडिता यान्ति तद्वतानि नान्यथा ॥८० अरूपो रूपवान्दिव्य आत्मा सर्वगतः शुभे। स्थावरेषु च सर्वेषु जङ्गमेवेव दूतिके॥ एको निवसते शुद्धो घटेष्वेव यथोदकम् ॥ घटनाशार्पयात्येकमेकत्वं तत्र बुध्यसे । पिण्डनाशाय पश्चात्मा एकरूपोऽपि जायते ॥ ८२ एकं रूपं मया दृष्टं संसार वसतां सदा । एवं वदस्त्र नं गत्वा यस्यार्थमिह चाऽऽगता ॥ ८३ दर्शयस्व अपूर्व मे यदि मां भोक्तुमिच्छमि । व्याधिना पीड्यमानस्य कफेनापि [*वृतस्य च ८४ अङ्गाद्विचल(लि)ते शोणे स्थानभ्रष्टोऽभिजायते । अङ्गसंधिषु सवोसु पलत्वं चान्तरातः॥ एकतो नाशमायाति स्वं हि रूपं परित्यजेत् ॥ विष्ठात्वं जायते शीघ्रं क्रिमिभिश्च भवेकिल । नदुःखकरे वाऽपि निजरूपं] परित्यजेत् ॥ ८६ रूपत्वं याति वै पश्चात्कृमिदुर्गन्धिसंकुलः । जायन्ते तत्र वै यूकाः कृमित्वं वा न संशयः ॥ ८७ स कृमिः कुरुते स्फोटं कण्डुश्च परिदारुणा । व्यथामुत्पादयत्पूयः सर्वाङ्गं परिचालयेत् ॥ ८८ नखाग्रे प्यमाणा सा कण्डशान्तिः प्रजायते । [तद्वत्तैश्च शृणुप्चव सुरतस्य न संशयः॥ ८९ भुञ्जत्येव रसान्मर्त्यः सुभिक्षान्पिवते पुनः । वायना तेन प्राणेन पाकस्थानं प्रणीयते ॥ ९० यदुक्तं प्राणिभिर्दूवि पाकस्थानं गतं पुनः । सर्व तवे हितं तत्र मया वै पाचयेन्मलम् ॥ ९१ सारभूतो रसस्तत्र तद्रतश्च प्रजायते । निर्मलः शुद्धवीर्य च ब्रह्मस्थानं प्रयाति च ॥ ९२ आक्रुष्टः स समानेन नीतस्तेनापि वायुना । स्थानं न लभते वीर्य चञ्चलत्वेन वर्तते ॥ २३ पाणिनां च कपालेषु क्रिमयः सन्ति पञ्च वै । द्वावतो कर्णमूले तु नेत्रस्थाने ततः पुनः॥ ९४ कनिष्ठाङ्गुलिमानेन रक्तपुच्छाश्च दूतिके । अतसीपुष्पवर्णेन कृष्णपुच्छा न संशयः॥ तेषां नामानि भद्रं ते पत्तो निगदतः शृणु ।।
___ * एतच्चिहान्तर्गतः पाठो ग. घ. ज. ट. पुस्तकस्थः । । एतच्चिदान्तर्गतः पाटो ग. घ. पुस्तकस्थः ।
१म. रीरोऽयं । २ च. 'त्पश्चसहस्पणि । ३ ग. घ. ड. ति जठराग्निप्रशों । तु. छ. द. 'ति जगमितापशों। ४ म. पत्वमिष्य' । ५ अ. दती भवन्ति के ।। गघ. ज. ट. 'ति किमस्त्यधि। ७ ग. घ. ज. ति ये प्रशंसति । कि। ति ममातीव प्रशंससि । कि'। ८ अ. 'स्य पश्य न वि । ९ अ. 'त स्वानाना । १० ग. घ. ज. ट. त्प्रयोज्यैवमें। " ग. लत्वमनुरागतः ।
30
Page #240
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासपणीतं
[ २ भूमिखण्डेपिङ्गला गली नाम द्वौ कमी कर्णमूलयोः । चपलः पिप्पलश्चैव द्वावेतो नासिकाग्रयोः॥ ९६ शृङ्गली जङ्गली चान्ये नेत्रयोरन्तरस्थितौ । कृमीणां शतपञ्चाशत्तादृग्रूपा न संशयः॥ ९७ [*भालान्तेऽवस्थिताः सर्वे राजिकायाः प्रमाणतः । कपालरोगिणः सर्वे विकुर्वन्ति न संशयः॥ अन्यमेवं प्रवक्ष्यामि पुत्रोत्पत्यं महाक्रिमिम् । तण्डुलस्य प्रमाणेन तद्वद्वर्णो न संशयः ॥ ९९ केशद्वयं मुखे तस्य विद्यते शृणु दूतिके । प्राणिनां संक्षयं विद्धि तत्क्षणे हि न संशयः ॥ १०० खंस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे । तवीर्यरसरूपेण पततेनात्र संशयः॥ १०१ पिबते मुखेन तद्वीर्य तेन मत्तः प्रजायते । तालुस्थाने प्रतोद्यैव चञ्चलत्वेन वर्तते ॥ १०० इडा च पिङ्गला नाडी मूक्ष्मतामवमंस्थिता । सुचलेनापि तस्यैव नाडिका जाल(ल)कम्पते ॥ १०३ कामकण्डूर्भवेद्दति सर्वेषां प्राणिनां किल । पुंसश्च स्फुटते लिङ्गं नार्या योनिश्च दूतिके ॥ १०४ स्त्रीपुंसौ प्रसंपन्नौ तौ बजेते संगम ततः । कायेन कायः संघृष्य मैथुनेन हि जायते ॥ १०० क्षणमात्रं च वे सोख्यं पुनः कण्डश्च तादृशी । सर्वत्र दृश्यते इति भावमेवंविधं किल ॥ १०६ व्रज त्वमात्मनः स्थानं नेवास्त्यत्र अपूर्वता । अपूर्व नास्ति में किंचित्कराम्यवं न संशयः॥१०७ इति श्रीमहापुराणे पाद्म भूमिखण्ड वेनोपाख्याने सुकलाचरिते त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-६०८०
अथ चतुप्पश्चाशत्तमोऽध्यायः ।
विष्णुरुवाचएवमुक्ता गता दूती तया सुकलया तदा । समासेन सुसंप्राक्तमवधार्य पुरंदरः ॥ तदर्थ भाषितं तस्याः सत्यधर्मसमन्वितम् । आलोच्य साहसं धैर्य ज्ञानमेव पुरंदरः॥ २ ईदृशं न वदेत्काचिनारी भूत्वा महीतले । योगरूपं सुमिद्धं च ज्ञानोदकेन क्षालितम् ॥ ३ पवित्रेयं महाभागा सत्यरूपा न संशयः । त्रैलोक्यं हि समस्तं तु एषा धर्तुं भवेत्क्षमा ॥ ४ एतदर्थ विचार्येव जिष्णुः कन्दर्पमब्रवीत् । त्वया सह गमिप्यामि दृष्टुं तां कलां (ल)प्रियाम्।।५ प्रत्युवाच सहस्राक्षं मन्मथो बलदर्पितः । गम्यतां तत्र देवेश यत्राऽऽस्ते सा पतिव्रता ॥ ६ ज्ञानं वीर्य बलं धैर्य तस्याः सत्यं पतिव्रतम् । गत्वाऽहं नाशयिष्यामि कियन्मात्रा(त्र) सुरेश्वर ७ समाकर्ण्य सहस्राक्षो वचनं मन्मथस्य च । भो भो दूत शृणुष्व त्वमधिकं भाषितं त्वया ॥ ८ सुदृढा सत्यवीर्येण सुस्थिरा धर्मकर्मभिः । सुकलेयमजेया वै तत्र ते पौरुषं न हि ॥ ९ इत्याकर्ण्य ततः क्रुद्धो मन्मथस्त्विन्द्रमब्रवीत्। ऋषीणां देवतानां च मया बलं प्रणाशितम् ॥१० अस्या बलं कियन्मानं भवेन्मम प्रकथ्यताम् । त्वं च पश्यस्व देवेश नाशयिष्यामि तां स्त्रियम् ।। भवन्तं वै यथा चाग्रे ततो दृष्ट्वा त्वरं व्रजेत् । तथेमां भावयिष्यामि रूपेण स्वेन तेजसा ॥ १२
* एतचिहान्तर्गतः पाठो ग. घ. ज. ट. ड. पुस्तकस्थः ।। १ ग. घ. ज. ड. 'गली पिङ्गला ना।२ ग. घ. ज. योः । पुंश्चली पुंश्चली । इ. 'योः । पुंश्चली शृङ्खला । ३ छ.ङ.द. 'हरभूता न । ४ ग. घ. ज. ट. इ. संस्थाने । ५ ग. ज. ड. स्थानं प्रमेही च च । ६ ङ. डी सुषुम्नाख्या च सं । ७ ग. मुरा नरापि तस्यैव कृष्णवर्णश्च कथ्यते । ज. ड. सुराननाऽपि तस्येव कृष्णवर्णश्च कथ्यते । ८ ग. घ. ज. ट. ड. पुनः ।
ग. घ. ज.ट. ड. भाषसे किं । १० ग भावितं ।११ ग. घ. ज. ट. ड. प्र । १२ क.ख.ड.च.छ.झ.ड. द. मानं ।
Page #241
--------------------------------------------------------------------------
________________
६४ चतुष्पञ्चाशत्तमोऽध्यायः] पमपुराणम्।
२३५ गच्छ तत्र महत्कार्यमुत्पाद्यं सांप्रतं ध्रुवम् । कस्मात्कुत्ससि मे तेजत्रैलोक्यस्य विनाशनम् ॥१३ विष्णुरुवाच
आकर्ण्य वाक्यं तु मनोभवस्य एषा न साध्या तव काम जाने । धर्मेण वीर्येण सुसत्यभावा पुण्येन पुण्या बहुपुण्यचारा ॥ पश्यामि तेजो बलमुग्रवीर्यमितो हि गत्वा च धनुष्मता वै । तेनापि साधं प्रजगाम देवो रत्या च दूत्या च पतिव्रतां ताम् ॥ एकां सुपुण्यां स्वगृहे स्थितां तां ध्याने प्रलीनां परिहतुकामाम् ॥ यथासुयोगं परिध्यायमानां विकल्पहीनी न च कल्पयेत्कः ॥ अत्यद्भुतं रूपमनन्यतेजःकन्दर्पयुक्तं हि सतां प्रमोदम् ॥ लीलायुतं भावयुनं महात्मा तस्याग्रमेवं च पुनर्ददर्श ॥ दृष्ट्वा सुलीलं पुरुषं महान्तं चरन्तमेवं परिकामभावम् ॥ जाया हि वैश्यस्य महान्मनस्तु मेने न सा रूपगुणं न तेजः ॥ जलं यथा पद्मदले गतं वै प्रयाति दूरं च दलं विहाय ॥ शङ्काकुलं मानसमेव सद्यः संजालमस्यास्तु पतिव्रतायाः ॥ अनेन दूनी परिप्रेषिता पुरा नं तु ध्रुवत्येव गुणज्ञमेनम् ।। लीलास्वरूपं बहु आत्मभावं मामेव सर्व परिदर्शयेद्यः॥ ममैव कालं प्रवलं प्रबुवा गते हि कान्त स्वगुणीघशृङ्खलैः ।। रत्या समेतः स कथं तु जीवत्पत्या स्वभावेन प्रसादितं च (?) ॥ ममापि भावं परिगृह्य कान्तोऽजीवत्कियान्वाऽपि सुबुद्धियुक्तः ॥ शून्यो हि कायो मम चास्ति सद्यश्चेष्टाविहीनो मृतकल्प एव ।। कायस्वयानस्य प्रजाः प्रनष्टा सुहृत्क्रियाख्यं परिगृह्य कर्म । ममापि केनापि समं तु कान्तं स ऊर्ध्वशोभामनयञ्च कामः ॥ यदा स्तुतो वचनहर्षयुक्तः स्वकन्धरोपरि नृत्यमानः ॥ दत्त्वा अनेनापि प्रभाषयेध्रुवं यो मां हि वाञ्छत्यपि भोक्तुकामः ॥ एवं विचार्यैव तदा महासती सत्याख्यरज्ज्वी विनिबद्धतेजाः ॥ ज्ञात्वा गृहान्तः प्रविवेश सा तदा स्वकान्तभावं निजमेव रक्ता । इति श्रीमहापुराणे पाझे भमिखण्डे वेनोपाग्व्याने सुकलाचरिते चतुष्प नाशत्तमोऽध्यायः ॥ ५४ ॥
आदितः श्लोकानां समष्ट्यङ्काः-६१०५
१ ग. घ. ज. त्यराता पु । ड. त्यदेहा पु । २ ग. रिभर्तुयुक्ताम् । ३ ग. घ. अ. कत्थहीनां नरकस्य एकाम् । अ । ४ म. नां तु रहस्य एकाम् । अ। ५ क. ख. ग. घ. च. छ. झ. ट. ड. दे. प्रमोहम् । ६ क. ख. र. च. छ. स.ट, ... भोगयुतं । ७ क. ख. कु.च. छ. स. द. "वेत्सत्यात्मभारेण प्रमदितश्च । म । इ. 'वेत्सत्याश्च भा।८क.ख. . च. छ. झ२. द. कामस्य प्रामस्य । ९ग. घ. ज.ट. ड. 'हृत्कृपाख्यं । १० क.ख. ग. घ. झ. ढ. भाननमेयकायः । । ११. ज्वा नियतं विचेतः ।
2
am
Page #242
--------------------------------------------------------------------------
________________
[ २ भूमिखण्डे
महामुनिश्रीव्यासपणीतंअथ पञ्चपञ्चाशत्तमोऽध्यायः ।
विष्णुरुवाच
भावं विदित्वा सुरराट् तु तस्याः प्रोवाच कामं पुरतः स्थितं तम् ।। न चास्ति शक्या सुकला विजेतुं सत्यात्मकं ध्यानमुदंशिता(?)सती ॥ धर्माख्यचापं स्वकरे गृहीत्वा जानाति ध्यानं वरमेकबाणम् । योद्धं रणे संप्रति संस्थिता सती वीरो यथा दर्पितवीर्यभावः ।। जिगीषतेयं पुरुषार्थमेव त्वमात्मयुक्तः कुरु पौरुषं तु । देवा न जेतुं सुकलां समर्था यद्भव्यमेवं हि मयैव चिन्त्यम् ॥ दग्धोऽसि पूर्व त्वमिहेव शंभुना महात्मनोऽनेन समं विरोधम् । कृत्वा फलं तस्य विकर्मणश्चै प्राप्तोऽस्यलं भस्म सुमत्यमेव ॥ यथा पुरा कर्म कृतं त्वया स्मर प्रारब्धमेवं तु तथैव तीव्रम् ।। मुकुत्सितां कीर्तिमवाप्स्यमि ध्रुवं माध्वी मया सार्धमिहेव कुप्यते ॥ येऽज्ञानवन्तः पुरुषा जगत्रये वैरं विकुर्वन्ति महात्मभिः समम् । भुञ्जाव दुःखं तदनन्तपारं चापायुधास्याश्च तपोविनाशा(त) ॥ व्याघुप्य आवां तु व्रजाव काम एनां परित्यज्य सती प्रयुक्ताम् । सत्याः प्रसङ्गेन पुरा मया तु लब्धं फलं पापमयं त्वमह्यम् ॥ त्वमेव जानासि चरित्रमेतच्छतोऽस्मि तेनापि च गोतमेन । जातश्च सर्वाङ्गभगाङ्ककोऽहं भवान्गतो मां तु विहाय तत्र ।। तेजःप्रभावो ह्यतुलः सतीनां धाता ममर्थः सहितुं न सूर्यः । मुंकुत्सितं रूपमिदं तु रक्षेत्पुराऽनुसयामुनि(ना) हि शप्तम् ॥ [*निरुध्य सूर्य परितेजवन्तमुद्यन्तमेवं प्रभया सुदीप्तम् । भतुश्च मृत्यु परिज्ञाय कामं ] माण्डव्यशप्तस्य तु कोण्डिकस्य ।। अत्रेः प्रिया सत्यमया पतिव्रता स्वपुत्रतां देवत्रयं हि निन्ये । तथा पुरा मन्मथ तं श्रुतं यर्दा सत्कारयोग्याः प्रभवन्ति सत्यः । सावित्रीनाम्नी द्युमत्सेनपुत्री नीतं प्रियं सा त्विह आनिनाय । यमादहो सत्यवतश्च पत्नी सतीत्वमेवं परिपूजितं च ॥ अग्नेः शिखां कः परिसंस्पृशेट्टै भवेद्धि कः सागरमंव रूढः । गले तु बद्ध्वा मुशिला महत्तरां यो मर्तुकामः परिचालयंत्सतीम् ।। उक्ते तु वाक्ये बहुनीतियुक्त इन्द्रेण कामस्य सुशिक्षणार्थम् । आकर्ण्य वाक्यं मकरध्वजस्तु उवाच देवेन्द्रमथैनमेव ॥
* एतचिहान्तर्गतः पाठः क. ख. ग. घ. ङ. च. छ इ. इ. ढ. पुस्तकस्थः ।। १ ग. घ. ज. 'स्ति मानं सुरतेच जे । २ क. ख. ग. घ. ङ. च. छ. स. ट. ड. ड. 'ना तेन । ३ क. ङ. स. ट. 'च जातोऽस्यनाः स्मर स । ४ अ. 'रं न कु। ५ क. ख. ङ. च. छ. स. द. मुकुष्ठिनं । ६ क. ख. ग. घ. ङ. च. छ. ज.स. ट. उ. द. 'दा ममस्कारयुक्ताः प्र।
Page #243
--------------------------------------------------------------------------
________________
५६ षट्पञ्चाशत्तमोध्यायः ]
पद्मपुराणम् । तवातिदेशादहमागतो वै धैर्ये सुहृत्त्वं पुरुषार्थमेव ।। त्यक्त्वा तदर्थ परिभाषसे मां निःसत्त्वरूपं बहुभीतियुक्तम् ।। बुद्धि (?) यास्यामि यदा सुरेश स्याल्लोकमध्ये मम कीर्तिनाशः ॥ टिंकरो मानविहीन एव सर्वे वदिष्यन्त्यनया जितं माम् ॥ ये वै जिता देवगणाश्च दानवाः पूर्व मुनीन्द्रास्तपसा प्रयुक्ताः ॥ हास्यं करिष्यन्ति ममापि सद्यो नार्या जितो मन्मथ एष भीतः ।। तस्मात्प्रयास्यामि त्वयैव सार्धमस्या वलं मानधनः सुरेश ॥ तेजश्च धैर्य परिनाशयिष्ये भवांस्तु कस्मात्प्रविभेति इन्द्र ॥ संबोध्य चैवं ससुराधिनाथं चापं गृहीत्वा सशरं सपुष्पम् ॥ उवाच क्रीडां पुरतः स्थितां सखीं विधाय मायां भवति प्रयाहि ।। वैश्यस्य भार्या सुकलां सुपुण्यां सत्ये स्थितां धर्मविदां गुणज्ञाम् । इतो हि गत्वा कुरु कार्यमुत्तमं साहाय (य्य) रूपं च प्रिये सखे शृणु ॥ क्रीडां समाभाष्य ततो मनोभवस्त्वन्ते स्थितां प्रीति ( : ) मथाऽऽहयत्पुनः || कार्य भवत्या मम कार्यमुत्तममेनां सुहृद्यैः परिभावयस्त्र | इन्द्रं हि दृष्ट्वा सुकला यथा भवेत्स्नेहानुगा चारुविलोचनेयम् । तैस्तैः प्रभावैर्गुणवाक्ययुक्तैर्नयस्व वश्यं मम व्याकुलां कुरु || भो भोः सखे साधय गच्छ शीघ्रं मायामयं नन्दनरूपयुक्तम् । पुष्पोपयुक्तं तु फलप्रभावं घुष्टं रुतैः कोकिलषट्पदानाम् ॥ आहूय वीरं मकरन्दमेव रसायनं स्वाद्गुणैरुपेतम् । सहानिलाद्यैनिजकर्मयुक्तः संप्रेषयित्वा पुनरेव कामः || चक्रे प्रयाणं सुरराजसा संमोहनायापि महासती ताम् ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने मुकलाचरिते पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥ आदितः श्लोकानां समथ्र्यङ्काः - ६१२९
अथ पटपञ्चाशत्तमोऽध्यायः ।
२३७
१५
१६
१७
१८
१९
२०
२१
२२
२३
२४
विष्णुरुवाच --
२
तस्याः सत्यविनाशाय मन्मथश्च सुराधिपः । प्रस्थितौ सुकलां तहिं सत्यं धर्ममथाब्रवीत् ।। १ पश्य धर्म महाप्राज्ञ मन्मथस्यापि चेष्टितम् । तवार्थमात्मनश्चैव पुण्यस्यापि महात्मनः ।। विसृजामि महत्स्थानं वासरूपं सुखोदयम् । सत्याख्यं स च विप्राख्यं सुदेवाख्यं गृहोत्तमम्।। ३ तमेव नाशयैज्ज्ञात्वा काम एष प्रसन्नधीः । द्विषद्रूपः सुदुष्टात्मा अस्माकं हि न संशयः ।। ४
१ ज. व्यायुध्य । २ ग घ. ज. ट. अयस्करी । ३ क. ख. ङ. च. छ. झ. द. भीमः । ४ ग घ ङ. ज. ड ढ सुनेहैः । ५ क. ख. ङ. च. छ. हामतीनाम् । ६ ग घ झ. ड. द. सतीनाम् । ७ ग. घ. ज. ट. सुरनिर्मुक्ती सौं । ८ म. ममैव । ९ क. ख. ङ. च. छ. झ. इ. येगत्वा । १० क. ख. च. प्रमादधी । ङ. छ. झ. प्रमत्तधीः । ११ ग. घ. ज. ट. ड. विश्वरूपः ।
Page #244
--------------------------------------------------------------------------
________________
२१८ महामुनिश्रीव्यासमणीत
[ २ भूमिखण्डेपतिस्तपोधनो विप्रः सती भार्या पतिव्रता । सुसत्यो भूपतिधर्मो मम गेहं न संशयः॥ ५ यत्राहं वृद्धिसंतुष्टा त(टस्त)त्र वासो हि ते भवेत् । तत्र पुण्यं समायाति श्रद्धया सह क्रीडते ॥६ क्षमा शान्तिसमायुक्तमायाति मम मन्दिरम् । संतोषश्च दमश्चैव दया सौहृद एव च ॥ ७ मज्ञायुक्तः स निर्लोभो यत्राहं तत्र संस्थितः । शुचिप्रभावस्तत्रैव अमी वै सत्यबान्धवाः ॥ ८ अस्तेयमप्यहिंसा च तितिक्षा बुद्धिरेव च । मम गेहे समायान्ति धन्यतां शृणु धमेराट् ॥ ९ गुरुणा च पितृभ्यां च विष्णुर्लक्षम्या समन्वितः । मद्नेहं तु समायान्ति देवाश्चाग्निपुरोगमाः॥१० मोक्षमार्ग प्रकाशेद्यो ज्ञानौदार्यसमन्वितः । एतेः सार्ध वसाम्येव मतीषु धर्मवत्सु च ॥ ११ साधुष्वेतेषु सर्वेषु गृहरूपेषु मे सदा । भक्तेनापि कुटुम्बेन वसाम्येव त्वया सह ॥ १२ समर्थाः साधुरूपास्ते वेधसा मे गृहाः कृताः । संचरामि महाभाग स्वच्छन्देन बलीयसा ॥ १३ ईश्वरश्च जगत्स्वामी त्रिशूली वृषवाहनः । मम गेहस्वरूपेण वर्तते शिवसंगतः ॥ तदहं संस्थितो याचे गृहरूपं महेश्वरम् । सदनं शंकराख्यं मे नाशितं मन्मथेन वै ॥ १५ विश्वामित्रं महात्मानं तपन्तं तप उत्तमम् । मेनकां हि समाश्रित्य कामो नाशितवान्पुरा ॥ १६ सती पतिव्रताऽहल्या गौतमस्य प्रिया शुभा । सत्याच चालिता तेन मन्मथेन दुरात्मना ॥ १७ मुनयः सत्यधमेशा नानास्त्रियः पतिव्रताः। सस्पृहाश्च कृताः सर्वा दीपिताः कामवह्निना ॥ १८ दुर्धरो दुःसहः पापी योऽतिसत्येषु निष्ठुरः । मामेव पश्यते नित्यं कथितः कुत्र तिष्ठति ॥ १० स मां ज्ञात्वा समायाति बाणपाणिर्धनुर्धरः । नाशयेन्मद्गृहं पापा वीतिहोत्रेश्च नामकैः ॥ २० पापलेशाश्व ये कूटा अन्ये पाषण्डसंश्रयाः । ते तु बुद्ध्याऽहिताः सर्वे सत्यगेहं विशन्ति हि॥२१ सेनाध्यक्षैरसत्यैस्तु च्छमना तेन साधितः । पातयेन्मर्दयद्गहं पापः शस्त्रैर्दुरात्मभिः २२ मामेवं ताडयत्मायो महाबलमनोभवः । अस्य नाना प्रदग्धोऽहं शून्यतां हि व्रजामि वै ॥ २३ नूतनं गृहमिच्छामि स्त्रियं सत्यं च भूपतिम् । कृकलस्यापि वैश्यस्य पियेयं शिवमङ्गला ॥ २४ सदहं सुकुलाख्यं मे दग्धुं पापः समुत्थितः । अयमेष सहस्राक्षः कामेन सहितो बली ॥ २५ कामस्य कारणात्कस्मात्पूर्ववृत्तं न विन्दति । अहल्यायाः प्रसङ्गेन मन्दपुंस्त्वं प्रजग्मिवान् ॥२६ पौरुषं हि ततो नष्टं सत्यस्यैव प्रधर्षणात् । नष्टः कामस्य दोषेण सुरराट् तत्र संस्थितः ॥ २७ भुक्तवान्दारुणं शापं दुःखेन महताऽन्वितः । कृकलस्य मियामेतां सुकलां धर्मचारिणीम् ॥ एष हर्तुं सहस्राक्ष उद्यतः कामसंयुतः ॥ कथमेतेन इन्द्रेण न प्रयाति तथा कुरु । धर्मराज महाप्राज्ञ भवान्मतिमतां वरः ॥
धमेराज उवाचऊन तेजः करिष्यामि कामस्य मरणं तथा । उपायः स मया दृष्टो येनाचैव विनश्यति ।। ३० प्रयात्वेषा महामज्ञा शकुनीरूपधारिणी । भर्तुरागमनं पुण्यं शब्देनाऽऽख्यातु वै यतः॥ ३१ शकुनस्य प्रभावेन भर्तुश्चाऽऽगमनेन च । हृष्टा पुष्टाऽभविष्यत्सा स्थिरचित्ता न संशयः ॥ ३२ प्रज्ञा च प्रेषिता तेन गता सा मुकलाग्रहम् । प्रकुर्वती महच्छन्दं हृष्टं दैवज्ञमेव च ॥ ३३ [*पूजिता मानिता पुण्या धूपगन्धादिभिस्तदा । ब्राह्मणं पृच्छती ज्ञानं केदेष्यति पतिर्मम]।। ३४
* एतचिहान्तर्गतः पाठः क. ख. ग. घ. ङ. च. छ. ज. झ. ट. ड. द. पुस्तकस्थः । १ क. ख. छ. स. ढ. 'दा । उक्ते । २ ट. कुपितः । ३ ग. 'ध्यक्षोऽसत्यस्तु । ४ ग. घ. ज. ट. इ. येद्देह । ५ ड. 'येत्पापोमा ६ क.ख.ग.घ.ङ.च.छ.स.ट.ड.ढ. धाना । ७ ट.तः । यथा चैते। ८ क.ख.ड.च.छ. प्रज्ञा । ९ग. ह. किमेष्यति।
०
..
Page #245
--------------------------------------------------------------------------
________________
५७ सप्तपञ्चाशत्तमोऽध्यायः ]
ब्राह्मण उवाच -
भर्तुश्वाऽऽगमनं भद्रे तवैवं वदति ध्रुवं । दिनानां सप्तकात्पूर्वमागमिष्यति नान्यथा ॥ इत्येवमाकर्ण्य सुमङ्गलं वचः प्रहर्षयुक्ता सहसा बभूव ।। धर्मज्ञमेकं सुगुणं च कान्तं कृतप्रतिष्ठं हि समागतं तम् ॥
पद्मपुराणम् ।
इति श्रीमहापुराणे पाद्मे द्वितीये भूमिखण्डे वेनोपाख्याने मुकुलाचरिते षट्पञ्चाशत्तमोऽध्यायः ॥ ५६ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ६१६५
अथ सप्तपञ्चाशत्तमोऽध्यायः ।
२३९
३५
३६
विष्णुरुवाच -
क्रीडा सतीरूपधरा सुभूत्वा गेहे गता चारुपतिव्रतायाः ॥ तामागतां संमुखं रूपयुक्तां सा सादरं वाक्यमुवाच धन्या ॥ वाक्यैः सुपुण्यैः परिपूजिता सा उवाच क्रीडा सुकलां विहस्य | मायानुगं विश्वविमोहनं सती प्रत्युत्तरं सत्यप्रमेययुक्तम् ॥ ममापि भर्ता कलो गुणज्ञो धीरः सुविद्वान्महिमाप्रयुक्तः ।। त्यक्त्वा गतः पुण्यतरः सुपुण्यां मामेव नाथः शृणु पुण्यकीर्तिः ॥ [ *वाक्यैः सुपुण्यैः सुकलासुयुक्तः परिष्वजेन्मे सुकलात्मना कैः ] आकर्ण्य सर्व कला तदुक्तं सा शुद्धभावं च प्रभाषयेत्ताम् || कस्माद्गतः सुन्दरि नाथ तेऽद्य विहाय त्वां रूपवतीं च साध्वीम् ॥ आख्यातु सर्व भवती स्वभर्तुः संखीस्वरूपा गृहमागता मे ॥ क्रीडा बभाषे शृणु सत्यमेतच्चारित्रजातं मम भर्तुरस्य । अहं प्रिये तस्य सदैव युक्ता यमिच्छते तं परिसाधयामि । कर्मस्वपुण्यं वचनं स्वभर्तुःयनोपयुक्ता सकलं करोमि । एकान्तशीलस्य गुणैकधान्नः सुभाषितं कान्तमिव देवि ।। मम पूर्वविपाकोऽयं संप्रत्येवं प्रवर्तते । यतस्त्यक्त्वा गतां भर्ती मामेवं मन्दभागिनीम् ॥ सखे न धारये जीवं स्वकीयं कायमेव च । पत्या विना कथं नार्यः सुजीवन्ति च निर्घृणाः ॥ ९ रूपसौभाग्यशृङ्गारसुखं संपत्तिरेव च । नारीणां हि महाभागे भर्ता शास्त्रेषु गीयते ।। तच्च सर्वे समाकर्ण्य यदुक्तं क्रीडया तदा । सत्यभावं विदित्वाऽस्याः सर्व संभाषितं तथा ॥ ११ विषण्णा सा महाभागा सुकला पतिदेवता । तामुवाच ततः सर्वमात्मचेष्टानुगं वचः ।। १२ समासेन समाख्यातं पूर्ववृत्तान्तमात्मनः । यथा भर्ता गतो यात्रां पुण्यसाधनतत्परः ।। आत्मदुःखं सुखं चोक्त्वा विरराम मनस्विनी । बोधिता क्रीडया सा तु समाश्वास्य पतिव्रता १४
ሪ
१०
१३
* एतचिद्वान्तर्गतः पाठो ग. च. ड. पुस्तकस्थः ।
३
४
१ ग. घ. ज. ठ. ड. स्थिरम् । २ ग. प्तमध्ये स आग । ३ क. ख. च. छ. झ. द. प्रबलो। ट. कुशलो । ४८. सुखस्वरूपा । ५ ड. 'स्वभावं व । ६ ग. शीला सगुणेन रन्या शुश्रूषि । ७ क. ख. ड. च. छ. झ. द. विश्वस्ता ।
Page #246
--------------------------------------------------------------------------
________________
२४०
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेसूत उवाचएकदा तु तया प्रोक्तं क्रीडया सुकला प्रति । सखे पश्य वनं सौम्यं दिव्यैर्वृक्षरलंकृतम् ॥ १५ तत्र तीर्थ परं पुण्यमस्ति पातकनाशनम् । नानावल्लीवितानेश्च सुपुण्यैः परिशोभितम् ॥ १६ आवाभ्यामपि गन्तव्यं पुण्यहेतोर्वरानने । समाकर्ण्य तया सार्धं सुकला मायया तदा ॥ १७ प्रविवेश वनं दिव्यं नन्दनोपममेव सा । सर्वतुकुसुमोपेतं कोकिलाशतनादितम् ॥ गीयमानं सुमधुरैर्नादैर्मधुकरैरपि । कूजद्भिः पक्षिभिः पुण्यैः पुण्यध्वनिसमाकुलम् ॥ १९ चन्दनादिसुक्षैश्च सौरभैश्च विराजितम् । सर्वभावैः सुसंपूर्ण माधव्या माधवेन वै ॥ २० चरितं मोहनायैव मुकलायाश्च कारणात् । तया सार्ध प्रविष्टा सा तद्वनं सर्वभावनम् ॥ २१ ददर्श सौख्यदं पुण्यं मायाभावं न विन्दति । पश्यमाना वनं दिव्यं तया सह जनेश्वरः (र)।।२२ सुकौतुकान्यनेकानि दैवयुक्तानि तानि सा । तया रत्या सुसंयुक्तः कामः शक्र(क्रः) समागतः॥ सर्वभोगपतिर्भूत्वा कामलीलासमाकुलः । कामदेवं समाभाष्य एषा सा सुकलाऽऽगता ॥ २४ पहरस्व महाभागां क्रीडायाः पुरतः स्थिताम् । मायां कृत्वा समानीतां क्रीडया तव संनिधौ ।। पौरुषं दर्शयाचैव यद्यस्ति कुरु निश्चितम् ।
२५ काम उवाचआत्मरूपं दर्शयस्व चतुरं लीलयाऽन्वितम् । येनाहं प्रहर त्वेनां पञ्चवाणैः सहस्रदृक् ॥ २६
इन्द्र उवाचकाऽऽस्ते सुपौरुषं मूढ येन लोकं वितन्वितम् । ममाऽऽधारपरो भृत्वा योद्धुमिच्छमि सांप्रतम् २७
काम उवाचतेनापि देवदेवेन महादेवेन शूलिना । पूर्वमेव हतं रूपं मम कायो न विद्यते ॥ २८ इच्छाम्यहं यदा नारी हन्तुं शृणुप्व सांप्रतम् । पुंसः कायं समाश्रित्य ह्यात्मरूपं प्रदर्शये ॥ २९ पुमांसं वा सहस्राक्ष नार्याः कायं समाश्रये । पूर्व दृष्ट्वा यदा नारी तामेव परिचिन्तयेत् ॥ ३० चिन्त्यमानस्य पुंसस्तु नारीरूपं पुनः पुनः । अदृष्टं तत्समाश्रियं पुंसमुन्मादयाम्यहम् ॥ ३१ तथाऽप्युन्मादयाम्येव नायोगमनसंशयः । संस्मरणात्स्मरो नाम मम जातं सुरेश्वर ॥ ३२ तादृशोऽतादृशो रङ्गवस्तुरूपं समाश्रये । आत्मतेजःप्रकाशन बाध्यबाधकतां व्रजेत् ॥ ३३ [*नारीरूपं समाश्रित्य धीरं पुरुष प्रमोहयेत् । पुरुषं तु समाश्रित्य भावयामि सुयोषितम् ॥३४ रूपहीनोऽस्मि हे इन्द्र अस्मद्पं समाश्रयेत् । तव रूपं समाश्रित्य तां साधये यथेप्सिताम् ॥३५ एवमुक्त्वा स देवेन्द्र कायं तस्य महात्मनः । सखाऽसो माधवस्यापि ह्याश्रित्य कुसुमायुधः॥३६
तामेव हन्तुं कुसुमायुधोऽपि साध्वीं सुपुण्यां कृकलस्य भार्याम् ।
समुत्सुकस्तिष्ठति बाणपाणिर्लक्ष्यं तु तस्या नयनं विलोक्य ।। इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने सुकलाचारते सप्तपश्चाशत्तमोऽध्यायः ॥ ५७ ॥
आदितः श्लोकानां समष्टयङ्काः-६२०२
* एतचिहान्तर्गतः पाठो ज. ट. . पुस्तकस्थः ।
१ छ. स. द. सुपुष्पैः । २ क. ख. ग. घ. ङ. छ झ. ट. ढ. मायया । ३ क. ख. ड. छ. झ. ड. द. विडमित। ४ म. 'त्य पुंस्त्वमासादं। ५. 'म् । पुंस्त्वादापाद । ६. नार्या गर्भे न ।
Page #247
--------------------------------------------------------------------------
________________
८ अष्टपञ्चाशत्तमोऽध्यायः ]
पद्मपुराणम् ।
अथाष्टपञ्चाशत्तमोऽध्यायः ।
विष्णुरुवाच -
क्रीडाप्रयुक्ता सुवनं प्रविष्टा वैश्यस्य भार्या सुकला च तन्वी । ददर्श सर्व गहनं मनोज्ञं तामेत्र पमच्छ सखीं सती सा ॥ अरण्यमेतत्प्रवरं सुपुण्यं दिव्यं सखे कस्य मनोभिरामम् । सिद्धं सुकामैः प्रवरैः समस्तैर्मनोभवारामसमानकल्पम् ।। क्रीडोवाच
२४१
एतद्वनं दिव्यगुणैः प्रयुक्तं सिद्धस्वभावैः परिभावनेनं । पुष्पाकुलं कामफलोपयुक्तं विपश्य सर्व मकरध्वजस्य ॥
४
एवं वाक्यं ततः श्रुत्वा हर्षेण महताऽन्विता । समालोक्य महद्वृत्तं कामस्य च दुरात्मनः ॥ वायुनाssनीयमानं तं समाघ्रांति न सौरभे (भम् ) । वाति वायुः स्वभावेन सौरभ्येण समन्वितः ॥ ५ तद्वाणी विशते नाशं यथा तथा सुलीलया । सा गन्धं नैव गृह्णाति पुष्पाणां च वरानना ।। ६ न चाssस्वादयते तत्र फलानां वा रसं सती । म सखा कामदेवस्य रममाणो विलज्जितः ॥ ७ [*लज्जितः प्राङ्मुखो भूत्वा भूपालवचनच्छदैः । फलेभ्यस्तु सुपकेभ्यः पुष्पमञ्जरिभ्यस्ततः ॥ विरूपचापतद्भूमौ रुदत्येष तया जितः ] ॥
८
९
मकरन्दः सुदीनात्मा फलाद्भुवि गतः पुनः । भक्ष्यते मक्षिकाभिश्च यथा मूर्खवचस्तथा ॥ मक्षिकाभक्ष्यमाणस्तु प्रवाहेणैव याति सः । मन्दं मन्दं प्रयात्येव तं हसन्ति च पक्षिणः ।। १० नाना [रुतैः प्रचलन्ति सुखमानन्दनिर्भराः । प्रीत्या ] शकुनयस्तत्र वनमध्यनगस्थिताः ॥ सुकलया जितो ह्येष निम्नं पन्थानमास्थितः ॥
११
१२
प्रीत्या समेता रतिः कामभार्या श्रुत्वाऽब्रवीत्सा सुकलां विहस्य । स्वस्त्यस्तु ते स्वागतमेव भद्रे रमस्व प्रीत्या त्वनया च रत्या ।। वदन्त्यौ तौ (ते) स्त्रियो (यौ) दृष्ट्वा श्रुत्वोवाच सुभाषितम् । रतिं प्रति गृहीत्वा मे गतो भर्ता महामतिः यत्र मे तिष्ठते भर्ता तत्राहं पतिसंयुता । तत्र कामश्च मे प्रीतिरयं कायो निराश्रयः ॥ द्वे अप्युक्तं समाकर्ण्य रतिप्रीती विलज्जिते । व्रीडमाने गते ते द्वे यत्र कामो महाबलः ॥ ऊचतुस्तं महावीरमिन्द्रकायसमाश्रितम् । चापमाकर्षमाणं तं नेत्रलक्ष्यं महाबलम् ।। दुर्जयेयं महाप्राज्ञ त्यज पौरुषमात्मनः । पतिकामा महाभागा पतिव्रता सदैव सा ॥
-
१४
१५
१६
१७
काम उवाच
अनerssलोक्यते रूपमिन्द्रस्यास्य महात्मनः । यदि देवि तदा चाहं हनिष्यामि न संशयः ॥ १८ अथ वेषधरो देवो महारूपः सुराधिपः । यस्यामनुगतस्तूर्ण परया लीलया तदा ।। सर्वभोगसमाकीर्णः सर्वाभरणशोभितः । दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ।।
१९
२०
* एतच्चिहान्तर्गतः पाठो ग घ ङ. छ. ट. ड ढ पुस्तकस्थः। एतच्चिहान्तर्गतः पाठो ड. पुस्तकस्थः ।
१ क. ख. ग, घ, ङ. च. छ. उ. रिमाधवेन । २ ड. 'न । वृक्षैर्युतं पुष्पफ' । ३ अ. प्रायातिसौ ।४ क. ल. ग. घ. ङ. च. छ. ड. विनिर्जितः ।
३१
Page #248
--------------------------------------------------------------------------
________________
२४२ महामुनिश्रीव्यासप्रणीतं
[२ भूमिखण्डेतया रत्या समायातो यत्राऽऽस्ते पतिदेवता । प्रत्युवाच महाभागां सुकलां सत्यचारिणीम्।।२१ पूर्व दूतीसमक्षं ते प्रीतिस्तु पहिता मया । कस्मान्न मन्यसे भद्रे भज मां त्वमिहाऽऽगतम् ॥ २२
सुकलोवाचरक्षायुक्ताऽस्मि भद्रं ते भर्तुः पुत्रैर्महात्मभिः । एकाकिनी सहायैश्च नैव कस्य भयं मम ॥ शुरैश्च पुरुषाकारैः सर्वत्र परिरक्षिता ॥ नातिप्रस्तावये वक्तुं व्यग्रा कर्मणि तस्य च । यावत्मस्पन्दते नेत्रं तावत्कालं महामने ॥ २४ भवान्न लजते कस्माद्रममाणो मया सह । भवान्को हि समायातो निर्भयो मरणादपि ॥ २९
इन्द्र उवाचत्वामेवं हि प्रपश्यामि वनमध्ये समागताम् । ममाख्यातास्त्वया शूरा भर्तुश्च ननयाः पुनः ॥ कथं पश्याम्यहं तावदर्शयस्व ममाग्रतः॥ सुकलोवाच
निजगृहमपवर्गस्याऽऽधिपत्ये निवेश्य धृतिमतिगतिबुद्ध्याख्येस्तु संन्यस्य सत्यम् ।। __ अचलसकलधर्मो नित्ययुक्ता महात्मा शमदमसहधर्मात्मा सदा मां जुगोप ॥. ___ मामेवं परिरक्षते दमगुणस्तस्तैः सुधर्मः सदा सत्यं पश्य समागतं मम पुरः शान्तिक्षमाभ्यां युतम् ॥ __सत्याख्यस्तु महाबलः पृथुयशा यां मां न मुञ्चन्कदा
बद्ध्वा मां दृढबन्धनः सुनियतं पुण्यत्वमेवं गतः ॥ रक्षायुक्ताः कृताः सर्वे सत्यार्थाः शृणु सांप्रतम् । धर्मलोभातिगाः सर्वे दमबुद्धिपराक्रमाः ॥ २९. मामेवं हि परीक्षन्ते किं मां प्रार्थयसे बलात् । को भवानिर्भयो भृत्वा दृत्या साध समागतः३. सत्यधर्ममुखाः पुण्या ज्ञानाद्याः प्रबलाः सुताः। मम भर्तुः सहायाश्च ते मां रक्षन्ति वै सदा ३९ अहं रक्षापरा नित्यं दमशान्तिपरायणा । न मां जेतुं समर्थश्व अपि साक्षाच्छचीपनिः ॥ ३२ यदि वा मन्मथो वाऽपि समागच्छति वीर्यवान् । दंशिताऽहं सदा सत्यमत्या कष्टेन सर्वदा ३३ निरर्थकास्तस्य बाणा भविष्यन्ति न संशयः। त्वामेवं हि हनिप्यन्ति धर्माद्यास्ते महाबलाः।।३४ दूरं गच्छ पलायस्व माऽत्र तिष्ठ ममाग्रतः । वार्यमाणो यदा तिष्ठभस्मीभृता भविष्यसि ॥ ३५ भ; विना निरीक्षेत मम रूपं यदा भवान् । यथा दारु दहेद्वहिस्तथा धक्ष्यामि नान्यथा ।। ३६ एवमुक्तः सहस्राक्षो मन्मथं प्राह संमुखम् । पश्य पौरुषमेतासां युध्यस्व निजपौरुषः ॥ ३७ यथाऽऽगतास्तथा सर्वे महाशापभयातुराः । स्वं स्वं स्थानं महाराज इन्द्रायाः प्रययुस्तदा ॥३८ गतेषु तेषु सर्वेषु सुकला सा पतिव्रता । स्वगृहं पुण्यसंयुक्ता पतिध्यानेन चाऽऽगता ॥ ३९ स्वगृहं पुण्यसंयुक्तं सर्वतीर्थमयं तदा । सर्वयज्ञमयं राजन्संप्राप्ता पतिदेवता ॥ इति श्रीमहापुराणे पाझे भूमिखण्डे वेनोपाख्याने मुकलाचरितेऽष्टपश्चाशत्तमोऽध्यायः ॥ ५८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-६२४०
२८
१ क. ख. ग. घ. 3. च. छ. झ. ट. ड. ढ. इत्या । २ ग. घ. ह. म् । ज्ञातिख्यातिम । ३ क. ख. ग. घ. . च. छ. स. ट. ड., 'त्यसत्या '।
Page #249
--------------------------------------------------------------------------
________________
२४३
५९एकोनषष्टितमोऽध्यायः ]
पद्मपुराणम् ।
अर्थकोनषष्टितमोऽध्यायः ।
विष्णुरुवाचककला सर्वतीर्थानि साधयित्वा गृहं प्रति । प्रस्थितः सार्थवाहेन महानन्दसमन्वितः ॥ १ एवं चिन्तयते नित्यं संसारः सफलो मम । स्वर्ग प्रयान्ति ते सर्वे पितरो मम नान्यथा ॥ २ तावत्प्रत्यक्षरूपेण बद्ध्वा तस्य पितामहान् (हम्) । पुरतस्तस्य संब्रूते न हि ते पुण्यमुत्तमम् ॥ ३
*दिव्यरूपो महाकायः कुकलं वाक्यमब्रवीत् । तीर्थयात्राफलं नास्ति श्रम एव वृथा कृतः] ४ 'स्वयं संतोषमायाति न हि ते पुण्यमुत्तमम् । एवं श्रुत्वा तदा वैश्यः कृकलो दुःखपीडितः ॥५ भवान्को वा वदत्येवं कस्माद्रद्धः पितामहः । केन दोषप्रभावेन तन्मे त्वं कारणं वद ॥ ६ कस्मात्तीर्थफलं नास्ति मम यात्रा कथं न हि । मर्वमेवं समाचक्ष्व यदि जानासि संस्फुटम् ॥ ७
धर्म उवाचविनीतां विमला पुण्यां भार्या त्यक्त्वा प्रयाति यः। तस्य पुण्यतमं सर्व वृथा भवति नान्यथा ८ धर्माचारपरी पुण्यां साधुव्रतपरायणाम् । पतिव्रतपरां भार्या सुगुणां पुण्यवत्सलाम् ॥ ९ तामेवापि परित्यज्य धर्मकार्य प्रयानि यः । वृथा तस्य कृतः सर्वो धर्मो भवति नान्यथा ॥ १० सर्वाचारपरा धन्या धर्मसाधनतत्परा । सनीव्रतरता नित्यं सर्वज्ञा ज्ञानवन्सला ॥ ११ एवंगुणा भवेद्भायों यस्य पुण्या महासती । तस्य गेहे सदा देवास्तिष्ठन्ति च महौजसः ॥ १२ पितरो गेहमध्यस्था यशो वाञ्छन्ति तस्य च । गङ्गाद्याः सरितः पुण्याः मागरास्तत्र नान्यथा॥ [*पुण्या सती यस्य गहे वर्तते सत्यतत्परा । तत्र यज्ञाच गावश्च ऋपयस्तत्र नान्यथा ॥ १४ तत्र सर्वाणि तीर्थानि पुण्यानि विविधानि च । भायायोगेण निष्ठन्ति सर्वाण्येतानि नान्यथा १५ पुण्यभार्याप्रयागंण मुगार्हस्थ्यं प्रजायते। [गार्हस्थ्यात्परमा धर्मो द्वितीयो नास्ति भूतले ॥ १६ गृहस्थस्य गृहः पुण्यः मत्य पुण्यसमन्वितः । सर्वतीर्थमयो वैश्य सर्वदेवसमन्वितः] ॥ १७ गाहस्थ्यं च समाश्रित्य सर्वे जीवन्ति तत्वतः । तादृशं नैव पश्यामि ह्यन्यमाश्रममुत्तमम् ॥ १८ मत्राग्निहोत्रं देवाश्च सर्वे धर्माः सनातनाः । दानाचाराः प्रवर्नन्त यस्य मुमश्च वै गृहे ॥ १० एवं यो भार्यया हीनस्तस्य गेहं वनायते । यज्ञाश्चव न सिध्यन्ति दानानि विविधानि च ॥२० भार्याहीनस्य पुंसोऽपि न सिध्यति महाव्रतम् । धर्मकर्माणि मर्वाणि पुण्यानि विविधानि च २१ नास्ति भार्यासमं तीर्थ धर्ममाधन हेतवे । शृणुप्व त्वं गृहस्थस्य नान्यो धर्मो जगत्रये ॥ २२ यत्र भार्या गृहं तत्र पुरुषस्यापि नान्यथा । ग्रामे वाऽप्यथवाऽरण्ये सर्वधर्मस्य साधनम् ॥ २३ नास्ति भार्यासमं तीर्थ नास्ति भार्यासमं सुखम् । नास्ति भार्यासमं पुण्यं तारणाय हिताय च। धर्मयुक्तां सती भार्या त्यक्त्वा याति नराधमः । गृहधर्म परित्यज्य काऽऽस्ते धर्मस्य ते फलम् ॥ तया विना यदा तीर्थे श्राद्धं दानं कृतं त्वया । तेन दोषेण वै बद्धास्तव पूर्वपितामहाः ॥ २६ ___ * एतच्चिद्वान्तर्गतः पाठः क. ख. ग. घ. ड. च. छ. झ. इ. द. पुस्तकस्थः । 1 एतचिहान्तर्गतः पाठो ग. घ. छ. स. इ. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. द.पुस्तकस्थ: । एतचिहान्तर्गतः पाठः क. न. च. छ. झ. ह. पुस्तकस्थः ।
१ ड. पितामहः । २ ह. छ. द. शततीर्थफलं । ३ ड. 'च-तीर्थ सुशीला पुण्यां तां भा। ४ क. ख ग. प. ह. ... ट. ड. द. जन्तवः । ५ क. ख. ग. घ. दु. च. छ. झ. ट. ड. द. म् । यत्राग्नि । ६ क. ख. च. छ.स.ट. ड. वेदाश्च ।
Page #250
--------------------------------------------------------------------------
________________
२४४ महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेभवांश्चौरस्त्वमी चौरा यैश्च भुक्तं च लोलुपैः । त्वया दत्तस्य श्राद्धस्य अन्नमेवं तया विना ॥२७ सुपुत्रः श्रद्धयोपेतः श्राद्धदानं ददाति यः । भार्यादत्तेन पिण्डेन तस्य पुण्यं वदाम्यहम् ॥ २८ यथाऽमृतस्य पानेन पितॄणां तृप्तिर्जायते । पितॄणां नात्र संदेहः सत्यं सत्यं वदाम्यहम् ॥ २० गाईस्थस्य च धर्मस्य भार्या भवति स्वामिनी । त्वयैवं तां विना मूढ चौरकर्म कृतं वृथा ॥ ३० अमी पितामहाश्चौरा येश्च भुक्तं तया विना । भायो पचति चेवानं स्वहस्तेनामृतोपमम् ॥ ३१ तदन्नमेव भुञ्जन्ति पितरो हृष्टमानसाः । तेनैव तृप्तिमायान्ति संतुष्टाश्च भवन्ति ते ॥ ३२ तस्माद्भायर्या विना धर्मः पुरुषाणां न सिध्यति। [*नास्ति भार्यासमंतीर्थ सुपुंसां गतिदायकम् ॥ भायाँ विना हि यो धर्मः स एव विफलो भवेत ॥
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्यान एकोनषष्टितमोऽध्यायः ।। ५९ ॥
आदितः श्लोकानां समष्टयङ्काः-६२७३
अथ षष्टितमोऽध्यायः ।
कृकल उवाचकथं मे जायते सिद्धिः कथं पितृविमोचनम् । तन्मे सुविस्तरेणापि धर्मराज वदाधुना ॥ ?
धर्मराज उवाचगच्छ गेहं महाभाग त्वां विना दुःखिताऽभवत् । संबोधय त्वं सुकला सुपुण्यां धर्मचारिणीम् ॥ श्राद्धदानं गृहं गत्वा तस्या हस्तेन व कुरु ॥ स्मृत्वा पुण्यानि तीर्थानि पूजय त्वं सुरात्तमान् । तीर्थयात्राकृता सिद्धिस्तव चैव भविष्यति ॥३ भार्या विना हि यो लोको धर्म साधितुमिच्छति। विलोप्य धर्म गार्हस्थ्यमेकाकी विचरेद्वनम् ॥ विफलो जायते लोके नान्नमश्नन्ति देवताः ॥ यज्ञाः सिद्धिं न चाऽऽयान्ति गृहिणीरहिते गृहे । स एकाकी समर्थो न धमार्थसाधनाय च ॥५
विष्णुरुषाचएवमुक्त्वा गतो धर्मो यथाऽऽयातस्तथा पुनः। कृकलोऽपि स धर्मात्मा स्वगृहं प्रति प्रस्थितः ॥६ स्वगृहं प्राप्य मेधावी दृष्ट्वा तां च पतिव्रताम् । सार्थवाहेन तेनापि मुमुदे वाऽन्तरात्मना ॥ ७ तया समागतं दृष्ट्वा भर्तारं धर्मकोविदम् । कृतं सुमङ्गलं कर्म भर्तुरागमने तदा ॥ ८ समाचष्टे स धर्मात्मा धर्मस्यापि विचेष्टितम् । समाकर्ण्य महाभागा भर्तुर्वाक्यं मुंदावहम् ॥ धर्मवाक्यं प्रशस्याथ अनुमेने च तं तथा ॥ अथासौ ककलश्चापि तया सार्धं सुपुण्यकम् । चकार श्रद्धया श्राद्धं देवपूजां गृहे स्थितः ॥ १० पितरो देवगन्धर्वा विमानैश्च समागताः । तुष्टुवुस्तो महात्मानौ दंपती मुनयस्तथा ॥ ११ अहं चापि तथा ब्रह्मा देव्या युक्तो महेश्वरः। सर्वे देवाः सगन्धर्वास्तस्याः सत्येन तोषिताः१२ ऊंचुस्तौ तु महात्मानौ धर्मज्ञौ सत्यपण्डितौ । भार्यया सह भद्रं ते वरं वरय सुव्रत ॥ १३
* एतचिहान्तर्गतः पाठः क. स्व. ङ. च. छ. झ. ट. ढ. पुस्तकस्थः । १ क. ख. ड. च. छ. स. ढ. व वञ्चिता मू । २ ड. स्वभायो । ३ क. ख. ङ. च. छ. झ. ट. ड. द. द्धिं तदा यान्ति यदा स्यादृहिणी । ४ क. ख. ग. च. झ. ट. ड. द. पि स्वस्थान प्राप्य बुद्धिमान् । त। ५ छ. सुश्रद्धया ।
Page #251
--------------------------------------------------------------------------
________________
११ एकषष्टितमोऽध्यायः ]
कुकल उवाच
कस्य पुण्यस्य सङ्गेन तपसश्च सुरोत्तमाः । सभार्याय वरं दातुं भवन्तो हि समागताः ॥
१४
पद्मपुराणम् ।
इन्द्र उवाच
१६
एषा सती महाभागा सुकला चारुमङ्गला । अस्याः सत्येन तुष्टाः स्म दातुकामा वैरं तब ॥ १५ समासेन तु संप्रोक्तं सर्ववृत्तान्तमेव च । तस्याश्चरितमाहात्म्यं श्रुत्वा भर्ता स हर्षितः ॥ तया सह स धर्मात्मा हर्षव्याकुललोचनः । ननाम देवताः सर्वा दण्डवच्च पुनः पुनः ॥ यान्तु तुष्टिं महाभागास्त्रयो देवाः सनातनाः । अन्ये च ऋषयः पुण्याः कृपां कृत्वा ममोपरि १८ जन्मजन्मनि देवानां भक्तिमेवं करोम्यहम् । धर्मे सत्ये रतिः स्यान्मे भवतां हि प्रसादतः ॥ १९ पश्वाद्धि वैष्णवं लोकं सभार्यः सपितामहः । गन्तुमिच्छाम्यहं देवा यदि तुष्टा महौजसः ॥ २०
१७
देवा ऊचु:
एवमस्तु महाभाग सर्व तव भविष्यति । सुकलेयं महापुण्या तव पत्नी यशस्विनी ॥ विष्णुरुवाच -
२४५
अथैकपष्टितमोऽध्यायः ।
२२
इत्युक्त्वा पुष्पवृष्टिं तां तयोरुपरि भूपते । चक्रुर्जगुः पुण्यगीतं ललितं मधुरं ततः ।। गन्धर्वा गीततत्त्वज्ञा ननृतुश्चाप्सरोगणाः । ततो देवाः सगन्धर्वाः स्वं स्वं स्थानं नृपोत्तम ।। २३ वरं दत्त्वा प्रजग्मुस्ते स्तूयमानाः पतिव्रताम् । नारीतीर्थं समाख्यातमन्यत्किं प्रवदामि ते ॥ २४ एतत्ते सर्वमाख्यातं पुण्याख्यानमनुत्तमम् । यः शृणोति नरो राजन्सर्वपापैः प्रमुच्यते । श्रद्धया शृणुयान्नारी सुकलाख्यानमुत्तमम् । सौभाग्येन सुसत्येन पुत्रपौत्रैश्च युज्यते ॥ मोदते धनधान्यैव सह भर्त्रा सुखी भवेत् । पतिव्रता भवेत्सा च जन्मजन्मनि नान्यथा ॥ २७ ब्राह्मणो वेदवित्क्षत्रियो विजयी भवेत् । [धनधान्यं भवेत्तस्य वैश्यगेहे न संशयः ॥ २८ धर्मज्ञो जायते राजन्सदाचारः सुखी भवेत् । शूद्रः सुखमवाप्नोति पुत्रपौत्रः प्रवर्धते ।। विपुला जायते लक्ष्मीर्धनधान्यैरलंकृतः ] ॥
२५ २६
+ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने सुकलाचरिते पटितमोऽध्यायः ॥ ६० ॥ आदितः श्लोकानां समथ्र्यङ्काः - ५१२०
वेन उवाच -
भार्यातीर्थं समाख्यातं सर्वतीर्थोत्तमांत्तमम् । पितृतीर्थं समाख्याहि पुत्राणां तारणं परम् ॥ विष्णुरुवाच --
कुरुक्षेत्रे महापुण्ये कुण्डलो नाम भूसुरः । सुकर्मा नाम सत्पुत्रः कुण्डलस्य महात्मनः ।। गुरू तस्य महावृद्धौ धर्मज्ञौ शास्त्रकारिणौ । द्वावेतौ तौ महाप्राज्ञौ जरया परिपीडितौ ॥
२१
२९
२
३
t
* एतचिहान्तर्गतः पाठः क ख ग घ ङ च छ झ ट पुस्तकस्थः । अत्र 'इति पद्मपुराणे चतुर्थखण्डः समाप्तः इति ग. पुस्तके । 'इति चतुर्थखण्डः समाप्तः' इति घ. पुस्तके। (भूमिखण्डस्याऽऽदिभागोऽयम्) एतदपि क्वचित्पुस्तके दृश्यते ।
१ ङ. वरत्रयम् । स' । २क. ख. ड. च. छ. झ ट ड ढ नः । यदि तुष्टा म े । ३ क. ख. ङ. व. छ. झ. ८. 'कोविदौ । द्वा' |
Page #252
--------------------------------------------------------------------------
________________
,
.
.
a
२४६ महामुनिश्रीव्यासप्रणीतं
[२ भूमिखण्डेतयोः शुश्रूषणं चक्रे भक्त्या च परया ततः । धर्मज्ञो भावसंयुक्तो ह्यहर्निशमरिंदम ॥ ४ तस्माद्वेदानधीते स पितुः शास्त्राण्यनेकशः । सर्वाचारपरो दोन्तः सत्यवाज्ञानवत्सलः॥ ५
संवाहनं चक्रे गुर्वोश्च स्वयमेव सः । पादप्रक्षालनं चैव स्नानभोजनका क्रियाम् ॥ ६ भक्त्या चैव स्वभावेन सततं तन्मयो भवेत् । मातापित्रोश्व राजेन्द्र उपचर्या करोति सः॥ ७
सूत उवाच-- तद्वर्तमानकाले तु बभूव नृपसत्तम । पिप्पलो नाम वै विप्रः कश्यपस्य कुलोद्भः॥ धर्मकर्मा महाभाग जितात्मा जितविग्रहः । दमशौचशमोपेतः कामक्रोधविवर्जितः ॥ दशारण्ये गतो धीमाज्ज्ञानशान्तिपरायणः । सर्वेन्द्रियाणि संयम्य तपस्तेपे महामनाः ॥ १० तपःप्रभावतस्तस्य जन्तवो गतविग्रहाः । वसन्ति सुयुगे तत्र एकोदरगता इव ॥ तत्तपस्तस्य मुनयो दृष्ट्वा विस्मयमाययुः । नेदृशं केनचित्तप्तं यथाऽसौ तप्यते मुनिः॥ १२ देवाश्च इन्द्रप्रमुखाः परं विस्मयमाययुः । अहो अस्य तपस्तीत्रं शमश्चेन्द्रियसंयमः ॥ १३ निर्विकारो निरुद्वेगः कामक्रोधविवर्जितः । शीतवातातपसहो धराधर इव स्थितः ॥ १४ विषये विमुखो धीरो मनसोऽतीतसंग्रहः । न शृणांति यथा शब्दं कस्यचिट्विजसत्तमः ॥ १५ संस्थानं तादृशं गत्वा स्थित्वा एकाग्रमानमः । ब्रह्मध्यानमयो भूत्वा सानन्दमुखपङ्कजः ॥ १६ अश्मकाष्ठ इवात्यर्थं निश्चेष्टो गिरिवस्थितः । स्थाणुवदृश्यते चासी सुस्थिरो धर्मवन्सलः॥ १७ तपःक्लिष्टशरीरोऽतिश्रद्धावाननसूयकः । एवं वर्षमहस्रकं संजातं तस्य धीमतः ॥ १८ पिपीलिकाभिर्बह्वीभिः कृतं मृद्भारसंचयम् । तस्योपरि महाकायं वल्मीकानां च मन्दिरम् ॥ १९ वली(ल्मी)कोदरमध्यस्थो जडीभृत इव स्थितः । स एवं पिप्पला विप्रस्तप्यते सुमहत्तपः ॥२० कृष्णसप॑स्तु सर्वत्र वेष्टितो द्विजसत्तमः । तमुग्रतेजसं विषं दशन्ति स्म विषाल्बणाः॥ २१ संप्राप्य गात्राणि विषं त्वचं तस्य न भेदयेत् । तेजसा तस्य विप्रस्य नागाः शान्तिमथाऽऽगमन तस्य कायात्समुद्भता अर्चिषो दीप्ततेजसः । नानारूपाः सुबहुशो दृश्यन्त च पृथक्पृथक ।। २३ यथा वह्नः प्रदृश्यते तथैव च नृपोत्तम । यथा मेघोदर सूर्यः प्रविष्टो भाति राश्मिभिः ॥ वल्मीकस्थस्तथा विप्रः [*पिप्पलो भाति तेजसा ।। सर्प दंशन्ति विप्रं तं ] सक्रोधा दशनैरपि । न भिन्दन्ति दंष्टाग्राचम भित्त्वा नृपोत्तम ॥ २५ [ एवं वर्षसहस्रैकं तप आचरतस्ततः । गतं च राजराजेन्द्र मुनस्तस्य महात्मनः ॥ २६ त्रिकालं साध्यमानस्य लीलातपवधान्वितम् । गतं कालं महाराज पिप्पलस्य महात्मनः ।। २७ तद्वच्च वायुभक्षं च कृतं तेन महात्मना ] । त्रीणि वर्षसहस्राणि गतान्येवं च भूपते ॥ २८ तस्य मूनि ततो देवः पुष्पवृष्टिः कृता पुरा । ब्रह्मज्ञोऽसि महाभाग धर्मज्ञाऽसि न संशयः॥ सर्वज्ञानमयोऽसि त्वं संजातः स्वेन कर्मणा ॥
* एतचिहान्तगतोऽयं पाठः क. ख. घ. ह.च. छ.ज. झ. ड. द. पुस्तकस्थः । । एतचिहान्तर्गतोऽयं पाटः क. ख. घ. ङ. च. झ. ड. द. पुस्तकस्थः ।
१क. ख. घ. च. छ. झ. ड. कृपया। २ क. घ. ड. च. छ. झ. इ. ढ. दान्तो धर्मज्ञो ज्ञान । ३ क. ख. ड. च. छ. स. ढ. तयाने । ४ क. ख घ. ड. च. छ. झ. ड. ढ. 'वः । तपस्तेपे निराहारो जि। ५ क. ख. ड. च. छ. झ. ड. ढ. 'तमत्सरः । । ६ ड. दयाशौचदमोपेतः । ७ ड. निराहारो। ८ इ. "नपरोभ । ९ क. ख. ड. च. छ. झ. 'तानि तस्य तप्यतः । त।
Page #253
--------------------------------------------------------------------------
________________
६१ एकषष्टितमोऽध्यायः ]
पद्मपुराणम् ।
२४७
३२
1
३४
यं यं त्वं वाञ्छसे कामं तं तं प्राप्स्यसि नान्यथा । सर्वकाममयी सिद्धिः स्त्रत एव भविष्यति ।। समाकर्ण्य ततो वाक्यं पिप्पलोऽपि महामनाः । प्रणम्य देवताः सर्वा भक्त्या नमितकन्धरः ।। ३१ हर्षेण महताऽऽविष्टो देवाप्रति उवाच ह । इदं चैव जगत्सर्वे मम वश्यं यथा भवेत् ।। तथा कुरुध्वं भो देवा विद्यधरो भवाम्यहम् । एवमुक्त्वा स मेधावी विरराम नृपोत्तम ।। ३३ एवमस्त्विति ते प्रोचुर्द्विजश्रेष्ठं सुरास्तदा । दत्वा वरं महाभाग जग्मुस्तस्मै महात्मने । गतेषु तेषु देवेषु पिप्पलो द्विजसत्तमः । ब्रह्मण्यं साधयेन्नित्यं विश्ववश्यं प्रचिन्तयेत् ।। तदाप्रभृति राजेन्द्र पिप्पलो द्विजसत्तमः । विद्याधरपदं लब्ध्वा कामगामी महीयते । एवं स पिप्पल विद्याधरपदं गतः । संजातो देवलोकेशः सर्वविद्याविशारदः ।। एकदा तु महातेजाः पिप्पलः परिचिन्तयेत् । विश्वं वश्यं भवेत्सर्व मम दत्तो वरोत्तमः ॥ ३८ तदर्थ प्रत्ययं कर्तुमुद्यतो द्विजसत्तमः । यं यं चिन्तयते वश्यं तं तं हि वशमानयेत् ॥ एवं तत्प्रत्ययं ज्ञात्वा मनसा परिकल्पितम् । द्वितीयो नास्ति वै लोके मत्समः पुरुषोत्तमः ॥ ४०
३५
३६
३७
३९
सूत उवाच -
1
४२
४३
एवं हि चिन्तमानस्य पिप्पलस्य महात्मनः । ज्ञात्वा मानसिकं भावं मारसस्तमुवाच ह ।। ४१ सरस्तीरगतो राजन्सुस्वरं व्यञ्जनान्वितम् । स्वनं सौष्ठवमंयुक्तमुक्तवान्पिप्पलं प्रति ।। कस्मादुद्वहसे गर्वमेवं त्वं परमात्मकम् । सर्ववश्यात्मकी सिद्धिं नाहं मन्ये तत्रैव हि ॥ वश्यावश्यमिदं कर्म अर्वाचीनं प्रशस्यते । पराचीनं न जानासि पिप्पल त्वं हि मूढधीः ॥ ४४ वर्षाणां तु सहस्राणि यावत्रीणि त्वया तपः । ममाचीर्ण ततो गर्व भवान्मूढ इहागतः ।। ४५ कुण्डलस्य सुतो धीरः सुकर्मा नाम यः सुधीः । वश्यावश्यं जगत्सर्वं तस्याऽऽसीच्छृणु सांप्रतम् ।। अर्वाचीनं पराचीनं स वै जानाति बुद्धिमान् । लोके नास्ति महाज्ञानी तत्समः शृणु पिप्पल ॥ न दत्तं तेन वै दानं न ध्यानं परिचिन्तितम् । हुतयज्ञादिकं कर्म न कृतं तेन वै कदा ॥ ४८ न गतस्तीर्थयात्रायां सद्गुरूपासनं न च । नो कदा कृतवान्वि धर्मसेवार्थमुत्तमम् ॥ स्वच्छन्दचारी ज्ञानात्मा पितृमातृसुहृत्सदा । वेदाध्ययनसंपन्नः सर्वशास्त्रार्थकोविदः ॥ यादृशं तस्य वै ज्ञानं बालस्यापि सुकर्मणः । तादृशं नास्ति ते ज्ञानं वृथा त्वं गर्वमुः ॥
TSS
४९ ५०
५१
पिप्पल उवाच -
को भवान्पक्षिरूपेण मामेत्रं परिकुत्सयेत् । कस्मान्निन्दामि मे ज्ञानं पराचीनं तु कीदृशम् ॥ ५२ तन्मे विस्तरतां ब्रूहि त्वयि ज्ञानं कथं भवेत् । अर्वाचीनगतिं सर्वा पराचीनस्य सांप्रतम् ॥ ५३ वद त्वमण्डजश्रेष्ठ ज्ञानपूर्व सुविस्तरम् । किं वा ब्रह्मा च विष्णुश्व किं वा रुद्रो भविष्यसि ॥ ५४
सारस उवाच -
नास्ति ते तपसो भावः फलं नास्ति श्रुतस्य वा । यत्त्वया परितप्तस्य तपसश्च फलं शृणु ॥ ५५ कुण्डलस्यापि पुत्रस्य बालस्यापि यथा गुणः । तथा ते नास्ति वै ज्ञानं पराचीनस्य तत्पदम् ५६ इतो गत्वाऽपि पृच्छ त्वं मम रूपं द्विजोत्तम । स वदिष्यति धर्मात्मा सर्वज्ञानं तवैव हि ॥ ५७
१ क. ख. घ. ङ. च. छ. झ. ट. ड. ढ. "र्ण्य महद्वाक्यं । २ न. द्याधारो । ३ घ. ट. ड. त्यं वश्याव । ४क. ख. गृ. घ. ङ. च. छ. झ. ट. ड. ह. 'लो नाम विद्याधरमहामतिः । सं । ५ क ख ग घ ङ च छ झ ट ड ढ त् । वश्याव । ६ ड. नं तं स्वरसं । ७ क. ख. ङ. च. छ. झ. ट. ड. उ. ज्ञानं ।
Page #254
--------------------------------------------------------------------------
________________
२४८ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेविष्णुरुवाचएवमाकर्ण्य तत्सर्व सारसेन प्रभाषितम् । तं जगाम स वेगेन ब्रह्मात्मानं नृपोतमः ॥ ५८
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्यान एकषष्टितमोऽध्यायः ॥ ६१ ॥
आदितः श्लोकानां समष्टयङ्काः-६३६०
अथ द्विषष्टितमोऽध्यायः ।
विष्णुरुवाचकुण्डलस्याऽऽश्रमं गत्वा सत्यधर्मसमाकुलम् । [*सुकर्माणं ततो दृष्ट्वा पितृमातृपरायणम् ॥ १ शुश्रूषन्तं महात्मानं गुरू सत्यपराक्रमम् । महारूपं महातेज महाज्ञानसमाकुलम् ॥ २ मातापित्रोस्तु पादान्त उपविष्टं नृपोत्तम । महाभक्त्याऽन्वितं शान्तं सर्वज्ञानमहानिधिम् ॥ ३ कुण्डलस्यापि पुत्रेण सुकर्मणा महात्मना । आगतं पिप्पलं दृष्ट्वा द्वारदेशे महामतिम् ॥ ४ आसनात्तूर्णमुत्थाय अभ्युत्थानं कृतं पुनः । आगच्छस्व महाभाग विद्याधर महामते ॥ ५ आसनं पाद्यमयं च ददो तस्मै महात्मने । निर्विघ्नोऽसि महाप्राज्ञ कुशलेनापि वर्तसे ॥ ६ निरामयं च पप्रच्छ पिप्पलं च समागतम् । यस्मादागमनं तेऽत्र तत्सर्व प्रवदाम्यहम् ॥ ७ वर्षाणां हि सहस्राणि यावत्रीणि त्वया तपः । तप्तमेव महाभाग सुरेभ्यः प्राप्तवान्वरम् ॥ ८ वश्यत्वं च त्वया प्राप्तं कामचारस्तथैव च । तेन मत्तो न जानासि गर्व उद्वहितस्त्वया ॥ ९ दृष्ट्वा ते चेष्टितं सर्व सारसेन महात्मना । ममाभिधानं कथितं मम ज्ञानमनुत्तमम् ॥ १०
पिप्पल उवाचयोऽप्यसौ सारसो विम सरित्तीरे प्रयुक्तवान् । सर्वज्ञानं वदेन्मां हि स च कः प्रभुरीश्वरः॥११
सुकर्मोवाचभवन्तमुक्तवान्यो वै सरित्तीरे तु सारसः । ब्रह्माणं तं महात्मानं विद्धि त्वं परमेश्वरम् ॥ १२ अन्यत्कि पृच्छसे विप्र ब्रूहि तच्च वदाम्यहम् ।।
विष्णुरुवाचएवमुक्तः स धर्मात्मा सुकर्माणमुवाच ह ॥
पिप्पल उवाचत्वयि वश्यं जगत्सर्वमिति शुश्रुम भूतले । तन्मे त्वं कौतुकं विष प्रदर्शय प्रयत्नतः ॥ १४ पश्य कौतुकमेवौत्र वश्यावश्यस्य कारणम् । तमुवाच स धर्मात्मा सुकर्मा पिप्पलं प्रति ॥ १५ अथ सस्मार वे देवान्सुकर्मा प्रत्ययाय वै । इन्द्राद्याल्लोकपालांश्च देवांश्चाग्निपुरोगमान् ॥ १६ समागताः समाहूता नागविद्याधरास्तथा । सुकर्माणं ततः पीचुस्ते सर्वेऽपि समागताः ॥ कस्मात्स्मृतास्त्वया विष भवांस्तत्कारणं वद ॥
* एतचिहान्तर्गतः पाठः क. ख. घ. हु. च. छ. स.ट, ड. ढ. पुस्तकस्थः ।
१क. ख. उ. च. छ. झ. द. 'न दशारण्यं महाश्रमम् । घ. ट. ड. 'न महात्मानं ददर्श ह । २ क. ख. घ. ङ. च. छ.स. ट. इ. द. तेऽद्य । ३ क. ख. घ. ड.. च. छ. झ.ट, ड. द. 'वाद्य व। ४ क. ख. घ. ड झ. ट. ड. द.प्रोचुदबाथामिपुरोगमाः ।।
Page #255
--------------------------------------------------------------------------
________________
६२ द्विषष्टितमोऽध्यायः ] सुकर्मोवाच
२०
२१
अयं मे ह्यतिथिः प्राप्तो विद्याधरो हि पिप्पलः । मामेवं भाषते प्राज्ञो विश्ववश्यस्य कारणम् १८ प्रत्ययार्थं समाहूता अस्यैव च महात्मनः । स्वं स्वं स्थानं प्रगच्छध्वमित्युवाच सुरान्प्रति ।। . १९ तमुचुस्ते ततो देवाः सुकर्माणं महामतिम् । अस्माकं दर्शनं विम विफलं नैव जायते ।। वरं वरय भद्रं ते मनसा यद्धि रोचते । तत्प्रद्मो न संदेहस्त्वेवमृचुः सुरोत्तमाः ॥ भक्त्या प्रणम्य तान्देवान्वरं ब्रूते द्विजोत्तमः । अचलां दत्त देवेन्द्रा सुभक्ति भावसंयुताम् ॥ मातापित्रोव मे नित्यमेतद्वरमनुत्तमम् ॥ [*पिता मे वैष्णवं लोकं प्रयात्वेतद्वरोत्तमम् । तद्वन्माता च देवेशा वरमन्यं न याचये ॥ ॥] २३ देवा ऊचु:
२२
पद्मपुराणम् ।
२४९
पितृभक्तो विप्रेन्द्र सुभक्तिस्ते भवत्विह । सुकर्मञ्श्रूयतां वाक्यं प्रीत्या युक्ताः सदैव ते ॥ २४ एवमुक्त्वा गता देवाः स्वर्लोकं नृपनन्दन । सुकर्मणैवमाचर्य तस्याग्रे परिदर्शितम् ।। २५ दृष्टं तु पिप्पलेनापि कौतुकं महदद्भुतम् । तमुवाच स धर्मात्मा पिपलः कुण्डलात्मजम् ।। २६ अर्वाचीनं त्विदं रूपं पराचीनं च कीदृशम् । प्रभावमुभयोश्चैव वदस्व वदतां वर ॥
२७
सुकर्मोवाच
२८
३०
अर्वाचीनस्य रूपस्य लिङ्गमेव वदामि ते । येन लोकाः प्रमोद्यन्त इन्द्रायाः सचराचराः ॥ अयमेष जगन्नाथः सर्वगो व्यापकः परः । अस्य रूपं न दृष्टं हि केनाप्येव हि योगिना ।। २९ श्रुतिरेव वदत्येवं न वक्तुं शक्यतेऽपि सः । अपादो करोsनाम कर्णो मुग्ववर्जितः ॥ सर्वे पश्यति वै कर्म कृतं त्रैलोक्यवासिनाम् । तेपामुक्तमकर्णश्च स शृणोति सुशान्तिदः ॥ ३१ गतिहीनो व्रजेत्सोऽपि सर्वत्र परिदृश्यते । पाणिहीनः पादहीनः कुरुते च प्रधावति ॥ सर्वत्र दृश्यते विश्वव्यापकः पादवर्जितः ||
३२
यं न पश्यन्ति देवेन्द्रा मुनयस्तत्त्वदर्शिनः । स न पश्यति तान्सर्वान्सत्यासत्यपढे स्थितः ।। ३३ व्यापकं विमलं सिद्धं सिद्धिदं सर्वनायकम् । यं जानाति महायोगी व्यासां धर्मार्थकोविदः || ३४ तेजोमूर्तिः स चाऽऽकाशमेकवर्णमनन्तकम् । व्यामश्चैव विजानाति मार्कण्डेयश्च तत्पदम् ॥ ३५ पराचीनं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः । यदाऽऽहृत्य स भूतात्मा स्वयमेव प्रजापतिः ॥ ३६ अप्सु शय्यां समाश्रित्य शेपभोगास्थितः प्रभुः । तमाश्रित्य स्वपित्येकी बहुकालं जनार्दनः ।। ३७ जलान्धकारसंतप्तो मार्कण्डेयो महामुनिः । स्थानमिच्छन्स योगात्मा निर्विण्णो भ्रमणेन सः ।। ३८ भ्रममाणः स ददृशे शेषपर्यङ्कशायिनम् । सूर्यकोटिप्रतीकाशं दिव्याभरणभूषितम् ।। दिव्यमाल्याम्बरधरं सर्वव्यापिनमीश्वरम् । योगनिद्रां गतं कान्तं शङ्खचक्रगदाध॑रम् ।। एका नारी महाकाया कृष्णाञ्जनचयोपमा । दंद्राकरालवदना भीमरूपा द्विजोत्तम ॥ artist मुनिश्रेष्ठोमा भैरिति महामुनिः । पद्मपत्रं सुविस्तीर्ण पचयोजनमायतम् ॥ तस्मिन्पत्रे महादेव्या मार्कण्डेयो महामुनिः । संनिवेश्य सुखेनापि नास्त्यत्र च भयं तव ॥ ४३ तामुवाच स योगीन्द्रः का त्वं भवसि भामिनि । ['पृष्टवं मुनिना देवी सादरं माह भूसुर ] ॥ ४४
३९
४०
४१
४२
* एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड. ट. पुस्तकस्थः । + ञ. पुस्तक एवेदम् ।
१. न्द्र भक्त्या ते संभ । २ क ख च सुमाक्षिकः । ड. समाक्षिकः । ३ क. ख. ड. च. छ. झ.ट. द्वं श्रुतिराख्याति निश्चितम् । ४ ८. दर्शनात्मकम् । ५ ड. 'नः । मायान्ध । ६ . 'निद्रा च तत्कान्ता श। ७. धरा । एकाकिनी म ।
Page #256
--------------------------------------------------------------------------
________________
२५० महामुनिश्रीव्यासपणीत
[ २ भूमिखण्डेनागभोगस्य पर्यके यः शयीत स केशवः । अस्याहं वैष्णवी शक्तिः कालरात्रिरिह द्विज ॥ ४५ मामेवं विद्धि विप्रेन्द सर्वमायासमन्विताम् । महामाया पुराणेषु जगन्मोहाय कीर्तिता ॥ ४६ इत्युक्त्वा सा गता देवी अन्तर्धानं हि पिप्पल । तस्यां देव्यां गतायां तु मार्कण्डेयो ह्यपश्यत४७ तस्य नाभ्यां समुत्पन्न पङ्कजं हाटकप्रभम् । तस्माज्जज्ञे महातेजा ब्रह्मा लोकपितामहः ॥ ४८ वस्माद्धि जज्ञिरे लोकाः सर्वे स्थावरजङ्गमाः । इन्द्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः ॥ ४९ [*अर्वाचीनं स्वरूपं तु दर्शितं हि मया नृप । अर्वाचीनः शरीरोऽयं पराचीनो निराश्रयः ५० यदा स दर्शयेत्कायं कायरूपा भवन्ति ते । अर्वाचीनास्ततः सर्वे ब्रह्माद्याः पिप्पलाखिलाः५१ ['अर्वाचीना अमी लोका ये भवन्ति जगत्रये । पराचीनः स विश्वात्मा यं प्रपश्यन्ति योगिनः मोक्षरूपं परं स्थान परब्रह्मस्वरूपकम् । अव्यक्तमक्षरं हंसं शुद्धं सिद्धिसमन्वितम् ॥ पराचीनस्य यद्वृत्तं विद्याधर तवाग्रतः । सर्वमेव समाख्यातमन्यन्कि ते वदाम्यहम् ॥ ५४
विद्याधर उवाच - कस्मादेतन्महाज्ञानमुद्भुतं तव सुव्रत । अर्वाचीनगति विद्वान्पराचीनगति तथा ॥ त्रैलोक्यस्य परं ज्ञानं त्वय्येवं परिवर्तते । तपसी नैव पश्यामि परां निष्ठां हि सुव्रत ॥ स्वप्रभावं वदस्वेवं केन ज्ञानं तवाखिलम् ।।
सुकर्मोवाचएतदेव न जानामि न कृतं कायशोषणम् । यजनं याजनं धर्म न ज्ञानं तीर्थसाधनम् ॥ ५७ न मया साधितं चान्यत्पुण्यं किंचित्सुकर्मजम् । स्फुटमेकं प्रजानामि पितृमातृप्रपूजनम् ॥ ५८ उभयोस्तु स्वहस्तेन मातापित्रोचं पिप्पल । पादप्रक्षालनं पुण्यं स्वयमेव करोम्यहम् ॥ ५० अङ्गसंवाहनं स्नानं भोजनादिकमेव च । त्रिकालोपासनं भीतः साधयामि दिने दिने ॥ ६० पादोदकं तयोश्चैव मातापित्रोदिने दिने । भक्त्या भावेन विन्दामि पूजयामि स्वभावतः ॥ ६१ गुरू मे जीवमानो तो यावत्कालं हि पिप्पल । तावत्कालं तु मे लाभो ह्यतुलश्च प्रजायते ॥ ६२ त्रिकाले पूजयाम्येतो भावशुद्धन चेतसा । स्वच्छन्दलीलासंचारी वर्ताम्यवं हि पिप्पल ॥ ६३ किं मे चान्येन तपसा किं मे कायस्य शोषणः। किं मे सुतीर्थयात्राभिरन्यैः पुण्येश्च सांप्रतम् ।। मखानामेव सर्वेषां यत्फलं प्राप्यते बुधः । [*तत्फलं तु मया दृष्टं पितुः शुश्रूषणादपि ॥ ६५ मातुः शुश्रूषणं तद्वत्पुत्राणां गतिदायकम् । सर्वधर्मस्य सर्वस्वं सारभृतं जगत्रये ॥ ६६ पुत्रस्य जायते लोको मातुः शुश्रूषणादपि । पितुः शुश्रूषणे तद्वमहत्पुण्यं प्रजायते ॥ ६७ तत्र गङ्गा गया तीर्थ तत्र पुष्करमेव च । यत्र माता पिता तिष्ठेत्पुत्रस्यापि न संशयः ॥ ६८ अन्यानि तत्र तीर्थानि पुण्यानि विविधानि च । भजन्तं तानि पुत्रस्य पितुः शुश्रूषणादपि ॥६९ पितुः शुश्रूषणात्तस्य दानस्य तपसः फलम् । सत्पुत्रस्य भवद्विप नान्यत्कर्म ममाश्रयेत् ॥ ७० पितुः शुश्रूषणात्पुण्यं पुत्रः प्रामोत्यनुत्तमम् । सुकर्मणस्तु सर्वत्र इह चैव परत्र च ॥ ७१
* एतचिह्नान्तर्गतः पाठः क. ख. घ. ङ. च. छ. झ. ट. ड. द. पुस्तकस्थः । एतच्चिद्वान्तर्गतः पाट: क. ख. घ.
ड.च. छ. झ. ट. ड. ढ. पुस्तकस्थः । * एतामहान्तर्गत: पाठोड, झ.. पुस्तकस्थः ।
१क. ख. घ. ड. च. छ. झ. ट. ड. द. रित्युच्यते । मा । २ ख. विद्यात्परा । ३ घ. ट. ड. 'य्येव । ४ घ. ट. ड. श्च तत्पर । पा। ५ क. ख. ड. च. छ. झ. ढ. काले ध्यानसंलीनः सा । ६ ख. ड. च. छ. ढ. वन्दामि । ७ क. ख, ड. च. छ. झ. द. द्विजैः ।
Page #257
--------------------------------------------------------------------------
________________
६३.
त्रिषष्टितमोऽध्यायः ]
पद्मपुराणम् ।
२५:
जीवमानौ गुरौ (रू) एतौ स्वमातापितरौ तथा । शुश्रूषते सुतो भक्त्या तस्य पुण्यफलं शृणु ७२ देवास्तस्यापि तुष्यन्ति ऋषयः पुण्यवत्सलाः । त्रयो लोकाश्च तुष्यन्ति पितुः शुश्रूषणादिह ॥ ७३ मातापित्रोस्तु यः पादौ नित्यं प्रक्षालयेत्सुतः । तस्य भागीरथीस्नानमहन्यहनि जायते ।। ७४ पुण्यैर्मिष्टान्नपानैर्यः पितरं मातरं तथा । भक्त्या भोजयते नित्यं तस्य पुण्यं वदाम्यहम् || ७५ अश्वमेधस्य यज्ञस्य फलं पुत्रस्य जायते । ताम्बूलैश्छादनैश्चैव पानैश्वाशनकैस्तथा ॥ ७६ भक्त्या चान्नेन पुण्येन गुरू येनाभिपूजितौ । सर्वज्ञानी भवेत्सोऽपि यशः कीर्तिमवाप्नुयात् ॥७७ मातरं पितरं दृष्ट्वा हर्षात्संभाषते सुतः । निधयस्तस्य संतुष्टा नित्यं गेहे वसन्ति च ॥ बेद्धाः सौहृदमायान्ति पुत्रस्य सुखदाः सदा ।।
इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने मातापितृतीर्थमाहात्म्ये द्विषष्टितमोऽध्यायः ॥ ६० ॥ आदितः श्लोकानां समथ्र्यङ्काः - ६४४०
अथ चिषष्टितमोऽध्यायः ।
७८
सुकर्मोवाच
[*तयोश्चापि द्विजश्रेष्ठ मातापित्रोश्च स्नातयोः । पुत्रस्यापि हि सर्वाङ्गे पतन्त्यम्बुकणा यदा ॥ सर्वतीर्थममं स्नानं पुत्रस्यापि प्रजायते ] ॥
२
३
५
७
पतितं क्षुधितं वृद्धमशक्तं सर्वकर्मसु । व्याधितं कुष्ठिनं नातं मातरं च तथाविधाम् ॥ उपाचरति यः पुत्रस्तस्य पुण्यं वदाम्यहम् । विष्णुस्तस्य प्रसन्नात्मा जायते नात्र संशयः ॥ प्रयाति वैष्णवं लोकं यदप्राप्यं हि योगिभिः । पितरौ विकला दीनों वृद्धा दुःखितमानमौ ॥ ४ महागदेन संतप्तौ परित्यजति पापधीः । स पुत्रां नरकं याति दारुणं कृमिसंकुलम् ॥ वृद्धाभ्यां यः समाहूतां गुरुभ्यामिह सांप्रतम् । प्रयाति सुतो भूत्वा तस्य पापं वदाम्यहम् ॥ ६ विष्ठाशी जायते मूढोऽमेध्यभोजी न संशयः । यावज्जन्ममहस्रं तु पुनः श्वानोऽभिजायते ॥ पुत्र स्थित मातापितरौ वृद्धको तथां । स्वयं ताभ्यां विना भुक्त्वा प्रथमं जायते घृणिः ।। ८ सूत्रं विष्ठां च भुञ्जीत यावज्जन्ममहस्रकम् । कृष्णसर्पा भवेत्पापी यावज्जन्मशतत्रयम् ॥ मातरं पितरं वृद्धमत्रज्ञाय प्रवर्तते । धोऽपि जायते दुष्टो जन्मकोटिशतैरपि ।। पितरौ कुत्सते पुत्रः कटुकैर्वचनैरपि । स च पापी भवेद्याघ्रः पश्चादुःखी प्रजायते ।। मातरं पितरं पुत्रो न नमस्यति पापधीः । कुम्भीपाकं वसेत्तावद्यावद्युगसहस्रकम् ।। नास्ति मातुः परं तीर्थं पुत्राणां च पितुस्तथा । नारायणसमावेताविह चैव परत्र च । तस्मादहं महाप्राज्ञ पितृदेवं प्रपूजये । मातरं च तथा नित्यं यथायोगं यथाहितम् ॥ पितृमातृप्रसादेन संजातं ज्ञानमुत्तमम् । त्रैलोक्यं सकलं विप्र संप्राप्तं वश्यतां मम ॥
* एतच्चिदान्तर्गतः पाठः क. ख. घ. इ. च. छ. झ. ट. ड. ट. पुस्तकस्थः ।
१०
११
१२
१३
१४
१५
१ क. ख. घ. ड. च. छ. झ ट ड ट भुत्वा । २ क. ख. ड. च. छ. झ. ड. द. गावः । ३ क. ख. घ. ड. च. छ झ. ट. ड. ड. विकलं । ४ क. ड. च. छ. इ. दो ग्रामप्राणी न । ५ घ था। आत्मना भुज्यते तत्र प्रथमं मिष्टमेव सः | मू ं । ६ छ. °ते । ग्राहोऽपि । ट. 'ते । गर्भे विजा। ड. ते । महोऽपि । ७ घ ट पश्चाद्दुष्टः । ड. परभक्षः । ङ. ८. पश्चादृक्षः । ८ ड. 'था। तारणाय हि पापाच्च सेवेदत्र प ।
Page #258
--------------------------------------------------------------------------
________________
२५२
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेअर्वाचीन परं ज्ञानं पितुश्चास्य प्रसादतः । पराचीनं च विप्रेन्द्र वासुदेवस्वरूपकम् ॥ १६ सर्वज्ञानं समुद्भूतं पितृमातृप्रसादतः । को न पूजयते विद्वान्पितरं मातरं तथा ॥ १७ साङ्गोपाङ्गरधीतैस्तैः श्रुतिशास्त्रसमन्वितैः । वेदैरपि च किं विप्र पिता येन न पृजितः॥ १८ माता न पूजिता येन तस्य वेदा निरर्थकाः । यज्ञैश्च तपसा विप्र किं दानः किं च पूजनैः॥१९ प्रयाति तस्य वैफल्यं न माता येन पृजिता । न पिता पूजितो येन जीवमानो गृहे स्थितः ॥२० एष पुत्रस्य वै धर्मस्तथा तीर्थ नरेविह । [* एष पुत्रस्य वै मोक्षस्तथा जन्म फलं शुभम् ॥ एष पुत्रस्य वै यज्ञो दानमेव न संशयः ।। पितरं पूजयेन्नित्यं भक्त्या भावेन नत्परः । तस्य ज्ञानं ममस्तं स्याद्यदुक्तं पूर्वमेव हि ॥ २२ दानस्यापि फलं लब्धं तीर्थम्यापि न संशयः । यज्ञस्यापि फलं तेन यन माताऽप्युपासिता॥२३ पिता च येन वै भक्त्या नित्यमेवाप्युपासितः। तस्य मर्वा विप्र सिद्धा यज्ञाद्याः पुण्यदाः क्रियाः एतदर्थे मया ज्ञानं धर्मशास्त्रं श्रुतं पुरा । पितृभक्तिपरी नित्यं भवेत्पुत्रो हि पिप्पल ।। तुष्टे पितरि संप्राप्तो यदुराजः पुरा सुखम् ॥ [* रुष्टे पितरि च प्राप्तं महत्पापं पुरा शृण । गुरुणा पौरवेणापि पित्रा शप्तेन भूतले ॥ २६ एवं ज्ञात्वा मया सम्यग्द्वावती समुपासितो । एतयोश्च प्रसादेन प्राप्तं फलमनुत्तमम् ॥ २७
इति श्रीमहापुराणे पाद्म भूमिखण्डे वेनोपाख्याने त्रिषष्टितमोऽध्यायः ॥ ६३ ॥
आदितः श्लोकानां ममष्टयङ्काः-६४६७
अथ चतुःषष्टितमोऽध्यायः ।
m
पिप्पल उवाचपितुः प्रसादभावाद्वै यदुना मुखमुत्तमम् । कथं प्राप्तं सुभुक्तं च [*तन्म विस्तरतो वद ॥ १ कस्मात्पापप्रभावं च] पुत्रेण तु द्विजोत्तम । तत्सर्व विस्तरेणापि वद मे कुण्डलात्मज ॥ २
सुकर्मोवाचश्रृयतामभिधास्यामि चरित्रं पापनाशनम् । नहुषस्य सुपुण्यस्य ययातेश्च महात्मनः ॥ ३ सोमवंशात्प्रसृतो वै नहुषो मेदिनीपतिः । दानधर्माननकांश्च स चकारातुलानपि ॥ शतं चैवाश्वमेधानामियाज नृपसत्तमः । वाजपेयशतं चापि अन्यान्यज्ञाननेकशः ।। आत्मपुण्यप्रभावेन ऐन्द्र लोकमवाप सः । पुत्रं धर्मगुणोपेतं प्रजापालं विधाय सः ॥ ययाति सत्यसंपन्नं धर्मवीर्य महामतिम् । ऐन्द्रं पदं गतां राजा यस्य पुत्रः परंतपः ॥ ययातिः सत्यसंपन्नः प्रजा धर्मण पालयत् । [*स्वयमेव प्रपश्येद्यः मजाकाणि तान्यपि ॥ ८ इयाज यज्ञान्धर्मात्मा श्रुत्वा धर्ममनुत्तमम् । यज्ञतीर्थादिकं सर्व दानपुण्यं चकार सः ॥ राज्यं चकार मेधावी क्षत्रधर्मेण पालयन् ।।
* एतन्निदान्तर्गतः पाठः इ. पुस्तकस्थः । । एतच्चिद्वान्तर्गतः पाठो ड. झ. ट. द. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क.ख. घ. ड.च. छ. झहै. पुस्तकस्थः । * एतचिहान्तगतः पाठः के. ख. ड. च. छ झ. ट. इ. द. पुस्तकस्थः। - - -
१ क. ख. घ. ङ, छ. स. ट. ढ, 'तः । वासुदेवस्य तस्यैव परार्चानं महामते । स । २ अ. सुभक्तेन पुत्रे । ३ झ. क्त द्वि। ड. ह. रुरुभक्तं । ४ ह. धर्माचार्य । ५ क. ख. घ. ड. च. छ. झ. ट. ड. ढ. 'वी सत्यधर्मेण वै तदा । या । ६ न. 'न् । अशातिश्च स ।
ur,
Page #259
--------------------------------------------------------------------------
________________
१२
६४ चतुःषष्टितमोऽध्यायः ] पद्मपुराणम् ।
२५३ यावदशीतिसहस्राणि वर्षाणि नृपनन्दनः। [*तावत्कालं गतं तत्र ययातेस्तु महात्मनः] ॥१० तस्य पुत्राश्च चत्वारस्तवीर्यबलविक्रमाः। तेषां नामानि वक्ष्यामि शृणुष्वैकाप्रमानसः॥ ११ तस्याऽऽसीज्ज्येष्ठपुत्रस्तु रुरुर्नाम महाबलेः । पुरुर्नाम द्वितीयोऽभूतृतीयः कुरुरेव च ॥ यदुश्चापि स धर्मात्मा चतुर्थो नृपनन्दन ॥ [+ एवं चत्वारः पुत्राश्च ययातेस्तु महात्मनः ] । तेजसा पौरुषेणापि पितृतुल्यपराक्रमाः ॥१३ एवं राज्यं कृतं तेन धर्मेणापि ययातिना । यशः कीर्तिश्च तस्यापि त्रैलोक्ये प्रचुराऽभवत् ॥१४
विष्णुरुवाचएकदा तु द्विजश्रेष्ठो नारदो ब्रह्मनन्दनः । इन्द्रलोकं गतो द्रष्टुं देवदेवं पुरंदरम् ॥ १५ सहस्राक्षस्ततोऽपश्यद्भुताशनसमप्रभम् । देवो विमं समायान्तं सर्वशं ज्ञानपण्डितम् ॥ १६ पूजितं मधुपर्कायैर्भक्त्या नमितकन्धरः । निवेश्य स्वासने पुण्ये तं पप्रच्छ महामुनिम् ॥ १७
इन्द्र उवाचकस्मादागमनं लोकात्किमर्थमिह चाऽऽगतः । किं तेऽद्य सुप्रियं विप्र करोम्यथ महामते ॥ १८
नारद उवाचदेवराज कृतं सर्व भक्त्या यच्च प्रभाषितम् । मंतुष्टोऽस्मि महापान प्रश्नोत्तरं वदाम्यहमें ॥ १९ महीलोकात्तु संप्राप्तः सांपतं तव मन्दिरम् । त्वामन्चेष्टुं समायातो दृष्ट्वा नाहुषमुत्तमम् ॥ २०
इन्द्र उवाचसत्यधर्मेण को राजा प्रजाः पालयते सदा । सर्वधर्मसमायुक्तः श्रुतवाज्ञानवान्गुणी ॥ २१ पृथिव्यामस्ति को राजा दैवज्ञो ब्राह्मणप्रियः। ब्रह्मण्यो वेदविच्छूरो दाता यज्वा सुभक्तिमान्॥२२
नारद उवाचएभिर्गुणैस्तु संयुक्तो नहुषस्याऽऽत्मजो बली । यस्य सत्येन वीर्येण सर्वे लोकाः प्रतिष्ठिताः २१ भवादृशो हि भूलोके ययातिनहुषात्मजः । भवान्स्वर्गे स चैवास्ति भूतले भूतिवर्धनः॥ २४ पितुः श्रेष्ठो महाराज ह्यश्वमेधशतं तथा । वाजपेयशतं चक्रे ययातिः पृथिवीपतिः॥ २५ दत्तान्यनेकरूपाणि दानानि तेन भक्तिनः । गवां लक्षसहस्राणि तथा कोटिशतानि च ॥ २६ कोटिहोमांश्चकाराथ लक्षहोमांस्तथैव च । भूमिदानादिकं दानं ब्राह्मणेभ्योऽददाच सः॥ २७ साङ्गोपाङ्गः स्वरूपो हि धर्मस्तेनैव पालितः। एवंगुणैः समायुक्तो ययाति हुषो भुवि ॥ २८ वर्षाणां तु सहस्राणि ह्यशीतिपनन्दनः । राज्यं चकार सत्येन यथाविध भवानिव ॥ २९
सुकर्मोवाच-. एवमाकर्ण्य देवेन्द्रो नारदाच्च मुनीश्वरात् । समालोच्य स मेधावी संभीतो धर्मपालनात ॥ ३० शतयज्ञमभावेन नहुषेण पुरा मम । एन्द्रं पदं गृहीतं च देवराजोऽभवत्तदा ॥ शचीबुद्धिमभावेन पदभ्रष्टो व्यजायत । तादृशोऽयं महाराजः पितृतुल्यपराक्रमः । लक्ष्यते नात्र संदेहः पदमैन्द्रमवाप्स्यति ॥ १२
* एतञ्चिद्वान्तर्गत: पाठो घ. पुस्तकस्थः । । एञ्चिद्वान्तर्गतः पाठो डः पुस्तकस्थः । १ न. 'स्तु तुर्वसुर्वे म । २ अ. "लः । अनुनी । ३ ङ. झ. द. महामुने । ४ घ . छ. स. ट. द. म् । सत्यलों। ५ ङ. ६. वेदज्ञो। ६ द. प्रतापिताः । ७ ड. 'णि पुण्यानि विविधानि च । । ८ घ. . . . . ... 'वत्पुरा । श।
Page #260
--------------------------------------------------------------------------
________________
१३
२५४ महामुनिश्रीव्यासपणीतं
[ २ भूमिखण्डे[*येन केनाप्युपायेन तं भूपं दिवमानये ] । इत्येवं चिन्तयामास तस्माद्रीतः सुरेश्वरः ॥ ३३ [ भूपालस्य नृपश्रेष्ठययातेः स महद्भयात् ] । तमानतुं ततो दूतं प्रेषयामास देवराट् ॥ ३४ नाहुषाय विमानं तु सर्वज्ञानसमन्वितः । सारथिं मातलिं चैव विमानेन समन्वितम् ॥ ३५ गतो हि मातलिस्तत्र यत्रासो नहुषात्मजः । प्रहितः सुरराजेन आनेतुं तं महामतिम् ॥ सभायां वर्तमानस्तु यथाचेन्द्रः प्रभासते । तथा ययातिधर्मात्मा स्वसभायां विराजते ॥ ३७ तमुवाच महात्मानं राजानं सत्यभूषणम् । सारथिर्देवराजस्य शृणु राजन्वचो मम ॥ ३८ प्रहितो देवराजेन सकाशं तव सांप्रतम् । यद्य़ते देवराजस्तु तत्सर्व सुमनाः कुरु ॥ ३९ आगन्तव्यं त्वयाऽयेव ऐन्द्रं लोकं हि नान्यथा। पुत्रे राज्यं विसृज्येव कृत्वा चान्तेष्टिमात्मनः ॥ इलो राजा महातेजा वसते नहुषात्मज । पुरूरवा महाबाहो विप्रचित्तिः प्रतापवान् ॥ ४१ शिविर्वसति तत्रैव मनुरिक्ष्वाकुसत्तमः । सगरा नाम मेधावी नहुषश्च पिता तव ॥ ४२ कृतवीर्यः कृतज्ञश्च शंतनुश्च महामनाः । भरतो युवनाश्वश्च कार्तवीर्यो नरेश्वरः ॥ यज्ञानाहृत्य बहुधा मोदन्ते दिवि भूभृतः॥ अन्ये ये चापि राजानो यज्वानः सुमहाबलाः । सेव्यन्ते दिवि चेन्द्रेण मोदन्ते च स्वकर्मणा४४ त्वं पुनः सर्वधर्मेषु संस्थितः सांप्रतं भुवि । शक्रेण सह मोदस्व स्वर्गलोके महीपते ॥ ४५
ययातिरुवाचकिं मया तत्कृतं कर्म येन प्रार्थयते भवान् । इन्द्रस्य देवराजस्य तत्सर्व मे वदस्व ह ॥ ४६
मातलिरुवाचयाच्छतसहस्राणि वर्षाणि नृपनन्दन । दानयज्ञादिकं कर्म त्वयैव परिसाधितम् ॥ ४७ दिवं गच्छ महाराज कर्मणा तेन सांप्रतम् । सख्यं च देवराजन गवा कुरु महामते ॥ ४८ पश्चात्मकशरीरस्य भूमौ त्यागं कुरुप्व हि । दिव्यं रूपं समाम्थाय भुक्ष्व भोगान्मनोरमान् ॥ यथा यथा कृता भूमौ यज्ञा दानं तपश्च ते । तथा तथा स्वर्गभोगाः प्रार्थयन्ते नरेश्वर ॥ ५०
ययातिरुवाचयेन कायेन सिध्येत सुकृतं दुप्कृतं भुवि । मातले तत्कथं त्यज्य गच्छेल्लोकमुपार्जितम् ॥ ५१
मातलिरुवाचयत्रैवोपार्जितं कायं पश्चात्मक मृतं नृप । तत्रैव तत्परित्यज्ये दिव्येनेव व्रजन्ति ते ॥ ५२ ईश्वरा मानवाः सर्वे पापपुण्यप्रसाधकाः । तेऽपि कायं परित्यज्य अधः स्वर्ग व्रजन्ति च ॥ ५३
ययातिरुवाचपश्चात्मकेन कायेन सुकृतं दुष्कृतं नराः । उत्पाद्येव प्रयान्त्येव अन्यद्रूपं च मातले ॥ को विशषो हि धर्मज्ञ भूमौ कायं परित्यजेत् । पापपुण्यप्रभावाद्वै कायस्य पतनं भवेत् ॥ ५५
* एतचिहान्तर्गतः पाठः क. ख. घ. दृ च. छ. झ. ट ह. द.पुस्तकस्थः । । एतचिह्नान्तर्गतः पाठो घ. छ. ट. पुस्तकस्थः।
१५. ज. ट. ह. प्राणवायुं । क. ख. ङ. च. छ. स. ड. ट. सर्वकामसमन्वितम् । ट. सर्वक्रमसमन्वितम् । ३ छ. इ. त्यभाष । ४ १. संतुष्टा । घ. ट. मरुतः । ५ क. ख. ड. च. छ. स. ह. ढ. लाः । सर्वे ते दि । ट.'ला: । वसन्ति दि। ६ क. ख. घ. च. स. ट. इ. धर्मज्ञः सर्वधर्मेषु संस्थितः । श। ङ. छ. ढ. 'वकर्मज्ञ. सर्वधर्मेषुसं स्थितः । श। ७ ड. वदशीतिस।८ क. ख. इ. च. छ. झ. इ. द.त्मकमिदं न । ९ ङ. ड. 'ज्य ह्यत ऊर्ध्व व्र' ।१० क. ख. च. छ. स. अघ. अर्व च।
Page #261
--------------------------------------------------------------------------
________________
२५५
६४ चतुःषष्टितमोऽध्यायः]
पद्मपुराणम् । दृष्टान्तो दृश्यते मूत प्रत्यहं मर्त्यमण्डले । विशेष नैव पश्यामि धर्मपुण्यस्य चाधिकम् ॥ ५६ सत्यधर्मादिकं पुण्यं येन कायेन मानवः । सैमर्जयति वै मर्त्यस्तं कस्माद्विपसर्जयेत् ॥ ५७ आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि । कार्य मित्रं परित्यज्य आत्मा याति सुनिश्चितम् ५८
मातलिरुवाचसत्यमुक्तं त्वया राजन्कायं त्यक्त्वा प्रयाति सः। संबन्धो नास्ति तेनापि समं कायेन चाऽऽत्मनः यस्मात्पश्चस्वरूपोऽयं संधिजर्जरितस्तदा । जरया पीड्यमानस्तु स जीवं त्यक्तुमिच्छति ॥ ६० जरादोषप्रभने च तत्र स्थातुं में नेच्छति । आकुलव्याकलो भूत्वा जीवं त्यक्त्वा प्रयाति सः६१ सत्येन धर्मपुण्यैश्च दानैनियमसंयमैः । अश्वमेधादिभिर्यज्ञैस्तीर्थैः संयमनैस्तथा ॥ सुकृतेश्चैव पुण्यैश्च जरा नैव प्रवाधतं । पातकैश्च महाराज पचते कायमेव सा ॥ ६३
___ ययातिवाचकस्माजरा समुत्पन्ना कस्मात्कायं प्रपीडयेत् । मम विस्तरतः सूत वक्तुमर्हसि सत्तम ॥ ६४
मातलिरुवाच--- हन्त ते वर्णयिष्यामि जरायाः परिकारणम् । यस्माच्चैवं समुद्भूना कायमध्ये नृपोत्तम ॥ ६५ पञ्चभूतात्मकः कायो विषयैः पञ्चभिर्वृतः । यमात्मा त्यजने राजन्स कायः परिधक्ष्यते ॥ ६६ वहिना दीप्यमानस्तु सरसः प्रज्वले नृप । तस्माद्विजायते धूमो धूमान्मेषश्च जायते ॥ ६७ मेघात्मवर्तते चाम्भस्ततः पृथ्वी प्रजायने । ऊर्ध्वमायाति मा पृथ्वी यथा नारी रजस्वला ॥६८ तस्मात्पजायते गन्धो गन्धाद्रसो नृपोत्तम । रमात्प्रभवते चान्नमनाच्छुक्रं न संशयः॥ ६९ शुक्राद्धि जायते कायः कुरूपः काय एव च । यथा पृथ्वी मजेद्गन्धान्र संश्चरति भूतले ॥ ७० तथा कायश्वरेन्नित्यं रसाधारो हि सर्वशः । गन्धश्च जायते तस्माद्धाद्रसो भवेत्पुनः ॥ ७१ तस्माज्जज्ञे महावह्निदृष्टान्तं पश्य भूपते । यथा काष्ठाद्भवेद्वह्निः पुनः काष्ठं प्रकाशयेत् ॥ ७२ कायमध्ये रसादग्निस्तद्वदेव प्रजायते । नत्र संचरते नित्यं कायं पुष्णाति भूपते ॥ ७३ यावद्रसस्य चाऽऽधिक्यं तावजीवः प्रशान्तिमान । चरित्वा तादृशं वह्निः क्षुधारूपेण वर्तते।।७४ अन्नमिच्छत्यसौ तीव्रः पयसा च समन्वितम् । प्रदा(धा)नं लभने चान्नमुदकं चापि भूपते ।।७५ शोणितं चरते वह्निस्तद्वीर्य न संशयः । यक्ष्मगंगो भवेत्तस्मान्मर्वकायमणाशकः ॥ ७६ रसाधिक्यं भवेद्राजन्नथ वह्निः प्रशाम्यति । रमन पीड्यमानस्तु ज्वररूपोऽभिजायते ॥ ७७ ग्रीवापृष्ठं कटिं पायुं मस्वेिव तु संधिषु । आरुध्य निष्ठते वह्निः कार्य वह्निः प्रवर्तते ॥ ७८ तस्याऽऽधिक्यं चरेन्नित्यं कायं पुष्णाति संमतः । रसस्तु वृद्धिमायाति बलरूपो भवेत्तदा ॥ ७९ अतिरिक्तो वलेनैव वीयान्ममाणि चालयेत् । तनव जायते कामः शोषवान्पुरुषो भवेत् ॥ ८० स कामाग्निः समारख्याता बलनाशकरां नृप । मथुनम्य प्रसङ्गन विनाशत्वं कलेवरे ॥ ८१ नारीणां संश्रयेत्पाणी पीडितः कामवह्निना । मैथुनस्य प्रसङ्गन मूर्छते मर्म कृन्तति ॥ ८२ तेजोहीनो भवेत्कायो बलहीनश्च जायते ॥ बलहीनो यदा स्याद्वै दुर्बलो वह्निनेरितः । [*स वह्निः प्रचरेत्कायः(ये) शोणितं शुक्रमेव च ८४
* क. ख. इ. च. छ. झ. ड. ढ. पुस्तकस्थमेतत् । १ क. ख. घ. ङ. च. छ. झ. ट. ड. ढ. प्रत्यक्षं । २ ङ. ढ. 'मि पापपु। ३ घ. ट. स सर्जति ततो म। ४. ख. घ. च. छ. स. ट. ड, ढ. ति स निश्चितः । मा। ङ. द. ति सुनिश्चितः । मा। ५ छ. प्रजायते । ६. भपते। ७ क. ख. ङ, च. छ. झ. ट. ड. द. 'मः शल्यरूपी भवेन्नप।स। ८ क. ख. च. छ. झ. 'सिपीडितः ।
Page #262
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे -
शुक्रशोणितयोर्नाशाच्छून्यदेहो विजायते । अतीव जायते वायुः प्रचण्डो दारुणाकृतिः ॥ विवर्णो दुःखसंतप्तः शून्यबुद्धिस्ततो भवेत् ] ॥
८५
३
८९
दृष्टा श्रुता च या नारी तचित्तो भ्रमते सदा । तृप्तिर्न जायते काये [लोलुपे चित्तवर्त्मनि ॥ ८६ विरूपश्च सुरूपश्च ध्यानान्मध्ये प्रजायते । बलहीनो यदा कोमी मांसशोणितसंक्षयात् ॥ ८७ पलितं जायते] काये नाशिते कामवह्निना । तस्मात्संजायते कामी वृद्धो भूत्वा दिने दिने ॥ ८८ सुरते चिन्तते नारीं यथा वार्धुषिको नरः । तथा तथा भवेद्धानिस्तेजसोऽस्य नरेश्वर || तस्मात्प्रजायते कामो नाशरूपो न संशयः । प्राणिनां कालरूपेण ज्वरो भवति दारुणः ।। ९० स्थावरा जङ्गमाः सर्वे ज्वरेण परिपीडिताः । नाशमायान्ति ते सर्वे बहुपीडाप्रपीडिताः । ९१ अनेन विधिना जीर्णमन्यत्किं ते वदाम्यहम् । एवमुक्तो महाप्राज्ञो मातलिं वाक्यमब्रवीत् ।। ९२ इति श्रीमहापुराणे पाद्मे भृमिखण्डे वेनोपाख्याने मातापितृतीर्थकथने चतुःषष्टितमोऽध्यायः ॥ ६४ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ६६५९
-
अथ पञ्चषष्टितमोऽध्यायः ।
२५६
ययातिरुवाच -
धर्मस्य रक्षकः कायो मातले आत्मना सह । नाकमेष न प्रयाति तन्मे त्वं कारणं वद ।। मातलिरुवाच
३
पञ्चानामपि भूतानां संगतिर्नास्ति भूपते । आत्मना सर्ह भद्रं ते संगत्या नैव वर्तते ॥ सर्वेषां नात्र संघातः कायग्रामे प्रवर्तते । जरया पीडिताः सर्वे स्वं स्वं स्थानं प्रयान्ति ते ॥ रसाधिका स्यात्पृथिवी सा राजन्परिकथ्यते । रसैः क्लिन्ना ततः पृथ्वी मृदुत्वं याति भूपते ॥ ४ भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव सा । छिद्राण्येव प्रजायन्ते वल्मीकाथ महोदराः तद्वत्काये प्रजायन्ते गण्डमाला विचर्चिकाः । क्रिमिभिर्भिद्यमानश्च काय एष [ + नरोत्तम ।। ६ गुल्मास्तत्र प्रजायन्ते सद्यः पीडाकरास्तदा । एभिर्दोषैः समायुक्तः कायोऽयं नहुषात्मज || कथं प्राणसमायोगाद्दिवं याति ] नरेश्वरः । काये पार्थिवभागोऽयं समानार्थः प्रतिष्ठितः ॥ कायः स्वर्गमायाति यथा पृथ्वी तथा स्थितः । एवं ते सर्वमाख्यातं दोषां वै पार्थिवस्य हि ।। ९ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने मातापितृतीर्थकथने पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥ आदितः श्लोकानां समथ्यङ्काः - ६५६८
७
८
अथ षट्षष्टितमोऽध्यायः ।
ययातिरुवाच -
पापाच पवते काय धर्माच्च शृणु भातले । विशेषं नैव पश्यामि पुण्यस्यापि महीतले ।।
* क. ख. ग. घ. ड. च. छ. झ ट ड ढ पुस्तकस्थमेतत् । एतच्चिहान्तर्गतोऽयं पाठो घ ट ड पुस्तकस्थः ।
१४. विषण्णी । २ क. ङ. ट. ट. कायो । ३ ड. ने। स्मरते चिन्तिनां ना । ४ क. ख. घ ङ च छ झ. ट. ड. ड. 'नौ क्षयरू' १ ५ ड. वें कामपीडामुदुःखिताः । ६ ङ. झ. उ. ह वर्तन्ते संगल्या नैव पश्च ते । ७ क. ख. ड. च. . . तत्र । ट. चात्र ब. घ. छ, ज, झ, ड, ढ, 'मे बव । ९८. कायः । १० क. ख. च. प्रकल्पितः ।
Page #263
--------------------------------------------------------------------------
________________
६६ षट्षष्टितमोऽध्यायः] पद्मपुराणम् । पुनः प्रजायते कायो यथा हि पतनं पुरा । कथमुत्पद्यते देहस्तन्मे त्वं कारणं वद ॥ २
मातलिरुवाचअथ नारकिणां पुंसामधर्मादेव केवलात् । क्षणमात्रेण भूतेभ्यः शरीरमुपजायते ॥ ३ तद्वद्धर्मेण चैकेन देवानामपिपादिकम् । सद्यः प्रजायते दिव्यं शरीरं भूतसारतः॥ ४ कर्मणा व्यतिमिश्रेण यच्छरीरं महात्मनाम् । तद्रूपपरिमाणेन विज्ञेयं हि चतुर्विधम् ॥ ५ उद्भिजाः स्थावरा ज्ञेयास्तृणगुल्मादिरूपिणः । कृमिकीटपतङ्गाद्याः स्वेदजा नौम देहिनः ॥ ६ अण्डजाः पक्षिणः सर्वे नका मत्स्याश्च भूपते । जरायुजाश्च विज्ञेया मानुषाः सचतुष्पदाः॥ ७ तत्र सिक्ता जलभृमिरन ऊष्माऽभिजायते । वायुना धम्यमाना च क्षेत्रे बीजं प्रवर्तते ॥ ८ यर्थी तप्तानि बीजानि संसिक्तान्यम्भसा पुनः । ऊष्मणा च मृदुत्वं च मूलभावं प्रयाति च ॥९ तन्मूलादकरोत्पत्तिरङ्कुरात्पर्णसंभवः । पर्णान्नालं ततः काण्डं तन्काण्डात्प्रभवः पुनः॥ १० प्रभवाच्च भवेत्क्षीरं क्षीरात्तण्डुलमंभवः । तण्डुलाच्च ततः पकान्सृजन्त्यौषधयस्तदा ॥ ११ यवाद्याः शालिसंपूर्वाः श्रेष्ठास्तत्र दश म्मृताः। ओपथ्यः फलमारा याः शेषाः शुद्धाः प्रकीर्तिताः एतास्तृणा मर्दिनाश्च मुनिभिः पूर्वसंस्कृताः । शूर्पोलग्खलपात्रायः स्थालिकोदकवह्निभिः ॥ १३ पड्डिया हि स्वभेदेन परिणाम व्रजन्ति ताः । अन्योन्यरससंयोगादनेकस्वादतां गताः॥ १४ भक्ष्यं भोज्यं पेयलेा चोप्यं खाद्यं च भूपते । तामां भेदाः पडङ्गाश्च मधुराद्याश्च षड्गुणाः॥१५ तदन्नं पिण्डकवलासभुक्तं च देहिभिः । अन्तःस्थूलाशये सर्वप्राणान्स्थापयति क्रमात् ॥ १६ अपक्कभुक्तमाहारं स वायुः कुरुने द्विधा । संप्रविश्यान्नमध्ये तु पकं कृत्वा पृथग्गुणम् ॥ १७ अग्नेमूनि जलं स्थाप्यं तदन्नं च जलोपरि । जलस्याधः स्वयं प्राणः काष्ठाग्निं धमते शनैः ॥१८ वायुना धम्यमानोऽग्निरत्युष्णं कुरुने जलम् । नदन्नमुष्णयोगेन समन्तात्पच्यते पुनः ॥ १९ द्विधा भवति तत्पर्क कीटं चापि पृथग्रसम् । मलोदशभिः कीटं भिन्नदेहाबहिर्बजेत् ॥ २० कांक्षिनासिकाजिदादन्तोष्ठप्रजनं गुदम् । मलान्त्रवत्कप(फ)स्वेदो(दो) विण्मूत्रं द्वादश स्मृतीः॥ ताभ्यां वै प्रतिवद्धाश्च सर्वा नाड्यः समन्ततः । तासां मुग्वे तनः सूक्ष्मं माणः स्थापयते रसम्॥ रसेन तेन नाडीस्ताः प्राणः पुग्यते पुनः । संतर्पयन्ति ता नाड्यः पूर्णा देहं समन्ततः ॥ २३ ततः स नाडीमध्यस्थः श(शा)रीरेणाप्मणा रसः। पच्यते पच्यमानस्य भवेत्पाकद्वयं पुनः॥२४ त्वङ्मांसास्थि मज्जा मेदो रुधिरं च प्रजायते । रक्ताल्लोमानि मांमं च केशाः स्नायुश्च मांसतः।। स्नायोमज्जा तथाऽस्थीनि वमा मज्जास्थिसंभवा । मजाकारण वे कल्पं शुक्रं च प्रसवात्मकम् ॥ इति द्वादश अन्नस्य परिणामाः प्रकीर्तिताः । शुक्रेऽन्नस्य परीणामः शुक्रादेहस्य संभवः ॥ २७ ऋतुकाले यदा शुक्रं निर्दोष यांनिसंस्थितम् । तदा तद्वायुना स्पृष्टं स्त्रीरक्तमेकतां नयेत् ॥ २८ विसर्गकाले शुक्रस्य जीवः कारणसंयुतः । नित्यं प्रविशते योनि कर्मभिः स्वैर्विचालितः ॥ २९
१ क. ख. ड. च. छ. झ. द. न्मे विस्तरतो व । २ ड. 'त् । लक्ष्यमा । ३ अ. पादुक । ४ क. ख. घ ङ, च. छ. स. ट. ड. तद्भुतप । ५. नाभिदे । ६ इ. था तु कामिनीयोनिः संमिक्ता रेतमा। ७. उष्मतां। ८ क. ख. ङ. च. छ. झ. ड. 'लिपर्यन्ताः । ९ क. ख. ड. च. छ झ. द. श्रेष्ठाः सप्तद । १० क. ख. इ. च. छ. स. ढ. 'एता लना म । ट. एताः पुनमदि। ११ घ. ज. ट. ड. ज्यं च पेयं च लयं चोष्यं च पिच्छलम् । ता । १२ ग. सर्वे प्रा। १३ अ.रं परायः । १४ क. ख. ड. च. छ. स. द. कं पृथकीटं पृ । १५ घ. इ.'न्तोच्छिष्टमलं गु। १६ क. स. घ.स. च. छ. स. ट. ड. ढ' ताः । हृत्पादो प्र। १७ क.न. च. छ.. नखा। घ. ज. ट.इ. ततो।
Page #264
--------------------------------------------------------------------------
________________
२५८
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे -
३०
३१
शुक्रं च रक्तमेकस्थमेकाहात्कललं भवेत् । पञ्चरात्रेण कललं बुद्बुदत्वं ततो व्रजेत् || भवते मासमात्रेण पञ्चधा जायते पुनः । ग्रीवा शिरश्व स्कन्धश्च पृष्ठवंशस्तथोदरम् ॥ पाणी पादौ तथा पार्श्व कटिर्गात्रं तथैव च । मासद्वयेन सर्वाणि क्रमशः संभवन्ति च ॥ ३२ [*त्रिभिर्मासैः प्रजायन्ते शतशोऽङ्कुरसंभवाः । मासैश्चतुर्भिर्जायते अङ्गुल्यादि यथाक्रमम् ] ॥ ३३ मुखं नासा च कर्णौ च मासैर्जायन्ति पश्चभिः । दन्तपङ्गिस्तथा जिह्वा जायते च ततः पुनः ३४ कर्णयोश्च भवेच्छिद्रं षण्मासाभ्यन्तरे पुनः । पायुर्मेण्द्रमुपस्थं च शिश्नश्वाप्युपजायते । संधयो ये च गात्रेषु मासैर्जायन्ति सप्तभिः ।।
३५
३६
३७
प्रत्यङ्गमङ्गं संपूर्ण शिरः केशसमन्वितम् । विभक्तावयवं स्पष्टं पुनर्मासाष्टमेव ( ? ) च ॥ पञ्चात्मकसमायुक्तः परिपकशरीरकः । मातुराहारवीर्येण षड्विधेन रसेन च ।। नाभिसूत्रनिबद्धेन वर्धते स दिने दिने ।
३८
४०
४२ ४३
ततः स्मृतिं लभेज्जीवः संपूर्णेऽस्मि शरीरके । दुःखं सुखं विजानाति निद्रासुतं पुराकृतम् ॥ ३९ मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः । नानायानिसहस्राणि मया दृष्टान्यनेकशः ।। अधुना जातमात्रोऽहं प्राप्त संस्कार एव च । ततः श्रेयः करिष्यामि येन गर्भे न संभवः ।। ४१ गर्भस्थश्चिन्तयत्येवमहं गर्भाद्विनिःसृतः । अध्येष्यामि परं ज्ञानं संसारविनिवर्तकम् ।। अवश्यं गर्भदुःखेन महता परिपीडितः । जीवः कर्मवशादास्ते मोक्षोपायं विचिन्तयन् ।। यथा गिरिगुहाक्रान्तः कश्चिद्दुःखेन तिष्ठति । तथा जरायुणा देही दुःखं तिष्ठति दुःखितः ॥ ४४ पतितः सागरे यद्वद्दुःखमास्ते समाकुलः । गर्भोदकेन सिक्ताङ्गस्तथाऽऽस्ते व्याकुलात्मकः ॥ ४५ लोहकुम्भे यथा न्यस्तः पच्यते कश्चिदग्निना । गर्भकुम्भे तथा क्षिप्तः पच्यते जठराग्निना ॥ ४६ सूचीभिरग्निवर्णाभिर्दुर्भिन्नस्य निरन्तरम् । यद्दुःखं जायते तस्य तनर्भेऽष्टगुणं भवेत् ।। गर्भवासात्परं वासं कष्टं नैवास्ति कुत्रचित् । देहिनां दुःखमतुलं सुघोरमपि संकटम् । इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम् । चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः ।। गर्भात्कोटिगुणं पीडा यातुर्जन्मनि पीडनात् । संमूर्च्छितस्य जायेत जायमानस्य देहिनः ॥ इक्षुवत्पीड्यमानस्य पापमुद्गरकेण च । गर्भान्निष्क्रममाणस्य प्रबलैः सृतिवायुभिः ॥ जायते सुमहदुःखं परित्राणं न विदन्ति ।।
४७
४८
४९
५०
५१
५३
५४
यत्रेण पीड्यमानाः स्युर्निःसाराँश्च यथेक्षवः । तथा शरीरं योनिस्थं पात्यते यत्रपीडनात् ।। ५२ अस्थिमद्वर्तुलाकारं स्नायुबन्धनवेष्टितम् । रक्तमांसंवसाक्लिष्टं विण्मूत्रद्रव्यभाजनम् || केशलोमनखच्छन्नं रोगायतनमुत्तमम् । वदनैकमहाद्वारं गवाक्षाष्टक भूषितम् ॥ ओष्ठद्वयकपार्ट तु दन्तजिह्वागलान्वितम् । नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् ॥ [ 'जराशोकसमाविष्टं कालवक्त्रानले स्थितम् । कामक्रोधसमाक्रान्तं श्वसनैश्वोपमर्दितम् ] ॥५६ [ भोगतृष्णातुरं मूढं रागद्वेषवशानुगम् ] । सवृत्ताङ्गं च प्रत्यङ्गं जरायुपरिवेष्टितम् ॥
५५
५७
* एतचिहान्तर्गतः पाठः क. ख. घ. ङ. च. छ. झ. ड ढ पुस्तकस्थः । + एतचिहान्तर्गत: पाठो घ. पुस्तकस्थ: । * एतचिहान्तर्गतः पाठः क. ख. ङ च छ झ. द. पुस्तकस्थः ।
१ म. भवेत्तमा । २क. ख. ड. च. छ. झ. ड ढ पर्वाणि । ३ क. ख. ङ च छ झ. ड ढ ततो नखाः । क । ४क. ख. घ. छ. च. छ. झ. ट. ड. ट. कधा । अ । ५ ङ. 'डा यो नियन्त्रनि । ६ ग. घ. ज. 'लैः सृति ं । ७ घ. यह ममदालिम बिं ।
। ..
KE
Page #265
--------------------------------------------------------------------------
________________
१६ षट्षष्टितमोऽध्यायः ]
पद्मपुराणम् । संकटेनाविविक्तेन योनिमार्गेण निर्गतम् । विमूत्ररक्तचित्राङ्गं पदकौशिकसमुद्भवम् ॥ ५८ अस्थिपञ्जरसंघातं ज्ञेयमस्मिन्कलेवरे । शतत्रयं षष्ट्यधिकं पञ्चपेशीशतानि तु ॥ सार्धाभिस्तिसृभिश्छन्नं समन्ताद्रोमकोटिभिः । शरीरं स्थूलसूक्ष्माभिदृश्यादृश्याश्च ताः स्मृताः६० एतावतीभिर्नाडीनां कोटिभिस्तत्समन्वितम् । प्रस्वेदमशुचिं ताभिरन्तरस्थं च तेन हि ॥ ६१ द्वात्रिंशदशनाः प्रोक्ता विंशतिश्च नखाः स्मृताः । पित्तस्य कुंडवं ज्ञेयं कफस्यार्धाढकं तथा ॥६२ बसायाश्च पैलत्रिंशत्तदर्ध कललस्य वा । वातार्बुदपलं ज्ञेयं पलानि दश मेदसः ॥ ६३ पलत्रयं महारक्तं मजा रक्ताच्चतुर्गुणा । शुक्रार्धकुडवं ज्ञेयं तदर्धं देहिनां बलम् ॥ ६४ मांसस्य चैकपिण्डेन पलसाहस्रमुच्यते । रक्तं पलशतं ज्ञेयं विण्मूत्रं चाप्रमाणतः ॥ इति देहगृहं राजनित्यमन्वेष्यमात्मनः । अविशुद्धं विशुद्धस्य कर्मबन्धविनिर्मितम् ॥ ६६ [*शुक्रशोणितसंयोगाद्देहः संजायते कचित् । नित्यं विण्मूत्रपूर्णश्च तेनायमशुचिः स्मृतः ॥ ६७ यथा वै विष्ठया पूर्णः (ोऽशुचिः स्यात्तु बहिर्घटः]। पञ्चभिः शोध्यमानोऽपि देहोऽयमशुचिर्भवेत् यं प्राप्यातिपवित्राणि पञ्चगव्यं हवींषि च । अशुचित्वं क्षणाधान्ति कोऽन्योऽस्मादशुचिस्ततः॥ [हयान्यप्यनपानानि यं प्राप्य सुरभीणि च । अशुचित्वं प्रयान्त्याशु कोऽन्यः स्यादशुचिस्ततः] हे जनाः किं न पश्यध्वं यो निर्याति दिने दिने । देहात्तु कश्मलं पूतिस्तदाधारः कथं शुचिः॥ देहः संसिच्यमानोऽपि पश्चगव्यकुशाम्बुभिः । घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥ ७२ स्रोतांसि यस्य सततं प्रवहन्ति क्षणे क्षणे । कफमूत्रायत्यशुचिः स देहः शुध्यते कथम् ॥ ७३ सर्वाशुचिविलग्नस्य शरीरस्य न विद्यते । शुचिरेकः प्रदेशोऽपि शुचिर्न स्थाढतेऽपि वा ॥ ७४ दृष्ट्वा च देहस्रोतांसि मृदाऽद्भिः शोध्यते करः । तथाऽप्यशुचिमाजश्च न विरज्यन्ति ते नराः७५ कायमगरुधूपाधैर्यत्नेनापि सुसंस्कृतम् । न जहाति स्वभावं हि श्वपुच्छमिव नामितम् ॥ ७६ यथा जात्यैव कृष्णोर्णा न शुक्ला जातु जायते । संशोध्यमानाऽपि तथा भवेन्मूर्तिर्न निर्मला।।७७ जिघ्रनपि स्वदुर्गन्धं पश्यन्नपि मलं स्वकम् । न विरज्येत लोकोऽयं पीडयन्नपि नासिकाम् ।।७८ अहो मोहस्य माहात्म्यं येन व्यामोहितं जगत् । जिघन्पश्यन्स्वकान्दोषान्कायस्य न विरज्यते।। स्वदेहाशुचिगन्धेन यो विरज्येत मानवः । विरागकारणं तस्य किमन्यदुपदिश्यते ॥ ८० सर्वमेव जगत्पूतं देहमेवाशुचि परम् । जन्मनाऽवयवस्पर्शाच्छुचिरप्यशुचिर्भवेत् ॥ ८१ गन्धलेपापनोदार्थ शौचं देहस्य कीर्तितम् । यस्यापि विगमात्पश्चाद्भावशुद्ध्या विशुध्यति ॥ ८२ गातोयेन सर्वेण मृद्भारावलेपनैः । मो दुर्गन्धदेहोऽसौ भावदुष्टो न शुध्यति ॥ ८३ तीर्थस्नानस्तपोभिश्च दुष्टात्मा न च शुध्यति । स्वमूर्तिः क्षालिता तीर्थे न शुद्धिमधिगच्छति।।८४ अन्तर्भावपदुष्टस्य विशतोऽपि हुताशनम् । न स्वर्गो नापवर्गश्च देहनिर्वन्धनं परम् ॥ ८५ भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु । अन्यथाऽऽलिङ्गयते कान्ता भावेन दुहिताऽन्यथा ॥८६ मनसो भिद्यते वृत्तिभिश्रेष्वपि च वस्तुषु । अन्यथैव ततः पुत्रं भावयत्यन्यथा पतिम् ॥ ८७ __* एतचिहान्तर्गतोऽयं पाठो ड. छ. झ. ह. पुस्तकस्थः । * एतचिहान्तर्गतः पाठो ड. पुस्तकस्यः।
१क. ख. ऊ. च. छ. स. द. 'क्तसिताङ्गं । २ ड. कुण्डं विशे' । ३ घ. ङ. ज. स. ट. ड. पलं विंश। ४म. वाललस्य । ५. ख. ऊ. च. छ.स. द. "न्ति गिरोरिव । क । ६ अ. स्यादते । ७ घ, ङ, छ. ज. स. ट... 'पि सुदा ८. मेव । ९घट.ह.द्वारः शतले ।१. क. ख. रैश्च नगोपमैः । आ मृत्योराचरशाचं भा . * च गोमयैः । आ मृत्योराचरडशौचं भा। स. रैश्च नगोपमैः । म । ११ क. स. ङ. च. छ.स. द. निर्दहन ।
Page #266
--------------------------------------------------------------------------
________________
२६०
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे -
९२
९४
९.८
१००
यथा यथा स्वभावस्य महाभागे मुदावहम् । परित्यक्ता यथा भार्या भावहीना न कामयेत् ॥८८ तस्माद्विविधमन्नाद्यं भक्ष्याणि सुरभीणि च । स्वभावेन नरस्तस्माद्भावः सर्वत्र कारणम् 11 ८९ चित्तं शोधय यत्नेन किमन्यैर्बाह्यशोधनैः । भावतः शुचिः शुद्धात्मा स्वर्ग मोक्षं च विन्दति ॥९० ज्ञानामलाम्भसा पुंसः सद्वैराग्यमृदा पुनः । अविद्यारागविण्मूत्रलेपो नश्येद्विशोधनैः ॥ ९१ एवमेतच्छरीरं हि निसर्गादशुचि विदुः । अध्यात्मसारनिःसारं कदलीसारसंनिभम् ॥ ज्ञात्वैवं देहदोषं यः प्राज्ञः स शिथिलो भवेत् । सोऽतिक्रामति संसारं दृढग्राहीव तिष्ठति ॥ ९३ एवमेतन्महाकष्टं जन्मदुःखं प्रकीर्तितम् । पुंसामज्ञानदोषेण नानाकर्मवशेन च ॥ गर्भस्थस्य मतिर्याssसीत्संजातस्य प्रणश्यति । संमूर्च्छितस्य दुःखेन यांनियत्रप्रपीडनात् ॥ बाह्येन वायुना तस्य मोहंसङ्गेन देहिनाम् । स्पृष्टमात्रेण घोरेण ज्वरः समुपजायते ॥ तेन ज्वरेण महता महामोहः प्रजायते । संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः ॥ स्मृतिभ्रंशात्तस्य पूर्वकर्मज्ञानसमुद्भवा । रतिः संजायते पूर्णा जन्तोस्तत्रैव जन्मनि ॥ रक्तो मूढश्च लोकोऽयमकार्ये संप्रवर्तते । न चाऽऽत्मानं विजानाति न परं न च दैवतम् ॥ ९९ न शृणोति परं श्रेयः सति चक्षुषि नेक्षते । समे पथि शनैर्गच्छन्स्खलतीव पदे पढ़े ॥ स्वापं सुप्तो न जहाति बोध्यमानो बुधैरपि । संसारे क्लिश्यते तेन नरो लोभवशानुगः । गर्भस्मृतेरभावे च शास्त्रमुक्तं शिवेन च । नानादुःखविनाशाय स्वर्गमोक्षमसाधनम् ।। येन त्वस्मिञ्शिवे ज्ञाते धर्मकर्मार्थसाधने । न कुर्वत्यात्मनः श्रेयस्तदत्र महदद्भुतम् ॥ अव्यक्तेन्द्रियवृत्तित्वाद्वाल्ये दुःखं महत्पुनः । इच्छन्नपि न शक्क्रांति वक्तुं कर्तुं च संत्कृतम् ।। १०४ भुङ्क्ते तेन महद्दुःखं बॉल्येन व्याधिनाऽन्यथा । वाल्यरोगैश्च विविधैः पीडाबालग्रहैरपि ।। १०२ तृड्बुभुक्षापरीताङ्गः कचिद्गच्छति तिष्ठति । विमृ॑त्र॒मज्जनार्थं च मोहाद्वालः समाचरेत् ।। १०६ [*कौमारः कर्णवेधेन मातापित्रांश्च लॉलनम् । अक्षराध्ययनाद्यैश्च दुःखं स्यागुरुशासनम् ॥ १०७ अन्यत्रेन्द्रियवृत्तिश्च कामर (गप्रयोजनात् । रोगावृतस्य सततं कुतः सौख्यं च यौवने ॥ ईर्षया सुमहद्दुःखं मोहाद्दुःखं सुजायते ] । तत्र स्यात्कुपितस्यैव रागां दुःखाय केवलम् ।। १०९ रात्रौ न कुरुते निद्रां कामाग्निपरिखेदितः । दिवा वाऽपि कुतः सौख्यमर्थोपार्जन चिन्तया ।। ११० व्यवायाश्रितदेहस्य ये पुंसः शुक्रविन्दवः । [न ते सुखाय मन्तव्याः स्वेदजा इव बिन्दवः] ।। १११ कृमिभिः पीड्यमानस्य कुष्ठिनः पामरस्य च । कण्डूयनाभितापेन यत्सुखं स्त्रीषु तद्विदुः ।। ११२ यादृशं मन्यते सौख्यमर्थोपार्जनचिन्तया । तादृशं स्त्रीषु मन्तव्यमधिकं नैव विद्यते । ११३ मर्त्यस्य वेदना सैव यां विना चित्तनिर्वृतिः । ततोऽन्योन्यं पुरा प्राप्तमन्ते सैवान्यथा भवेत् ।। ११४
१०१
1
१०२
१०३
१०८
१७
९५
९६
९७
* एतचिहान्तर्गतः पाठः क. ख. घ. इ. च. छ. झ. ड. ट. पुस्तकस्थः । * एतच्चिह्नान्तर्गतः पाठः क. ख. ङ. च. ड. ट. पुस्तकस्थः ।
१ क. ख. घ ङ च छ झ ट ट गमुदाहृतम् । प । २ड. उदाहृतः । ३ च. छ. झ. दृ त् । नाद्याद्वि ं । ४ क. ख. ङ. च. छ. झ. ट. अभावेन । ५ क. ख. छ. झ. ड. 'हसंज्ञेन । ६ घ ड द्वारेण । ७ क. ख. ङ. च. छ. झ. ड. ट. तूर्णे । ८ क. ख. ङ च छ ड द वक्रो । ९ क. ख. ङ. च. छ. झ. ड. द. 'दे । सत्यां बुद्धी न जानाति । १० क. स्व. घ. ङ. च. छ. झ. ट ड ढ च । तद्दुःखकथनार्थाय । ११ ड. संस्कृतं । १२ क. ख. घ. ड. च. ड. द. दत्तं । १३ क. ख. घ. ड. व. छ. झ. ड. ट. लौल्येन । १४ ङ. छ. झ. ८. 'त्रभक्षणाद्यं च । १५ क. ख. ङ. च. छ. झ. ८. ताडनम् । १६ क ख. ङ. च. झ. ढ. प्रमत्तेन्द्रियवृत्तिश्च । १७ क. ख. घ. ङ. च. छ. झ. ट. ढ. 'मिभिस्ताड्य 1 १८
T शाला।
77
Page #267
--------------------------------------------------------------------------
________________
६६ षट्षष्टितमोऽध्यायः ]
पद्मपुराणम् ।
तदेवं जरया ग्रस्तमामया॒व्यपि न प्रियम् । अपूर्ववत्स्वमात्मानं जरया परिपीडितम् ॥ यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः ।।
जराभिभूतोऽपि जन्तुः पत्नीपुत्रादिबान्धवैः । अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते ॥ धर्ममर्थं च कामं च मोक्षं न जरया पुनः । शक्तः साधयितुं तस्माद्युवा धर्म समाचरेत् ।। वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते । वातादीनां समूहेन देहोऽयं परिकीर्तितः ॥ तस्माद्याधिमयं ज्ञेयं शरीरमिदमात्मनः ॥ वातादिव्यतिरिक्तस्य व्याधीनों च जनस्य च । रोगैर्नानाविधैर्याति देही दुःखान्यनेकधा ॥ तानि च स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् ||
११८
२६१
११५
११६
११७
११९
एकोत्तरं मृत्युशनमस्मिन्देहे प्रतिष्ठितम् । तत्रैकः कालसंयुक्तः शेषास्त्वागन्तवः स्मृताः ॥ १२० येsssः प्रोक्तास्ते प्रशाम्यन्ति भेषजैः । जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ।। १२१ raised स्याद्वै विषाणामदनं किल । नापैति तत्र पुरुषो वपमृत्योर्विभेति सः ॥ १२२ विविधा व्याधयस्तत्र सर्पाद्याः प्राणिनस्तथा । विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम् ।। पीडितं सर्वरोगाद्यैरपि धन्वन्तरिः स्वयम् । प्रतिकर्तुं न शक्नोति कालमाप्तं हि नान्यथा ॥ १२४ नौषधं न तपो दानं न मन्त्रा न च बान्धवाः । शक्नुवन्ति परित्रातुं नरं कालेन पीडितम् ॥ १२५ रसायनतपोयज्ञयोगसिद्धिमहात्मभिः । अवान्तरितशान्तिः स्यात्कालमृत्युमत्रामुयात् ॥ जायते योनिकोटीषु मृतः कर्मवशात्पुनः ||
१२६
१२७
१२८
१३०
देहभेदेन यः पुंसां वियोगः कर्मसंक्षयात् । मरणं तद्विनिर्दिष्टं न नाशः परमार्थतः ॥ महातमः प्रविष्टस्य च्छिद्यमानेषु मर्मसु । यद्दुःखं मरणे जन्तोर्न तस्येहोपमा कचित् ॥ हातात मातः कान्तेति क्रन्दत्येवं सुदुःखितः । मण्डूक इत्र सर्पेण ग्रस्यते मृत्युना जगत् ।। १२९ बान्धवैः स परित्यक्तः प्रियैश्व परिवारितः । निश्वसन्दीर्घमुष्णं च मुखेन परिशुष्यते ॥ शय्यान्तः परिवृत्तश्च मुद्यते च मुहुर्मुहुः । संमूहः क्षिपतेऽत्यर्थ हस्तपादावितस्ततः ॥ शय्यातः पतते भूमिं भूमेः शय्यां पुनर्महीम् । वित्रशस्त्यक्तलज्जश्व मूत्रविष्ठानुलेपितः ।। याचमानश्च सलिलं शुष्ककण्ठौष्टतालुकः । चिन्तयानश्च वित्तानि कस्यैतानि मृते मयि ॥ यमदूतैर्नीयमानः कालपाशेन कर्षितः । म्रियते पश्यतामेवं कण्ठे घुरघुरायते ॥
१३१
१३२
१३३
१३४
१३५
जीवस्तु जन्मनैकेन देहाद्देहमिति क्रमात् । संप्राप्योत्तरस च देहं त्यजति पूर्वकम् ॥ [*मरणात्प्रार्थनादुःखमधिकं हि विवेकिनाम् |] क्षेणिकं मरणादुःखमनन्तं प्रार्थनाकृतम् ।। १३६ जगतां पतिरर्थित्वाद्विष्णुर्वामनतां गतः । अधिकः कोऽपरस्तस्माद्यो न यात्यतिलाघवम् ।। १३७ ज्ञातं मयेदमधुना मृत्योरधिकमद्भुतम् । न परं मार्थयेयस्तृष्णा लाघवकारणम् ।। निसर्गात्सर्वभूतानामिति दुःख परंपरा || चतुर्मासानतीतानि दुःखान्येतानि यानि च । न नरः शोचयेज्जन्म न विरज्यति तेन वै ।। १३९ पन्यच्चैवं कुतः सुखम् ॥ अत्याहारान्महद्दुःखमनाहारान्महातुरः । त्रुटते भोजने कण्ठमन्य
१३८
१४०
* एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. ढ. पुस्तकस्थः ।
१. ज. ट. 'रिवारित । २क. ख. ड. च. छ. झ. द. नां पञ्जरस्य । ३ म. वाऽप्यस्य मृत्युः स्यादिष्टभावादशङ्कितः । ना' । ४ क. ख. ङ च छ झ. ट. वाञ्छते । ५ अ. अधिकं । ६ घ ट 'त्योर्भवति यद्गुरु । न । ७ क. ख. उ. च. छ. झ. . रा । वर्तमानान्यती । ८ ङ. नरा न साधयन्संज्ञां ज्ञानं विघ्नन्ति तेन ते । अ ।
Page #268
--------------------------------------------------------------------------
________________
२६२ महामुनिश्रीव्यासमणीत
[२ भूमिखण्डेक्षुधा हि सर्व रोगाणां व्याधिः श्रेष्ठतमः स्मृतः। सो काम्यौषधलाभेन क्षणमात्र प्रयास्यति१४१ क्षुदाधिवेदना तीव्रा निःशेषबलकृन्तनी । तयाऽभिभूतो म्रियते यथाऽन्यैर्व्याधिभिर्नरः ॥१४२ आहारेऽपि हि किं सौख्यं जिहाने हि प्रवर्तिनि । तत्क्षणादर्धकालेन कण्ठं माप्य निवर्तते १४३ इति शुव्याधितप्तानामनमौषधवत्स्मृतम् । न तत्सुखाय मन्तव्यं परमार्थेन पण्डितैः॥ १४४ मृतोऽयमग्रतः शेते सर्वकार्यविवर्जितः । तत्रापि च कुतः सौख्यं तमसा चोदितात्मनः ॥ १४५ प्रेरोधे हि कुतः सौख्यं कार्यैरुपहतात्मनः । कृषिवाणिज्यसेवाख्यगोरक्षादिपरिश्रमैः ॥ १४६ पातर्मूत्रपुरीषाभ्यां मध्याहे क्षुत्पिपासया । तृप्ताः कामेन बाध्यन्ते निद्रया निशि जन्तवः॥१४७ अर्थस्योपार्जने दुःखं दुःखमर्जितरक्षणे । नाशे दुःखं व्यये दुःखमर्थस्यैव कुतः सुखम् ॥ १४८ चौरेभ्यः सलिलेभ्योऽनेः स्वजनात्पार्थिवादपि । भयमर्थवतां नित्यं मृत्योर्देहभृतामिव ॥ १४९ खे यथा पक्षिभिर्मासं भुज्यते श्वापदैर्भुवि । जले च भक्ष्यते मत्स्यैस्तथा सर्वत्र वित्तवान्॥१५० विमोहयन्ति संपत्सु तापयन्ति विपत्सु वा । वेदयन्त्यजने दुःखं कथमर्थाः सुखावहाः ॥ १५१ मागर्थ याति चोद्विनः पश्चात्सर्वार्थनिःस्पृहः । जन्तुरागमाच्चापि सुखी स्यात्तेन दुःख्यपि१५२ हेमन्ते शिशिरे दुःखं ग्रीष्मे तापश्च दारुणः । प्रावृष्यत्यल्पवृष्टिभ्यां कालेऽप्येवं कुतः सुखम् १५३ विवाहविस्तरे दुःखं तद् द्वहने पुनः । प्रसवेरपि दुःखैश्च दुःखं विष्ठादिकर्मजम् ॥ १५४ दन्ताक्षिरोगे पुत्रस्य हा कष्टं किं करोम्यहम् । गावो नष्टाः कृषिर्भमा भार्या च प्रपलायिता१५५ अमी प्रापूर्णिकाः प्राप्ता भयं मे शंसिनो ग्रहाः। बालापत्या च मे भार्या किं करिष्यति वै धनम् प्रदेयकाले कन्यायाः कीदृशश्च वरो भवेत् । एतचिन्ताभिभूतानां कुतः सौख्यं कुटुम्बिनाम् १५७
कुटुम्बचिन्ताकुलितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे ।।
अपककुम्भे निहिता इवाऽऽपः प्रयान्ति देहेन समं विनाशम् ॥ १५८ राज्येऽपि हि कुतः सौख्यं सन्धिविग्रहचिन्तया । पुत्रादपि भयं यत्र तत्र सौख्यं हि कीदृशम्।। स्वजातीयाद्भयं प्रायः सर्वेषामेव देहिनाम् । एकद्रव्याभिलाषित्वाच्छुनामिव परस्परम् ॥ १६० न प्रविश्य वनं कश्चिन्नृपः ख्यातो हि भूतले । निखिलं यस्तिरस्कृत्य सुखं तिष्ठति निर्भयः १६१ युद्ध बाहुसहस्रं हि पातयामास भूतले । श्रीमतः कार्तवीर्यस्य ऋषिपुत्रः प्रतापवान् ॥ १६२ ऋषिपुत्रस्य रामस्य रामो दशरथात्मजः । जघान वीर्यमतुलमूर्ध्वगं सुमहात्मनः ॥ १६३ जरासंधेन रामस्य तेजसा नाशितं यशः । जरासंधस्य भीमेन तस्यापि पवनात्मजः ॥ १६४ हनुमान्भरतेनापि प्रक्षिप्तः पतितः क्षितौ । निवातकवचाः सर्वे दानवा बलदर्पिताः॥ १६५ जितवानर्जुनस्तान्वै गोपैः स च विनिर्जितः । सूर्यः प्रतापयुक्तो हि मेघैः संछाद्यते कचित् १६६ क्षिप्यन्ते वायुना मेघा वायोर्वीर्य नगैर्जितम् । दह्यन्ते वह्निना शैलाः स वह्निः शाम्यते जलैः ।। तज्जलं शोष्यते सूर्यैस्ते सूर्याः सह वारिणा(?)। त्रयो लोकाः समेताश्व नश्यन्ते ब्रह्मणो दिने १६८
घ. ज.ट. सा कायोषधलेपन । छ. झ. सच्छान्त्यौषधलेपेन । २ छ. स. क्षुझ्याधि । ३ क. ङ. च. छ. झ.द. प्रबोधे । म. प्रारम्भे । ४ ट. तष्णा कामेन बाध्येत नि" । ५ ट. तत्त्वतः । ६ ङ, छ. झ. द. विमोदयन्ति । ७ङ. छ. इ. ह."हः । तयोरर्थपतिर्दुःखी सुखी सर्वार्थसाधकः। हैं। ८ घ. ङ. इ. णः । सवातातप । ९ ड. दुःखमिष्टादिकर्मतः ।। १.क.स्व. च. छ. र..र्या कः करिष्यति बन्धन । ११. 'ध्यन्ति बान्धवाः । । १२ म. मश्च दर्प द। १३ म. जनदानस्य रामेण तें । १४ म.शः । जामदग्न्यप्रभावेण त । १५ न. परमात्मनः । ह। १६ म. मानपि सूर्येण प्र। १७ °हचारिणा । त्रैलोक्येन स । इति क्वचित्पुस्तके ।
Page #269
--------------------------------------------------------------------------
________________
६६ षट्षष्टितमोऽध्यायः ]
पद्मपुराणम् । ब्रह्माऽपि त्रिदशैः सार्धमुपसंहियते पुनः । परार्धद्वयकालान्ते शिवेन परमात्मना ॥ १६९ एवं नैवास्ति संसारे यस्य सर्वोत्तमं पदम् । विहायैकं जगन्नाथं परमात्मानमव्ययम् ॥ १७० कालं यान्ति सुराः सर्वे प्रतिमानेन वर्जिताः। एवं भूते जगत्यस्मिन्कः पुनः पण्डितोऽपि वा १७१ न चास्ति सर्ववित्कश्चिन्न च मूर्खश्च सर्वशः । यो यद्वस्तु विजानाति तत्र तत्र स पण्डितः १७२ समाधाने तु सर्वत्र प्रभावः सदृशः स्मृतः । स्थितस्यातिशयत्वेन प्रभावः कस्यचित्कचित्॥१७३ दानवैनिर्जिता देवास्ते देवैर्निर्जिताः पुनः । इत्यन्योन्यं स्थितावेतौ भाग्यैर्जयपराजयौ ॥ १७४ एवं वस्त्रयुगं राजन्मस्थमात्रं तु भोजनम् । मानं छत्रीसनं चैव सुखदुःखाय केवलम् ॥ १७५ सार्वभौमोऽपि भवति श्रद्धामात्रपरिग्रहः । उदकुम्भसहस्रेभ्यः क्लेशायासविस्तरः॥ १७६ प्रत्यूषे तूर्णनिर्घोषः सतां पुरनिवासिभिः। राज्येऽभिमानमात्रं हि ममेदं वाह्यते गृहे ॥ १७७ सर्वाभरणशृङ्गारः सर्वमालेपनं परम् । सर्वसंलपितं गीतं चित्तमुन्मत्तचेष्टितम् ॥ १७८ इत्येवं राज्यसंभोगैः कुतः सौख्यं विचारतः। नृपाणां विग्रहे चिन्ता वाऽन्योन्यविजिगीषया १७९ प्रायेण श्रीमदालेपानहुषाद्या महानृपाः। स्वर्ग प्राप्ता निपतिताः कः श्रिया विन्दते सुखम् १८० स्वर्गेऽपि हि कुतः सौख्यं दृष्ट्वा दीप्तां परश्रियम् । उपर्युपरि देवानामन्योन्यातिशयस्थिताम् १८१ नरैः पुण्यफलं स्वर्गे मूलच्छेदेन भुज्यते । यदर्थ क्रियते कर्म तत्र दोषस्तु दारुणः ॥ १८२ [*छिन्नमूलस्तरुयद्वद्विवशः पतितः क्षितौ । क्षीणपुण्यास्ततस्तद्वनिपतन्ति दिवौकसः ॥ १८३ सुखाभिलाषनिष्ठानां सुखभोगादिसंप्लवैः। अकस्मात्पतितं दुःख कष्टं स्वर्गे दिवौकसाम् ॥१८४ इति स्वर्गेऽपि देवानां नास्ति सौख्यं विचारतः । क्षयश्च विपयासिद्धौ स्वर्गे भोगाय कर्मणः१८५ तत्र दुःखं महत्कष्टं नरकाग्निपु देहिनाम् । घोरैश्च विविधैर्भावैर्वाअनःकायसंभवैः ॥ १८६ कुगरच्छेदनं तीव्र वल्कलानां च तक्षणम् । पर्णशाखाफलानां च पातश्चण्डेन वायुना ॥ १८७ तन्मूलनाशश्च गजैरन्यैश्चैव हि देहिभिः । दावाग्निहिमपातैश्च दुःखं स्थावरजातिषु ॥ १८८ पशूनामात्मशमनं दण्डताडनमेव च । नासावेधेन संत्रामः प्रेतोदेन मुताडनम् ॥ १८९ वेत्रकाष्ठादिनिगडैरङ्कुशेनाङ्गबन्धनम् । भावेन मनसा क्लेशभिक्षायुवादिपीडनम् ॥ १९० आत्मयूथवियोगैश्व बलान्नयनवन्धने । पशूनां सन्ति कायानामेवं दुःखान्यनेकशः॥ १९१ वर्षाशीतातपाहुःखं सुकष्टं ग्रहपक्षिणाम् । वंशमानातिकायानामेवं दुःखान्यनेकधा ॥ १९२ गर्भवासे महदुःखं [*जन्मदुःखं तथा नृणाम् । सुबाल्ये च महहुःखं] कौमारे गुरुशासनम् १९३ यौवने कामरागाभ्यां दुःखं चैवर्ण्यया पुनः । कृषिवाणिज्यसेवायैः सुगोरक्षादिकर्मभिः ॥१९४ * एतचिहान्तर्गतः पाठः क. ख.घ.इ.च छ.झ.ट.इ. द. पुस्तकस्थः । * क. ख. घ. हु. च छ. स. ह. ढ. पुस्तकस्थमेतत् ।
१. ख. घ. ङ. च. झ. ड. द. म् । ज्ञात्वा सातिशयं सर्वमतिमान विवर्जयेत् । ए। छ. म् । ज्ञात्वा सातिशय सवेमभिमानं विवर्जयेत् । ए। ट. 'म् । ज्ञात्वा याति शम सर्व प्रीतिमानो विवर्जयेत् । ए। २ क. ख. उ. च. छ.स.म् । पानं शय्याऽऽस । ३ अ. 'त्राशनं । ४ छ झ. खट्वामात्रपरिग्रहः । ५ क. ख. ड. च. छ. स. ६. समं ।। क. ख.च. हि सदैवं वा । क. ख. ङ. च. छ. झ. इ. द. सर्वमामरणं मारः । ८ घ. ट. . तं नित्यमु। ९ क. ख. रु.च. छ. म. द. 'ते । तदाऽन्यक्रिय। १. छ. दृष्टं । ११क. ख. ङ. च. छ. म. द. तत्कलानां । १२ क.ख. . च. छ.स.म.द. तत्क्षणम् । ग.ज. रक्षणम् । १३ मतोदकसुताडनात् । आ१४ क. ख. इ. च. छ. स. ने । तामुक्षा सर्पाणां को दुःखं च दारुणम् । दुष्टानां घातनं लोके पाशेन च निवन्धनम् । अकस्माजन्म मरणं कीटादीना मुहुर्मुहुः ।।१५क. ख. ख. च. छ. प्र. द.ल्ये दःखंचाज्ञान को। १६ इ. खंबै विषयात्पुनः ।
Page #270
--------------------------------------------------------------------------
________________
२६४ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेवृद्धभावे च जरया व्याधिभिश्च प्रपीडनात् । मरणे च महहुःखं प्रार्थनायां ततोऽधिकम् ॥ १९५ राजामिजलदापातचौरशत्रुभयं महत् । अर्थस्या नरक्षायां दुःखं नाशे भवेत्पुनः ॥ १९६ कार्पण्यं मत्सरोद्वेगो धनाधिक्ये भयं महत् । अकार्ये संप्रवृत्तिश्च दुःखानि धनिनां नृप ॥ १९७ भृत्यत्तिः कुसीदं च दासत्वं परैवश्चनम् । इष्टानिष्टवियोगैश्च संयोगैश्च सहस्रशः॥ १९८ दुर्भिक्षं दुर्भगत्वं च मूर्खत्वं च दरिद्रता । अधरोत्तरभागश्च नरकं राज्यविक्रमम् ॥ ११९ अन्योन्यतोभवं दुःखमन्योन्याभिभवस्तथा । अन्योन्याञ्च प्रकोपश्च राज्ञो दुःवं महीभृताम् ॥ अनित्यता प्रभावानां कृतकर्मस्य देहिनः । अन्योन्यमर्मभेदार्थमन्योन्यकरपीडनम् ॥ लुब्धश्च पापमोहेन ह्यन्योन्यस्य च भक्षणम् ॥ इत्येवमादिभिर्दुःखैर्यस्माद्स्तं चराचरम् । विबुधादिमनुष्यान्तं तस्मात्सर्वं त्यजेद्बुधः ॥ २०२ स्कन्धात्स्कन्धे नयन्भारं विश्रामं मन्यते यथा । तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति २०३ अन्योन्यातिशयोपेताः संभवा भोगसंप्लवे । धर्मक्षयाच देवानां दिवि दुःखमवस्थितम् ॥ २०४ नानायोनिसहस्रेषु संभवः पुण्यसंक्षयात् । रोगाश्च विविधाकारा देवलोकेऽपि ये स्मृताः॥२०५ यज्ञस्य हि शिरश्छिन्नमश्विभ्यां संधितं पुनः । तेन दोषेण यज्ञस्य शिरोरोगः सदैव हि ॥२०६ मार्तण्डानां महत्कुष्ठं वरुणस्य जलोदरः । पूष्णो दशनवैकल्यं भुजस्तम्भः शचीपतेः ॥ २०७ सुमहाक्षयरोगश्च सोमस्यापि प्रकीर्तितः । ज्वरस्तु मुमहानासीद्दक्षस्यापि प्रजापतेः ॥ २०८ कल्पे कल्पे च देवानां महतामपि संक्षयः । परार्धद्वयकालान्ते ब्रह्मणश्चाप्यनित्यता ॥ २०९ दक्षस्य दुहितां पुत्री ब्रह्मा कामितवान्पुनः । क्रोधेन चण्डिकां देवीं योगज्ञां शप्तवान्प्रभुः॥२१० कामक्रोधो स्थिती यत्र तत्र दोषास्तदात्मकाः । दुःखानि च समस्तानि संस्थितानि न संशयः विश्लेषजन्ममरणं सर्वाशित्वं हविर्भुजम् (:) । स्त्रीवधः कामशक्तिश्च सारण्यं पाण्डवेन वै(?)२१२ रुद्रेण त्रिपुरं दग्धं दक्षयज्ञश्च नाशितः । स्कन्दस्य जन्म शुद्धात्क्रीडादीनां सहस्रशः॥ २१३ एवं त्रयोऽपि रागायेर्दोषैर्देवाः समन्विताः । एभ्यः परः प्रभुः शान्तः परिपूर्णः स मुक्तिदः ।। एवमेतज्जगत्सर्वमन्योन्यातिशये स्थितम् । दुःखैराकुलितं ज्ञात्वा निर्वेदं परमं व्रजेत् ॥ २१५ निर्वेदाच विरागः स्याद्विरागाज्ज्ञानसंभवः । ज्ञानेन तत्परं ज्ञात्वा शिवं मुक्तिमवाप्नुयात् ॥२१६ समस्तदुःखनिर्मुक्तः स्वस्थाने स सुखी सदा । सर्वज्ञः परिपूर्णश्च मुक्त इत्यभिधीयते ॥ २१७
मातलिरुवाच-- एतत्ते सर्वमाख्यातं यच्चया परिपृच्छितम् । धर्माधर्मविवेको हि सर्वज्ञानसमुच्चयः ।। इन्द्रलोकं प्रगन्तव्यं देवराजस्य शासनात् ॥ इति श्रीमहापुराणे पाने भूमिखण्डे वेनोपाख्याने मातापितृतीर्थमाहात्म्ये षट्षष्टितमोऽध्यायः ॥ ६६ ॥
आदितः श्लोकानां समष्टयङ्काः-६७६८
२१८
१क.ख. घ. ड.च. छ. स.ट. इ. द. रो दम्भी ध। २ क. ख ड.च. छ. झ. द. सदा । ३ क. ख. ह. च. छ.स. ढ. रतन्त्रता । ई। ४ क. ख. र.च. छ. झ ड. 'विभ्रम । ५. न्योन्यशापतो नाशं भगवो भोगसंभवे । ६ ट... 'अक्षयकाले तु ब्र ट. 'नपुरा। को। ८ घ. ज. ट. ड. विशीर्णजन्ममरणं सर्वाशित्व हविर्भ वीधर्मः । १० क. ख. च. ड. सामर्थ्य । ङ. छ. म. द. सारथ्यं । ११ क. ख. हु. च. छ. स. ङ. ढ. वे बले । रु । १२ अ. 'न्मने शद्धि: क्रीडावीतं स । ११. सहक । ए। १४ क. ख. घ. ड. च. छ. स. ट. ड. स्वस्थात्मा ।
Page #271
--------------------------------------------------------------------------
________________
६७ सप्तपष्टितमोऽध्यायः ]
पद्मपुराणम् ।
अथ सप्तषष्टितमोऽध्यायः ।
ययातिरुवाच अस्मद्भाग्यप्रेलब्धं च भवतो दर्शनं परम् । संजातं शक्रसंवाह यतः श्रेयो ममातुलम् ॥ १ मानवा मर्त्यलोके च पापं कुर्वन्ति दारुणम् । तेषां कर्मविपाकं च मातले वद सांप्रतम् ॥ २ ___ मातलिरुवाचश्रूयतामभिधास्यामि पापाचारस्य लक्षणम् । श्रुते सति महाज्ञानमत्र लोके प्रजायते ॥ ३ वेदनिन्दा प्रकुर्वन्ति ब्रह्माचारस्य कुत्सनम् । महापातकमेवापि ज्ञातव्यं ज्ञानपण्डितैः॥ ४ साधूनामपि सर्वेषां यः पीडां हि ममाचरेत् । महापातकमेवापि प्रायश्चिते न हि व्रजेत् ॥ ५ कुलाचारं परित्यज्य अन्याचारं व्रजन्ति ये । एतत्पातकसंचारं कथितं तत्त्ववेदिभिः ॥ ६ मातापित्रोश्च यो निन्दा ताडयेद्भगिनीं सदा । स्वमारं निन्दयेद्यो वै तदेव पातकं ध्रुवम् ॥ ७ संप्राप्ते श्राद्धकालेऽपि पञ्चकोशान्तरे स्थितम् । जामातरं परित्यज्य अन्यं च भगिनीसुतम् ॥ ८ स्वसारं चैव राजेन्द्र परित्यज्य प्रवर्तते । कामात्क्रोधाद्भयाद्वाऽपि अन्यं भोजयते सदा ॥ ९ पितरो नैव भुञ्जन्ति श्राद्ध विघ्नं व्रजन्ति ये । एतत्सुपातकं तस्य पितृयातः (त)समं कृतम् ॥१० दानकालेऽपि संप्राप्त आगता ब्राह्मणाः किल । [भूरिदानं परित्यज्य कतिभ्यो हि प्रवर्तते ॥ एकस्मै दीयते दानमन्येभ्योऽथ न दीयते । एतत्सुपातकं घोरं दानभ्रंशकरं स्मृतम् ॥ १२ यजमानश्च स्वगृहं प्रस्थितान्ब्राह्मणांस्त्यजेत् । तेषु त्यक्तेपु यदानं न तदानस्य लक्षणम् ॥ १३ समाश्रितं च वै विषं सर्वाचारसमान्वितम् । सबैः पुण्यः समायुक्तं सुदानहुभिर्नृपं ॥ तं समभ्यय विद्वांसं प्राप्तं विप्रं सदाऽहेयेत् ॥ तं संत्यज्य ददेहानमन्यस्मै ब्राह्मणाय च । दत्तं तु तद्भवेत्तस्य निष्फलं नात्र संशयः ॥ १५ ब्राह्मणः क्षत्रियो वेश्यः शूद्रश्चापि चतुर्थकः । पुण्यकालेषु सर्वेषु निर्धनं पूजयेट्विजम् ॥ १६ [*मूर्व वाऽपि च विद्वांसं तस्य पुण्यफलं शृणु । अश्वमेधस्य यज्ञस्य फलं तस्य प्रजायते ॥ १७ तस्माद्धि कारणाद्राजशक्यं प्राप्यं च कारयेत् । अन्यो विप्रः समायातस्तत्कालं श्राद्धकर्मणि ।। उभौ तौ पूजयेत्तत्र भोजनाच्छादनैस्तथा । ताम्बूलदक्षिणाभिश्च पितरस्तस्य हर्षिताः ॥ १९ श्राद्धभुक्ताय विप्राय न दद्यादक्षिणां तथा । आदराच्छ्राद्धकर्ता यो गोहत्यादिसमं लभेत ॥२० द्वावेतौ पूजयेत्तस्माच्छाद्धे च नृपसत्तम । निर्धनस्तत्प्रभावाद्वै नमेकं हि प्रपूजयेत् ॥ २१ व्यतीपाते च संप्राप्त वैधृतौ च नृपोत्तम । अमायां च महाराज क्षयाहे चापराडके ॥ श्राद्धमेवं प्रकर्तव्यं ब्राह्मणादिसवर्णकैः ।। यज्ञे यथा महाराज ऋत्विजश्च प्रकारयेत् । तथा विप्राः प्रकर्तव्याः श्राद्धदानथ सर्वदा ॥ २३ * एतचिहान्तर्गतोऽय पाठः क. ख. घ. इ. च. छ. ज. ट. ड. द. पुस्तकस्थः । * एतरि
ठो ड. छ. झ. ड. पुस्तकस्थः ।
१ क. ख इ. च. छ. स. इ. द. प्रसङ्गेन भ। २ क. ख. इ. च. छ. म. द. ज्ञान प्रश्नकाले ।३ .. 'दा पितृस्वसां निन्दयेद्यस्तदें। ४ क. ख. इ. च. छ. झ. ट. च दहिताम्। ५. ढ. "न्ति देवाश्चैव न भूमति । ए'। . भूमिदानं परित्यज्य कतिभ्यो हि प्रदीयते । ७ क. ख. ङ. च. छ. स. ८. धर्माचारसमन्वितम् । ८ ह. प । मूर्ख न गणयेद्विद्वांसं पोष्यं विप्रं सदा भवेत् । ९क. ख. ड. च. छ. झ. संधितं । १० क. ख. ड. च. स. ढ. चापरपक्षके। ११ म. 'न(ना)य स।
२४
Page #272
--------------------------------------------------------------------------
________________
२६६ महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डे[*अविज्ञातः प्रकर्तव्यो ब्राह्मणो नैव जानता । यस्यापि ज्ञायते वंशः कुलं त्रिपुरुषं तया ॥ आचारश्च तथा राजस्ताविप्रान्सनिमत्रयेत् ॥ कुलं न ज्ञायते यस्य आचारेण विचारयेत् । श्राद्धे दाने प्रकर्तव्ये विशुद्धो मूर्ख एव हि ॥ २५ अविज्ञातो भवेद्विमो वेदवेदाङ्गपारगः । श्राद्धदानं प्रकर्तव्यं तस्माद्विनं निमन्त्रयेत् ॥ २६ आतिथ्यं तु प्रकर्तव्यमपूर्व नृपसत्तम । अन्यथा कुरुते पापी स याति नरकं ध्रुवम् ॥ २७ तस्माद्विमः प्रकर्तव्यो दाने श्राद्धे च पर्वसु । आदौ परीक्षयेद्विषं श्राद्धे दाने प्रकारयेत् ॥ २८ नाश्नन्ति तस्य वै गेहे पितरो विप्रवर्जिताः । शापं दत्त्वा ततो यान्ति श्राद्धाद्वै विप्रवर्जितात् ॥ महापापी भवेत्सोऽपि ब्रह्महा स च कथ्यते ॥
२९ पत्राचारं परित्यज्य यो वर्तेत नराधिप । महापापी स विज्ञेयः सर्वधर्मबहिष्कृतः॥ ३० ये त्यजन्ति शिवाचारं वैष्णवं भोगदायकम् । निन्दन्ति ब्राह्मणान्धर्मान्विज्ञेयाः पापवर्धनाः॥३१ शिवाचारं परित्यज्य शिवभक्तान्विषन्ति च । हरि निन्दन्ति ये पापा ब्रह्मद्वेषकराः सदा ॥ आचारनिन्दकाश्चैव महापातककृत्तमाः ॥ आचं पूज्यं परं ज्ञानं पुण्यं भागवतं तथा । वैष्णवं हरिवंशं च मात्स्यकं कूर्ममेव च ।। ३३ ये पूजयन्ति पानं च तेषां श्रेयो वदाम्यहम् । प्रत्यक्षं तेन वे देवः पूजितो मधुसूदनः॥ ३४ तस्मात्मपूजयेज्ज्ञानं वैष्णवं विष्णुवल्लभम् । देवस्थाने हि नित्यं वै वैष्णवं पुस्तकं नृप ॥ तस्मिन्प्रपूजिते विप्रपूजितः कमलापतिः ॥ असंपूज्य हरेनिं येऽधीयते लिखन्ति च । अज्ञाय तत्प्रयच्छन्ति शृण्वन्ति धारयन्ति च ॥ ३६ विक्रीणन्ति च लोभेन कुज्ञाननियमेन च । असंस्कृतपदेशे तु यथेष्टं स्थापयन्ति च ॥ ३७ हरेनिं यथाक्षेमं प्रत्यक्षाच प्रकाशयेत् । अधीते च समर्थश्च यः प्रसादं करोति च ॥ ३८ अशुचिश्चाशुचिस्थाने यः प्रवक्ति शृणोति च । इति सर्व समासेने गुरुनिन्दासमं स्मृतम् ॥ ३९ गुरुपूजामकृत्वैव यः शास्त्रं श्रोतुमिच्छति । न करांति च शुश्रूषामाज्ञाभङ्गं च भावयेत् ॥ ४० नाभिनन्दति तद्वाक्यमुत्तरं च प्रयच्छति । गुरुकर्माभिसाध्यं च तदुपेक्षां करोति च ॥ ? गुरुमातमशक्तं वा विदेशे प्रस्थितं तथा । अरिभिः परिभूतं वा यः संत्यजति पापकृत् ॥ पठमानं पुराणं तु तस्य पापं वदाम्यहम् ॥ कुम्भीपाके वसेत्तावद्यावदिन्द्राश्चतुर्दश । पठमानं गुरुं यो हि उपेक्षयति पापधीः ॥ तस्यापि पातकं घोरं चिरं नरकदायकम् । भार्यापुत्रेषु मित्रेषु यश्चावज्ञां करोति च ॥ इत्येतत्पातकं ज्ञेयं गुरुनिन्दासमं महतं ॥
४४ ब्रह्मनः स्वर्णस्तेयी च गोहन्ता गुरुतल्पगः । महापातकिनस्त्वेते योगनाशकपञ्चमाः ।। ४५ क्रोधाद्वेषाद्भयाल्लोभाद्राह्मणस्य विशेषतः । मर्मादिकृन्तको यश्च ब्रह्मनः स प्रकीर्तितः ॥ ४६ ब्रामणं यः समाहूय याचमानमकिंचनम् । पश्चानास्तीति यो यात्स च वै ब्रह्महा स्मृतः ॥४७ यस्तु विद्याभिमानेन निस्तेजयति च द्विजान् । उदासीनान्सभामध्ये ब्रह्महा स प्रकीर्तितः ॥४८ मिथ्यागुणैरथाऽऽत्मानं नयत्युत्कर्षतां बलात् । गुरुं विबोधयेद्यस्तु स च वै ब्रह्महा स्मृतः ॥४९
* एतञ्चिदान्तर्गतः पाठो ड. ढ. पुस्तकस्थः । १. छ. स. द. न ज्ञान नि । २ इ. द. त् । स ब्रह्महा कृतघ्नश्च गों। ३ क. ख. ङ. च. छ. झ. ट. सुरापो । ४. छ.स.ह. द. विरोध ।
Page #273
--------------------------------------------------------------------------
________________
६७ सप्तषष्टितमोऽध्यायः ] पमपुराणम् ।
२६७ भुत्तृष्णार्तपदेहानां यद भोक्तुमिच्छताम् । यः समाचरते विघ्नं तमाहुब्रह्मघातकम् ॥ ५० पिशुनः सर्वलोकानां रन्ध्रान्वेषणतत्परः । उद्वेजनकरः क्रूरः स च वै ब्रह्महा स्मृतः ॥ देवद्विजगवां भूमिं पूर्वदत्ता हरेत्तु यः । प्रनष्टामपि कालेन तमाहुर्ब्रह्मघातकम् ॥ द्विजवित्तापहरणं परेण समुपार्जितम् । ब्रह्महत्यासमं ज्ञेयं तस्य पातकमुत्तमम् ॥ अग्निहोत्रं परित्यज्य पञ्चयज्ञादिकर्म च । मातापित्रोंर्गुरूणां च कूटसाक्ष्यं चे यश्चरेत् ॥ ५४ अप्रियं शिवभक्तानामभक्ष्यस्य च भक्षणम् । वने निरपराधानां प्राणिनां च प्रमारणम् ॥ ५५ गवां गोष्ठे देवगृहे पुरे ग्रामे च दीपनम् । इति पापानि घोराणि पूर्वपापममानि तु ॥ दीनसर्वस्वहरणं परस्त्रीगजवाजिनाम् । गोभूरजनरत्नानामोषधीनां रसस्य च ॥ चन्दनागरुकर्पूरकस्तूरीपूपवामसाम् । परन्यासापहरणं स्वर्णस्तेयसमं स्मृतम् ॥ ५८ कन्याया वरयोग्याया अदानं मदृशे वरे । पुत्रमित्रकलत्रेषु गमनं भगिनीषु च ॥ कुमारीसाहसं घोरमन्त्यजस्तीनिषेवणम् । सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम् ॥ महापातकतुल्यानि पापान्युक्तानि यानि तु । नानि पातकसंज्ञानि तत्पश्चादुपपातकम् ॥ ६१ [*द्विजायार्थ प्रतिज्ञाय न प्रयच्छति यः पुनः । न च तत्स्मरते नित्यं तुल्यं तदुपपातकम् ॥६२ द्विजद्रव्यापहरणं मर्यादाया व्यतिक्रमः । अतिमानोऽतिकोपश्च दाम्भिकत्वं कृतनता ॥ ६३ अत्यन्तविषयासक्तिः कार्पण्यं शाठ्यमन्सरम् । परदाराभिगमनं साध्वीकन्याविदूषणम् ॥ ६४ परिवित्तिः परिवेत्ता यया च परिविद्यते । तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ६५ पुत्रमित्रकलत्राणामभावे स्वामिनस्तथा । भार्याणां च परित्याग(गः)साधूनां च तपस्विनाम्॥६६ गवां क्षत्रियवैश्यानां स्त्रीशूद्राणां च घातनम् । शिवायतनवृक्षाणां पुप्पारामविनाशनम् ॥ ६७ यः पीडामाश्रमस्थानामाचरेदल्पिकामपि । तद्भत्यपरिवगेस्य शद्रात्परतरस्य च ॥ ६८ वस्नधान्यपशुस्तेयमयाच्यानां प्रयाचनम् । यज्ञारामतडागानां दारापत्यस्य विक्रयः॥ ६९ तीर्थयात्रोपवासानां व्रतानां च मुकर्मणाम् । स्त्रीधनान्युपजीवन्ति स्त्रीभवाघमजीविताः॥ ७० अधर्म विव्याधस्तु अधर्म वर्णते नरः । परदोषप्रवादी च परच्छिद्रावलोककः ॥ ७१ परद्रव्याभिलाषी च परदारावलोककः । एते गोनसमानास्तु ज्ञातव्या नृपनन्दनं ॥ ७२ यः कर्ता(?)सर्वशास्त्राणां यो हर्ता पशुविक्रयी । निर्दयोऽतीव भृत्येषु पशूनां दमकश्च यः॥ ७३ मिथ्या प्रवदते वाचमाकर्णयति यश्च ताम् ।। स्वामिमित्रगुरुद्रोही मायावी चपलः शठः ॥ ७४ [*ये भार्यापुत्रमित्राणि बालवृद्धकृशन्नाराः। भृत्यानतिथिवन्धूंश्च त्यक्त्वाऽश्नन्ति बुभुक्षितान्। येऽतिमिष्टं समश्नन्ति नो वाऽप्यन्नं ददति च । पृथक्पाकी स विज्ञेयो ब्रह्मवादिषु गर्हितः] ७६ नियमान्स्वयमादाय ये त्यजन्त्यजितेन्द्रियाः। प्रवर्गा वञ्चिता यैश्च संयुक्ता ये च मद्यपैः ॥ ७७
* एतचिहान्तर्गतः पाठः ख. ड. च. छ. झ. ड. दपुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. स. ठ. ड. ढ. पुस्तकस्थः ।
१ क. ख. ङ च. छ. झ. द. न्यासेन । २ ग. च सुहृद्वधः । ।३ क. ख. र. च. छ..... ठेवने चामेः पु। ४ क. ख. ऊ. च. छ. ड. द. 'णि सुरापानस । ५ क. ख. ङ च छ.स. १. ढ.रीपटवा । ६.म् । एतासा चैव ग। ७ क. ख. ङ. च. झट. अन्यत्र वि। ८ ट. साधुमत्सरः। ९ क. ब. स. च. छ. स. २. ढ. ताः । स्वधर्म विक्रयेद्यस्तु सधर्म व । घ. ण. 'ताः । अधर्म विजयाद्यस्त स्वधर्म। १.ट. न । विष्कर्ता।"घ. ट. ठ. भजते ।
Page #274
--------------------------------------------------------------------------
________________
२६८
महामुनिश्रीन्यासप्रणीतं --
[ २ भूमिखण्डे
७९
ः ||८०
८१
८५ ८६
८७
८८
८९.
९०
ये चापि क्षतरोगात गां पिपासाक्षुधातुराम् । न पालयन्ति यत्नेन ते गोन्ना नारकाः स्मृताः ॥ सर्वपापरता ये च चतुष्पात्क्षेत्रभेदकाः । साधून्विमगुरूंश्चैव ये वै गां ताडयन्ति च ॥ ये ताडयन्ति निर्दोषां नारी साधुपदे स्थिताम् । आलस्यबद्धसर्वाङ्गो यः स्वपिति मुहुर्मुहुः । दुर्बलांचं नियुञ्जन्ति बलाच प्रेषयन्ति च । पीडयन्त्यतिभारेण सक्षतान्वाहयन्ति च ॥ वृषभाणां च वृषणौ पेषयन्ति च दुर्जनाः । गोवत्सानां च दमनं महापातकसंमितम् ॥ ८२ आशया समनुप्राप्तं क्षुत्तृष्णाश्रमपीडितम् । ये चातिथिं न मन्यन्ते ते वै निरयगामिनः || ८३ अनार्थ विकलं दीनं बालं वृद्धं क्षुधातुरम् । नानुकम्पन्ति ये मूढास्ते यान्ति निरयार्णवम् ॥ ८४ अजाविको माहिषिको यः शूद्रावृषलीपतिः । शूद्रो विप्रस्य क्षत्रस्य य आचारेण वर्तते ॥ शिल्पिनः कारवो वैद्यास्तथ देवलका नराः । भृतकों दूत्यकर्माणः सर्वे निरयगामिनः ॥ वोदितमतिक्रम्य स्वेच्छया आहरेत्करम् । नरके परिपच्येत यश्च दण्डं वृथा नयेत् ॥ उत्कौचकैरधिकृतैस्तस्करैश्च मपीडिता । यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ॥ ये द्विजाः प्रतिगृह्णन्ति नृपस्यान्यायवर्तिनः । प्रयान्ति तेऽपि घोरेषु नरकेषु न संशयः ॥ पापकारकपौराणां यत्पापं पार्थिवस्य च । तेन भीतो नृपः कुर्यात्प्रजानां परिनिग्रहम् ॥ अचौरं चौरवद्यश्व चौरं चाचौरवत्पुनः । अविचार्य नृपः कुर्यात्सोऽपि वै नरकं व्रजेत् ॥ ९१ घृततैलानुपानानि मधु मांसं सुरासवम् । गुडेक्षुक्षीरशाकादि दधिमूलफलानि च ।। तृणकाष्ठं पुष्पपत्रे कांस्यं रजतमेव वा । उपानच्छत्रशकटशिविकानाशनं मृदु || ताम्रं सीसं त्रपु कांस्यं शङ्खाद्यं रजतोद्भवम् । वादित्रं वेणुवंशाद्यं गृहस्योपस्कराणि च ॥ ९४ ऊर्णाकार्पासकौशेयरङ्गपत्रोत्तराणि च । तथा सूक्ष्माणि वस्त्राणि येऽन्येषां वै हरन्ति च ।। ९५ एवमादीनि चान्यानि द्रव्याणि नरकं तु ते । गच्छन्ति सततं भूप हृत्वा हृत्वा गृहाधिपम् ॥ ९६ बल्पकाद्यपि तथा परस्य ममताकृतम् । अपहृत्य नरो याति नरके नात्र संशयः ॥ एवमादिकपापानि कुर्वद्भिर्मरणोत्तरम् । शरीरं यातनार्थाय पूर्वाकारमवाप्यते || यमलोकं व्रजन्त्येते शरीरेण यमाज्ञया । यमदूतर्महाघोरैर्नीयमानाः सुदुःखिताः ।। देवमानुषतिर्यञ्चामधर्मनियतात्मनाम् । [*धर्मराजः स्मृतः शास्ता सुधारैर्विविधैर्वधैः ] १०० विनयाचारयुक्तानां प्रमादसलिलाशयात् । प्रायश्चित्तैर्गुरुः शास्ता न तु तैरिष्यते यमः ।। १०१ पारदारिकचौराणामन्यायव्यवहारिणाम् । नृपतिः शासकः प्रोक्तः प्रच्छन्नानां च धर्मराट्।। १०२ तस्मात्कृतस्य पापस्य प्रायश्चित्तं समाचरेत् । नान्यथा नश्यते पापं कल्पकोटिशतैरपि ।। १०३ यः करोति स्वयं कर्म स भुङ्क्ते तत्फलं नरः । [*कायेन मनसा वाचा तस्य वाऽधोगतिः फलम्
९२ ९३
९७
९८
९९
* एतचिहान्तर्गत: पाठो घ ट ठ ड पुस्तकस्थः । * एतच्चिहान्तर्गतः पाठो घ ट ठ ड पुस्तकस्थः ।
१ ड. ̊ताः । मद्यपानरता ये च रहस्याक्षेत्र ं । २ड. श्च न पुष्णन्ति नष्टान्नान्वेष ं । ३ क ख ङ. च. छ. झ. .. "षिकः सामुद्री । ४ ड था हेमकारा वृषध्वजाः । भृ । ५ क ख. ड. च. छ. झ. ड. ट. कामात्य ं । घ. ट. ठ. काः प्रेत्य । ६ घ ट ठ ड दण्डरुचिर्नृपः । उ । ७ क. ख. घ ङ च छ झ ट ठ ड ढ पारदारिक । ८ घ. ट. उ. ड. च । भवत्यरक्षितो घोरस्तस्य ब्राह्मेति व ग्रहः । अ । ङ छ झ ट च । भवत्यरक्षितो घोरो राज्ञस्तस्य परिग्रहः । अ ं । ९ क. ख. च. छ. झ. ड. पद्मोद्भवानि च । १० ङ. च. छ. ट. ड. ड. ये लोभेन ह । ११ ड. ह. णि विविधानि च । नरकं तु ध्रुवं गच्छेदपहृत्याल्पकान्यपि । यद्वा तद्वा परद्रव्यमपि सर्षपमात्रकम् । । १२ क. ड. प्रमत्तानां । १३ घ. झ. ट. ठ, ड, ढ. नाभुक्तस्यान्यथा नाशः की । १४क. ख.घ.इ.च. छ. झ ट ठ ड ढ में कारयेद्वाऽनुमो दयेत् । का
Page #275
--------------------------------------------------------------------------
________________
६८ अष्टषष्टितमोऽध्यायः ] पद्मपुराणम् ।
२६९ इति संक्षेपतः प्रोक्ताः पापभेदाखिधाधुना । कथ्यन्ते गतयश्चित्रा नराणां पापकर्मणाम्।।]१०५ [एतत्ते नृपतेऽधर्मफलं प्रोक्तं सुविस्तरात्] । अन्यत्कि ते प्रवक्ष्यामि तन्मे शूहि नरोत्तम १०६ [*अधर्मस्य फलं प्रोक्तं धर्मस्यापि वदाम्यहम् । इत्युक्त्वा मातलिस्तत्र राजानं धर्मवत्सलम् ॥ तस्मिन्धर्मप्रमङ्गेन पुण्यं ख्यातं महात्मनाम् ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाग्व्याने मातापितृतीर्थ ययातिचरिते सप्तषष्टितमोऽध्यायः ॥ ६ ॥
आदितः श्लोकानां समष्टयङ्काः-६८९३
१०७
अथाष्टषष्टिनमोऽध्यायः ।
ययातिरुवाचअधर्मस्य फलं मूत श्रुतं सर्व मया विभो । धर्मस्यापि फलं ब्रूहि श्रोतुं कौतूहलं मम ॥ १
मातलिरुवाचअथ पारिमे यान्ति यमलोकं चतुर्विधाः । संत्रामजननं घोरं विवशाः सर्वदेहिनः ॥ गर्भस्थैर्जायमानैश्च वालैस्तरुणमध्यमः । [स्त्रीपुनपुंसकै?र्यातव्यं सर्वजन्तुभिः ॥] ३ शुभाशुभं कृतं कर्म देहिनां पविचार्यते । चित्रगुप्तादिमध्यस्थैतिव्यं सर्वदर्शिभिः॥ ४ न तेऽत्र प्राणिनः सन्ति ये न यान्ति यमक्षयम् । अत्र शान्तिकृतं कर्म स्मृन्युक्तं तद्विचारितम् ५ ये तत्र शुभकर्माणः मौम्यचित्ता दयान्विताः। ते नरा यान्ति मौम्येन यथा यमनिकेतनम् ॥ ६ यश्च दद्याविनेन्द्राणामुपानत्काष्ठपादुके । स विमानेन महता मुखं याति यमालयम् ॥ ७ छत्रदानेन गच्छन्ति पथा सान्द्रेण देहिनः । दिव्यवस्त्रपरीधाना यान्ति वस्त्रप्रदायिनः ॥ ८ शिविकायाः प्रदानेन विमानन सुखं व्रजेन् । सुखासनप्रदानेन सुखं यान्ति यमालयम् ॥ ९ आरामकर्ता छायासु शीतलासु सुखं व्रजेत् । यान्ति पुष्पकयानेन पुष्पमालापदायिनः ॥ १० देवतागृहकर्ता च यतीनामाश्रमस्य च । अनाथस्याऽऽतुराणां च क्रीडत्यतिगृहोत्तमैः॥ ११ देवानिगुरुविप्राणां मातापित्रांश्च पूजर्कः । गुणान्वितेषु दीनेषु यच्छत्यावसथान्यपि ॥ स प्रयाति मर्वकामं स्थानं पैतामहं नृप ॥ श्रद्धया येन विप्राय दत्तं काकिणिमात्रकम् । स स्यादिव्यतिथि प देवानां कीर्तिवर्धनः॥ तस्माच्छ्रद्धान्वितयं तत्फलं भवति ध्रुवम् ।।
१३ इति श्रीमहापुराणे पाद्म भूमि अण्डे वेनोपाख्याने ययातिचरिते पितृतीर्थेऽष्टषष्टितमोऽध्यायः ॥ ६८ ॥
__ आदितः श्लोकानां समष्ट्यङ्काः-६९०६ * ज. पुस्तक एवंदमेतच्चिद्वान्तर्गतम् । * एतचिहान्तर्गतः पाठी घ. छ. झ. ट. पुस्तकस्थः । * एतचिहान्तर्गतः पाटो घ. ड. छ. झ. ट. ठ ड. द. पुस्तकस्थः ।
घ . छ झ. ट. ठ. इ. ढ. अवश्यं हि कृतं कर्म भोक्तव्यं त । २३. द. 'के। जवनाश्वेन । ३ छ. वराश्वेन। ४ अ. च कृत्वा याति गृ । ५ अ तमे । दे। ६ ङ. छ. झ. ढ. कः । आर्तेषु दीनेषु गुणान्वितेषु यच्छ्रद्धया स्वल्पमपि प्रदत्तम् । तत्सर्वकामान्समुपैति लोके श्राद्धे च दान प्रवदन्ति सन्तः ॥ श्रद्धा प्रदाने विज्ञयमपि वाल.प्रतात्रकम् । श्रद्धादा सदा तस्माच्छद्धायास्तत्फलं भवेत् । इ ।
Page #276
--------------------------------------------------------------------------
________________
२७.
[ २ भूमिखण्डे
महामुनिश्रीव्यासप्रणीत
अथैकोनसप्ततितमोऽध्यायः ।
मातलिरुवाचअथ धर्माः शिवेनोक्ताः शिवधर्मागमोत्तमाः । ज्ञेयो विद्भिर्विधानेन कर्मयोगप्रभेदतः॥ १ हिंसादिदोषनिर्मुक्ताः क्लेशायासविवर्जिताः । सर्वभूतहिताः शुद्धाः सुसूक्ष्मास्तु महाबलाः ॥ २ अनन्तशाखाः कथिताः शिवमूलेकमास्थिताः । ज्ञानध्यानसमायुक्ताः शिवधर्माः सनातनाः ॥३ धारयन्ति शिवं यस्माद्धार्यते शिवभाषितैः । शिवधर्माश्रितास्तस्मान्मंसारार्णवतारणाः॥ ४ अयाहिंसा क्षमा सत्य ही श्रद्धेन्द्रियसंयमः । दानमिज्या ततो ध्यानं दशकं धर्मसाधनम् ॥ ५ अथ व्यस्तैः समस्तैर्वा शिवधर्फ़रनुष्ठितैः । शिवैकस्थानसंप्राप्तिर्गतिरेकैव कल्पिता ॥ ६ यथा भूः सर्वभूतानां स्थानं साधारणं स्मृतम् । तत्स्थानं शिवभक्तानामतुलं केवलं स्मृतम् ॥ ७ यह सर्वभूतानां भोगाः सातिशयाः स्मृताः। मताः पुण्यविशेषेण भोगाः शिवपुरे तथा ॥ ८ शुभाशुभफलं चात्र भुज्यते सर्वदा नृभिः। शिवधर्मस्य चैकस्य फलं तत्रोपभुज्यते ॥ ९ यस्य यादृग्भवेत्पुण्यं श्रद्धापात्रविशेषतः । भोगाः शिवपुरे तस्य ज्ञेयाः सातिशयाः शुभाः॥१० स्थानमाप्तिः परं तुल्या भोगाः शान्तिमयाः स्मृताः। कुर्यात्तस्मिन्महास्थानं महायोगजिगीषया ११ सर्वातिशयमेवैकं भावितं च सुरोत्तमैः । आत्मयोगाधिपत्यं स्याच्छिवः सर्वजगत्पतिः ॥ १२ [*केचित्तत्रैव मुच्यन्ते ज्ञानयोगरता नराः । आवर्तन्ते पुनश्चान्ये संसारे भोगतत्पराः] ॥ १३ तस्माद्विमुक्तिमिच्छंस्तु भोगासक्तिं विवर्जयेत् । विरक्तः शान्तचित्तात्मा शिवज्ञानमवामुयात् ।।१४ ये चान्यासक्तहृदया यजन्तीशं प्रयत्नतः । तेषामपि ददातीशः स्थानं भावानुरूपतः ॥ १५ तत्रार्चयन्ति ये रुद्रं सकृदुच्छिष्टकर्मणा । तेषां पिशाचलोकेषु भोगानीशः प्रयच्छति ॥ १६ संतप्ता दुःखभावेन म्रियन्ते सर्वदेहिनः । अन्नदः प्राणदः प्रोक्तः प्राणदश्चापि सर्वदः॥ १७ तस्मादब्रमदानेन सर्वदानफल भवेत् । [*त्रैलोक्ये यानि रत्नानि भागाः स्त्रीवाहनानि च अन्नदानप्रदः सर्वमिहामुत्र फलं लभेत् ॥ यस्मादबेन पुष्टाङ्गः कुरुते पुण्यसंचयम् । अन्नप्रदातुस्तस्यार्धं कर्तुश्वार्ध न संशयः ॥ १९ धर्मार्थकाममोक्षाणां देहः परमसाधनम् । [*स्थितिस्तस्यानपानाभ्यामतस्तत्सर्वसाधनम् ॥ २० अन प्रजापतिः साक्षादनं विष्णुः शिवः स्वयम् । तस्मादन्नसमं दानं न भूतं न भविष्यति ॥२१ त्रयाणामपि लोकानामुदकं जीवनं स्मृतम् । [*पवित्रमुदकं दिव्यं शुद्धं सर्वरसाश्रयम् ॥ २२ अनपानाश्वगोवस्त्रशय्यासूत्रासनानि च । मेतलोके प्रशस्तानि दानान्यष्टौ विशेषतः ॥ २३ ___* एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. झ. इ. ढ. पुस्तकस्थः । * एच्चिनान्तर्गतः पाठः क. ख. ड. च. छ. स. १. द. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. झ. द. पुस्तकस्थः। * एताच्चिदान्तर्गतः पाटः क. ख. रु. च. छ. स. ड. ढपुस्तकस्थः ।
१ ख..छ. स. ट. ठ. ढ. "या बहुविधास्ते च क । ड. या बहुविधास्ते च कर्मभेदप्र । २ छ. सुशान्तास्तु । ३ ङ. छ... 'नसपूष्पाद्याः शि' । ४ ड. द. म् । तत्तथा शिवभक्तानां तुल्यं शिवपुरं स्मृ । ५ क. ख. रु. च. छ. झ. . ताः । नानापु। ६ छ. शान्तिशया । ड. शान्त्याशयाः । ७ . र्यात्पुण्यमिहामुत्र म । ८ क. ख. ङ. च. छ. हाभाग।... हाभोग । ९१.र्वाधिपत्यमेवैकं तत्र नास्ति पुरोत्तमे। आ । १० क. ख. घ. उ. च. छ. स. ट. उ. . इ. त्मभोगा । ११ इ. स्यात्तत्रैवास्ति शिवाज्ञया । के । १२ क. ख. इ. च. छ. झ. इ. द. प्रसङ्गतः। १३ घ. अ.ट. ट. द.यस्यान्नदान । छ. स. इ. यस्यानपानपु।
Page #277
--------------------------------------------------------------------------
________________
७० सप्ततितमोऽध्यायः] पद्मपुराणम् ।
२७१ एवं दानविशेषेण धर्मराजपुरं नरः। यस्माधाति सुखेनैव तस्माद्धर्म समाचरेत् ॥ २४ ये पुनः क्रूरकर्माणः सदा दानविवर्जिताः । भुञ्जते दारुणं दुःखं नरके नृपनन्दन ॥ २५ तथा सुखं प्रभोक्ष्यन्ति दानं कृत्वा तु चातुलम् । तेषां स्वयं भवेत्सौख्यं कर्मयोगरतात्मनाम्र६ अप्रमेयगुणैर्दिव्यैर्विमानैः सार्वकामिकैः । अस.यस्तत्पुरं व्याप्त माणिनामुपकारकैः॥ २७ सहस्रसोमदिव्यं वा सूर्यतेजःसमप्रभम् । रुद्रलोकामिति प्रोक्तमशेषगुणसंयुतम् ॥ २८ सर्वेषां शिवभक्तानां तत्पुरं परिकीर्तितम् । [रुद्रक्षेत्रे मृतानां च जङ्गमस्थावरात्मनाम्] ॥२९ अप्येकदिवसं भक्त्या यः पूजयति शंकरम् । सोऽपि याति शिवं स्थानं किं पुनर्बहुशोर्चयन्३० वैष्णवा विष्णुभक्ताश्च विष्णुध्यानपरायणाः । तेऽपि यान्ति च वैकुण्ठं समीपं चैव चक्रिणः ३१ ब्रह्मवादी च धर्मात्मा ब्रह्मलोकं प्रयाति सः । पुण्यकर्ता सुपुण्येन पुण्यलोकं प्रयाति च ॥ ३२ तस्मादीशं सदा भक्त्या भावयेदात्मनाऽऽत्मनि । हरौ वाऽपि महाराज युक्तात्मा ज्ञानवान्स्वयम् ॥ तस्मात्सर्वविचारेण भावदोषविचारतः ॥ एवं विष्णुप्रभावेन विशिष्टेनापि कर्मणा । नरैः स्थानमवाप्येत वेशभावानुरूपतः ॥ १४ इत्येतदपरं प्रोक्तं श्रीमच्छिवपुरं महत् । देहिनां कर्मनिष्टानां पुनरावर्तकं स्मृतम् ॥ १५ ऊर्व शिवपुराज्ज्ञेयं वैष्णवं लोकमुत्तमम् । वैष्णवा मानवा यान्ति विष्णुध्यानपरायणाः ॥ ३६ ब्राह्मणा ब्रह्मलोकं तु सदाचारा नरोत्तमाः। प्रयान्ति यज्विनः सर्वे सुनीतास्तत्र कोविदाः ३७ इन्द्रलोकं तथा यान्ति क्षत्रिया युद्धगामिनः। अन्ये च पुण्यकर्तारः पुण्यलोकान्प्रयान्ति च ॥३८ इति श्रीमहापुराणे पाद्म भूमिखण्डे वेनोपाख्याने ययातिचरिते मातापितृतीर्थ एकोनसप्ततितमोऽध्यायः ॥ ६९ ॥
आदितः श्लोकानां समष्ट्यङ्काः--६९४४
अथ ममतितमोऽध्यायः ।
मातलिरुवाचयमपीडां प्रवक्ष्यामि महातीवां सुदारुणाम् । भुञ्जन्ति पापिनः सर्वे कूटास्ते ब्रह्मघातिनः ॥ १ कचित्पापाः प्रपच्यन्ते तीवेण नरकामिना । कचित्सिहेकैाघ्रर्दशैः कीटैस्तु दारुणैः॥ २ कचिन्महाजलोकोभिः कचिच्चाजगरैः पुनः । मक्षिकाभिश्च रौद्राभिः कचित्सर्विषोल्वणैः ॥ १ मत्तमातङ्गयूथैश्च बलोत्कृष्टैः प्रमाथिभिः । पन्थानमुल्लिखद्भिश्च तीक्ष्णशृङ्गैर्महाद्वषैः ॥ ४ महाशृङ्गेश्च महिषैर्दुष्टगात्रप्रवाधकैः । डाकिनीभिश्च रौद्राभिविकटाक्षश्च राक्षसैः॥ व्याधिभिश्च महारौदैः पीड्यमाना व्रजन्ति ते । महौतुलासमारूढा दोल्यमाना अतीव ते ॥ ६ महावेगमधूतास्ते महाचण्डन वायुना । महापाषाणवर्षेण भिद्यमानाश्च सर्वतः ॥ पतद्भिर्वनिर्घोषैरुल्कापातैश्च दारुणः । प्रदीप्ताङ्गारवर्षेण हन्यमाना ब्रजन्ति ते ॥
___*एतचिहान्तर्गतः पाठः क. स्व. इ. च. छ. झ. ड. द. पुस्तकस्थः । १४. न्ति धर्मकर्तार एव च । ते। २ ड. स्वपुण्येन । ३ञ. "विवार्जितः । ४छ.स. ह. विसृष्टे । ५क. ख.. च. छ. झ. ढ. परी तां तत्र । अ. पूनी । ६ क. ख. उ. च. छ. स. ह. द. शालिनः।७क. ख..च.छ. झ. इ.. क्ररास्ते। क. ख, च. ड. व्रणव विषाग्नि । ९घ.. रुष्टयेत्रप्रसाध । १.क.ख.घ...छ. झ. ट. ठ. इ. इ. 'करालश्च । ११ ट. हादोलास।
८
Page #278
--------------------------------------------------------------------------
________________
२७२ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेमहता पांशुवर्षेण पूर्यमाणा यमं गताः। ये नराः पापकर्माणः पापं भुञ्जन्ति दारुणम् ॥ ९ एवं पापविशेषेण पापिष्ठाः पापकारकाः। निरयं प्राप्य भुञ्जन्ति बहुपीडासमाकुलम् ॥ १० एतचे सर्वमाख्यातं विवेकं पापपुण्ययोः । अन्यत्कि ते प्रवक्ष्यामि धर्मसारमनुत्तमम् ॥ ११ इति श्रीमहापुराणे पाने भूमिखण्डे वेनोपाख्याने ययातिचरिते पितृतीर्थे सप्ततितमोऽध्यायः ॥ ७० ॥
आदितः श्लोकानां समष्ट्यङ्काः-६९५५
अर्थकसप्ततितमोऽध्यायः ।
ययातिरुवाचयत्त्वया सर्वमाख्यातं धर्माधर्ममनुत्तमम् । शृण्वतोऽथ मम श्रद्धा पुण्यं चैव प्रवर्धते ॥ ? देवानां लोकसंस्थानां वद संख्याः प्रकीर्तिताः । यस्य पुण्यप्रसङ्गन येन प्राप्तं च मातले ॥ २
मातलिरुवाचयोगयुक्तं प्रवक्ष्यामि [*तपसा यदुपार्जितम् । देवानां वाससंस्थानं सुखभोगप्रदायकम् ॥ ३ धर्मभावं प्रवक्ष्यामि ह्या]यासेनार्जितं पृथक् । उपरिष्टाच लोकानां स्वरूपं चाप्यनुक्रमात् ॥ ४ तत्राष्टगुणमेश्वर्य पार्थिवं पिशिताशिनाम् । तस्मात्सद्योगतानां च नराणामुत्तमं स्मृतम् ॥ ५ बहुद्वारं षोडशकुलं पार्थिवात्पञ्च तट्विधा । एकं निरवशेषं च यच्छेषं कुलतेजसाम् ॥ ६ गन्धर्वाणां च वायव्यमाद्यं च सकलं स्मृतम् । [*पाश्चभौतिकमिन्द्रस्य चत्वारिंशद्गणं महत् ] ॥ सोमस्य मानसं दिव्यं विश्वेशं पाञ्चभौतिकम् ॥ सौम्यं प्रजापतीशानामहंकारगुणान्वितम् । चतुःषष्टिगुणं ब्राहम्यं बोधमेश्वर्यमुत्तमम् ॥ ८ विणोः प्रधानकं सूक्ष्मं शिवस्याऽऽत्मगतं महत् । आदिमध्यान्तरहितं विशुद्धं तत्त्वलक्षणम् ॥ ९ सर्वाभिभावकं सूक्ष्ममनौपम्यं परात्परम् । सुसंपूर्ण जगद्धेतुः पशुपाशविमोक्षणम् ॥ १० यो यत्स्थानमनुमाप्तस्तस्य भोगस्तदात्मकः । विमानं तत्समानं च भवेदीशप्रसादतः ॥ ११ नानारूपाणि भावानां दृश्यन्ते कोटयस्त्विमाः । अष्टाविंशतिरेवोलसुदीर्घाः सुकृतात्मनाम् १२ ये कुर्वन्ति नमस्कारमीश्वराय कचित्कचित् । संपर्कात्कौतुकाल्लोभात्तद्विमानं लभन्ति ते ॥ १३ नामसंकीर्तनं चापि प्रसङ्गेन शिवस्य यः । कुर्याद्वाऽपि नमस्कारं न तस्य विफलं भवेत् ॥ १४ इत्येता गतयः प्रोक्ता महत्यः शिवकर्मणि । कर्मणा मनसा वाचा पुंसामीशानुभावतः ॥ १५ प्रसङ्गेनापि ये कुर्युराकण्ठं स्मरणं नरः । ते लभन्तेऽतुलं सौख्यं किं पुनस्तत्परायणाः ॥ १६ विष्णुचिन्तां प्रकुर्वन्ति ध्यानेनाऽऽकुलमानसाः । ते यान्ति परमं स्थानं तद्विष्णोः परमं पदम् ॥ शैवं च वैष्णवं लोकमेकरूपं नरोत्तम । द्वयोश्चाप्यन्तरं नास्ति एकरूपं महात्मनोः ॥ १८ शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे । शिवस्य हृदये विष्णुर्विष्णोश्च हृदये शिवः ॥ १९ __* एतचिहान्तर्गतः पाठः क. ख. च. झ. ड. पुस्तकस्थः । * एतच्चिदान्तर्गतः पाठः ख. ह. च. छ. झ. द. पुस्तकस्थः ।
१ड.णा ह्यमालाः । ये। २ क.ख. हु.च. छ. झ, इ. द. पनरेव । ३ अ. "म् । चतार षटसकलं "र्थिवं वाह्यते द्विधा ।५ म. 'षं सकलं ततः ग । ६ ङ. छ. ढ. यव्यं याज्यं च। ७ क. ख. घ. ङ. च. छ. झ. ट. ड. द. 'णाधिकम् । ८ क. ख. घ. रु. च. छ. झ. ट. ट. ह. पुण्यार्थ। क. ख. च. छ. झ.. युः श्रीकण्ठस्म । ङ. ढ. कुर्य: शंकरस्म।
Page #279
--------------------------------------------------------------------------
________________
७२ द्विसप्ततितमोऽध्यायः ] परपुराणम् । एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः। त्रयाणामन्तरं नास्ति गुणभेदाः प्रकीर्तिताः॥ २० शिवभक्तोस राजेन्द्र तथा भागवतोऽसि च । तेन देवाः प्रसबास्ते ब्रह्मविष्णुमहेश्वराः॥ सुप्रीता वरदा राजन्कर्मणा तव सुव्रत ॥ इन्द्रादेशात्समायातः संनिधौ तव मानद । ऐन्द्रमे (तत्) पदं याहि पश्चाद्राम्यं महेश्वरम् ॥ २२ वैष्णवं च प्रयाहि त्वं दाहालयवर्जितम् । अनेनापि विमानन दिव्येन सर्वगामिना ॥ २३ देवानां दिव्यभोगांस्त्वं भुझ्व राजन्मनोनुगान्।समारुह्य विमानं त्वं पुष्पकं सुखगामिन(ना)४
सुकर्मोवाचएवमुक्त्वा द्विजश्रेष्ठ राजानं धर्मवत्सलम् । ययाति मातली राज्ञा पूजितः सादरं तदा ॥ २५ इति श्रीमहापुराणे पाये भमिखण्डे वेनोपाख्याने ययातिचरिते मातापितृतीर्थ एकमप्ततितमोऽध्यायः ॥ १॥
आदितः श्लोकानां समष्ट्यङ्काः-६९८०
अथ दिमप्ततितमोऽध्यायः ।
पिप्पल उवाच--- मातलेश्च वचः श्रुत्वा स राजा नहुषात्मनः । किं चकार महापाजस्तन्मे विस्तरतो बद ।। १ सर्वपुण्यमयी पुण्या कथेयं पापनाशिनी । श्रोतुमिच्छाम्यहं प्राज्ञ नैव तृप्तोऽस्मि सर्वथा ॥ २
सुकर्मोवाचसर्वधर्मभृतां श्रेष्ठो ययातिर्नृपसत्तमः । तमुवाचाऽऽगतं दूतं मातलि चेन्दसारथिम् ॥
ययातिरुवाच-- शरीरं नैव त्यक्ष्यामि न गमिष्य पुरंदरम् । शरीरेण विना दूत पार्थिवेन न संशयः ॥ ४ यद्यपीह महादोषाः कायस्यैवं प्रकीर्तिताः । पूर्व चापि त्वया मेऽद्य सर्वमुक्तं गुणागुणम् ॥ ५ नाहं त्यक्त्वा शरीरं वै गमिप्ये त्रिदिवं पुनः । इत्याचक्ष्व इतो गत्वा देवदेवं पुरंदरम् ॥ ६ एकाकिनापि जीवेन कायेनापि महामते । नव सिद्धिं प्रयात्येव सांसारिकीमिहैव हि ॥ ७ नैव प्राणं विना कायो जीवः कार्य विना न हि । उभयोचापि मित्रत्वं नयिष्ये नाशमेव न ॥८ यस्य प्रसादभावाद्वै सुखमश्नाति केवलम् । शरीरस्याप्ययं माणो भोगानन्यान्मनोनुगान् ॥ ९ एनं त्यक्त्वा वर्गभोगं भोक्ष्येऽहं देवदूत न । संभवन्ति महादुष्टा व्याधयो दुःखदायकाः॥१० मातले किल्बिषाचैव जरादोषादि जायते । पश्य मे पुण्यसंयुक्तं कायं षोडशवार्षिकम् ॥ ११ जन्ममभृति मे कायः शताधं च प्रयाति हि । तथापि नूतनो भावः कायस्यापि प्रजायते ॥ मम कालो गतो दूत अंन्दलक्षमनुत्तमम् ॥ यथा षोडशवर्षस्य कायः पुंसः प्रशोभते । तथा मे शोभते देहो बलवीर्यसमन्वितः ॥ ११ नैव ग्लानिर्न मे हानिर्न भ्रमो व्याधयों न च । मातले मम कायो हि धर्मोत्साहेन वर्धते ॥ १४
१ क. ख. घ. च. छ. स.ट. ठ. , सुव्रत। २. त्वं जनिप्र। ३ क, ख. ङ. च. छ... द. 'ध्ये दिवं पुनः । ।४४. त्यक्ष्ये शरीरं तन गमिष्ये दि । ५ छ. 'ध्येऽहं शमेन च ।। ६३. गामश्लाघ्यान्म । ७घ जे. ट. ठ... एवं ज्ञात्वा स्वर्गभोगंन भोक्ष्ये देवदूतक । सं। ८ क. अष्टल' । छ, अन्दानां शवम् । ९क.ख.च. छ. झ. यो जरा । मा। हु. ढ. 'यो न वा । मा ।
Page #280
--------------------------------------------------------------------------
________________
१८
२७४ महामुनिश्रीव्यासमणी
[ २ भूमिखण्डेसर्वामृतमयं दिव्यमौषधं परमौषधम् । पापव्याधिप्रणाशार्थ धर्मार्थ हि कृतं पुरा ॥ १५ तेन मे शोधितः कायो गददोषो न जायते । हृषीकेशस्य देवस्य नामोच्चारणमुत्तमम् ॥ १६ एतद्रसायनं दूत नित्यमेव करोम्यहम् । तेन मे व्याधया दोषाः पापाद्याः प्रलयं गताः॥ १७ विद्यमाने हि संसारे कृष्णनाम्नि महोषधे । मानवा मरणं यान्ति पापव्याधिपपीडिताः॥ न पिबन्ति महामूढाः कृष्णनामरमायनम् ।। तेन ध्यानेन भावेन पूजाभावेन मातले । सत्येन दानपुण्येन मम कायो निरामयः॥ १९ पापाच आमयात्पीडाः प्रभवन्ति शरीरिणाम् । पीडाभ्यो जायते मृत्युः प्राणिनां नात्र संशयः।। तस्माद्धर्मः प्रकर्तव्यः पुण्यं सत्याश्रयं नरैः । पञ्चभूतात्मकः कार्यः शिरासंधिषु जर्जरः॥ २१ एवं संधीकृतो मर्यो हेमाकारे(कृते)व कङ्कणम् । तत्र भावो महानग्निर्धातुरेव कलेवरम् ॥ २२ शतखण्डमयो विभयोऽनुसंधति(?)बुद्धिमान। [*हरेर्नाम्ना च दिव्येन सौभाग्येनापि पिप्पल ॥२३ पश्चात्मका हि ये खण्डाः शतसंधिषु जर्जराः। तेनानुमंधिताः सर्वे कायधातुममा अभवन् ॥२४ हरिपूजोपचारेण ध्यानेन नियमेन वा । सत्यभावेन दानेन कायः शुद्धो विजायते ॥ २५ दोषा नश्यन्ति कायस्य व्याधयः शृणु मातले । बाह्याभ्यन्तरशौचं हि दुर्गन्धिर्नैव जायते ॥ शुचिस्ततो भवेत्सत प्रसादात्तस्य चक्रिणः ॥ [*नाहं स्वर्ग गमिप्यामि स्वर्गमत्र करोम्यहम् । तपसा चैव भावेन म्वधर्मेण महीतलम् ॥ २७ स्वर्गरूपं करिष्यामि प्रसादात्तस्य चक्रिणः] । एवं ज्ञात्वा प्रयाहि त्वं कथयस्व पुरंदरम् ॥ २८
सुकर्मोवाचइत्थं श्रुत्वा स वै दूतो नृपतेः परिभापितम् । [*आशीभिरभिनन्द्याथ आमन्ध्य नृपतिं गतः ॥ सर्व निवेदयामास स इन्द्राय महात्मने ।। समाकर्ण्य सहस्राक्षो ययातेस्तु महात्मनः । तदर्थ चिन्तयामास समानतुं दिवं प्रति ॥ ३० इति श्रीमहापुराणे पाद्मे भूमिखण्टे वनोपाख्याने मातापितृतीर्थ ययातिचरिते द्विसप्ततितमाऽध्यायः ॥ ७२ ॥
आदितः श्लोकानां समष्ट्यङ्काः-- ७०१०
अथ त्रिमप्ततितमोऽध्यायः ।
?
पिप्पल उवाचगते तस्मिन्महाभागे दूत इन्द्रस्य वै पुनः । किं चकार स धर्मात्मा ययातिनहुपात्मजः॥ सुकर्मोवाच
तस्मिन्गते देववरस्य दूत स चिन्तयामास नरेन्द्रसूनुः । आहूय दूतप्रवरान्स सत्वरं धर्मार्थयुक्तं परमादिदेश ।।
* एतचिहान्तर्गतः पाठः क.ख. ड.च. छ. झ. ह. द. पुस्तकस्थः । * एतचिहान्तर्गतः पाठःक. ख. ङ. च. छ. स. ड. पुस्तकस्थः ।
एतच्चिदान्तगतः पाठी हु.१, पुस्तकस्थः।
१क. ख. ग. घ. ड. च. छ. स. ट. ड. दे, न ज्ञानेन ध्यानेन । २ क. च. इ. 'यः शतसं । ३ ङ. छ. स. ह. 'रः । तमनसंदधते मयों हेमकारेव टपूर्णः । त'। इ. 'रः। तमनसंदधते मत्यों हमकारेव काश्चनः। ४ म. 'यो निष्ठी याऽ. प्सु संधत्त बु। ५ ड. नुसज्जति ।
Page #281
--------------------------------------------------------------------------
________________
२७५
७३ त्रिसप्ततितमोऽध्यायः ]
पद्मपुराणम् । गच्छन्तु दूता मम शासनेन स्वीयेषु देशेषु परेषु चैव । शृण्वन्तु सर्वेऽपि तथैव लोका जुषन्तु वाक्यं मम धर्मयुक्तम् ॥ वजन्तु लोकाः सुपथं हरेश्च भावः सुपुण्यैरमृतोपमानः॥ मुकर्मभिश्चापि च ज्ञानध्यानस्तपोभिरित्थं सततं नियुक्ताः। यज्ञेश्च दानैर्मधुसूदनैकमर्चन्तु लोका विषयान्विहाय ॥ सर्वत्र पश्यन्तु मरारिमेकं शुष्केषु चाऽऽद्देप्वपि स्थावरेषु ॥ अभ्रेषु भूमौ सचराचरेषु स्वीयेषु कायेप्वपि जीवरूपम् ॥ देवं तमुद्दिश्य ददन्तु दानान्यानिथ्यभावः परिज्ञानकैश्च ॥ नारायणं देववरं यजध्वं दोषविमुक्ता अचिराद्भविप्यथ । यो मामकं वाक्यमिहैव मानवा लोभाद्विमोहादपि नैव कारयेत् ॥ स शास्यतां यानि सुनिनो ध्रुवं ममापि चौरो हि यथा निकृष्टः॥ आकर्ण्य वाक्यं नृपनेश्च दूताः संहृष्टभावाः सकलां च पृथ्वीम् ॥ संश्रावयन्ति स्म नृपप्रणीतमादेशभावं मकलं प्रजासु ॥ विप्रादिमा अमृतं सुपुण्यमानीतमेवं भुवने च राज्ञा । पिबन्तु पुण्यं परिवैष्णवाख्यं दोषविहीनं परिणाममिष्टम् ।। श्रीकेशवं क्लेशहरं वरेण्यमानन्दरूपं परमार्थमेव ॥ नामामृतं दोपहरं तु राज्ञा आनीनमंत्रच पिबन्तु लोकाः ॥ श्रीपद्मनाभं कमलेक्षणं च आधाररूपं जगतां महेशम् ।। नामामृतं दोपहरं तु गज्ञा आनीतमत्रव पिवन्तु लोकाः॥ पापापहं व्याधिविनाशरूपमानन्ददं दानवदैत्यनाशनम् ।। नामामृतं दोपहरं तु राज्ञा आनीनमत्रैव पिबन्नु लोकाः ॥ [*यज्ञाङ्गरूपं च रथाङ्गपाणिं पुण्याकरं सौख्यमनन्तरूपम् ॥ नामामृतं दोपहरं तु गज्ञा आनीनमत्रव पिबन्तु लोकाः ] ॥ विश्वाधिवामं विमलं विगमं गमाभिधानं रमणं मुगरिम् ।। नामामृनं दोपहरं तु गज्ञा आनीनमत्रव पिवन्नु लोकाः ।। आदित्यरूपं तमसां विनाशं चन्द्रप्रकाशं मलपङ्कजानाम् ।। नामामृतं दोपहरं तु राज्ञा आनीतमत्रव पिबन्तु लोकाः ॥ सखड्गपाणिं मधुसूदनाख्यं तं श्रीनिवासं मगुणं सुरेशम् ।। नामामृतं दोपहरं तु राज्ञा आनीनमत्रेव पिबन्तु लोकाः॥ नामामृतं दोपहरं सुपुण्यमधीत्य यो मांधवविष्णुभक्तः ॥
प्रभातकाले नियती महात्मा स यानि मुक्तिं न हि कारणं च ॥ इति श्रीमहापुराणे पाझे भूमिखण्डे वनोपाख्याने मातापितृतीर्थे ययातिचरिते त्रिसप्ततितमोऽध्यायः ॥ ३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७०२७ एतच्चिदान्तर्गतः पाठो घ. ट. १. पुस्तकस्थः ।
१क. ख. छ. झ. ड. रिपत्रिक' । घ. ट.ट. रिजातके। २ क.ख. छ. झ. जपध्वं । ड. भजन । ३. ठ... मद्यव । ४ क.खरच.छ. झ.. मनप । ५क.ख.इ.च. छ. झ. ड. द. मानव।
Page #282
--------------------------------------------------------------------------
________________
[ २ भूमिखण्डे
महामुनिश्रीव्यासमगीत
अथ चतुःसप्ततितमोऽध्यायः ।
सुकर्मोवाच
दूतास्तु ग्रामेषु वदन्ति सर्वे देशेषु दीपेष्वय पत्तनेषु ॥ लोकाः शृणुध्वं नृपतेस्तथाऽज्ञां सर्वप्रभावैर्हरिमर्चयन्तु ।। दानश्च य.बहुभिः सुकर्मभिर्धर्मादिभिर्वा यजनैर्मनोभिः ॥ ध्यायन्तु लोका मधुसूदनं तमादेशमेवं नृपतेस्तु तस्य ॥ एवं प्रकृष्टं सकलं सुपुण्यमाकर्णितं भूमितले मुलोकैः॥ तदामभृत्येवे समस्तमा ध्यायन्ति गायन्ति मुरारिमेकम् ।। जपन्ति तप्यन्ति यजन्ति चैव वेदप्रणीतैश्च सुमूक्तमत्रैः ॥ श्रोत्रैकपुण्यैरमृतोपमानः श्रीकेशवं तद्गतमानसास्ते ॥ व्रतोपवासनियमेश्च दानविहाय दोषान्विषयान्समस्तान् ॥
[*लक्ष्मीनिवासं जगतां निवासं लोकास्तु भक्त्या परिपूजयन्ति ॥ ५ इत्याज्ञा तस्य भूपस्य वर्तते क्षितिमण्डले । वैष्णवेन प्रभावन जनाः] सर्वे यजन्ति ते ॥ ६ नामभिः कर्मभिर्विष्णुं यजन्ते यज्ञकोविदाः। तख्यानास्तब्धवसिता विष्णुपूजापरायणाः॥ ७ यावमण्डलं सर्व यावत्तपति तिग्मगुः । तावद्धि मानवा लोकाः सर्वे भागवतास्तु ते ॥ ८ विष्णोश्चैव प्रभावेन पूजास्तोत्रैश्च नामभिः । आधिहीनाश्च ते भूमौ संजाता मानवास्तदा ॥ ९ वीतशोकाश्च पुण्याश्च सर्वे चैव तपोधनाः । संजाता वैष्णवा विम प्रसादात्तस्य चक्रिणः ॥ १० आमयैश्च विहीनास्ते दोषै रोषैश्च वर्जिताः । [*सर्वैश्वर्यसमापन्नाः सर्वरोगविवर्जिताः ॥ प्रसादात्तस्य देवस्य संजाता मानवास्तदा ॥ अमरा निर्जराः सर्वे धनधान्यसमन्विताः । महाविष्णुप्रसादेन पुत्रपौत्रैरलंकृताः ॥ १२ तेषामेव महाभाग गृहद्वारेषु नित्यदा । कल्पद्रुमाः सुपुण्यास्ते सर्वकामफलप्रदाः॥ १३ सर्वकामदुघा गावः सचिन्तामणयस्तथा । सन्ति तेषां गृहे पुण्याः सर्वकामप्रदायकाः॥ १४ अमरा मानवा जाताः पुत्रपौत्रैरलंकृताः । सर्वदोषविहीनास्ते विष्णोश्चैव प्रसादतः ॥ १५ सर्वसौभाग्यसंपनाः पुण्यमङ्गलसंयुताः । सुपुण्या दानसंपन्ना ज्ञानध्यानपरायणाः॥ १६ न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् । तस्मिशासति धर्मज्ञे ययाती नृपतौ तदा ॥ १७ वैष्णवा मानवाः सर्वे विष्णुव्रतपरायणाः । तख्यानास्तज्जपाः सर्वे संजाता भावतत्पराः॥१८ तेषां गृहाणि दिव्यानि पुण्यानि द्विजसत्तम । पताकाभिस्तु शुभ्राभिः शक्युक्तानि तानि च १९ * एतचिहान्तर्गतः पाठः क.ख.घ.८.च छ.झ.ट.ठ.ड.ट. पुस्तकस्थः । * एतचिहान्तर्गतः पाठो ड. ढ. पुस्तकस्थः ।
क.ख. ड. च. छ. म. द. हुभिस्तपोभिर्धमामिलापर्यज । २ क.ख. घ. ङ. च. छ. स. १.४.४..व यजन्ति म . 'न्ति तमर्चयन्ति । ज। ४ घ. ट. ठ. ह.म् । ध्यायन्ति गायन्ति यजन्ति मा वे। ५ ट. क्तपाठः । श्री। ६ क. ख. घ. ङ. च. छ. ज. स. ट. ठ. ढ. 'सं तं श्रीनिवासं प। ७ क. ख. घ. ङ. च. छ. झ. ट. ठ. इ. इ. 'न्ते शानकों। ८. स्तगतप्राणा वि। ९. छ. म. द. "धिव्याधिविहीनास्ते सं। १० घ. ङ. छ. स. ट. ठ... ह. ३ वै स्थिरयौवनाः । ११ घ. ङ. च. छ.स. ट. ठ... द. मा वि। १२. छ.स. इ. घ. ध्यानप। १३ घ.ट. ठ. शुद्धाभिः।
Page #283
--------------------------------------------------------------------------
________________
७५ पञ्चसप्ततितमोऽध्यायः ]
पद्मपुराणम् ।
२७७
गदाङ्किर्तध्वजाश्चित्रचक्रांकितानि नित्यं वै । पद्माङ्कितानि भास्वन्ति विमानप्रतिमानि च ॥ गृहाणि भित्तिभागेषु चित्रितानि सुचित्रकैः ॥
२०
२१
सर्वत्र गृहद्वारेषु पुण्यस्थानेषु सर्वशः । वनानि सन्ति दिव्यानि श्रद्धालाभयुतानि च ॥ तुलस्या च द्विजश्रेष्ठ युक्तानि हरिमन्दिरैः । भास्वन्तिं गुणदिव्यानि गृहाणि प्राणिनां सदा २२ सर्वत्र वैष्णवो भावो मङ्गलं बहु दृश्यते । [शतशब्दाच भूलोके मिथः स्फोटकरै रबैः ॥ श्रूयन्ते तत्र विप्रेन्द्र दोषपापविनाशकाः ] ॥
२३
२५
शङ्खस्वस्तिकपद्मानि गृहद्वारेषु तानि च । विष्णुभक्ताभिर्नाभिलिखितानि द्विजोत्तम । २४ गीतरागैश्व तानैश्च मूर्छनातालसुस्वरैः । गायन्ति केशवं लोका विष्णुध्यानपरायणाः ॥ हरिं मुरारिं प्रवदति केचिच्छ्रीशाच्युतं माधवमेव चान्ये । श्रीनारसिंहं कमलेक्षणं तं गोविन्दमेकं कमलापतिं च ।। कृष्णं च रामं शरणं व्रजन्ति जपन्ति जाप्यैः परिपूजयन्ति । दण्डमणामैः प्रणमन्ति विष्णुं तद्ध्यानयुक्ताः परिवैष्णवास्ते ॥ इति श्रीमहापुराणे पाद्मे वेनोपाख्याने ययातिचरिते चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥ आदितः श्लोकानां समथ्यङ्काः - ७०५४
अथ पञ्चसप्ततितमोऽध्यायः ।
सुकर्मोवाच
कृष्णं विष्णुं हरिं रामं मुकुन्दं मधुसूदनम् । नारायणं हृषीकेशं नारसिंहं तमच्युतम् ॥ केशवं पद्मनाभं तु वासुदेवं च वामनम् । वाराहं कमठं मत्स्यं कपिलं च सुराधिपम् ॥ [*विश्वेशं विश्वरूपं च ह्यनन्तमनघं शुचिम् । पुरुषं पुष्कराक्षं च श्रीधरं श्रीपतिं हरिम् ॥ श्रीदं श्रीशं श्रीनिवासं सुमोक्षं मोक्षदं प्रभुम् ] ॥
इत्येवमुच्चरन्तो हि नामानि मानवा भुवि । प्रभजन्ति जनाः सर्वे बालवृद्धकुमारकाः ।। प्रणमन्ति हरिं नार्यो गृहकर्मरताः सदा । आसने शयने याने ध्याने ज्ञाने च माधवम् ॥ क्रीडमानास्तथा बाला गोविन्दं प्रणमन्ति च । दिवा रात्रौ सुमधुरं ब्रुवन्ति हरिनाम च ॥ विष्णूचारो हि सर्वत्र श्रूयते हि द्विजोत्तम । वैष्णवेन प्रभावेन मर्त्या वर्तन्ति भूतले । प्रासादकलशाग्रेषु देवतायतनेषु च । यथा सूर्यस्य बिम्बानि तथा चक्राणि भान्ति वै ॥ कृष्णस्य दृश्यते भावः सर्वत्र जगतीतले । तेनराज्ञा कृतं विप्र पुण्यं चापि महात्मना ।। विष्णुलोकस्य समतां तथा नीतं महीतलम् । नहुषस्यापि पुत्रेण वैष्णवेन ययातिना ।। उभयोर्लोकयोर्भावमेकीभूतं महीतले । भूतलस्यापि विष्णोश्च यन्तरं नैव दृश्यते ||
* एतच्चिहान्तर्गतः पाठो ङ. छ. झ. ड ढ पुस्तकस्थः । पुस्तकस्यः ।
२६
२७
123
४
१० ११
* एतच्चिदान्तर्गतः पाठो घ ङ. छ. झ ट ठ ड ढ
१. तभुजा । २. ङ्कितपरायणाः । प' । ३ घ ङ. छ. झ ट ठ ड ढ न्ति पुण्यदि । ४ ङ. छ. झ.. 'न्ति केशवं प्रीत्या जितं । ५ घ ङ. छ. झ ट ठ ड ढ ष्णं शरण्यं शं । ६ घ ङ. छ. झ ट ठ ड ढ प्रवदन्ति ते । दि । ७ घ. इ. छ. झ ट ठ ड ढ बै। वैकुण्ठे दृश्यते भावं तद्भावं जीं ।
Page #284
--------------------------------------------------------------------------
________________
१७
२७८ महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेविष्णूचारं हि वैकुण्ठे प्रकुर्वन्ति च वैष्णवाः । भूतले तादृशोच्चारं प्रकुर्वन्ति च मानवाः ॥ १२ उभयोर्लोकयोर्भाव एको हि विप्र दृश्यते । जरारोगभयं नास्ति मृत्युहीना नरा यतः ॥ १३ दानभोगप्रभावस्तु अधिको दृश्यते भुवि । पुत्राणां च सुखं पुण्यमधिकं पोत्रजं तथा ॥ १४ स्वान्भोक्ष्यन्ति सुखेनापि मानवा भुवि सत्तमाः। विष्णोः प्रसाददानेन उपदेशेन तस्य च॥१५ सर्वव्याधिविनिर्मुक्ता मानवा वैष्णवास्तथा । स्वर्गलोकतिरस्कारः कृतो राज्ञा महीतले ॥ १६ पञ्चविंशप्रमाणेन वर्षाणां नृपसत्तम । वेदविज्ञा नराः सर्वे ज्ञानध्यानपरायणाः ॥ यवदानपराः सर्वे दयाभावाश्च मानवाः । उपकाररताः सर्वे पुण्या धन्याः शुभा नराः॥ १८ सर्वे धर्मपरा विम विष्णुध्यानपरायणाः । राज्ञा तेनोपदिष्टास्ते संजाता वैष्णवा भुवि ॥ १९
विष्णुरुवाचश्रूयतां नृपशार्दूल चरित्रं तस्य भूपतेः । सर्वधर्मपरो नित्यं विष्णुभक्तश्च नाहुषिः ॥ २० अब्दानां चैव लक्षेकं तस्यापि सुगतं भुवि । नूतनो दृश्यते कायः पञ्चविंशाब्दको यथा ॥ २१ पञ्चविंशात्मको भाति रूपेण वयसा तदा । प्रशस्तः प्रोढिसंपन्नः प्रसादात्तस्य चक्रिणः ॥ २२ मानवा भूमिलोकस्था यमं नेवानुयान्ति ते । रागंदोषविनिर्मुक्ताः कामपाशविवर्जिताः ॥ २३ सुखिता दानपुत्रेश्च सर्वधर्मपरायणाः । विस्तारं ते जनाः सर्वे संतत्याऽपि गता नृप ॥ २४ या दूवो वटाश्चैव विस्तारं यान्ति भूतले । तथा ते मानवाः सर्वे पुत्रपौत्रः प्रविस्तृताः ॥ २५ मृत्युदोषविहीनोस्ते चिरं जीवन्ति ते जनाः । स्थिरकायाश्च सुखिनो जरारोगविवर्जिताः ॥२६ पञ्चविंशाब्दिकाः सर्वे नरा दृश्यन्ति भूतले । सत्याचारपराः सर्वे विष्णुध्यानपरायणाः ।। २७ एवं हि सर्वे मास्ते प्रसादात्तस्य चक्रिणः । संजाता मानवाः सर्वे दानभोगपरायणाः ॥२८ मृतो न श्रूयते लोके सर्वस्मिञ्जगतीतले । शोकं नेव प्रपश्यन्ति दाषं नेव प्रयान्ति ते ॥ २९ स्वर्गलोकस्य यद्रूपं तद्रूपं भृतलस्य च । संजातो विष्णुभक्तास्त प्रसादात्तस्य चक्रिणः ॥ ३० यमदूता विधिभ्रष्टा विष्णुदतेस्तु ताडिताः । रुदमाना गताः सर्वे धर्मराजं परस्परम् ॥ ३? तत्सर्व कथितं दूतश्चेष्टितं भूतले च तैः । अमृत्यु भूतलं जातं दानभोगेन भास्करे ॥ ३२ [*नहुषस्याऽऽत्मजेनापि कृतं देव ययातिना । विष्णुभक्तन पुण्येन स्वर्गरूपं प्रदर्शितम् ॥ ३३ एवमाणितं सर्व धर्मराजेन वै तदा । ] धर्मराजस्तदा तत्र दृतेभ्यः श्रुतविस्तरः ॥ चिन्तयामास सत्यार्थ क्षणेकं नृपचेष्टितम् ॥ इति श्रीमहापुगणे पाद्मे भूमिखण्डे वनोपाग्व्याने ययातिचरिते पन्नसप्ततितमोऽध्यायः ॥ ४५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७०८८
* एतचिहान्तर्गतः पाठः क. ख. घ. ङ. च. छ.झट. ड. द. पुस्तकस्थः ।
१. विष्णध्यान । २ घ. ट. ठ. ड. 'ते । राजमृत्यम । ३ झ.ट. ड. 'म। गदहीना नराः सर्वे विष्णध्या। ४ क. ख..च. छ. स. द. प्रबलः । ५ क. ख. ड. च. छ. झ. द. गद्वेष । ६ ड. कामायासवि। ७क. ख. ड.च. छ. झ. ड. ढ. पण्यैव । क. ख. च. ड"था कैतवको भोगो विस्तारं याति भू। ९ इ. "नाश्च स्थिरकाया ह्यरोगिणः । धर्माध्यक्षाश्च । १.म. ट... "ता मानवश्रेष्ठ प्र। ११ क. ख. घ. ड. च. छ. झ. ट. ठ. ड. द. अधिकं । १२ क. ख. हु. च. छ. झ. र... सर्वार्थ ।
Page #285
--------------------------------------------------------------------------
________________
७६ षट्सप्ततितमोऽध्यायः]
२७९
पद्मपुराणम् । अथ षट्सप्ततितमोऽध्यायः ।
सुकर्मोवाचसोरितैस्तथा सर्वैः सह स्वर्ग जगाम ह । द्रष्टुं तत्र सहस्राक्षं देववृन्दैः समावृतम् ।। धर्मराज समायान्तं ददर्श सुरराट् तदा । समुत्थाय त्वरायुक्तो ददावर्घमनुत्तमम् ॥ पप्रच्छाऽऽगमनं तस्य कथयस्व ममाग्रतः ।। तदाकर्ण्य महद्वाक्यं देवराजेन भाषितम् । धर्मराजोऽब्रवीन्सर्व ययातेश्चरितं महत् ॥ ३
धर्मराज उवाचश्रूयतां देवदेवेश यस्मादागमनं मम । कथयाम्यहमत्रापि येन चैवाऽऽगतस्तव ॥ ४ नहुषस्याऽऽत्मजेनापि वैष्णवेन महात्मना । कारिता वैष्णवाः सर्वे [*ये वसन्ति महीतले ॥५ वैकुण्ठस्य ममं रूपं मर्त्यलोकस्य वे कृतम् । अमरा मानवा जाता जरारोगैर्विवर्जिताः ॥ ६ पापमेव न कुर्वन्ति असत्यं न वदन्ति ते । कामक्रोधविहीनास्ते लोभमोहविवर्जिताः॥ ७ दानशीला महात्मानः सर्वे धर्मपरायणाः । सर्वकामः समर्चन्ति नारायणमनामयम् ॥ ८ तेन वैष्णवधर्मेण मानवा जगतीतले । निरामया वीतभया सर्वे च स्थिरयौवनाः॥ ९ दूर्वा वटा यथा देव विस्तारं यान्ति भूतले । तथा ते विस्तरं प्राप्ताः पुत्रपौत्रेः प्रपौत्रकैः॥ तेषां पुत्रैश्च पौत्रेश्च वंशावंशान्तरं गताः ॥ एवं वैष्णवधर्मेण जरामृत्युविवर्जितः । मर्त्यलोकः कृतस्नेन नहुपस्याऽऽत्मजेन च ।। पदभ्रष्टोऽस्मि मंजातो व्यापारेण विवर्जितः ॥ एवं ते सर्वमाख्यातमात्मकर्मविनाशनम् । एवं ज्ञात्वा सहस्राक्ष लोकस्यास्य हितं कुरु ॥ १२ एतत्ते सर्वमाख्यातं यथा पृष्टोऽस्मि वे त्वया । एतस्मात्कारणादिन्द्र आगतस्तव संनिधौ ।। १३
इन्द्र उवाचपूर्वमेव मया दूत आगमार्थ महात्मनः । प्रेषितो धर्मराजेन्द्र दूतेनास्यापि भाषितम् ॥ १४ नाहं स्वर्गस्य चैवार्थी नाऽऽगमिप्ये दिवं पुनः । स्वर्गरूपं करिष्यामि सर्व तमिमण्डलम् ।। १५ इत्याचचक्षे भूपालः प्रजापाल्यं करोति च । तस्य धर्मप्रभावन भीतस्तिष्ठामि सर्वतः ॥ १६
धर्मराज उवाचयेन केनाप्युपायेन तमानयस्व भूपतिम् । देवराज महाभाग यदि चेच्छसि मत्मियम् ॥ १७ इत्याकर्ण्य वचस्तस्य धर्मस्यापि सुराधिपः । चिन्तयामास मेधावी सर्वतत्त्वेन पिप्पल ॥ १८ काममाह समाहूयं गन्धर्वाश्च पुरंदरः । [* मकरन्दं रतिं देव आनिनाय महात्मनः ॥ १९ तथा कुरुत वै यूयं यथाऽऽगच्छति भूपतिः । यूयं गच्छन्तु भूलोकं मयाऽऽदिष्टा न संशयः॥२० एवमुक्ता गताः सर्वे यत्र राजा स नाहुषिः । नटरूपेण ते सर्वे कामााः कर्मणा द्विज ॥ २१
* एतचिह्नान्तर्गतः पाठः क. कु. च. छ. झ. ड. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाठोप.म. द.पुस्तकस्थः ।
क. ख. ङ. च. छ. झ. ढ. सर्वकमैः । ड. सर्वधर्मैः । २ क. स. ङ. च. छ. म ड. ढ. वीतशोकाः । ३ क.. इ. च. छ. झ. ह. सर्वदा । ४ क. ख. घ. इ. च. छ. झ. ट. ठ. ड. द. भूपते। ५ क. ख. ङ. च. छ.... य धर्म गच्छ पु। ६ ड. नररू। ७ इ. कामेन तु समं ययुः । आ । ८ ट. या गायनाः प्रभुम् । आ।
Page #286
--------------------------------------------------------------------------
________________
२८० महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेआशीभिरभिनन्यैव ते च ऊचुः सुनाटकम् । तेषां तद्वचनं श्रुत्वा ययातिः पृथिवीपतिः ॥ २२ सभा चकार मेधावी देवरूपां सुपण्डितैः । सैमायातः स्वयं भूपो ज्ञानविज्ञानकोविदः॥ २३ तेषां तु नाटकं राजा पश्यमानः स नाहुषिः । चरित्रं बामनस्यापि उत्पत्तिं विमरूपिणः ॥ २४ रूपेणापतिमा लोके सुस्वरं गीतमुत्तमम् । गायमाना जरा राजनार्या रूपेण वै तदा ॥ तस्या गीतेन लास्येन हास्येन ललितेन च ॥ मधुरालापतस्तस्य कन्दर्पस्य च मायया । मोहितस्तेन भावेन दिव्येन चरितेन च ॥ २६ बलचैव यथारूपं बलिर्बद्धो यथा पुरा । वामनस्य यथा रूपं चक्रे मन्मथस्तादृशम् ॥ सूत्रधारः स्वयं कामो माधवः पारिपाचकः । नटीवेषधरा जाता सा रतिहष्टवल्लभा ॥ २८ नेपथ्याभिचराः सर्वे तस्मिन् नाव्यकर्मणि । मकरन्दो महामाहः क्षोभयामास भूपतिम् ॥ २९
यथा यथा पश्यति नृत्यमुत्तमं गीतं समाकर्ण्य च भूपतिः सः॥
तया तथा मोहवशं प्रणीतः साधुप्रणीतेन महानुभावः ।। इति श्रीमहापुराणे पाग्ने भूमिखण्डे वेनोपाख्याने मातापितृतीर्थे ययातिचरिते षट्सप्ततितमोऽध्यायः ॥ ७६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७११८
अथ सप्तसप्ततितमोऽध्यायः ।
सुकर्मोवाचकामस्य गीतलास्येन हास्येन ललितेन च । मोहितस्तेन राजेन्द्रो नटरूपेण पिप्पल ॥ १ कृत्वा मूत्रपुरीषं च स राजा नहुषात्मजः । अकृत्वा पादयोः शौचमासन उपविष्टवान् ॥ २ तदन्तरं तु संप्राप्य संचचार जरा नृपम् । कामश्चापि नृपश्रेष्ठ इन्द्रकार्य कृतं हि तैः ॥ ३ निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिः । जराभिभूतो धर्मात्मा कामसंसक्तमानसः ॥ ४ मोहितः कामदेवेन विहलो विकलेन्द्रियः। अतीव मुग्धो धर्मात्मा विषयेश्च पराजितः ॥ ५ एकदा मृगयाशीलः संप्राप्तः कामसंयुतः । वने च क्रीडते विप्र मोहरागवशं गतः॥ क्रीडमानस्य तस्यापि नृपतेश्च महात्मनः । मृगश्चैकः समायातश्चतुःशृङ्गो बनोपमः ॥ सर्वासुन्दरो विम हेमवर्णतनूरुहः । रत्नमौलिः सुचित्राङ्गो दर्शनीयमनोहरः ।। अभ्यधावत्स वेगेन तं दृष्ट्वा चापबाणवान् । इत्याशशङ्क मेधावी कोऽपि दैत्योऽयमागतः॥ ९ तेन राजा मृगेणापि दूरमाकर्षितस्तदा । गतः स रथवेगेन श्रमेण परिखेदितः॥ पश्यमानस्य तस्यापि मृगस्त्वन्तरधीयत । स पश्यति वनं तत्र नन्दनोपममद्भुतम् ॥ ११ चारुवृक्षसपाकीणे भूतपश्चकशोभितम् । गुरुभिश्चन्दनैः पुण्यैः कदलीखण्डमण्डितैः॥ १२
१५.८ ४. 'न्येव राजपश्य सुनाटकम् । र, न्येनं राजानं नाडाषिं तदा । ते । २ ८. बहुश्रुताम् । ३ घ. ट. ठ. ड. सभापालः स्वयं भूत्वा ज्ञा। ४८. नर्तनं । ५ घ, ङ, छ. घ. द. "पि नृत्यन्ति नटरू। ६ कख. र. च. छ.. र... विन्ध्यावल्या य। 3. कः । नारीवें। ८घ.म. ठ... ज्ञः प्रशामावेन नृत्यति । य । क. ख. ठ. च. छ..... जराप्रचीतेन । १० घठ. ... 'रूपो बभूव ह । । ११. स. अ. च. छ. स. ह. तु. 'ममोहेन । १२. 'इतेऽसौ हि मो। १३ ख. घ. ए. च. छ.स. ट. ठ... ढ. 'रो राजन्हेम । १४ क. स. स. च.. अ...ढ. रत्नज्योतिः।
Page #287
--------------------------------------------------------------------------
________________
७७ सप्तसप्ततितमोऽध्यायः] परपुराणम् । बकुलाशोकपुनागैर्नारीकेलैश्च तिन्दुकैः । पूगीफलैश्च खजूरैः कुमुदैः सप्तपर्णकः ॥ १३ पुष्पितैः कर्णिकारैश्च नानाक्षैः सदाफलैः । पुष्पितामोदसंयुक्तैः केतकैः पाटलैस्तथा ॥ १४ पश्यमानो महाराजो ददर्श सर उत्तमम् । पुण्योदकेन संपूर्ण विस्तीर्ण पञ्चयोजनम् ॥ १५ हंसकारण्डवाकीर्ण जलपक्षिनिनादितम् । कमलैश्वापि मुदितं श्वेतोत्पलविराजितम् ॥ १६ रक्तोत्पलैः शोभमानं हाटकोत्पलमण्डितम् । नीलोत्पलैः प्रकाशन्तं(?)कलारैरतिशोभितम् ॥१७ मत्तैर्मधुकरैश्वापि सर्वत्र परिनादितम् । [ *एवं सर्वगुणोपेतं ददर्श सर उत्तमम् ॥ १८ पञ्चयोजनविस्तीर्ण दशयोजनेदीर्घकम् । तडागं सर्वतोभद्रं दिव्यभावैरलङ्कृतम्] ॥ १९ रथवेगेन संखिन्नः किंचिच्छ्रमेण पीडितः । निषसाद तंटे तस्यै श्रितश्छायां सुशीतलाम् ॥ २० स्नात्वा पीत्वा जलं शीतं पद्मसौगन्ध्यवासितम् । मर्वश्रमोपशमनममृतोपममेव तत् ॥ २१ शीतच्छायाश्रितेनापि राज्ञा तेन च भूतले । गीतध्वनि समाकर्ण्य गीयमानं यथा तथा ॥ २२ यथा स्त्री गायते दिव्या तथाऽयं श्रूयते ध्वनिः । गीतप्रियो महाराज एवं चिन्तां परां गतः २३ चिन्ताकुलस्तु धर्मात्मा यावचिन्तयते क्षणम् । नावनारी वरा काचित्पीनोन्नतपयोधरा ॥ २४ नृपतेः पश्यमानस्य गता दृष्टिपथं बने । सर्वाभरणशोभाङ्गी शीललक्षणसंपदा ॥ [तस्मिन्वने समायाता नृपतेः पुरतः स्थिता । सा पृष्टा नेन वै राज्ञा का त्वं किंकारणाऽऽगता वद सर्व विशालाक्षि तच्छ्रुत्वा वचनं तु सा । नोवाच किंचिद्भूपालं लजमाना वरानना ॥ २७ प्रहस्यैवं गता शीघ्र वीणावादनतत्परा । विस्मयेनापि राजेन्द्रो महना व्यातस्तदा ॥ २८ मया संभाषिता चापि न सा ब्रूते तथोत्तरम् । तनश्चिन्तां समापेदे ययातिः पृथिवीपतिः ॥ २९ योऽसौ मृगो यथा दृष्टश्चतुःशृङ्गसुवर्णकः । तस्मानारी समुद्भुता तत्सत्यं प्रतिभाति मे ॥ ३० मायारूपमिदं सत्यं दानवानां भविष्यति । [*चिन्तयित्वा क्षणं राजा ययातिर्नहुषात्मजः] ३१ यावञ्चिन्तयते राजा तावन्नारी महावने । अन्तर्धानं गर्ता विप्र प्रहस्य नृपनन्दनम् ॥ २२ एतस्मिन्नन्तरे गीतं सुस्वरं नृपतिः पुनः । शुश्राव परमं दिव्यं मूर्छनातालसंयुतम् ॥ ३३ जगाम सत्त्वरं राजा यत्र गीतध्वनिर्महान् । जलान्ते पुष्कले चैव महत्सदनमुत्तमम् ॥ ३४ तस्योपरि वरा नारी शीलरूपगुणान्विता । दिव्यलक्षणसंपन्ना दिव्याभरणभूषिता ॥ ३५ दिव्यैर्भावैः प्रभात्येका वीणादण्डकधारिणी । गायन्ती सुन्दरं गीतं तालमानलयान्वितम् ॥३६ तेन गीतप्रभावेन मोहयन्ती चराचरम् । देवान्मुनिगणान्सर्वान्दैत्यान्गन्धर्वकिन्नरान् ॥ ३७ तां च दृष्ट्वा विशालाक्षी रूपतेजोपशालिनीम् । संसारे नास्ति चैवान्या नारीदृशी चराचरे॥३८ पुरा नटो जरायुक्तो नृपते काम एव हि । संचरंश्च महाकामस्तदाऽसौ प्रकटोऽभवत् ॥ ३९ घृतं स्पृष्ट्वा यथा वह्नी रश्मिमान्संमजायते । तां च दृष्ट्वा तथा कामस्तत्कायात्मकटोऽभवत् ॥४.
* एतचिहान्तर्गतः पाठः क. ख. ड.च. छ. स.ट. ड.. पुस्तकस्थः । एतच्चिदान्तर्गतः पाठः क.ख. घ.. च. छ. स. ड. ढ. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. न. घ. इ. च. छ. स.ट. ठ... द. पुस्तकस्थः ।
१क. ख. च. ड. 'नकीलकम् । २ क. ख. घ. दु. च. छ. झ. द. 8. ड. वने । ३ इ. 'स्य अन्तश्या ४ क.स. घ. ङ. च. छ. स. ट. ठ. ड. द. वृक्षच्छायाधितेनापि । ५ क. ख. 3. च. छ. ग. ह. . 'ता। तामुवाच महाराजः का हि कस्य भविष्यसि । किमर्थे हि समायाता तन्मे त्वं कारण वद । पृष्टा सती तदा तेन न किंचिदपि पिप्पल । शुभाशभंग भूपालं ब्रूते नैव बरा।६ क. ख. घ. हु. च. छ झ.ट. . द. ता राजन्प्रह। क.ख. च. छ.स. करेल्वेव सहक दलमू । ३. करे चैव सहस्रदलम। द. द. करं चैव सहस्रदलम। ८. कायमेव ।
Page #288
--------------------------------------------------------------------------
________________
२८२
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेमन्माविष्टधर्मात्मा तां दृष्ट्वा चारुलोचनाम् । ईदृपा न दृष्टा मे युवती विश्वमोहिनी ॥ ४१ चिन्तयित्वा क्षर्ण राजा कामसंसक्तमानसः। तस्याः स विरहेणापि लुब्धोऽभून्नृपतिस्तदा॥४२ कामाग्निना दह्यमानः कामज्वरेण पीडितः । कथं स्यान्मम चैवेयं कथं भावो भविष्यति ॥ ४३ यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत् । [*यदा मां गूहते बाला पद्मास्या पद्मलोचना]४४ एवं विचिन्त्य धर्मात्मा ययातिः पृथिवीपतिः । तामुवाच वरारोहां का त्वं कस्यासि वा शुभे४५ पूर्व दृष्टा तु या नारी सा दृष्टा पुनरेव च । तां च पप्रच्छ धर्मात्मा का चेयं तव पार्श्वगा ॥ ४६ सर्व कथय कल्याणि अहं हि नहुषात्मजः । सोमवंशप्रसूतश्च सप्तद्वीपाधिपः शुभे ॥ ४७ ययाति म मे देवि ख्यातोऽहं भुवनत्रये । त्वयि संगच्छते चेतो भावमेवं प्रवाञ्छते ॥ ४८ देहि मे संगम भद्रे कुरुष्व प्रियमेव मे । यं यं हि वाञ्छसे कामं तं तं दमि न मंशयः॥ ४९ दुर्जयेनापि कामेन हतोऽहं वरवणिनि । नस्पात्राहि सुशीलं मां प्रपन्नं शरणं तव ॥ ५० राज्यं च सकलामुवी शरीरं चापि चाऽऽत्मनः । संगमे तव दास्यामि त्रैलोक्यमिदमेव ते ॥५१ तस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना । विशाला स्वसखीं प्राह ब्रूहि राजानमागतम् ॥ नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे । ममापि भवते कामो अस्याग्रे च निवेदय ॥ ५३ तस्याश्च कासितं ज्ञात्वा विशाला भूपति तदा । उवाच मधुरालापैः श्रूयतां नृपनन्दन ॥ ५४
विशालोवाचकाम एप पुरा दग्धो देवदेवेन शंभुना । रुरोद सा रतिर्दुःखाद्भहीना हि सुस्वरम् ॥ ५५ अस्मिन्सरसि राजेन्द्र रतिहि न्यवसत्सदा । तस्याश्च विप्रलापं तु सुस्वरं करुणान्वितम् ॥ ५६ समाकर्ण्य ततो देवी कृपया परयाऽन्विता । संजाता राजराजेन्द्र शंकरं वाक्यमब्रवीत् ॥ ५७ जीवयस्व महादेव पुनरेव मनोभवम् । वराकीयं महाभाग भर्तृहीना हि दुःविता ॥ ५८ कामेनाथ समायुक्तामस्मत्स्नेहात्कुरुप्प वै । तच्छत्वा च वचः प्राह जीवयामि मनोभवम् ॥ ५९ कायेनापि विहीनोऽयं पञ्चबाणो मनोभवः । भविष्यति न संदही माधवस्य सखा पुनः ।। ६० दिव्येनापि शरीरेण वर्तयिप्यति नान्यथा । महादवप्रमादन मीनकंतुः स जीविनः ॥ ६१ आशीभिरभिनन्धव देव्याः कामं मनोभवम् । गच्छ काम प्रवर्तस्व नित्यं हि प्रियया सह ॥६२ तावन्मत्र्ये महातेजाः स्थितिसंहारकारकः । पुनः कामः मरः प्राप्ता यत्राऽऽस्ते दुःखिता रतिः॥ इदं कामसरो राजन्नत्र सा संस्थिता रतिः । दग्धे तस्मिन्महाभागे मन्मथे दुःखधपिणि ।। ६४ रत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः । अतीव दग्धा तेनापि सा रतिर्मोहमूर्छिता ॥६५ अश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम । नेत्राभ्यां हि जले तस्याः पतिता अश्रुविन्दवः ॥ ६६ तेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः । [क्षणात्पश्चात्समुद्भते अश्रुभ्यो नृपसत्तम ॥६७ वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः] । दुःखसंतापको चाभी जज्ञाते दारुणी तदा॥६८ मूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी । शोकाज्जज्ञे महाराज कामज्वरोऽथ विभ्रमः ॥ ६९ मलापो बहुलश्चैव उन्मादो मृत्युरेव च । तस्यास्तदाऽश्रुबिन्दुभ्यो जज्ञिरे विश्वनाशकाः ॥ ७०
* एतचिहान्तर्गतः पारः छ. झ. ट. ठ. ड. पुस्तकस्थः । एञ्चिहान्तर्गतः पाठो ड. पुस्तकस्थः ।
१. थाकृष्टचित्तोऽसौ तां। २ क.ख.इ.च. छ. झ. ड. . वदःखसमाचारी य । ३ ङ, छ. झ. ड.ई. सुदीनं। ४. 'पि मे भावं कामं ममाग्रे । ङ. द. "पि भावं मे काममस्याये। ५ छ. झ. ड. त्याः कण्ठात्स। ६ ङ. छ. म. द. पो विल'।
Page #289
--------------------------------------------------------------------------
________________
७७ सप्तसप्ततितमोऽध्यायः ] पद्मपुराणम् ।
२८३ तस्याः पार्थे समुत्तस्थुः सर्वे ते दुःखकारिणः । मूर्तिमन्तो महाराज सद्भावगुणसंयुताः॥ ७१ काम एष समायातः केनाप्युक्तं तदा नृप । महानन्देन संयुक्ता दृष्ट्वा कामं समागतम् ॥ ७२ नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः । अप्सु मध्ये महाराज चापल्याजज्ञिरे प्रजाः॥७३ प्रीतिर्नाम तैदा जज्ञे ख्यातिर्लज्जा नरोत्तम । तेभ्यो जज्ञे महानन्दः शान्तिश्चान्या नृपोत्तम।।७४ जज्ञाते द्वे शुभे केन्ये सुर्खेसौभाग्यदायके । लीला क्रीडा मनोभावसंभोगस्तु महाभूप ॥ ७५ रत्यास्तु वामनेत्राद्वै ह्यानन्दादश्रुबिन्दवः । जलान्ते पतिता राजंस्तस्माजज्ञे सुपङ्कजम् ॥ ७६ तस्मात्सुपङ्कजाजाता चेयं नारी वरानना । अश्रुविन्दुमती नाम रतिपुत्री नरोत्तम ॥ ७७ अस्याः प्रीत्या सुसौहार्दादहं वर्ते हि नित्यदा । सग्विभावस्वभावेन संहृष्टा सर्वदा शुभा ॥७८ विशाला नाम मे ख्यातं वरुणस्य सुता नृप । अस्याः स्वान्ते प्रवर्तेऽहं स्नेहात्स्निग्धाऽस्मि सर्वदा एतत्ते मवेमाग्व्यातमस्याश्चाऽऽत्मन एव च । वगर्थमेषा राजेन्द्र तपश्चरति शोभना ॥ ८०
___ ययातिरुवाचमर्वमेव त्वयाऽऽग्व्यातं मया ज्ञानं शुभे शृणु । मामेवं हि भजन्वेषा रतिपुत्री वरानना ॥ ८१ यमेषा वाञ्छते वाला नं च कामं ददाम्यहम् । तथा कुरुष्व कल्याणि यथा मे वशगा भवेत्८२
विशालोवाचअस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते । पुरुष यौवनोपेतं सर्वशं वीरलक्षणम् ॥ ८३ देवराजसमं गजन्धर्माचारसमन्वितम् । तेजम्बिनं महापाझं दातारं यज्वनां वरम् ॥ गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम् । [*लोक इन्द्रसमं राजन्यज्ञवर्मनि तत्परम् ] ॥ सर्वैश्वर्यसमोपेतं नारायणपरायणम् ॥ देवानां सुप्रियं नित्यं ब्राह्मणानामनिप्रियम् । ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् ।। ८६ एवंगुणैः समोपेतं त्रैलोक्ये च प्रपूजितम् । सुमतिं सुप्रियं कान्नं वाञ्छत्येपा नृपोत्तम ॥ ८७
___ ययातिरुवाचएभिर्गुणैः समोपेतं विद्धि मामिह चाऽऽगतम् । अस्या अनुरूपो भर्नाऽहं सृष्टो धात्रा न संशयः ८८
विशालोवाचभवन्तं पुण्यसंनद्धं जाने गजञ्जगत्रये । पूर्व तु ये गुणाः सर्वे मयोक्ताः मन्ति ते त्वयि ॥ ८९ एकेनापि च दोषेण न्वामेपा हि न मन्यने । एप मे संशयो जातो भवान्विष्णुंसमो नृपः ॥ ९०
ययातिरुवाचसमाचक्ष्व महादोषं येनैषा मां न मन्यते । तत्त्वेन चारुसर्वाङ्गि प्रसादसुमुखी भव ॥ ९१
विशालोवाचआत्मदोषं न जानासि कस्मात्त्वं जगतीपते । जरया व्याप्तकायोऽसि कामेनापि न पश्यसे ॥९२ एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिः । दुःखेन महताऽऽविष्टस्तामुवाच पुनर्नृपः॥ ९३
* एतञ्चिहान्तर्गतः पाठी घ. ट. ठ. इ. पुस्तकस्थः । १ क. ख. ड. च. झ. ट. सर्वतापाङ्गधारि' । छ. सर्वे ते चागधारि । इ. सर्वतो वेगधारि । २ घ. ट. ठ. महालोके। इ. महामोहः । ३ क, ख. घ. ड. च. छ. ज. स.ट. ठ. ड. द. पुण्ये। ४ क. ख. घ. इ. च. छ. ज. स. ट. ठ.... खसंभोगदा। ५ इ. छ. झ. ढ. सर्वभावस्य । ६ ङ. छ. स. ढ. णमिवापरम् । ७ क, ख. ह..च. द. शुमयो । क. ख. हु. च.. झ ट ठ. इ. दसि अनेनापि न मन्यते । ए
Page #290
--------------------------------------------------------------------------
________________
२८५ महामुनिश्रीच्यासमणीतं
[ २ भूमिखण्डेजरादोषो न मे भद्रे संसर्गात्कस्यचित्कदा । समुद्भूतो ममाङ्गे वै ते न जाने जरागमम् ॥ ९४ यं यं हि वाञ्छते बाला त्रैलोक्ये दुर्लभं शुभे । तमस्यै दातुकामोऽहं त्रियतां वर उत्तमः ॥ ९५
विशालोवाचजराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत् । [*एतद्विनिश्चयं राजन्सत्यं सत्यं वदाम्यहम् ९६ श्रुतिरेवं व्रजेद्राजन्] पुत्रे भ्रातरि भृत्यके । जरा संक्राम्यते यस्य तस्याङ्गे परिसंचरेत् ।। ९७ तारुण्यं तस्य वै गृह्य तस्मै दत्त्वा जरां पुनः । उभयोः प्रीतिसंवादः सुरुच्या जायते शुभः ९८ यथाऽऽत्मदानपुण्यस्य कृपया यो ददाति च । फलं राजन्स्थिरं तस्य जायते नात्र संशयः ९९ दुःखैश्वोपाजितं पुण्यमन्यस्मे हि प्रदीयते । सुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुते ॥ १०० पुत्राप दीयतां राजस्तस्मात्तारुण्यमेव च । प्रगृयैव समायुक्तः सुन्दरत्वेन भूपते ॥ १०१ यथा त्वामिच्छते भोक्तुं तथा त्वं कुरु भूपते । एवमाभाष्य तं भूपं विशाला विरराम ह ॥१०२
वासुदेव उवाचएवमाकर्ण्य राजेन्द्रो विशालावचनं तदा । एवमस्तु महाभागे करिष्ये वचनं तव ॥ १०३ कामासक्तः स मूढस्तु ययातिः पृथिवीपतिः। गृहं गत्वा समाहूय मुतान्वाक्यमुवाच ह॥ १०४ तुरुं पुरुं कुरुं राजा यदुं च पितृवत्सलम् । कुरुध्वं पुत्रकाः सोख्यं यूयं हि मम शासनात् १०५
पुत्रा ऊचुःपितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम् । उच्यतां तात तच्छीघ्रं कृतं विद्धि न संशयः १०६ एवमाकर्ण्य तद्वाक्यं पुत्राणां पृथिवीपतिः । आचचक्षे पुनस्तेषु हर्षेणाऽऽकुलमानसः॥ १०७ इति श्रीमहापुराणे पाने भूमिखण्डे वनोपाग्याने मातापितृतीर्थ ययातिचरिते सप्तसप्ततितमोऽध्यायः ॥ ७ ॥
___ आदितः श्लोकानां समष्ट्यङ्काः-७२२५
अथाष्टमप्ततितमोऽध्याय.।
ययातिरुवाचएकोऽपि(केन गृह्यतां पुत्रा जरा मे दुःखदायिनी । धीरां भूत्वा ततश्चैव तारुण्यं मम दीयताम् । स्वकीयं हि महाभागाः सुरूपमतुलं ततः । संतप्तं मानसं मेऽद्य स्त्रियाऽऽसक्तं सुचञ्चलम् ॥ २ भाजनस्था यथाऽपश्च आवर्तयति पावकः । तथा मे मानसं पुत्राः कामानलेन चालितम् ॥ ३ पको गृह्णातु मे पुत्रा जरां दुःखप्रदायिनीम् । स्वीयं ददातु तारुण्यं यथाकामं चराम्यहम् ॥ ४ जरायाश्चोपग्रहणं करिष्यति सुतोत्तमः । स भुनक्ति च मे राज्यं धेनुः संधारयिष्यति ॥ ५ तस्य सौख्यं मुसंपत्तिर्धनं धान्यं भविष्यति । ['विपुला सन्ततिस्तस्य यशःकीर्तिर्भविष्यति]॥६
पुत्रा ऊचुःभवान्धर्मपरो राजन्मजाः सत्येन पालकः । कस्मात्ते हीहशो भावो जातः प्रकृतिचालनः ॥ ७
* एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. स. इ. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः क. ख. . छ. झ. पुस्तकस्थः।
छ. संबन्ध स। २३.क.ख. र.च. छ.स.ह. समागच्छ।
समभश्व
। ३घ.ट.ठ. सुकमावाच ।
Page #291
--------------------------------------------------------------------------
________________
२८०
७८ अष्टसप्ततितमोऽध्यायः ] पद्मपुराणम् ।
ययातिरुवाचआगता नर्तकाः पूर्व पुरे मे नाट्यवर्तनाः। तेभ्यो मे कामसंदोहः संजातो मोह ईशः॥ ८ जरया व्यावृतः कायो मम संक्लिष्टमानसम् । संबभूव सुतश्रेष्ठाः कामेन च समाकुलम् ॥ ९ काचिदृष्टा मया नारी दिव्यरूपा वरानना । मया संभाषिता पुत्राः किंचिनोवाच मानिनी १० विशाला नाम तस्याश्च सखी चारुविलक्षणा । सा मामाह शुभं वाक्यं सर्वसौख्यप्रदायकम् ११ जराहीनो यदा स्यास्त्वं तदा ते मुप्रियं भवेत् । एवं मम कृते वाक्यं तयोक्तं हि शिवागमम् ॥१२ मया जरापनोदार्थ त्वदग्रे समुदाहृतम् । एवं ज्ञात्वा प्रकर्तव्यं यत्सुखं हि मुपुत्रकाः॥ १३
तुरुरुवाचशरीरं प्राप्यते पुत्रैः पितुर्मातुः प्रसादतः । धर्मश्च क्रियते राजशरीरेण विपश्चिता ॥ १४ पित्रोः शुश्रूषणं कार्य पुत्रैश्चापि विशेषतः । न च यौवनदानस्य कालोऽयं मे नराधिप ॥ १५ प्रथमे वयसि भोक्तव्यं *विषयं मानवैर्नृप । इदानीं तन्न कालोऽयं वर्तते तव सांप्रतम् ॥ १६ जरां तां च प्रदत्त्वा वै पुत्रे तात महशम् । पश्चात्सुखं प्रभोक्तव्यं न तु स्यात्तव जीवितम् ॥१७ तस्माद्वाक्यं महाराज करिष्ये नैव ने ह्यहम् । एवमाभाष्य तु नृपं तुरुज्येष्ठः सुतस्तदा ॥ १८ तुरोर्वाक्यं ततः श्रुत्वा क्रुद्धो राजाऽभ्यभाषत । तुरुं शशाप धर्मात्मा रोषेणारुणलोचनः ॥ १९ अपध्वस्तस्त्वया देशो ममैवं पापचेतन । तस्मात्पापी भवस्व त्वं सर्वधर्मबहिष्कृतः ॥ २० शिवशास्त्रविहीनश्च वेदवेदाङ्गवर्जितः । सर्वाचारविहीनस्त्वं भविष्यसि न संशयः ॥ २१ ब्रह्मघ्नस्त्वं देवदुष्टः सुरापः सत्यवर्जितः । चण्डकर्मप्रकर्ता त्वं भविष्यास नराधमः॥ २२ मुरालीनक्षुधः पापी गोनश्चैव भविष्यसि । दुष्कर्मा मुक्तकक्षश्च ब्रह्मद्वेष्टाऽशिवाकृतिः॥ २३ परदाराभिगामी त्वं महादुष्टश्च लम्पटः । सर्वभक्षश्व दुर्मेधाः सदा त्वं च भविष्यसि ॥ २४ सगोत्रां रमसे नारी सर्वधर्मप्रणाशकः । पुण्यज्ञानविहीनात्मा कुष्ठवांश्च भविष्यसि ॥ २५ तव पुत्राश्च पौत्राश्च ईदृशाश्च न संशयः । भविष्यन्ति पुण्याश्च मच्छापकलुषीकृताः॥ २६ एवं तुरुं स शप्त्वा वे यदुं पुत्रमथाब्रवीत् । जरां वे धारयस्वेह भुइक्ष्व राज्यमकण्टकम् ॥ २७ [' बद्धाञ्जलिपुटो भूत्वा तदा राजानमब्रवीत् ॥
२८ यदुरुषाच[*जराभारं न शक्नोमि वोढुं तात कृपां कुरु । शीतमध्वा कदनं च वयोतीताश्च योषितः॥ मनसः प्रातिकूल्यं च जरायाः पञ्च हेतवः ] ॥
२९ जैराभावं न शक्नोमि वयसि प्रथमे नृप । कः समर्थो हि वै धर्तुं क्षम तात ममाधुना ॥. ३० अथ क्रुद्धो महाराजो यदुं चापि शशाप ह । राज्यहीनो हि ते वंशः कदाचिद्वै भविष्यति ॥३१ काले त्वं तेजसा हीनः क्षत्रधर्मविवर्जितः । भविष्यसि न संदेहः संक्रोशनपरः स्वयम् ॥ ३२ ____ * एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. स. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः क. ख. घ. इ. च. छ. झ. र. ठ. इ. द. पुस्तकस्थः । * एतमिहान्तर्गतः पाठः क. ख. ड. च. छ. स. ढ. पुस्तकस्थः ।
१ क.ख. च. 'तः । चिरायत्ववि। ङः ढ. 'तः । शिखया त्ववि। २ छ.स. शिरसा त्वं वि। क.ख. घ... च. छ. स. ट. ठ. ह. द. 'दशास्त्रविव' । ४ ट. 'सि । दुःखकर्माऽप्यदत्तश्च ब्रह्मद्वेष्टा शिवाहतिः । इ. स. . सि । दुखमाँ मुक्तकच्छा ब्रह्मद्वेष्टा निराकृतिः । ५ ङ, च. छ.स. ढ. जरादुःखं । क. ख. घ. ङ. च. छ. स. ए.3.3. ति। बलते. जसमाहि। ७क. ख. र. च. छ. स. द. 'देहो मच्छासनपराङ्मुखः।य।
Page #292
--------------------------------------------------------------------------
________________
२८६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेयदुरुवाचनिर्दोषोऽहं महाराज कस्माच्छप्तस्त्वयाऽधुना । दयां कुरु सुदीनस्य प्रसादसुमुखो भव ॥ ३३
ययातिरुवाचमहादेवः कुले ते वै स्वांशेनापि हि पुत्रक । करिष्यति विसृष्टिं च तदा पूतं कुलं तव ॥ ३४
यदुरुवाचशतः पुत्रो महाराज विनिर्दोषः पितस्त्वया । अनुग्रहो दीयतां मे यदि वै वर्तते दया ॥ ३५
ययातिरुवाचयो भवेच्छेष्ठपुत्रश्च पितुर्दुःखाभिहारकः । राज्यभोगं स वै भुङ्क्ते भारवोढा भवेत्स हि ॥ ३६ त्वया धर्म न प्रवृत्तं अभाष्योऽसि न संशयः। भवता नाशिताऽऽज्ञा मे मैया दण्डेन पातितः॥३७ तस्मादनुग्रहो नास्ति यथेष्टं तत्तथा कुरु ॥
यदुरुखाचयस्मान्मे नाशितं राज्यं वंशश्चैव त्वया नृप । तस्मादृष्टो भविष्यामि तव वंशपतिर्नुप ॥ ३८ तव वंशे भवितारो नानाभेदा नृपास्तु ये । तेषां ग्रामांश्च देशांश्च श्रियं रत्नानि यानि वै ।। ३९ भोक्ष्यन्ति च न संदेहो अतिचण्डा महाबलाः । मम वंशसमुद्भतास्तुरुष्का म्लेच्छरूपिणः॥ १० त्वया ये नाशिताः सर्वे शप्ताः शापेश्च दारुणः । एवमाभाष्य राजानं यदुः क्रुद्धा नृपं तदा॥४१ अथ क्रुद्धो महाराजः पुनश्चेनं शशापह । मत्प्रजानाशकाः सर्वे वंशजास्ते च वे शृणु ॥ ४२ यावचन्द्रश्च सूर्यश्च पृथ्वी नक्षत्रतारकाः । तावन्सर्वे प्रपच्यन्ते नरके चैव रोरवे ॥ ४३ कुंरुं दृष्ट्वा ततो बालं क्रीडमानं सुखंकरम् । शर्मिष्ठातनयं राजा नायाचत स्तनंधयम् ॥ ४४ शिशुं ज्ञात्वा परित्यक्तः कुरुस्तेनैव वै तदा । शमिष्टायाः परं पुत्रं पुरुंच जगतीश्वरः॥ ४५ तमाह च समाहूय जरा मे गृह्यतां सुत । भुक्ष्य राज्यं मयादत्तं सुपुण्यं हतकण्टकम् ॥ ४६
पुरुरुवाचराज्यं दैवेन भोक्तव्यं पित्रा भुक्तं तथा तवं । तवाऽऽदेशं करिष्यामि जरा मे दीयतां नृप ॥४७ तारुण्येन ममाद्यैव भूत्वा सुन्दररूपधृक । भुक्ष्व भोगान्महाभाग विषयासक्तचंतसा ॥ ४८ यावदिच्छा महाभाग विहरस्व तया सह । पुरुमाह ततो राजा सुप्रसन्नो महामनाः ॥ ४९ मम यात्रा त्वया वत्स न कृता विफला यतः । तस्माद्वरं प्रदास्यामि तुभ्यं वत्स महाभुजा॥५० यस्माजरा गृहीता मे दत्तं तारुण्यकं स्वकम् । तेन राज्यं प्रभुक्ष्व त्वं मया दत्तं महामते ॥५१ ततः कृते बिनिमये वयसोस्तातपुत्रयोः । तत्क्षणादृद्धभावश्च पुरारङ्गे प्रदृश्यते ॥ ५२ नूतनत्वं गतो राजा यथा षोडशवार्षिकः । रूपेण महता युक्तो द्वितीय इव मन्मथः॥ ५३
१ क. स्व. घ. ड. च. छ. स. ट. ठ. ढ. 'या सर्व प्रकर्तव्यं भव्याभव्यं न । २ क. व. घ. ड. च. छ. झ. ट. ठ. द. महादण्डेन घातितः । ३ ड. छ. ढ. वन्म्लेच्छा: प्रपच्यन्ते कुम्भीपाके च री । ४ ट. पुरु। ५ क. ख. घ. ड. च. छ. श. ठ. द. सुलक्षणम् । ६ घ. ठ. व । सदाऽऽदे। ७ घ. ट. ठ. 'गान्सकामांश्च वि। ८क. ख. घ. हु. च. छ. झ. ट. ठ. ढ. वजीवाम्यहं तात तावन्दरां धराम्यहम् । एवं श्रुत्वा ततो राजा प्रत्युवाच महायशाः । यस्माद्वत्स ममाऽऽज्ञा वै न कृता विफला त्वया । तस्माद्वरं प्रदास्यामि बहुख्यिबलप्रदम् । एवमुक्तस्तु तेनापि पुरू राज्ञा महीपते । तारुण्यं दत्तवास्तस्मै अप्राहास्य जरां नृप । तत्क्ष।
Page #293
--------------------------------------------------------------------------
________________
५४
७९ उनाशीतितमोऽध्यायः] पद्मपुराणम् ।
२८७ धन राज्यं च च्छत्रं चै अश्व चान्यद्धनं गजम् । कोशं वैर्श बलं सर्व चामैरव्यजने तथा ॥ . ददौ तस्मै महाराजः पुरोचैव महात्मनः ॥ कामासक्तश्च धर्मात्मा ता नारीमनुचिन्तयने । स्ववृत्तं नैव सस्मार कामात्मा नहुषात्मजः ॥ अश्रुविन्दुमती यत्र जगाम लघुविक्रमः॥ तां च दृष्ट्वा विशालाक्षी चारुपीनपयोधराम् । विशालां च महाराजः कन्दर्पोद्वर्णमानसः ॥५६
राजोवाच-- उवाच चाऽऽगतो भद्रे विशाले चारुलोचने । जरां त्यक्त्वा महाभागे दोषरूपां महाबलाम् ॥ तारुण्येन समायुक्तः किमन्यत्करवाण्यहम् ॥
५७ [*तरुणो भूत्वा समायाता भजन्वेपा ममाधुना । यं यं हि वाञ्छते चैषा तं तं दमि न संशयः॥
विशालोवाचयदा भवान्समायातो जरां दुष्टां विहाय च । दोषेणकेन लिप्तोऽसि भवन्तं नैव मन्यते ॥ ५९
राजोवाच--- मम दोष वदस्व त्वं यदि जानासि निश्चितम् । तं तु दोषं त्यजे तन्वि गुणरूपं न संशयः॥६० इति श्रीमहापुराणे पाझे भूमिखण्डे वेनोपाख्याने पितृतीर्थेऽटमप्ततितमोऽध्यायः ॥ ७८ ॥
___ आदितः श्लोकानां समष्ट्यङ्काः-७२८५
अथोनाशीतितमोऽध्यायः ।
विशालोवाचशर्मिष्ठा देवयानी च यस्य भार्ये सुलोचने । ['मौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूतले ] ॥ तत्कथं त्वं महाभाग अस्याः कार्यवशो भवः ॥ [*सापत्नकेन भावेन भवान्भर्ता प्रतिष्ठितः । ससर्पोऽसि महाराज भूतले चन्दनं यथा ॥ २ सपैश्च वेष्टितं राजन्महाचन्दनमेव हि । तथा त्वं वेष्टितः सः सपन्नीनामसंज्ञकैः ॥ वरमग्निप्रवेशं च शिखरात्पतनं वरम् । रूपतेजःसमायुक्तं सपन्नीमहिनं प्रियम् ] ॥ ४ न वरं तादृशं कान्तं सपन्नीविपसंयुतम् । इयं न मन्यते कान्तं भवन्तं गुणसागरम् ॥ ५
ययातिरुवाचदेवयान्या न मे कार्य तथा शर्मिष्ठया शुभे । इत्यर्थेऽहं स्पृशे कार्य सत्यधर्मसमन्वितम् ॥ ६
__ अश्रुबिन्दुमत्युवाचअहं राज्यस्य भोक्त्री च तव कायस्य भूपते । यद्यद्वदाम्यहं कार्य तत्तत्कार्य त्वया ध्रुवम् ॥ ७
* एतच्चिदान्तर्गतः पाठः क ख घ. इ.च. छ. झ. ट. ट. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाट: क. ख. घ. ड. च. छ. झ.ट. ट.. पुस्तकस्थः । एतचिहान्तगतः पाठः क. ख. घ.इ. च. छ. झ.ट.ट. द. पुस्तकस्थः ।
१ क. ख. घ. इ. च. छ. झ. ट. ८. च व्यजन चाऽऽसनं । २ क. ख. हु. च. स. देश । छ. दण्डं। ३ क.सा.. च. छ. झ. ट. ठ. 'मरं स्यन्दनं त । ४ क. ख. घ. च. छ. झ. ट. ठ. 'न् । तत्सरः सागरोत्प्रेक्ष्य का। ५ क. ख. र. 'रुरूपमनोहराम । ट. न्दपीकृष्टमा । ७ घ. ट. च. हृष्टो । ८ क. ख. घ. इ.च. छ. स. ट. ठ. ढ. 'म् । तस्मानम।
Page #294
--------------------------------------------------------------------------
________________
२८८ महामुनिश्रीव्यासपणीत
[ २ भूमिखण्डेइत्यर्थे प्रत्ययं देहि मम वै स्वकरं नृप । बहुधर्मसमोपेतं पुण्यलक्षणसंयुतम् ॥
ययातिरुवाचअन्या भार्या न विन्दामि त्वां विना नृपनन्दिनि । राज्यं च सकलामुर्वी मम कायं वरानने॥ मत्कोष भुझ्व चाङ्गि मया दैत्तो वरस्तव । यं यं मे भाषसे भद्रे तं तं कामं करोम्यहम् ॥१०
अश्रुबिन्दुमत्युवाचअनेनापि महाराज तव भार्या भवाम्यहम् । एवेमुक्तः स राजेन्द्रो हर्षव्याकुललोचनः॥ गान्धर्वेण विवाहेन ययातिः पृथिवीपतिः ॥ उपयेमे शुभा पुण्यो मन्मथस्याऽऽत्मजा नृपः । तया सार्ध महात्मा वै स रेमे द्विजपुंगव ॥ १२ सागरस्य च तीरेषु वनेषूपवनेषु च । पर्वतेषु च रम्येषु सरित्सु च तया सह ॥ रमते राजराजेन्द्रस्तारुण्येन महीपतिः ॥ एवं विंशत्सहस्राणि गतानि निरतस्य च । भूपस्य तस्य राजेन्द्र ययातेस्तु महात्मनः ॥ १४
विष्णुरुवाचएवं तया महाराजो ययातिर्मोहितस्तदा । कंदर्पस्य मयोगेण इन्द्रस्यार्थे महामनाः॥ १५
मुकर्मोवाचएवं पिप्पल मुग्धोऽसौ ययातिः पृथिवीपतिः । तस्या मोहेन कामेन रतेन ललितेन च ॥ न जानाति दिनं रात्रि मुग्धः कामस्य कन्यया ॥ एकदा मोहितं भूपं ययाति कामनन्दिनी । उवाच प्रणतं नम्र वशगं चारुलोचना ॥ १७
___ अश्रुबिन्दुमत्युवाचसंजातं दोहदं कान्त तन्मे कुरु मनोरथम् । अश्वमेधं मखश्रेष्ठं यजस्व पृथिवीपते ॥ १८
राजोवाचएवमस्तु महाभागे करोमि तव सुप्रियम् । समाहृय सुतं पूरुं राजभोगे विनिःस्पृहम् ॥ १९ स आहूतः समायातो भक्त्या नमितकंधरः । बद्धाञ्जलिपुटो भृत्वा प्रणाममकरोत्तदा ॥ २० तस्याश्च पादौ सुश्रोण्या ननाम भक्तिपूर्वकम् । आदेश(शो) दीयतां राजन्नाहृतोऽहं समागतः॥ किं करोमि महाप्राज्ञ दासोऽहं तव सुव्रत ॥
राजोवाचअश्वमेघस्य यज्ञस्य संभारं कुरु पुत्रक । समाहूय द्विजान्पुण्यानृविजा भूमिपस्तिथा ॥ २२ एवमुक्तो महातेजाः पुरुः परमधार्मिकः । सर्व चकार संपूर्ण यच्चोक्तं तु महात्मना ॥ २३ तया सार्धं स यज्ञाय दीक्षितः कामकन्यया । अश्वमेधे महायज्ञे दत्त्वा दानान्यनेकशः॥ २४ ब्रामणेभ्यो महाराजो भूरिदानमनन्तकम् । दीनेषु च विशेषेण ययातिहष्टमानसः॥ २५
क.ख. घ. ङ. च. छ.स. ट. ठ. द. 'तं चारुल।२ क. ख. ड.च. छ... वरवणिनि । ३ ङ. म. द. दत्तः कर । ४ क. ख. घ. अ. च. छ. स. ट. ठ. द. “वमाकर्ण्य रा । ५ घ. ट. ठ. वै रेमे स नृपनन्दनः । सा” । ६ छ. तिः । पञ्चवें । ७ घ. . छ. स. ट. ठ. ढ प्रपञ्चेन । ८ घ. ङ. छ. स. ट. ट. ढ. मते । सु। क. ख. घ. इ. च. छ. ट. 8. द. श्रेष्ठ । १. प. ट. 3. मिपानृप । ए । ११ ठ. द. भूमिदा । १२ क. ख. घ. ङ. च. छ. ट. . द. तिः पृथिवीपतिः।।
Page #295
--------------------------------------------------------------------------
________________
८० अशीतितमोऽध्यायः ] पद्मपुराणम् ।
२८९ यज्ञान्ते च महाराजस्तामुवाच वराननाम् । अन्यच्च सुप्रियं बाले किं करोमि वदस्व मे ॥ तत्सर्व देवि कर्ताऽस्मि यथासाध्यं वरानने ।।
२६ सुकर्मोवाचइत्युक्ता तेन सा राजा भूपालं प्रत्युवाच ह । [*जातं मे दोहदं राजस्तत्कुरुष्व ममानघ] ॥२७ इन्द्रलोकं ब्रह्मलोकं शिवलोकं तथैव च । विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रिय ॥ २८ [दर्शयस्व महाभाग यदहं सुप्रिया तब ] । एवमुक्तस्तया राजा तामुवाच स सुप्रियाम् ।। २९ साधु साधु महाभागे पुण्येनेवं प्रभाषसे । स्त्रीस्वभावाच्च चापल्यात्कौतुकाच वरानने ॥ ३० यच्चयोक्तं महाभागे तदसाध्यं विभाति मे । तत्साध्यं पुण्यदानेन यज्ञेन तपसाऽपि च ॥ ३१ अन्यथा न भवेन्माध्यं यत्त्वयोक्तं वरानने । [*असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम् ] ३२ मर्त्यलोकाच्छरीरेण अनेनापि च मानवः । श्रुतो दृष्टो न मेऽद्यापि गतः स्वर्ग सुपुण्यकृत ।। ३३ ततोऽसाध्यं वरारोहे यत्त्वया भापितं मम । अन्यदेव करिप्यामि प्रियं ते तद्वद प्रिये ॥ ३४
देव्युवाचअन्यैश्च मानुषे राजन्नसाध्यं स्यान्न संशयः । त्वयि माध्यं महाराज सत्यं सत्यं वदाम्यहम् ३५ तपसा यशसा वीर्यनिदानमखनृप । भवादशोऽन्यो नवास्ति लोकेऽस्मिन्नृप मानवः॥ ३६ क्षात्रं बलं सुतंजश्च त्वयि सर्व प्रतिष्ठितम् । तस्माचया प्रकर्तव्यं मप्रियं नहुपात्मज ॥ ३७ इति श्रीमहापुराणे पाझे भभिवण्डे वनोपाख्यान पितृनार्थकयनं ययानिचारत उनाशातितमोऽध्यायः ।। ७९ ॥
आदिनः श्लोकानां समष्ट्यङ्काः-७३२२
अथाशीतितमोऽध्यायः ।
पिप्पल उवाचकामकन्यां यदा राजा उपयमे द्विजोत्तम । किं चक्रानं तदा ते द्वे पूर्वभार्ये सुपुण्यके ॥ १ देवयानी महाभागा शर्मिष्ठा वापपर्वणी । तयोश्चरित्रं यत्सर्व कथयस्व ममाग्रतः ॥
सुकर्मोवाचयदाऽऽनीता कामकन्या स्वगृहं तेन भूभुजा । अन्यर्थ स्पर्धते सा तु देवयानी तेरस्विनी ॥ ३ तस्यार्थे तु सुता शप्ता क्रोधेनाऽऽकालतान्मना । शर्मिष्ठां च समाहूर्य शब्दं चके यशस्विनी ॥ ४ रूपेण तेजसा दानः सत्यपुण्यवतस्तदा । [ शर्मिष्ठा देवयानी ते स्पर्धेते तु तया सह ॥ ५ दुष्टभावं तयोश्चापि सा ज्ञात्वा कामजा तदा । राज्ञे सर्व तया विप्र कथितं तत्क्षणादिह ] ॥ ६ यदुं पुत्रं समाहूय नृपो वाक्यमथाब्रवीत् । मात्रोस्त्वमुभयोस्तात शिरश्छिन्धि सुपुत्रक । [*सुमियं कुरु मे वत्स यदि श्रेयो हि मन्यसे ।
* एतचिह्नान्तर्गतः पाठः क ख. च. छ. द.पुस्तकस्थः । । एतच्चिदान्तगतः पाठो ह. छ. ढ. पुस्तकस्थः । * एतचिहान्तर्गतः पाठो घ.ट. ठ. पुस्तकस्थः । । एतचिहान्तगतः पाट: ख. हु.च. छ. द. पुस्तकस्थः । एतांचहान्तर्गतः पाठः ख. ड. पुस्तकस्थः ।
१ ख. हु. च. छ.ट.. साध्यासाध्यं । २ क.ड. च. छ. झ. ह.मनस्विनी। ३ ख.घ..च.छ.टा . लितेक्षणा । श। ४ ख. ड. च छ. ढ. य सख्यं चक्रे मनस्वि ।
Page #296
--------------------------------------------------------------------------
________________
२९० महामुनिश्रीव्यासप्रणीतं
[२ भूमिखण्डेएवमाकर्ण्य तस्यापि पितुर्वाक्यं यदुस्तदा । प्रत्युवाच नृपश्रेष्ठं पितरं प्रति निग्रही ॥ ८ न हन्तव्ये तु मे तात मातरौ दोषवजिते । मातृघाते महान्दोषः कथितो वेदपण्डितैः॥ तस्माद्धातं महाराज एतयोर्न करोम्यहम् ॥ दोषाणां तु सहस्रेण युक्ता माता यदा भवेत् । भगिनी चापि राजेन्द्र दुहिता च तथाऽऽत्मनः॥ पुत्रैश्च भ्रातृभिश्चैव नैव वध्या भवेत्कदा । एवं ज्ञात्वा महाराज मातरौ नैव घातये ॥ ११ यदोर्वाक्यं तथा श्रुत्वा स च क्रुद्धोऽभ्यभाषत। [*शशाप तं सुतं पश्चाद्ययातिः पृथिवीपतिः]॥१२ यत्त्वयाऽवमतोऽहं वै तस्मात्पापमवाप्स्यसि । मातुरंशं भजस्व त्वं मच्छापकलुषीकृतः ॥ १३ एवं शप्त्वा यदुं पुत्रं ययातिः पृथिवीपतिः । पुत्रं शप्त्वा महाराजस्तया सार्ध महायशाः॥ रमते सुखभोगेन विष्णुध्यानपरायणः॥ अश्रुबिन्दुमती सा च तेन सार्धं सुलोचना । बुभुजे चारुसर्वाङ्गी दिव्यान्भोगान्मनोनुगान् ॥ एवं कालो गतस्तस्य ययातेः सुमहात्मनः ॥ अक्षया निर्जराः सर्वा अमराश्च प्रजास्तदा। [ 'सर्वे लोका महाभाग विष्णुध्यानपरायणाः] १६ तपसा सत्यभावेन विष्णोर्ध्यानेन पिप्पल । सर्वे लांका महाभाग सुग्विनः साधुसेवकाः ॥ १७ इति श्रीमहापुराणे पाये भूमिग्वण्डे वेनोपाख्यान पितृतीर्थ ययातिचरितेऽशीतितमोऽध्यायः ॥ ८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७३३९
अर्थवाशीतितमोऽध्यायः ।।
r
सुकर्मोवाचअथेन्द्रोऽसौ महाप्राज्ञः सदा भीतो महात्मनः । ययातर्विक्रमं दृष्ट्वा दानपुण्यादिकं बहु ।। मेनका प्रेषयामास स्वर्वेश्यां दौत्यकर्मणि । गच्छ भंद्र महाभागे ममाऽऽदेशं वदस्व हि ॥ २ कामकन्यामितो गत्वा देवराजवची वद । येन केनाप्युपायेन राजानं त्वमिहाऽऽनय ॥ एवं श्रुत्वा गता सा तु मेनका तत्र प्रेपिता । समाचष्टे तु तत्सर्व देवराजविभाषितम् ।। एवमुक्ता गता सा तु मेनका तत्प्रणादिता ।। गतायां मेनकायां तु रतिपुत्री मनस्विनी । राजानं धर्मसंकेतं प्रत्युवाच यशस्विनी ॥ ४ त्वयाऽहंमानिना राजन्सत्यवाक्येन वै पुरा । स्वकर मत्कर दत्त्वा सत्यधर्मसमन्वितम् ॥ ५ यद्यद्वदाम्यहं राजंस्तत्तत्कार्य हि वै त्वया । तदेव तु त्वया वीर न कृतं भाषितं मम ॥ तस्मात्त्वां तु परित्यक्ष्ये यास्यामि पितृमन्दिरम् ॥
राजोवाचयथोक्तं हि मया भद्रे तत्ते कर्ता न संशयः । असाध्य तु परित्यज्य साध्यमेव वदस्व मे ॥ ७
अश्रुबिन्दुमत्युवाचएतदर्थ मया कान्तो भवान्वै समुपाश्रितः । सर्वलक्षणसंपन्नः सर्वधर्मसमन्वितः ॥ ८ सर्व साध्यं तव ज्ञात्वा भोक्तारं सर्वसंपदाम् । कर्तारं सर्वधर्माणां स्रष्टारं पुण्यकर्मणाम् ॥ ९ त्रैलोक्यसाधकं ज्ञात्वा त्रैलोक्येऽप्रतिमं च वै । विष्णुभक्तमहं जाने वैष्णवानां महावरम् ॥ १०
ur
* एनचिहान्तर्गतः पाठः ख. र. च. छ. स. पुस्तकस्थः । । एतचिहान्तगतः पाट: ख. घ. इ.च. छ. ट.ट. ढ. पुस्तकस्थः ।
Page #297
--------------------------------------------------------------------------
________________
८१ एकाशीतितमोऽध्यायः ]
पद्मपुराणम् ।
२९१
इत्याशया मया भर्ता स त्वमङ्गीकृतः पुरा । यस्य विष्णुप्रसादोऽस्ति स सर्वत्र परिव्रजेत् ।। ११ दुर्लभं नास्ति राजेन्द्र त्रैलोक्ये सचराचरे । सर्वेषु चैव लोकेषु विद्यते न च सुव्रतं ॥ aafaणोः प्रसादेन स्वर्ग च नृपसत्तम ॥
1
मर्त्यलोकं समासाद्य त्वयैव वसुधाधिप । जरापीडाविहीनाश्च मृत्युहीना नराः कृताः ॥ गृहद्वारेषु सर्वेषां मर्त्यानां तु नरर्षभ । अनेके कल्पवृक्षाश्च त्वयैव परिकल्पिताः ।। येषां गृहेषु मर्त्यानां मुनयः कामधेनवः । त्वयैव प्रेषिता राजन्स्थिरीभूताः कृताः सदा ॥ सुखिनः सर्वकामैश्व मानवाश्च त्वया कृताः ॥
गृहमध्ये साहस्रं कुलीनानां प्रदृश्यते । एवं वंशविवृद्धिश्व मानवानां त्वया कृता ।। यमस्यापि विरोधेन इन्द्रस्यापि नरोत्तम । व्याधिपापविहीनस्तु मर्त्यलोकस्त्वया कृतः ॥ स्वतेजसाऽहंकारेण स्त्रर्गरूपं तु भूतलम् । दर्शितं हि महाराज त्वत्समो नास्ति भूपतिः ॥ पुणेsपि प्रभूते हि नान्यश्वास्ति भवादृशः । भवन्तमित्यहं जाने सर्वधर्मदायकम् ॥ तस्मान्मया कृतो भर्ता वदस्वैव ममाग्रतः । [नर्ममुक्तं नृपेन्द्र त्वं वद सत्यं ममाग्रतः ] ।। यदि ते सत्यमस्तीति धर्म चापि नराधिप । देवलोकेषु मे नास्ति गमने गतिरुत्तमा ।। सत्यं त्यक्त्वा यदा च त्वं नैव स्वर्ग गमिष्यसि । तदा कुटं तव वचो भविष्यति न संशयः पूर्व कृतं तु यच्छ्रेयो भस्मभूतं भविष्यति ।। राजोवाच
२२
१२
१३
१४
१५
१६
१७
१८
१९
२०
२१
1
सत्यमुक्तं त्वया भद्रे साध्यासाध्यं न चास्ति मे । सर्व साध्यं स्वर्गलोके प्रसादाजगतां पतेः ॥ २३ न याम्यहं यथा स्वर्ग तच्च मे कारणं शृणु । भागं तु ते न दास्यन्ति मम मृत्युश्च देवताः ॥ २४ ततो वै मानवे लोके प्रजाः सर्वा ममानघे । मृत्युयुक्ता भविष्यन्ति मया हीना न संशयः ॥ अतः स्वर्ग न गच्छामि सत्यमुक्तं वरानने ।।
२५
देव्युवाच -
लोकान्दृष्ट्वा गमिष्यामि मर्त्यलोकं च वै पुनः । रूपं पश्य ममाद्य त्वं जाता श्रद्धा ममातुला २६ राजोवाच
सर्वमेवं करिष्यामि यत्त्वयोक्तं न संशयः । एवमुक्त्वा प्रियां राजा चिन्तयामास वै तदा ॥ २७ अन्तर्जलचरो मत्स्यः सोऽपि जालेन वध्यते । मरुत्ममानवेगोऽपि मृगः प्राप्नोति बन्धनम् २८ योजनानां सहस्रस्थमामिपं भक्षते खगः । से पाशं पादसंलग्नं न पश्येदेवमोहितः ॥ स वैषम्यकरः कालः कालः संमानहानिंदैः ॥
२९
1
एवं भयंकरः कालो यत्र कुत्रापि निष्ठुरः । नरं करोति दातारं याचितारं च वे पुनः ॥ ३० भूतानि स्थावरादीनि दिवि वा यदि वा भुवि । सर्वत्र कल्पते कालः कालो ह्येक इदं जगत् ३१ अनादिनिधनो योऽसौ जगतः कारणं परम् । लोकेषु कालः पचति वृक्षे फलमिवाऽऽहितम् ३२
* एतच्चिदान्तर्गतः पाठः क ख च छ पुस्तकस्थः ।
१ ङ. छ. ट. 'वेष्वेव सुलोकेषु विद्यते तव सु । २. ढ त । विष्णोश्चैव प्रसादेन गगने गतिरुत्तमा । म । 3 छ. भूतले । ४ ङ. ढ. 'रा नैव प्रसृतो हि । ५ क. ख. ड. च. छ. ढ. प्रभाकरम् । ६ क. स्व. च. 'र्मयुक्तं । ७ड. ध्यं तु मे कार्य त्वत्प्रसादाज्जगत्रये न । ८ क. ख. ङ. छ. ट. पश्यते । ९ ड स पश्येत्कण्ठसं । १० ड. छ. द. 'तः । कालः समविषमकः । ११ क.ख. घ. च. ड. 'दः । पराभवकरः । १२ ड. प ।
1
Page #298
--------------------------------------------------------------------------
________________
२९२ महामुनिश्रीव्यासमणीत
[ २ भूमिखण्डेन मना न तपो दानं न मित्राणि न बान्धवाः। शन्कुवन्ति परित्रातुं नरं कालेन पीडितम् ॥३३ प्रयः कालकृताः पाशाः शक्यन्ते न निवर्तितम् । विवाहो जन्म मरणं यथा यत्र च येन च ३४ यथा जलधरा व्योन्नि भ्राम्यन्ते मातरिश्वना । तथेदं कर्मयुक्तेन कालेन भ्रामितं जगत् ॥ ३५
सुकर्मोवाचकालोऽयं कर्मयुक्तश्च यो नरैः समुपासितः । कालस्तु प्रेरयेत्कर्म तं तं कालः करोति सः ॥ ३६ उपद्रवाघातदोपाः सर्पाश्च व्याधयस्ततः । सर्वे कर्मप्रयुक्तास्ते प्रचरन्ति च मानुपम् ॥ ३७ मुखस्य हेतवो ये च छुपायाः पुण्यमिश्रिताः । ते सर्वे कर्मसंसक्ता न पश्येयुः शुभाशुभम् ॥३८ कर्मदा यदि वा लोके कर्मसंबन्धिवान्धराः । कर्माणि चोदयन्तीह पुरुपं मुखदुःखयोः ॥ ३९ सुवर्ण रजतं चापि यथा रूपं निवध्यते । तथा निवध्यते यस्तु स्वकर्मणि वशानुगः॥ ४० पश्चैतानि विसृज्यन्ते गर्भस्थस्यैव देहिनः । आयुः कर्म च वित्तं च विद्या निधनमेव च ॥ ४१ यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ ४२ देवत्वमथ मानुष्यं पशुत्वं पक्षिता तथा । तिर्यक्त्वं स्थावरत्वं च प्राप्यते वै स्वकर्मभिः॥ ४३ यथा कृतं तथा भुङ्क्ते नित्यं विहितमात्मना । आत्मना विहितं दुःखमात्मना विहितं सुखम् ।।४४ गर्भसंज्ञामुपादाय भुङ्क्ते वे पूर्वदेहिकम् । संत्यजन्ति स्वकं कर्म न कचिन्पुरुषा भुवि ॥ १५ वित्तेन प्रज्ञया वाऽपि समर्थाः कर्तुमन्यथा । स्वकृतान्युपभुञ्जन्ति दुःखानि च सुखानि च ॥ हेतुं प्राप्य नरो नित्यं कर्मपाशैश्च वध्यंत ॥ यथा धेनुसहस्रषु वत्सो विन्दति मातरम् । तथा शुभाशुभं कर्म कर्तारमनुगच्छनि ॥ ४७ उपभोगाइते तस्य नाश एव न विद्यते । प्राक्तनं बन्धनं कर्म कोऽन्यथा कर्तुमर्हति ॥ सुशीघ्रमपि धावन्तं विधानमनुधावति । [* शेते सह शयानन पुरा कर्म यथाकृतम् ।। उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति । करोति कुर्वतः कर्म च्छायेवानुविधीयते ] ॥ ५० यथा छायातपो नित्यं संबद्धौ च परस्परम् । तद्वत्कर्म च कर्ता च सुसंबन्धौ परस्परम् ॥ ५१ ग्रहा रोगा विषाः सर्पा डाकिन्यो राक्षसास्तथा । पीडयन्ति नरं पश्चात्पीडितं पूर्वकर्मणा ॥ ५२ येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव च । स तत्र वदध्वा बन्धन बलादेवन नीयते ॥ ५३ देवं प्राहुर्हि भूतानां सुखदुःखोपपादने । अन्यत्र संचितं कर्म जाग्रतः स्वपतोऽपि वा ॥ ५४ अन्य मुच्यते देवाद्वन्धमेवं जिघांसति । शस्त्राग्निविपदुर्गेभ्यो रक्षितव्यं च रक्षति ॥ ५५ अरक्षितं भवेत्सत्यं देवं तमेव रक्षति । देवेन नाशितं यत्तु तस्य रक्षा न दृश्यते ॥ ५६ यथा पृथिव्यां बीजानि उप्तानि च धनानि च । तथैवाऽऽत्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च ।। तैलक्षये यथा दीपो निर्वाणमधिगच्छति । [*कर्मक्षयात्तथा जन्तुः शरीरानाशमृच्छति ॥ ५८ कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिदाहृतः । विविधाः प्राणिनामस्य स्मृता रोगाश्च हेतवः॥ ५९ तथा मम विपाकोऽयं पूर्व कृतस्य नान्यथा । संप्राप्तो नात्र संदेहः स्त्रीरूपी देवसंज्ञकः ॥ ६० मम गेहे समायाता नाटका नटनर्तकाः । तेषां सङ्गप्रसङ्गेन जरा कायं समाश्रिता ॥ ६१ सर्व कर्मकृतं मन्ये यन्मे संभावितं ध्रुवम् । तस्मात्कर्म प्रधानं च उपायाश्च निरर्थकाः॥ ६२ * एतञ्चिह्नान्तर्गतः पाठः क. ख. घ. दु. च. छ. झ. ड. ट. पुस्तकस्थः । एतञ्चिद्वान्तर्गतः पाठी ड. छ. झ. पुस्तकस्थः।
१क ख. ड. च. द. ते जन्तुः स्व । २ क. ख. ड. च. छ. झ. ह. द. बलेन । ३ क.ख. घ. ङ. च. छ. स. ट... न्यथा चिन्त्यते । ४ छ. झ. था पपद्यत देवमेवं जि।
४८
Page #299
--------------------------------------------------------------------------
________________
८२ यशीतितमोऽध्यायः ] पद्मपुराणम् । पर्व वै देवराजेन मदर्थे दूत उत्तमः । मातालिः प्रेपितः पुण्यो न कृतं तस्य तद्वचः॥ ६३ तस्य कर्मविपाकोऽयं दृश्यते सांप्रतं मम । इति चिन्तापरो भूत्वा दुःखेन महताऽन्वितः ॥ ६४ यदाऽस्या हि वचः प्रीत्या न करोमि च सर्वथा । सत्य[*धर्मावुभावेतौ यास्यतस्तौ न संशयः६५ सदृशं च समायातं यदृष्टं मम कर्मणा । भविष्यति न मंदेहो] दैवो हि दुरतिक्रमः ॥ ६६ एवं चिन्तापरो भूत्वा ययातिः पृथिवीपतिः। कृष्णं क्लेशापहं देवं जगाम शरणं हरिम् ॥ ६७ ध्यात्वा नत्वा ततः स्तुत्वा मनमा मधुसूदनम् । त्वामहं शरणं प्राप्तस्त्राहि मां कमलाप्रिय ॥ ६८ इति श्रीमहापुगणे पाद्म भूमिखण्डे वेनोपाख्याने पितृतीर्थे ययातिचरित एकाशीतितमोऽध्यायः ॥ ८१ ॥
आदितः श्लोकानां समथ्यङ्काः-७४०९
अथ दाशीतितमोऽध्यायः ।
सुकर्मोवाचएवं चिन्तयते यावद्राजा परमधार्मिकः । तावत्पोवाच सा देवी रतिपुत्री वरानना ॥ १ किं त्वं चिन्तयसे गम्त्वमद्यैव महामने । प्रायेणापि स्त्रियः मर्वाश्वपलाः स्युन संशयः॥ २ नाहं चापल्यभावेन त्वामेवं विनियोजये । नाहं हि कारयाम्यद्य भवत्पार्थ नृपोत्तम ॥ ३ अन्याः स्त्रियो यथा लोके चापल्याचोदयन्ति च । अकार्य गजगजेन्द्र मोहाल्लोभाच्च लम्पटाः॥ लोकानां दर्शनायेव जाता श्रद्धा ममोरसि । देवानां दर्शनं पुण्यं दुर्लभं हि समानुपैः ॥ ५ तेषां च दर्शनं राजेन्कारयामि वदस्य मे । दोपपापकरं यत्तु मन्मङ्गादिह यद्भवेत् ॥ ६ कथं चिन्तयसे दुःग्वं यथाऽन्यः प्राकृतो जनः । महाभयाद्यथा भीना माहर्गर्भे गतो यथा ।। ७ त्यज चिन्तां महाराज गन्तव्यं हि त्वया दिवि । यनोदेशन दुःखं तु नन्न कार्य मया कदा ॥८ एवमुक्तस्तया राजा तामुवाच वगङ्गनाम् । चिन्तितं यन्मया देवि तन्मे त्वं शृणु सांप्रतम् ॥ ९ मानभङ्गा मया दृष्टो मयेव चाऽऽत्मनः प्रिय । मयि स्वर्ग गते कान्त प्रजा दीना भविष्यति ॥१० त्रासयिप्यति दुष्टात्मा यमस्तु व्याधिभिः प्रजाम् । न्वया सार्धं प्रयास्यामि स्वर्लोकं च वरानने।। एवमाभाप्य तां राजा समाहृय सुतोत्तमम् । पुरुं तं सर्वधर्मज्ञं जरायुक्तं महामतिम् ॥ १२ [ एह्येहि सर्वधर्मज्ञ धर्म जानासि निश्चितम् ] । ममाऽऽज्ञया हि धर्मान्मन्धर्मः संपालितस्त्वया॥ जरा मे दीयतां तान तारुण्यं गृह्य चाऽऽत्मनः ॥ राज्यं कुरु ममेदं त्वं सकोशवलवाहनम् । आममुद्रं प्रभुक्ष्व त्वं वसुपूर्णा वसुंधराम् ॥ १५ मया दत्तां महाभाग सग्रामवनपत्तनाम् । प्रजानां पालनं पुण्यं कर्तव्यं मर्वदा त्वया ॥ १६ दुष्कृतां शासनं नित्यं साधनां प्रतिपालनम् । कर्तव्यं च त्वया तान धर्मशास्त्रप्रमाणतः॥ १७ ब्रह्मण्यन प्रभावेन विधिदृष्टेन कर्मणा । भक्तानां पालनं कार्य यस्मात्पूज्या जगत्रये ॥ १८ पञ्चमे सप्तमे घने कोशं पश्य विपश्चित । कार्यपां नित्यदा पूजा प्रसाद्य धनभाजनैः॥ १९ [*चारचक्षुर्भवस्व त्वं नित्यं दानरतो भव ।मा भव वं रतः शत्री सदा गोप्यस्तु पण्डितैः२०
१४
एतचिहान्तर्गतः पाठः क.ख. इ.च. छ. झ. ड.. पुस्तकस्थः ।। एतचिहान्तगतः पाठः क.ख.प. ड.च. छ..ट.ठ. इ. द.पुस्तकस्थः । एतचिहान्तर्गत: पाट: छ. झ. पुस्तकस्थः ।
१ छ. जन्वर । २ इ. छ. झ. ड. द गर्ने ग। ३ ड. द. येन ते भवते दुःखं त । ४ क. ख. ङ. च. छ. ड. ढ. रत्नपूर्णा । ५ छ. स. ट. 'त । बलं च नित्यं संपज्यं प्रसादध । ६ ड. द. व । भवस्व नियता मन्त्रः स।
Page #300
--------------------------------------------------------------------------
________________
२९४
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
२२
नियतात्मा भवस्व त्वं मा गच्छ मृगयां सुत । विश्वासस्तु त्वया त्याज्यः स्त्रीषु कोशे बले रिपौ पोत्राणां चैव सर्वेषां बैलानां संग्रहं कुरु । यज्ञैर्यज हृषीकेशं पुण्यात्मा भव सर्वदा ॥ प्रजानां वाञ्छितं सर्वमर्पयस्व दिने दिने । प्रजासौख्यं [*मकर्तव्यं प्रजां पोषय पुत्रक ।। २३ स्वीयवंशः ] प्रकर्तव्यः परदारेषु मा कृथाः । मतिं दुष्टां परस्त्रेषु रिपूणां बलमेव च ॥ [*चिन्तयस्व सदा वत्स मद्वाक्ये निरतो भव ।
२४
२७
वेदानां हि सदा चिन्ता शास्त्राणां हि च सर्वदा । कुरुष्वैवं सदा वत्स शस्त्राभ्यासरतो भव २५ संतुष्टः सर्वदा वत्स स्वशय्यानिरतो भव । गजाभ्यासस्तु कर्तव्यः स्यन्दनस्य च सर्वदा ] ||२६ एवमादिश्य तं पुत्रमाशीर्भिरभिनन्द्य च । स्वहस्तेन परिस्थाप्य स्वासने नृपसत्तमः ॥ स्वां जरां तु समाश्रित्य दत्त्वा तारुण्यमस्य च । गन्तुकामस्तदा स्वर्ग ययातिः पृथिवीपतिः ।। २८ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने पिटतीर्थे ययातिचरिते अशीतितमोऽध्यायः ॥ ८२ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ७०७७
अथ त्र्यशीतितमोऽध्यायः ।
सुकर्मोवाच
समाहूय प्रजाः सर्वा द्वीपानां वसुधाधिपः । हर्षेण महताऽऽविष्ट इदं वचनमब्रवीत् ॥ इन्द्रलोकं ब्रह्मलोकं शिवलोकं ततः परम् । वैष्णवं लोकपापनं प्राणिनां गतिदायकम् ॥ व्रजाम्यहं न संदेहो नया सह सत्तमाः ॥
२
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राचैव प्रजा मम । सकुटुम्बैः सुखेनापि स्थातव्यमाज्ञयैव हि ॥ ३ पुरुरेष महाबाहुर्भवतां प्रतिपालकः । [*स्थापितोऽस्ति मया लोका राजा धीरः सदण्डकः ] ॥४ एवमुक्तास्तु ताः सर्वाः प्रजा राजानमब्रुवन् । श्रूयते सर्ववेदेषु पुराणेषु नृपोत्तम ।। धर्ममेव परिख्यातं न दृष्टं केन वै पुरा । [ दृष्टोऽस्माभिरसौ धर्मो दशाङ्गः सत्यवल्लभः ] ॥ सोमवंशसमुत्पन्नो नहुषस्य महागृहे । हस्तपादमुखैर्युक्तः सर्वाचारप्रचारकः ।। ज्ञानविज्ञानसंपन्नः पुण्यानां च महानिधिः । गुणानां हि महाराज आधारः सत्यपण्डितः ।। ८ कुर्वन्ति च महाधर्म सत्यवन्तो महौजर्सः । नाधिकं दृष्टमस्माभिर्भवंतः कामरूपिणः ॥ भवन्तं धर्मकर्तारमीदृशं सत्यवादिनम् । कर्मणा त्रिविधेनापि वयं त्यक्तुं न शक्नुमः ॥ यत्र त्वं तत्र च वर्यं सुखं वा दुःखमेव वा । नरकेऽपि भवान्यत्र वयं तत्र न संशयः ॥ किं दारैर्घनभोगैश्च किं चैव जीवितेन च । त्वां विनाऽपि महाराज तेन नास्त्यत्र कारणम् ॥ त्वयैव सह राजेन्द्र वयं यास्याम नान्यथा ॥
1
१० ११
१२
६
6
* एतचिहान्तर्गतः पाठो डपुस्तकस्थः । * एतच्चिहान्तर्गतः पाठो डपुस्तकस्थः । * एतच्चिद्वान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ठ. ड. पुस्तकस्थः । * एतच्चिहान्तर्गतः पाठः क. ख. ङ. छ. झ. ट. ठ. ८. पुस्तकस्थः ।
१ घ. ठ. ढ. पत्राणां २ क. ख. ङ. च. ङ. झ ट ड ढ कलानां । घ. ज. झ. फलानां । ३ घ ङ. छ. ट. ठ. ड. द. नां कण्टकान्सर्वान्मदय ं । ४ क. ख. घ ड च छ. झ ट ठ ड ढ प्य करे दत्तं च स्वायुधम् । स्वां । ५ घ. ट. ठ. धर्मः कृशा । ६८. सः । तद्धर्मे दृ । ७क ख. घ. ङ. च. छ. झ ट ठ ड द विन्तं कामरूपिणम् । भ' । ८ क. ख. घ. ङ. च. छ. झ. ट. ट. ड. ड. यं नो सुखं पुण्यमेव च । न' ।
Page #301
--------------------------------------------------------------------------
________________
८३ व्यशीतितमोऽध्यायः ] पद्मपुराणम् ।
२९५ एवं श्रुत्वा वचस्तासां प्रजानां पृथिवीपतिः । हर्षेण महताऽऽविष्टः प्रजा वाक्यमुवाच ह ॥ १३ आगच्छन्तु मया साधं सर्वे लोकाः सुपुण्यकाः । नृपो रथं समारुह्य तया वै कामकन्यया ॥१४ रथेन हंसवर्णेन चन्द्रबिम्बानुकारिणा । चामरैय॑जनैश्चापि वीज्यमानो गैतव्ययः ॥ १५ केतुना तेन पुण्येन शुभ्रेणापि महायशाः । शोभमानो यथा देवो देवराजः पुरंदरः॥ १६ ऋषिभिः स्तूयमानश्च [*वन्दिभिश्चारणैस्तथा । प्रजाभिः स्तूयमानश्च ] ययातिनहुषात्मजः १७ प्रजाः सर्वा मुदा युक्ताः समायाता नरेश्वरम् । गजैर रयैश्वान्यैः प्रस्थिताश्च दिवं प्रति ॥ १८ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये पृथग्जनाः । सर्वे ते वैष्णवा लोका विष्णुध्यानपरायणा: तेषां तु केतवः शुक्ला हेमदण्डैरलंकृताः। [ शङ्खचक्राङ्किताः सर्वे सदण्डाः सपताकिनः॥ २० प्रजान्देषु भासन्ति पताका मारुतेरिताः । दिव्यमालाधराः सर्वे शोभितास्तुलसीदलैः ॥ २१ दिव्यचन्दनदिग्धाङ्गा दिव्यगन्धानुलेपनाः । दिव्यवस्वकृताशोभाः सर्वाभरणभूषिताः॥ २२ सर्वे लोकाः मुरूपास्ते राजानमनुजग्मिरे प्रजानां च सहस्राणि लक्षकोटिशतानि च ॥ २३ अर्वखर्वसहस्राणि ते जनाः परिजग्मिरे । तेन राज्ञा समं सर्वे वैष्णवाः पुण्यकारिणः ॥ विष्णुध्यानपराः सर्वे जपदानपरायणाः ॥
सुकर्मोवाचएवं ते प्रस्थिताः सर्वे हर्षेण महनाऽन्विताः । पुरुं पुत्रं महाराजः स्वराज्ये प्रतिषिच्य तम् ॥२५ इन्द्रलोकं जगामाथ ययातिः पृथिवीपतिः । तेजसा तस्य पुण्येन धर्मेण तपसा तदा ॥ ते जनाः प्रस्थिताः सर्वे वैष्णवं लोकमुत्तमम् ॥ ततो देवाः सगन्धर्वाः किन्नराचारणास्तथा । सहिता देवराजेन आगताः संमुखं तदा ॥ तैः सहापि च सर्वैश्च पूजयन्तो नृपोत्तमम् ॥
२७ इन्द्र उवाचस्वागतं ते महाभाग मम गेहं समाविश । अत्र भोगान्प्रभुक्ष्व त्वं दिव्यान्पुण्यान्मनोरमान्।।२८
राजोवाचसहस्राक्ष महाराज तव पादाम्बुजं वयम् । नमस्कृत्वा वजामोऽद्य ब्रह्मलोक सनातनम् ॥ २९ देवेः प्रस्तूयमानश्च ब्रह्मलोकं जगाम ह । पद्मयोनिर्महातेजाः सार्ध मुनिवरैस्तदा ॥ ३० आतिथ्यं च चकारास्य अादिभिः सुविस्तरैः । उवाच विष्णुलोकं हि प्रयाहि त्वं स्वकर्मणा ब्रह्मणा भाषितश्चैवं जगाम शिवमन्दिरम् । चक्र आतिथ्यपूजां च शंकरश्चोमया सह ॥ ३२ शिवः संपूज्य तं चापि राजानमिदमब्रवीत् । कृष्णभक्तोऽसि राजेन्द्र ममापि सुप्रियो भवान् ३३ स्थातव्यमत्र राजेन्द्र त्वयैव मम मन्दिरे । सर्वभोगान्प्रभुक्ष्व त्वं सुदुष्पाप्या हि मानुषैः॥ ३४ अन्तरं नास्ति राजेन्द्र मम विष्णोन संशयः । योऽसी विष्णुः स्वरूपेण स च रुद्रो न संशयः॥ रुद्रो यः स च वै विष्णुर्जानीहि त्वं नरेश्वर । [* उभयोरन्तरं नास्ति तस्मादेवं वदाम्यहम्॥३९ विष्णुभक्तस्य पुण्यस्य स्थानमेवं न संशयः । तस्मादत्र महाराज स्थातव्यं हि त्वयाऽनघ]॥ ६७
* एतचिहान्तर्गतः पाठो ड. पुस्तकस्थः । एतचिहान्तर्गतः पाट: क.ख. इ. च. छ. स. ह. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. घ. ङ. च. छ. स. ट. ठ. इ. इ. पुस्तकस्थः ।
-- - ----- -- - - --- १ क. ख. घ. ड. च. छ. झ. ट. ठ. ड.इ. दिव्यं । २ घ. च. स. ट. इ. इ. नराधिपः ।
-
--
Page #302
--------------------------------------------------------------------------
________________
२९६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवमुक्तः शिवेनापि ययातिर्हरिवल्लभः । भक्त्या प्रणम्य देवेशं शंभुं नमितकंधरः॥ ३८ एतत्सत्यं महादेव खयोक्तमिह सांप्रतम् । युवयोरन्तरं नास्ति एका मूर्तिस्त्रिधाऽभवत् ॥ ३९ वैष्णवं गन्तुमिच्छामि पादौ तव नमाम्यहम् । एवमस्तु महाराज गच्छ लोकं च वैष्णवम् ॥४० समादिष्टः शिवेनापि प्रणम्य च शिवामुमाम् । पृथ्वीशस्तैर्महापुण्यैर्वैष्णवैर्विष्णुवल्लभैः॥ ४ नृत्यमानास्ततस्ते तु पुरतस्तस्य भूपतेः । शशशब्दैस्तथा वाद्यैर्घण्टानादैः सुपुष्कलैः॥ ४२ अप्सरोभिर्युतो राजा पूज्यमानोऽथ किन्नरैः । मुस्वरैर्गीयमानस्तु पाठकैः शास्त्रकोविदः॥ ४३ गायन्ति पुरतस्तस्य गन्धर्वा गीततत्पराः । ऋषिभिर्देववृन्दैश्च स्तूयमानः समन्ततः ॥ ४४ अप्सरोभिः सुरूपाभिः सेव्यमानः म नाहुपिः । गन्धर्वैः किन्नरैः सिद्धेश्चारणैः पुण्यसंयुतैः ४५ साध्यैर्विद्याधरै राजा मरुद्भिर्वसुभिस्तथा । रुद्रेश्वाऽऽदित्यवर्गश्च लोकपालदिंगीश्वरैः ॥ ४६ स्तूयमानो महाराजस्त्रलोक्येन समन्ततः । ददर्श वेष्णवं लोकमनापम्यमनामयम् ॥ विमानैः काञ्चनै राजा सर्वशोभासमाकुलैः ॥ हंसकुन्देदुधवलविमानैरुपशोभितम् । प्रासादेः शनशोभेश्च मेरुमन्दरसंनिभैः ॥ शिखरैरुल्लसद्भिस्तु स्वयॊमहाटकान्वितैः । कलशः शोभमानश्च शोभते सुपुरात्तमम् ॥ तारागणैर्यथाऽऽकाशं तेजःश्रिया प्रकाशन । प्रज्वलत्तेजज्वालाभिर्लोचनरिव लोकन ॥ नानारत्नैहरेलोको हसते दशनैरिव । समाह्वयति तान्पुण्यान्वैष्णवान्विष्णुवल्लभान ॥ ध्वजव्याजेन राजेन्द्रचलिताः सुपल्लवैः । श्वसनान्दोलितेस्तैश्च ध्वजाग्रेश्च मनोहरैः ॥ ५२ हेमदण्डैश्च घण्टाभिः सर्वत्र समलंकृतम् । सूर्यतेजःप्रकाशश्च गोपुराट्टालकैः पुनः ॥ गवाक्षेर्जालमालेश्च वातायनैर्महागुणैः । प्रतोलीभिः प्रकाशेत प्राकारहॅमरूपकैः ॥ तोरणैः सपताकाभिर्नानाशब्दैः सुमङ्गलैः । कलशाग्यश्चक्रविम्वै रविविम्बसमप्रभः ॥ सुशोभनैः स्यमन्तैश्च नीलाम्बुदसमप्रभैः । दण्डच्छत्रसमाकीर्णः कलशेरुपशोभितम् ।। पादकालाम्बुदाकारैर्मन्दिरेरुपशोभितम् । कलशैः शोभमानस्तक्षेद्योरिव भूतलम् ॥ दण्ड जालपताकाभिक्रक्षजालसमप्रभः । तादृशैः स्फाटिकाकारैः कान्तिखण्डेन संनिभैः ।। हेमप्रासादसंबाधैर्नानाधातुमयस्ततः ॥ विमानरर्बुदसंख्यैः शतकोटिसहस्रकैः । सर्वभोगयुतैस्तैश्च शोभमानं हरेर्गृहम् ॥ यः समाराधितो देवः शङ्खचक्रगदाधरः। सुप्रसादात्ततस्तेषु निवसन्ति गृहेषु च ॥ सर्वपुण्येषु दिव्येषु दिव्योपु च मानवाः । वैष्णवाः पुण्यकर्तारो निर्धूताशेपकल्मपाः ॥ ६१ एवंविधगृहैः पुण्यैः शोभितं विष्णुमन्दिरम् । नानाः समाकीर्णवनेश्चन्दनशोभितः ॥ ६२ सर्वकामफले राजन्सर्वत्र समलंकृतम् । वापीकृपतडागेश्च सारसैरुपशोभितम् ।। हंसकारण्डवाकीर्णेः पद्मकहलारकोत्पलैः । शतपत्रेर्महापत्रः पद्मोत्पलविराजितैः ॥ ६४ कनकोत्पलवर्णैश्च सरोभिश्च विराजते । वैकुण्ठं सर्वशोभाढ्यं देवोद्यानरलंकृतम् ॥ ६५ दिव्यशोभासमाकीर्ण वैष्णवैरुपशोभितम् । वैकुण्ठं ददृशे राजा मोक्षस्थानमनुत्तमम् ॥ ६६
१ क. ख. घ. ह. च. छ झ. ट. ड. ढ. पृथ्वीवासम' । २ क. ख. ड. च. छ. झ. ह. ढ. 'शब्दैः सुपापंन्नैः सिंहनादैश्च पु । ३ ड. 'क्ये तु समन्ततः । ४ इ. छ. ट. सुभोगैः शतकक्षश्च निर्जलाम्बुदसनिभैः । इ. 'सुशोभैः शतकुन्देश
शरदबुदसंनिभैः । ५ क. ख. च. भूपते। ङ. छ. ४. शोभते । ६ क.ख. ड. च. छ. झट. ड, ढ, 'भिरिन्द्रनील । घ, ड. 'भिरिन्दुनील' । ७क. ख... च, छ. स. ड. द. 'न्तिशलेन्दुसं। ८ ह. "नैरिन्दुसंकाशैःश ।
Page #303
--------------------------------------------------------------------------
________________
८४ चतुरशीतितमोऽध्यायः
पद्मपुराणम् ।
देववृन्दैः समाकीर्ण ययातिनहुषात्मजः । प्रविवेश पुरं दिव्यं सर्वदाहविनितम् ॥ ददर्श सर्वक्लेशनं नारायणमनामयम् । वितानरुपशोभं तं सर्वाभरणशोभितम् ।। पीतवस्त्रं जगनाथं श्रीवत्साई महागतिम् । वैनतेयसमारूढं श्रिया युक्तं परात्परम् ॥ सर्वेषां देवलोकानां यो गतिः परमेश्वरः । परमानन्दरूपेण कैवल्येन विराजते ॥ सेव्यमानं महालोकैः सुपुण्यैर्वैष्णवैहरिम् । देववृन्दसमाकीर्ण गन्धर्वगणसेवितम् ॥ अप्सरोभिर्महात्मानं दुःखक्लेशापहं प्रभुम् । नारायणं ननामाय स्वपल्या सह भूपतिः ।। ते नेमुर्मानवाः सर्वे वैष्णवा मधुसूदनम् ।। गता ये वैष्णवाः सर्वे राज्ञा सह महामते । पादाम्बुजव्यं तस्य नेमुर्भक्त्या महामते । प्रणमन्तं महात्मानं राजानं दीसतेजसम् । तमुवाच हृषीकेशस्तुष्टोऽहं तव सुव्रत । वर वरय राजेन्द्र यत्ते मनसि दुर्लभम् । तत्ते दामि न संदेहो मद्भक्तोऽसि महामते ॥
राजोवाचयदि तुष्टोऽसि देवेश मम वै मधुसूदन । दासत्वं देहि सततमात्मनश्व जगत्पते ।
विष्णुरुवाचएवमस्तु महाभाग मम भक्तो न संशयः । मम लोके त्वया राजस्थातव्यं त्वनया सह ॥ ७७ एवमुक्तो महाराजो ययातिः पृथिवीपतिः। प्रसादात्तस्य देवस्य विष्णुलोकं प्रभासितम् ।। निवसत्येष भूपालो वैष्णवं लोकमुत्तमम् ॥ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने पितृतीर्थ ययातिचारने ययातिस्वर्गारोहणं नाम व्यशीतितमोऽध्यायः ॥३॥
आदितः श्लोकानां समथ्यङ्काः-७१५५
७८
अथ चतुरशीतितमोऽध्यायः ।
सुकर्मोवाचएतत्ते सर्वमाख्यातं चरितं पापनाशनम् । पुत्राणां तारकं दिव्यं बहुश्रेयःप्रदायकम् ॥ १ प्रत्यक्षं दृश्यते लोके ययातिचरितं शुभम् । राज्यं च पुरुणा प्राप्तं स्वर्गतिं प्राप्तवान्गुरुः ॥ २ पितृप्रसादात्कोपाच्च यथा जातं तथा पुनः। [*पुत्राणां तारकं पुण्यं यशस्य धनधान्यदम् ॥३ [' शापयुक्ताविमो चोभी गुरुश्च यदुरेव च ] । पितृमातृसमं नास्ति अभीष्टफलदायकम् ॥ ४ [*साभिलाषेण भावेन पिता पुत्रं समायेत् । माता च पुत्र पुत्रेति तस्य पुण्यफलं शृणु ॥ ५ समाहूतो यदा पुत्रः प्रयाति मातरं प्रति । यो याति हर्षसंयुक्तो गङ्गाम्नानफलं लभेत् ॥ ६ पादप्रक्षालनं यश्च कुरुते च महायशाः । सर्वतीर्थफलं भुङ्क्ते प्रसादादुभयोः सुतः] ॥ अगसंवाहनाचाथ अश्वमेधफलं लभेत् । भोजनाच्छादेनैश्चैव गुरू च परिपोषयेत् ॥ * एतचिहान्तर्गतः पाठः क.ख. ड. च. छ. झ. द. पुस्तकस्थः । । एतानहान्ता
समझ पस्तकस्थः । एतमिहान्तर्गतः पाठःट. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. ङ. च. झ. ड. द. पुस्तकस्थः ।
१४. र्वक्लेशवि । २ क. ख. घ. कु. च. छ. झ. ट. ड. द. विमाने' । ३१. सर्ववर्ण सुसे। ४ क. स्व. च. रोमिः समाकीर्ण । ५ क. ख. . च. छ. . १. श्रीकृष्ण उवाच । ६ क. ख. इ. च. छ... द. प्रसाधितम् । ७क. ख. च. 'हुदेयप्र। ८ इ.तृतीर्थप्रसादेन शापाचैव त । ९ इ. इ. 'दननानगं यः पोषयेत्सुतः । ।
Page #304
--------------------------------------------------------------------------
________________
२९८ महामुनिश्रीव्यासपणीतं
[ २ भूमिखण्डेपृथ्वीदानस्य यत्पुण्यं तत्पुण्यं तस्य जायते । सर्वतीर्थमयी गङ्गा तथा माता न संशयः ॥ ९ बहुपुण्यमयः सिन्धुर्यथा लोके प्रतिष्ठितः । अस्मिन्नेव पिता तद्वत्पुराणाः कवयो विदुः॥ १० शंसते कोशते यस्तु पितरं मातरं पुनः । स पुत्रो नरकं याति बहुदुःखप्रदायकम् ॥ ११ मातरं पितरं वृद्धौ गृहस्थो यो न पोषयेत् । स पुत्रो नरकं याति वेदनां प्रामुयाध्रुवम् ॥ १२ कुत्सते पापकर्ता यो गुरुं पुत्रः सुदुर्मतिः । निष्कृतिस्तस्य नो दृष्टा पुराणैः कविभिः कदा ॥१३ एवं मत्वा त्वहं विप्र पूजयामि दिने दिने । मातरं पितरं भक्त्या पादसंवाहनादिभिः॥ १४ कृत्याकृत्यं वदेच्चैव समाहूय गुरुर्मम । तत्करोम्यविचारेण शक्त्या स्वस्य च पिप्पल ॥ १० तेन मे परमं ज्ञानं संजातं गतिदायकम् । एतयोश्च प्रसादेन संमारे परिवर्तते ॥ १६ ये विप्र भक्तिं कुर्वन्ति मानवा भुवि मंस्थिताः। अत्रस्थस्तदहं जाने अधिस्वर्गे प्रवर्तते ॥ [*नागानां तु इहस्थोऽपि चारं जानामि पिप्पल ] ॥ एतयोश्च प्रसादेन ज्ञानं मम प्रदृश्यताम् । गच्छ विद्याधर श्रेष्ठ भवानर्चतु माधवम् ॥ १८
विष्णुरुवाच -- एवं संचोदितस्तेन पिप्पलो हि स्वकर्मणा । अनम्य तं द्विजश्रेष्ठं लज्जितोऽपि दिवं ययौ । सुकर्मा सोऽपि धर्मात्मा गुरुं शुश्रूषते पुनः ॥ एतत्ते सर्वमाख्यातं तीर्थयात्रानुगं मया । अन्यन्कि ते प्रवक्ष्यामि वद वेन महामते ॥ २० इति श्रीमहापुराण पाद्म भूमिखण्डे वनोपाग्याने मातापितृतीर्थमाहात्म्यवर्णनं नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७१७५
अथ पञ्चाशीतितमोऽध्यायः ।
वेन उवाचभगवन्देवदेवेश प्रसादाच्च मम त्वया । भार्यातीर्थ समाग्व्यानं पितृतीर्थमनुत्तमम् ॥ १ मातृतीर्थ हृषीकेश बहुपुण्यप्रदायकम् । प्रसादसुमुग्वा भूत्वा गुरुतीर्थ वदस्व में ॥
विष्णुरुवाच कथयिष्याम्यहं राजगुरुतीर्थमनुत्तमम् । सर्वपापहरं प्रोक्तं शिष्याणां गतिदायकम् ॥ ३ [ शिष्याणां हि परं पुण्यं धर्मरूपं सनातनम् । एवं तीर्थ परं ज्ञानं प्रत्यक्षफलदायकम् ॥ ४ यस्य प्रसादादाजेन्द्र इहैव फलमश्नुते । परलोकसुखं भुङ्क्ते यशःकीर्तिमवाप्नुयात् ॥ प्रसादात्तस्य राजेन्द्र गुरो[*श्चैव महात्मनः । प्रत्यक्षं दृश्यते शिप्यत्रैलोक्यं सचराचरम् ॥ ६ व्यवहारं च लोकानामाचारं नृपनन्दन । विज्ञानं विन्दते शिप्यो मोक्षं चैव प्रयाति च ] ॥ ७
__* एतच्चिदान्तर्गतः पाठो ड. द. पुस्तकस्थः । + एतच्चिद्वान्तर्गतः पाटो ङ. छ. झ. . ड. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ह. पुस्तकस्थः । । एतदने क. ख. घ. इ. च. छ. स. ८. उ. ढ. पुस्तके वय मतनः पाठोहश्यते 'शिष्यः प्रकाशमद्योतैरुपदेशमहामते' इति ।
१. प्राशते । २ क. ख. घ. ड. च. छ. झ. ट. ठ. ट. नित्यं भक्त्या नमितकन्धरः । कृ'। ड. 'रं चाहूं भक्त्या नमितकन्धरः । कृ' । ३ . छ. स. ढ. सादाच त्रैलोक्यं मम वश्यताम् । ४ क. ख. घ. च. छ. ट. ठ. ड. आमन्त्र्य । ५. द. पितृतीर्थानुगं । ६ क. ख. घ. ङ, च. छ. स. ट. ट. ड. द. श्रीभगवानुवाच ।
Page #305
--------------------------------------------------------------------------
________________
८५ पञ्चाशीतितमोऽध्यायः } पद्मपुराणम् । सर्वेषामेव लोकानां यथा सूर्यः प्रकाशकः । गुरुः प्रकाशकस्तद्वच्छिष्याणां वुद्धिदानतः ॥ ८ रात्रावेव प्रकाशेच्च सोमो राजा नृपोत्तम । तेजसा नाशयेत्सर्वमन्धकारं चराचरम् ॥ ९ [गृहं प्रकाशयेदीपः समूह नृपसत्तम] । अज्ञानतमसा व्याप्तं शिप्यमुद्योतयेगुरुः ॥ १० दिवा प्रकाशकः सूर्यः शशी रात्री प्रकाशते ॥ गृहप्रकाशको दीपस्तमोनाशकरः सदा । रात्रौ दिवा गृहस्यान्ने गुरुः शिष्यं सदैव हि ॥ १२ अज्ञानाख्यं तमस्तस्य गुरुः सर्व प्रणाशयेत् । तस्माद्गुरुः परं नीर्थ शियाणामवनीपते ॥ १३ एवं ज्ञात्वा ततः शिष्यः सर्वभावः प्रसादयेत् । गुरुं पुण्यमयं ज्ञात्वा त्रिविधनापि कर्मणा ॥१४
सूत उवाच-(?) इत्यर्थे श्रूयते विमा इतिहासः पुरातनः । सर्वपापहरः पुंसां च्यवनस्य महात्मनः ॥ १५ भार्गवस्य कुले जातश्यवनो मुनिसत्तमः । तस्य चिन्ता समुत्पन्ना एकदा तु द्विजोत्तमाः॥ १६ कदाऽहं ज्ञानसंपन्नो भविष्यामि महीतले । दिवा रात्रौ चिन्तयेन्स ज्ञानार्थो द्विजसत्तमः ॥ १७ एवं मंचिन्तयानस्य मनिरासीन्महात्मनः । तीर्थयात्रां प्रयास्यामि त्वभीष्टफलदायिनीम् ॥ १८ गृहे पित्रादिकं त्यक्त्वा भार्या पुत्रं धनं ततः । नीर्थयात्राप्रमङ्गन अटने मेदिनीं तः॥ १९ लोमानुलोमयात्रां स गङ्गायाः कृतवानप । म तन्नर्मदायाश्च सरम्बन्या मुनीश्वरः ॥ २० गोदावर्यादिममां नदीनां सागरस्य च । अन्येषां सर्वतीर्थानां क्षेत्राणां च नृपोत्तमः॥ देवानां पुण्यलिङ्गानां यात्राव्याजेन मोऽभ्रमत् ॥ भ्रामितस्तेन मुनिना तीर्थानां म्पर्शनस्ततः । कायश्च निर्मली जातः सूर्यनेजःसमप्रभः ॥ २२ च्यवनः काशते दीप्न्या पूतान्माऽनेन कर्मणा । भ्रममाणः मायानः क्षेत्राणामुत्तमं नदा ॥२३ नर्मदादक्षिणे कृले नाम्ना अमरकण्टकम् । ददर्श सुमहल्लिङ्गं सर्वेषां गनिदायकम् ॥ २४ नत्वा स्तुत्वा पूजयित्वा सिद्धनाथं महेश्वरम् । [*ज्वालेश्वरं तनो दृष्ट्वा दृष्ट्वा चाप्यमरेश्वरम्] २५ ब्रह्मेशं कपिलेशं च मार्कण्डेश्वरमुत्तमम् । एवं पात्रां ततः कृत्वा ओंकारं तु पुनर्गनः ॥ २६ वटच्छायां समाश्रित्य शीतलां श्रमनाशिनीम् । मुखेन संस्थिता विपश्च्यवनो मुनिसत्तमः २७ नत्र सुप्तः म शुश्राव सुशब्दं पक्षिणां तदा । दिव्यभापाममायुक्तं ज्ञानविज्ञानसंयुतम् ॥ २८ शुकश्च एकस्तत्राऽऽस्ते वहुकालमजीवकः । कुञ्जलो नाम ज्ञानान्मा वहुपुत्रः सभार्यकः ॥ २९ आसंस्तस्य हि पुत्राश्च चत्वारः पितृनन्दनाः । तेषां नामानि गजेन्द्र कथयिप्ये तवाग्रतः ॥३० ज्येष्ठः स उज्ज्वलो नाम द्वितीयश्च समुज्ज्वलः । तृतीयो विज्वलो नाम चतुर्थश्च कपिञ्जलः॥३१ एवं पुत्रास्तु चत्वारः कुञ्जलस्य महात्मनः । शुकस्य तस्य पुण्यस्य पितृमातृपरायणाः ॥ ३२ भ्रमन्ति गिरि कुञ्जषु द्वीपेषु सुसमाहिताः । भोजनार्थ समक्षुब्धाः क्षुधया परिपीडिताः॥ ३३ सोदरास्ते क्षुधाशामः फलैरमृतसंनिभैः । अमृतस्वादुनायश्च तृप्णां शाम्य नृपोत्तम ॥(?) ३४
एताचदान्तगतः पाठः क. ख. हु.च
एतचिहान्तगतः पाठः क.ख. हु. च, छ. झ. उ. पुस्तकस्थः । झ. इ. पुस्तकस्थः ।
१क. ख. घ. च. छ. झ ट. इ. न्ते शिष्यस्यापि न मंशयः । अ । २ क. ख. घ. च. छ. झ. ट. ट.. गुरुसूर्यः प्रकाशकः । त। ३ अ. ते राजनिति । ४ अ. नृपोत्तम । ५ क. ख. इ. च. छ. झ. इ. गृहक्षेत्रा। घ.ट.. गृहमंत्रा । ६ अ. 'दा । अनुलोमविलोमेन ग' । ७ क. ख. ड. च. छ. झ. इ. इ. ओङ्कार । ८ इ. कुलेश्वरं । छ. काले. श्वरं । ९. कारेश्वरमागतः । १० क. ख. इ. च. छ. झ. इ. द. भृगुनन्दनः । ११ ज.दा । पशभा।
Page #306
--------------------------------------------------------------------------
________________
३०० महामुनिश्रीन्यासप्रणीत
[ २ भूमिखण्डेनित्यं चैव रसाढ्यानि आहारार्थ सुपुत्रकाः। नीत्वा फलानि दंपत्योर्निक्षिपन्ति प्रयत्नतः॥३५ मातुरर्य महाभागा भक्त्या भावेन तोषिताः । संतुष्टा आहारमुत्पाद्य भक्षयन्ति पठन्ति च ॥३६ तत्र क्रीडारताः सर्वे विलसन्ति सहोदराः । संध्याकालं समाज्ञाय पितुरन्तिकमुत्तमम् ॥ आयान्ति भक्ष्यमादाय गुर्वर्थ तु प्रयत्नतः॥ पश्यतस्तस्य विप्रस्य च्यवनस्य महात्मनः। आगताश्च द्विजाः सर्वे पितुर्नीडं सुशोभनम् ॥ ३८ [ *पितरं मातरं चोभौ ननमुस्ते महामते । ताभ्यां भक्ष्यं समासाद्य उपतस्थुस्तयोः पुरः ॥३९ सर्वे संभाषिताः पित्रा मानितास्ते सुतोत्तमाः। मात्रा च कृपया राजन्वचनैः प्रीतिदायकैः ॥ पक्षवातेन शीतेन मातापित्रोश्च ते तदा ॥ तेषां मायाधनं तौ द्वौ चक्राते पक्षिणी नृप । आशीभिरभिनन्द्यैव द्वाभ्यामपि सुपुत्रकान् ॥ ४१ तेश्च दत्तं सुसंपुष्टमाहारममृतोपमम् । तावेव हि सुसंप्रीतिं चक्राते द्विजसत्तमाः॥ ४२ पिबेते निर्मलं तोयं तीर्थकोटिसमुद्भवम् । स्वस्थानं तु समाश्रित्य सुखसंतुष्टमानसौ ॥] ४३ सोऽशित्वा भार्यया सार्ध तैश्च संतुष्टमानसः। कथां दिव्यां सुपुण्यां च चकार तनयैदिजः ॥४४
विष्णुरुषाचपित्रा तु कुञ्जलेनापि उज्ज्वलः स्वात्मजस्ततः । क गतश्चेति संपृष्टः किमपूर्वं त्वया पुनः ॥ तत्र दृष्टं श्रुतं यच्च तन्मे कथय नन्दन ॥ कुञ्जलस्य पितुर्वाक्यं समाकर्ण्य स उज्ज्वलः । पितरं प्रत्युवाचाथ भक्त्या नमितकंधरः॥ कृत्वा मूर्धा प्रणामं च कथां चक्रे मनोहराम् ॥
उज्ज्वल उवाच -- प्लक्षद्वीपं महाभाग नित्यमेव प्रयाम्यहम् । महता उद्यमेनापि न्वाहारार्थ महामने ॥ प्लक्षद्वीपे महाभाग सन्ति देशा अनेकशः । पर्वताः सरितोद्यानवनानि च सरांसि च ॥ ग्रामाश्च पत्तनाश्चेव प्रजाश्चातिप्रमोदिताः ॥ सदा सुखेन संतृष्टा लोकाः सन्ति सुतेजसः । दानपुण्यनयोपेताः श्रद्धाभावसमन्विताः ॥ ४९ प्लक्षद्वीपे महाराज आसीत्पुण्यमतिः सदा । दिवोदासेति विख्यातः सत्यधर्मपरायणः॥ ५० तस्यापत्यं समुत्पन्नं नारीणामुत्तमं तदा । गुणरूपसमायुक्ता सुशीला चारुमङ्गला ॥ दिव्यादेवीति विख्याता रूपेणापतिमा भुवि ॥ पित्रा विलोकिता सा तु रूपलावण्यसंयुता । प्रथमे वयसि दिव्या वर्तते चारुमङ्गला ॥ ५२ स तां दृष्ट्वा दिवोदासो दिव्यादेवीं सुतां तदा । कस्मै प्रदीयते कन्या सुवराय महात्मने ॥५३ इतिचिन्तापरो भूत्वा समालोच्य नृपोत्तमः । रूपदेशस्य राजानं समालोक्य महीपतिः॥ ५४ [' चित्रसेनं महात्मानं समाहृय नरोत्तमः।] कन्यां ददौ महात्माऽसौ चित्रसेनाय धीमते॥५५ तस्या विवाहयज्ञस्य संप्राप्ते समये नृप । मृतोऽसौ चित्रसेनस्तु कालधर्मेण वै किल ॥ ५६ दिवोदासस्तु धर्मात्मा चिन्तयामास भूपतिः । ब्राह्मणान्स समाहूय पप्रच्छ नृपनन्दनः ॥ ५७ ___* एतचिहान्तर्गतः पाठः क. ख. घ. ङ. च. छ. झ. ट. इ. ८. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः क. ख. कृ. च. छ. स. पुस्तकस्थः ।
१क. ख. घ. ङ. च. छ. स. ट. ड. सौ। स्वस्थानं तु समाश्रित्य सुखसंतुष्टमानसौ। चक्राते च कथां दिव्यां सुपुण्यां पापनाशिनीम् । पि । २ क. ख. घ. ड. च. छ. झ. ड. द. प्रीतये ।
Page #307
--------------------------------------------------------------------------
________________
ܕܘܠܐ
८६ षडशीतितमोऽध्यायः ] पद्मपुराणम् । अस्या विवाहकाले तु चित्रसेनो दिवं गतः । अस्यास्तु कीदृशं कर्म भविष्य तब्रुवन्तु मे ॥५८
ब्राह्मणा ऊचुःविवाहो जायते राजन्कन्यायास्तु विधानतः । पतिर्मृत्यु प्रयात्यस्यो नो चेत्सङ्ग करोति च ॥५९ महाव्याध्यभिभूतश्च त्यागं कृत्वा प्रयाति वा । प्रत्राजितो भवेद्राजन्धर्मशास्त्रेषु दृश्यते ॥ ६० उद्वाहितायां कन्यायामुद्वाहः क्रियते बुधैः । न स्याद्रजस्वला यावदन्येष्वपि विधीयते ॥ विवाहं तु विधानेन पिता कुर्यान संशयः॥ एवं राजा समादिष्टो धर्मशास्त्रार्थकोविदः । विवोहार्य समायात इन्द्रप्रस्थं द्विजोत्तमैः॥ ६२ दिवोदासः मुधर्मात्मा द्विजानां च निदेशतः । विवाहार्थ महाराज उद्यम कृतास्तदा ॥ ६१ पुनर्दत्ता तदा तेन दिव्यादेवी द्विजोत्तमाः । रूपसेनाय पुण्याय तस्मै राञ महात्मने ॥ मृत्युधमे गतो राजा विवाहस्य समीपतः॥ यदा यदा महाभागो दिव्यादेव्याश्च भूमिपः । चक्रे विवाहं तद्भर्ता म्रियते लग्नकालतः ॥ ६५ एकविंशतिभर्तारः काले काले मृतास्तदा । ततो राजा महादुःखी संजातः ख्यातविक्रमः॥५६ समालोच्य समाहूय मत्रिभिः सह निश्चितः । वयंवरे तदा बुद्धिं चकार पृथिवीपतिः ॥ ६७ प्लक्षद्वीपस्य राजानः समाहृता महात्मना । स्वयंवरार्थमाहूतास्तथा ते धर्मतत्पराः॥ ६८ तस्यास्तु रूपं संश्रुत्य राजानो मृत्युनोदिताः। संग्राम चक्रिरे मूढास्ते मृताः समराङ्गणे ॥ एवं तात क्षयो जातः क्षत्रियाणां महात्मनाम् ॥ दिव्यादेवी सुदुःखार्ता गता साऽचलकन्दरम् । रुरोद करुणं बाला दिव्यादेवी मनस्विनी ७० एवं तात मया दृष्टमपूर्व तत्र वै तदा । तन्मे सुविस्तरं तावदस्याः कथय कारणम् ॥ ७१ इति श्रीमहापुराणे पाझे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनोपाख्याने पश्चाशीतितमोऽध्यायः ॥ ८५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७२४६
अथ षडशीतितमोऽध्यायः ।
कुञ्जल उवाचतस्यास्तु चेष्टितं वत्स दिव्यादेव्या वदाम्यहम् । पूर्वजन्मकृतं सर्व त्वं मे निगदतः शृणु ॥ १ अस्ति वाराणसी पुण्या नगरी पापनाशिनी । तस्यामास्ते महामाज्ञः सुवीरो नाम नामतः॥ वेश्यजात्यां समुत्पन्नो धनधान्यसमाकुलः॥ तस्य भार्या महामाज्ञ चित्रा नाम शुचिस्मिता । कुलाचारं परित्यज्य मनाचारेण वर्तते ॥ १ न मन्यते हि भर्तारं स्वैरवृत्त्या प्रवर्तते । धर्मपुण्यविहीना तु पापमेव समाचरेत् ।। ४ भर्तारं कुत्सते नित्यं नित्यं च कलहपिया । नित्यं परगृहे वासो भ्रमते सा गृहे गृहे ॥ ५ परच्छिद्रं सदा पश्येत्सदों दुष्टा च प्राणिषु । साधुनिन्दारता दुष्टा बहुहास्यकरी सदा ॥ ६
१५. ठ. 'स्यास्तावद्यागं क'। ड. 'स्यास्तावत्त्यागं क। २ ते । तस्माद्वजस्व कन्यायाश्चान्यः पतिर्विधी । ३ ङ. छ अनुद्वाहितायां । ४ इ. धैः । तस्यां रजस्वलायां च अन्यः पतिर्विधी । ५ क. ब. घ. अ. च. छ.... ढ. वाहः क्रियतामस्या इत्यूचुस्ते द्विजोत्तमाः । दि । ६ ड. 'हसमयेऽपि सः । य। ०३. द. सुविश्रुता । ८ घ. ट. ठ. इ. रोग्या वृत्या । उ.द.द्रिकृत्या । ९घ. ठ, ड, दाऽतुष्टा । १.८. रुष्टा।
Page #308
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेअनाचारां महापापां ज्ञात्वा वीरोऽपि नन्दनः । स तां त्यक्त्वा महापाज्ञ उपयेमे महामतिः॥७ अन्यवैश्यस्य वै कन्यां तया सह प्रवर्तते । धर्माचारेण पुण्यात्मा सत्यधर्ममतिः सदा ॥ ८ निरस्ता तेन सा चित्रा एवं सा भ्रमते महीम् । दुशनां संगतिं प्राप्ता नराणां पापिनां सदा।।९ दूतीकर्म चकाराय सा तेषां पापनिश्चया । गृहभङ्गं चकाराथ साधूनां पापकारिणी ॥ १० साध्वी नारी समाहूय पापवाक्यैः प्रलोभयेत् । मनोभङ्गं चकाराथ वाक्यः प्रत्ययदायकैः ॥११ साधूनां सा स्त्रियं भत्त्वाऽप्यन्यस्मै परिदापयेत् । एवं गृहशतं भग्नं चित्रया पापचिन्तया ॥१२ संग्रामं सा महादुष्टाऽकारयत्पतिपुत्रकैः । मनांसि चालयेत्पापा पुरुषाणां स्त्रियः प्रति ॥ १३ अकारयच्च संग्राम यमग्रामविवर्धनम् । एवं गृहशतं भक्त्वा पश्चात्सा निधनं गता ॥ १४ त्रासिता यमराजेन बहुदण्डैः सुनन्दन । भुञ्जापिता यातनाश्च रौरवादिषु वै तदा ॥ १५ पाचिता रोरवे चित्रा चित्राः पीडाः प्रदर्शिताः । यादृशं क्रियते कर्म तादृशं परिभुञ्जते ॥ १६ [तया गृहशतं भग्नं चित्रया पापचित्तया । तस्य कर्मविपाकोऽयं तया भुक्तो द्विजोत्तम ॥ १७ यस्मादृहशतं भग्नं तस्मादुःखं भुनक्ति वै । विवाहसमये प्राप्ते देवं च पाकतां गतम् ॥ भर्ता विवाहसमये यतो मृत्यु समागतः ॥ यत्संख्याकं गृहं भग्नं तत्संख्याका वरा मृताः । स्वयंवरे नदा वन्स विवाहे चैकविंशतिः ॥ १९ एतत्ते सर्वमाख्यातं तस्यास्तु पूर्वचेष्टितम् । तया पापं कृतं घोरं गृहभङ्गारख्यमेव च ॥ २०
उज्ज्वल उवाचप्लक्षद्वीपस्य भूपस्य दिवोदासस्य सा सुता । केन पुण्यप्रभावन तया प्राप्तं महत्कुलम् ॥ २१ एवं मे संशयस्तात वर्तते प्रब्रवीतु मे । एवं पापसमाचारा कथं जाता नृपात्मजा ॥ २२
कुञ्जल उवाचचित्रायाश्चेष्टितं पुण्यं सर्व ते प्रवदाम्यहम् । यत्कृतं हि तया पूर्व तच्छृणुष्व महामते ॥ २३ कश्चित्सिद्धः समायातो भ्रममाणो महीतलम् । कुचेलो वस्त्रहीनश्च कक्षाधारः सुदण्डकः ॥ २४ कौपीनेन समायुक्तो दिग्वासाः पाणिपात्रकः । गृहद्वारं समाश्रित्य चित्रायाः परिमंस्थितः॥२५ स मौनी सर्वमुण्डश्च जितात्मा विजितेन्द्रियः । निराहारो जिताहारः सर्वतत्त्वार्थदर्शकः ॥ २६ दूराध्वानपरिश्रान्तश्चिन्तयाऽऽकुलमानसः । श्रमेण विद्यमानश्च तृष्णार्तश्च सुपुत्रक ॥ २७ चित्राद्वारं समागत्य च्छायामाश्रित्य संस्थितः । तया दृष्टी महात्माऽमौ चित्रया श्रमपीडितः २८ सेवा चक्रे दैवदिष्टा तस्य चैव महात्मनः । पादप्रक्षालनं कृत्वा दत्त्वा चाऽऽसनमुत्तमम् ॥ २९ आस्यतामासने विप्र सुखेनापि सुकोमले । क्षुधापनदिनार्थ हि भुज्यतामनमुत्तमम् ।। स्वेच्छया परितुष्टश्च शीतलं तूदकं पिब ॥ एवमुक्त्वा तथा कृत्वा देववत्पूज्य तं सुत । अङ्गसंवाहनं कृत्वा नाशितः श्रम एव च ॥ ३१ एवं तया सत्कृतस्तु भुक्त्वा पीत्वा द्विजोत्तम । सिद्धस्तस्यै प्रसन्नोऽभूत्सर्वतत्त्वार्थदर्शकः ॥ ३२ कियत्कालं स धर्मात्मा तस्या गेहे स्थिरोऽभवत् । स्वेच्छया चाऽऽगतः पुत्र यथा योगी तथा गतः
* एतचिहान्तर्गतः पाठः क.ख.घ.ड.च.छ.स.ट. ट. इ. . एसकस्थः ।
१ घ. ङ. ट. ठ. स. द. शासिता । २ क. ख. घ. ड. च. छ. स. ट. ठ. ड. द. ताः । दिव्यादेव्या मयाऽऽख्यातं यथा मे पृच्छितं त्वया । ए।३ क. ख. घ. ड. च. छ. स. ठ. ड. द. 'न्त आतपाकु' । ड, 'न्त आर्तव्याकु । ४ ग. ज. न. ट. म्रियमाणश्च । ५ क.ख. घ. इ. घ. छ. स. ए. टड.द. कृपां ।
Page #309
--------------------------------------------------------------------------
________________
८६ षडशीतितमोऽध्यायः] पद्मपुराणम् । गते तस्मिन्महाभागे सिद्ध चैव महात्मनि । सा चित्रा मरणं प्राप्ता स्वकर्मवशमागता ॥ ३४ शासिता धर्मराजेन महादण्डैः सुदुःखदैः । सा चित्रा नरकं प्राप्ता वेदनावातदायकम् ॥ ३५ भुक्त्वा दुःखं स्वकर्मोत्थं साधं युगसहस्रकम् । भोगान्ते तु पुनर्जन्म संप्राप्तं मानुषस्य च ॥ ३६ सर्वसङ्गजितः सिद्धो दिव्येनापि स्वतेजसा । तस्य पुण्यप्रसादेन प्राप्तं पुण्येन तत्कुलम् ॥ ३७ क्षत्रियाणां महाराज्ञो दिवोदासस्य वै गृहे । दिव्यादेवी वरापत्यं संजातं तस्य मानद ॥ ३८ सा हि दत्तवती चान्नं जलं पुण्यं महात्मने । तस्य पुण्यस्य माहात्म्यात्माप्तः पुण्यफलोदयः॥३९ पिवते शीतलं तोयं मिष्टान्नं च भुनक्ति वै । दिव्यान्भोगान्प्रभुञ्जाना वर्तते पितृमन्दिरे ॥ ४० तस्य प्रसादाद्विप्रर्षे राजकन्या व्यजायत । पापकर्मस्वभावाद्वा गृहभङ्गान्महामते ॥ वैधव्यं भुञ्जते मा तु दिव्यादेवी सुपुत्रक ॥ एतत्ते सर्वमाख्यानं दिव्यादेव्याः सुचेष्टितम् । अन्यन्कि ते प्रवक्ष्यामि पृच्छयतां तद्वदाम्यहम्४२
उज्ज्वल उवाचकथं सा मुच्यते शोकान्महादुःखादिस्व मे । मा स्याञ्च कीदृशी बाला महादुःखेन पीडिता ४३ तत्सुखं कीदृशं तस्माद्विपाकश्च भविष्यति । एतन्मे संशयं तात सांप्रतं छेत्तुमर्हसि ॥ ४४ कथं सा लभते मोक्षं तं चोपायं वदस्व मे । एकाकिनी महाभागा महारण्ये परोदिति ॥ ४५
विष्णुरुवाचपुत्रवाक्यं महच्छत्वा क्षणमेकं विचिन्त्य सः । प्रत्युवाच महाप्राज्ञः कुञ्जलः पुत्रकं प्रति ॥ ४६ शृणु वन्स महाभाग सत्यमेतद्वदाम्यहम् । पापयोनिं तु संप्राप्य पूर्वकर्मसमुद्भवाम् ॥ नियेक्त्वे न च मे ज्ञानं नष्टं संपति पुत्रक ॥ अस्य वृक्षस्य सङ्गाच्च प्रयतस्य महात्मनः । वायाश्च प्रसादेन विष्णाश्चैव प्रेसादतः॥ ४८ येन सा लभते ज्ञानं मोक्षस्थानं निवर्तते(?) । उपदेशं प्रवक्ष्यामि मोक्षमार्गमनुत्तमम् ॥ ४९ यास्यते कल्मपान्मुक्ता यथा हेम हुताशनात् । शुद्धं च जायते वत्स सङ्गाह्नः स्वरूपवतं ॥ ५० हरेानान्महाप्राज्ञ शीघ्रं तस्य महात्मनः । जपाव्रताद्यथा पापं प्रशमं याति नान्यथा ॥ ५१ [*मदं त्यजति नागेन्द्रो भयात्सिहस्य वै यथा]। नामोच्चारण [' कृष्णस्य तत्पयाति हि किल्बिषम् तेजसा वैनतेयस्य विषहीना इवोरगाः । ब्रह्महत्यादिकाः पापाः प्रशमं यान्ति नान्यथा ॥ ५३ नामोच्चारेण ] तत्पापं चक्रपाणेः प्रयाति वै । यदा नामशतं पुण्यमघराशिविनाशनम् ॥ सा जपेत्सुस्थिरा भूत्वा कामक्रोधविजिता ॥ सर्वेन्द्रियाणि संयम्य त्वात्मज्ञानेन गोपयेत् । तस्य ध्यानं प्रविष्टा सा एवंभूता समाहिता ॥ ५५ सा जपेत्परमं ज्ञानं तदा मोक्षं प्रयाति च । तन्मनास्तत्पदे लीना योगयुक्ता यदा भवेत् ॥ ५६
४७
* एतचिहान्तर्गत: पाठो ड. पस्तकस्थः ।। एतचिहान्तगतः पाठः क. ख. घ. ड. च. छ. स.ट...द. परतकस्थः ।
१ क. ख. च. झ. ड. च । पर्व संपजितः सिद्धः शुद्वेनापि सुचेतसा । इ. ह. च । पूर्व संपूजितः सिद्धस्तया पुण्य
।। २ क. ख. हु. च. छ. स. इ. १. स्य कर्मविपाकोऽयं प्रा। ३ इ. "कन्याऽभवद्वरा।पा। ४ म. वैषम्य सा गताऽरण्ये पापभोगात्सप। ५ ड. तेऽभीष्टं त । ६ क. ख. घ. इ. च. छ. म. ट. ठ. द. सत उवाच। छ. झ. 'प्य स्मृतिभ्रंशमभन्मम । ति । ड. 'प्य स्मृतिभ्रंशश्च मेऽभवत् । ति । ङ. द. प्य बुद्धिभ्रंशमभून्मम । ति । ८ क. ख. तु. च. छ. झ. 'स्य देवप्रमहाच प्रणवस्य । ९ क. ख. घ. ङ. च. छ. स. ट. ठ. ड. द. महात्मनः । १.१.त। त्रातुध्यो ।
Page #310
--------------------------------------------------------------------------
________________
३०४
महामुनिश्रीव्यासप्रणीतं -
[२ भूमिखण्डे
उज्ज्वल उवाच
बद तात परं ज्ञानं प्रथमं मम सांप्रतम् । पश्चाख्यानं व्रतं पुण्यं नाम्नां शतमथापि वा ॥ कुञ्जल उवाच—
परं ज्ञानं प्रवक्ष्यामि यन दृष्टं तु केनचित् । श्रूयतां पुत्र कैवल्यं केवलं दु:खवर्जितम् ।। सूत उवाच
५९
६०
६१
६२
६३
६४
६५
६६
६९
यथा दीपो निवातस्थो निश्चलो वायुवर्जितः । प्रज्वलन्नाशयेत्सर्वमन्धकारं महामते । तद्दोषविहीनात्मा भवत्येव निराश्रयः । निराशो निश्चलो वत्स न मित्रं न रिपुस्तदा ॥ न शोको न च हर्षश्च न लोभो न च मत्सरः । संभ्रमालापमोहैश्च सुखदुःखैर्विमुच्यते ॥ विषयेष्वपि सर्वेषु इन्द्रियाणि न भुञ्जते । तदा स केवलो जातः कैवल्यत्वं प्रजायते ॥ अग्निकर्मप्रसङ्गेन दीपस्तैलं प्रशोषयेत् । वर्त्याधारेण राजेन्द्र निस्तमो वायुवर्जितः || कज्जलं वमते पश्चात्तैलस्यापि महामते । [कृष्णा सा दृश्यते रेखा दीपस्याग्रे महामते ] ॥ स्वयमाकर्षते तैलं तेजसा निर्मलो भवेत् । देहवर्तिस्थितस्तद्वत्कर्मतैलं प्रशोषयेत् ।। विषयान्कज्जलं कृत्वा प्रत्यक्षान्संप्रदर्शयेत् । जाप्येन निर्मलो भूत्वा स्वयमेव प्रकाशयेत् ॥ क्रोधादिभिः क्लेशसंज्ञैर्वायुभिः परिवर्जितः । निस्पृहो निश्चलो भूत्वा तेजसा स्वयमुज्ज्वलेत् ६७ त्रैलोक्यं पश्यते सर्व स्वस्थानस्थः स्वतेजसा । [ केवलं ज्ञानरूपोऽयं मया ते परिकीर्तितः ६८ ध्यानं चैत्र प्रवक्ष्यामि द्विविधं तस्य चक्रिणः ] । केवलं ज्ञानरूपेण दृश्यते ज्ञानचक्षुषा ।। योगयुक्ता महात्मानः परमार्थपरायणाः । यं पश्यन्ति यतीन्द्रास्ते सर्वज्ञं सर्वदर्शकम् ।। हस्तपादादिहीनश्च सर्वत्र परिगच्छति । सर्वे गृह्णाति त्रैलोक्यं स्थावरं जङ्गमं सुत । मुखनासाबिहीनस्तु घाति भुक्ते हि पुत्रक । अकर्णः शृणुते सर्व सर्वसाक्षी जगत्पतिः ।। अरूपो रूपसंपन्नः पञ्चवर्गसमन्वितः । सर्वलोकस्य यः प्राणः पूजितः स चराचरैः ।। rfast वदते सर्व वेदशास्त्रानुगं सुत । अत्वचः स्पर्शमेवापि सर्वेषामेव जायते ॥ सदानन्दो विरक्तात्मा एकरूपो निराश्रयः । निर्जरो निर्ममो व्यापी सगुणो निर्गुणोऽमलः ।।७५ अवश्यः सर्ववश्यात्मा सर्वदः सर्ववित्तमः । तस्य ध्याता न चैवास्ति सर्वैः सर्वमयो विभुः ७६ एवं सर्वमयं ध्यानं पश्यते यो महात्मनः । [*स याति परमं स्थानममूर्तममृतोपमम् ॥] ७७ द्वितीयं तु प्रवक्ष्यामि ह्यस्य ध्यानं महात्मनः । मूर्ताकारं तु साकारं निराकारं निरामयम् ॥ ७८ ब्रह्माण्डं सर्वमतुलं वासितं यस्य वासना । ( ) स तस्माद्वासुदेवेति उच्यते मम नन्दन ॥ वर्षमाणस्य मेघस्य यद्वर्षं तस्य तद्भवेत् । सूर्यतेजःप्रतीकाशं चतुर्बाहुं सुरेश्वरम् ||
७०
1
७१
७२
७३
७४
७९ ८०
५७
५८
* एतविहान्तर्गतः पाठः क. ख. ड.च. छ. झ. ढ. पुस्तकस्थः । एतचिहान्तर्गतः पाठो घ. ट. ड. ट. पुस्तकस्थः । * अत्र "ड" पुस्तके, अधिको प्रन्थो दृश्यते स संगतिहीनो भात्यत एव टिप्पणीरूपेण दीयते "केवलं ज्ञानरूपोऽसौ विश्वात्मा प्रीयतामिति । अनेन विधिना विद्वान्कुर्याद्यः शुभमुत्तमम् । इदं पठेद्यः शृणुयान्मुहूर्ते पश्येत्प्रसङ्गादपि दी. मानम् । सोऽप्यत्र संघातविमुतदेहः प्राप्नोति विद्याधरनायकत्वम् । यावत्समाः सप्त नरः करोति यः सप्तमी सप्तविधानयुक्ताम्” इति ।
* एतच्चिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड ढ पुस्तकस्थः ।
१ क. ख. ङ च छ झ मलवर्जितम् । २ ८. विविधं । ३ छ. झ. ते तेन च । ४ क. ख. च. द. न्ति विनिद्रास्तु यतयः स' । छ. न्ति विनिद्रास्तु सर्वगं स । ५. वैकृत्परि । ६क. ख. ड. च. छ. स. ट. वशं गतः । ७ म. ब्रह्मणः सर्वमतुलावा । ८ म सिता य' ।
Page #311
--------------------------------------------------------------------------
________________
३०६
८७ सप्ताशीतितमोऽध्यायः ] पद्मपुराणम् । दक्षिणे शोभते शको हेमरत्नविभूषितः । सूर्यबिम्बममाकारं चक्रं पद्मप्रतिष्ठितम् ॥ ८१ कौमोदकी गदा तस्य महासुरविनाशिनी । वामे च शोभते वत्स करे तस्य महात्मनः ॥ ८२ महापद्मं तु गन्धाव्यं तस्य दक्षिणहस्तगम् । शोभमानं सदा ध्यायेत्सायुधं कमलाप्रियम् ॥ ८३ कम्बुग्रीवं वृत्तमास्यं पद्मपत्रनिभेक्षणम् । राजमानं हृषीकेशं दशनै रत्नसंनिभैः ॥ ८४ गुडाकेशाः सन्ति यस्य अधरं बिम्बसंनिभम् । शोभते पुण्डरीकाक्षः किरीटेनापि पुत्रक ॥ ८५ विशालेनापि रूपेण केशवस्तु सुचक्षुषा । कौस्तुभेनापि वै तेन राजमानो जनार्दनः ॥ ८६ सूर्यतेजःप्रकाशाभ्यां कुण्डलाभ्यां प्रभाति च । श्रीवत्साङ्केन पुण्येन सर्वदा राजते हरिः ॥ ८७ केयूरकङ्कणेोरैमौक्तिकैऋक्षसंनिभैः । वपुषा भ्राजमानस्तु विजयो जयतां वरः ॥ ८८ राजते मोऽपि गोविन्दो हेमवर्णन वासमा । [*मुद्रिकारत्नयुक्ताभिरङ्गुलीभिर्विराजते ॥ ८९ सर्वायुधैः सुसंपूर्णो दिव्यगभग्णहगिः । वैनतेयसमारूढो लोककर्ता जगत्पतिः॥ ९० एवं तं ध्यायते नित्यमनन्यमनसा नरः । मुच्यने सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ ९१ एतत्ते सर्वमाख्यातं ध्यानमेव जगत्पतेः । व्रतं चैव प्रवक्ष्यामि सर्वपापनिवारणम् ॥ इति श्रीमहापुराणे पाद्मे भूमिग्वण्डे वेनीपाट्याने गुरुतीर्थे षडशीतितमोऽध्यायः ॥ ८६ ।।
आदितः श्लोकानां समष्ट्यङ्काः-७३३८
अथ मनाशीतितमोऽध्यायः ।
कुञ्जल उवाचव्रतभेदान्प्रवक्ष्यामि यैश्च आगध्यते हरिः । जया च विजया चैत्र जयन्ती पापनाशिनी ॥ १ त्रिःस्पृशा वजुली चान्या निलगन्धा तथाऽपग । अग्वण्डा द्वादशी चान्या मनोरक्षा सुपुत्र।।२ दिव्यप्रभावाः सन्त्यन्यास्तिथयः पुत्रपात्रदाः । अशन्यशयनं चान्य जन्माष्टमीमहाव्रतम् ॥ ३ एतेव्रतैः समाचीर्णैः पापं दूरं प्रयानि च । प्राणिनां नात्र संदेहः सत्यं सत्यं वदाम्यहम् ॥ ४ स्तोत्रं तस्य प्रवक्ष्यामि पापगशिप्रणाशनम् । सुपुत्र शतनामाख्यं नराणां गतिदायकम् ॥ ५ तस्य देवस्य कृष्णस्य शतनामाव्यमुत्तमम् । संप्रत्येव प्रवक्ष्यामि तच्छृणुष्व सुपुत्रक ॥ ६ विष्णोर्नामशतस्यापि ऋर्षि छन्दो वदाम्यहम् । देवं चैव महाभाग सर्वपातकशोषणम् ॥ ७ [*विष्णोर्नामशतस्यापि ऋपिब्रह्मा प्रतितः । ओंकारी देवता प्रोक्तश्छन्दोऽनुष्टुप्तथैव च ॥ सर्वकामिकसंसिद्ध्यै माक्षे च विनियोगकः ।। नमाम्यहं हृषीकेशं केशवं मधुसूदनम् । सूदनं सर्वदैत्यानां नारायणमनामयम् ॥
एतचिहनान्तर्गतः पाठः क. ख घ. ड च. छ. झ. ट. ठ. दु. द. पुस्तकस्थः । एतदादिविनियोगक इत्यन्तग्रन्थस्थाने 'अस्य विष्णोः शतनामस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः मदोकारो देवताऽनष्टपछन्दः मर्वकामनासिद्धर्थ सर्वपापाप. क्षयार्थे विनियोगः ' इन्ययं ग्रन्थः, ट. पुस्तके दृश्यते । क. ख. घ. इ. च. छ. झ. ट. ड. द. पुस्तकेष्वप्ययं ग्रन्थः किंचिद्भिन्नतया दृश्यते।
१ अ. पद्म प्र । २ ड. विद्रुमाकृति । ३ क. ख.इ. च. ह. सुवर्चमा । छ. स. सुवक्षसा । ४ ड. "गैमौं । ५ . 'न्याऽनिलदग्धा त। ६ क. ख. च. चारका । . क. मनोरथा । ८ क. ख. च.छ. झ. इ. द. क । एकादश्यास्तु भेदाश्च सन्ति पुत्र ह्यनेकधा । अ।
Page #312
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासमणीतं
[ २ भूमिखण्डेजयन्तं विजयं कृष्णमनन्तं वामनं तथा । विष्णुं विश्वेश्वरं पुण्यं विश्वात्मानं सुरार्चितम् ।। १० अनघं त्वघहर्तारं नारसिंहं श्रियः प्रियम् । श्रीपति श्रीधरं श्रीदं श्रीनिवासं महोदयम् ॥ ११ श्रीरामं माधवं मोक्षं क्षमारूपं जनार्दनम् । सर्वज्ञं सर्ववेत्तारं सर्वेशं सर्वदायकम् ॥ १२ हरि मुरारि गोविन्दं पद्मनाभ प्रजापतिम् । आनन्दं ज्ञानसंपन्नं ज्ञानदं ज्ञानदायकम् ॥ १३ अच्युतं सबलं चन्द्रवक्त्रं व्याप्तपरावरम् । योगेश्वरं जगद्योनि ब्रह्मरूपं महेश्वरम् ॥ मुकुन्दं चापि वैकुण्ठमेकरूपं कविं ध्रुवम् । [श्वासुदेवं महादेवं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ १५ गोपियं गोहितं यज्ञं यज्ञाङ्गं यज्ञवर्धनम् । यज्ञस्यापि सुभोक्तारं वेदवेदाङ्गपारगम् ॥ १६ वेदशं वेदरूपं तं विद्यावासं सुरेश्वरम् ] । प्रत्यक्षं च महाहंसं शङ्कपाणिं पुराननम् ॥ १७ पुष्करं पुष्कराक्षं च वाराहं धरणीधरम् । प्रद्युम्नं कामपालं च व्यामध्यातं महेश्वरम् ॥ १८ सर्वसाग्व्यं महासागम्यं सांख्यं च पुरुषोत्तमम् । योगरूपं महाज्ञानं योगीशमजितं प्रियम् ॥ १९ असुरारि लोकनाथं पद्महस्तं गदाधरम् । गुहावासं मवासं पुण्यवामं महाजनम् ॥ २० [*वन्दानाथं बृहत्कायं पावनं पापनाशनम् । गोपीनाथं गोपसग्वं गोपालं गोगणाश्रयम् ।। २१ परात्मानं पराधीश कपिलं कार्यमानुपम् । नमामि निग्विलं नित्यं मनोवाकायकर्मभिः ॥ २०
नाम्नां शतेनापि तु पुण्यकता यः स्ताति कृष्णं मनसा स्थिरण ।।
__स याति लोकं मधुसूदनस्य विहाय दोपानिह पुण्यभृतः ।। नानां शतं महापुण्यं सर्वपातकशाधनम् । अनन्यमनसा च्यायजपद्ध्यानममन्वितः ॥ २४ नित्यमेव नरः पुण्यं गङ्गान्नानफलं लभेत् । तस्मात्तु सुस्थिरो भूत्वा समाहितमना जपत् ।। २५ त्रिकालं यो जपन्पत्यो नियती नियम स्थितः । अश्वमेधफलं तस्य जायनं नात्र संशयः ॥ २६ एकादश्यामुपाप्येव पुरता माधवस्य यः । जागर प्रजएन्मत्यस्तस्य पुण्यं वदाम्यहम् ॥ पुण्डरीकस्य यज्ञस्य फलमामानि मानवः ।। तुलसीसंनिधी स्थित्वा मनसा या जपन्नरः । राजसूयफलं भुतं वर्षणापि च मानवः ॥ २८ शालग्रामशिला यत्र यत्र द्वारावतीशिला । उभयोः संनिर्धा जाप्यं कर्तव्यं सुखमिच्छता ॥ २९. वहुसोख्यं प्रभुक्त्वव कुलानां शतमेव च । एकेन चाधिकं मर्त्य आत्मना सह तारयेत ॥ ३० कार्तिके स्नानकर्ता यः पूजयन्मधुसूदनम् । पठेत्तत्पुरतः स्तोत्रं स याति परमां गतिम् ॥ ३१ माघस्नायी हि संपूज्य भक्त्या च मधुसूदनम् । ध्यायेचैव हृषीकेशं जपेद्वाऽथ शृणोति च ॥३२ मुरापानादिपापानि विहाय परमं पदम् । विना विघ्नं नरः पुत्र संप्रयाति जनार्दनम् ॥ ३३ श्राद्धकाले हि यो मर्यो भुञ्जतां च द्विजन्मनाम् । यो जपेच्च शतं नाम्नां स्तवं पापविनाशनम् ।। पितरस्तुष्टिमायान्ति तृप्ता यान्ति परां गतिम् ।।
* एतचिनान्तर्गतः पाठः क. ख. घ. इ. च. छ. झ. ट. ट. इ. द. पुस्तकम्थः । एतचिहनान्तर्गतोऽयं पाठो ज. पुस्तक एव ।
१.ख. ड.च.. झ. ड. द. विश्वाधारं । २इ. श्रीकर । ३. विज्ञानं । ४ क.ख. घ. इ. च. छ.झ.ट.ठ. ड. द. पं जगत्पतिम् । ५ क. ख. र च छ. झ. ड. द. म् । अव्यक्त तं म । ६ ज. व्याम धन्य म । ५ ड. ख्यं सांख्यगम्यं दैत्यन्नं पु । ८ क. ख. ड. च. द. स्य मोक्षं च । ९ क ख. १ च. ड. द. योगिनां गतिदं । छ. झ. योगिनां मतिदं । घ. ट.. योगिनाजितं । १.क. ख. . च. छ. झ. द. म् । मुरारि लोकनाथं त प । ११ घ. ट. ट. पुण्यहामं । छ. स. ड.प्पहासं । १२ क. ख. घ. दृ. च. छ. झ.दें. र. ड.दत्यं नारायणमनामयम् । ना । १३ क. ख. घ. छ, च. छ. झ. ट. ड. ढ. 'म् । पूजयच्च है।
Page #313
--------------------------------------------------------------------------
________________
८८ अष्टाशीतितमोऽध्यायः ]
पद्मपुराणम् ।
३०७
ब्राह्मणो वेदविच्चवै क्षत्रियां विजयी भवेत् । धनधान्यं प्रभुञ्जीत वैश्यो जपति यः सदा ।। ३५ शूद्रः सुखं प्रभुङ्क्ते च ब्राह्मणत्वं च गच्छति । प्राप्य जन्मान्तरं वत्स वेदविद्यां विन्दति ।। ३६ सुखदं मोक्षदं स्तोत्रं जप्तव्यं च न संशयः । केशवस्य प्रसादेन सर्वसिद्धो भवेन्नरः ॥
३७
इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने गुरुतीर्थे सप्ताशीतितमोऽध्यायः ॥ ८७ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ७३७५
अथाटाशीतितमोऽध्यायः ।
कुञ्जल उवाच
तं स्तोत्रं महाध्यानं ज्ञानं चैव सुपुत्रक । मयाssख्यातं तत्राग्रे च विष्णोः पापप्रणाशनम् ॥ १ एवं चनुष्टयं साँ हि सदा पुण्यं समाचरेत् । प्रयाति वैष्णवं लोकं सर्वमौख्यप्रदायकम् ।। २ इतो गत्वा भवान्वत्स दिव्यादेवीं प्रबोधय । अनृन्यशयनं नाम व्रतराजं वदस्व ताम् || समुद्धर महापापाद्राजकन्यां यशस्विनीम् ॥
I
त्वया पृष्टं मयाऽऽख्यातं पुण्यदं पापनाशनम् । गच्छ गच्छ महाभाग इत्युक्त्वा विरराम सः ४ विष्णुरुवाच --
एवमुक्तोज्ज्वलस्तु सुपित्रा कुञ्जलेन हि । प्रणम्य पादौ धर्मात्मा मातापित्रोर्महामतिः । जगाम त्वरितो राजन्लक्षद्वीपं स उज्ज्वलः ॥
७
तं गिरिं सर्वतोभद्रंमाकुलम् । नानारत्नमयैस्तुङ्गैः शिरैरुपशोभितम् ।। नानाप्रवाहसंपुर्णरुकनिर्मलैर्नृप । [ नद्यः सन्ति विशालास्तास्तस्मिन्गिरिवरोत्तमे । किन्नरास्तत्र गायन्ति गन्धर्वाः सुस्वरं नृप ] | अत्मभिः समाकीर्ण देववृन्दैः समाश्रितम् ॥ ८ सिद्धचारणसंघुष्टं मुनिवृन्दैरुपासितम् । नानापक्षिनिनादैश्च सर्वत्र परिनादितम् ।।
एवं गिरिं समासाद्य उज्ज्वलो लघुविक्रमः । सुखरेणापि तां दिव्यांदेवीं तत्र समास्थिताम् ॥ १० रोरूयमाणां तां प्राज्ञां वचनं चेदमब्रवीत् । का त्वं भवसि कस्यामि कस्माद्रोदिपि सांप्रतम् ।। ११ कस्मात्खिन्ना महाभागे न ते विप्रियं कृतम् । समाचक्ष्वं त्वमनघे सर्व दुःखस्य कारणम् ॥ १२
दिव्यादेव्युवाच
१४
विपाको हि महाभाग कर्मणां मम सांप्रतम् । इह तिष्ठामि दुःखेन वैधव्येन समन्विता ॥ १३ [*भवान्को हि महाभाग कृपया मम पीडितः । पक्षिरूपधरी भद्र सुस्वरं परिभाषसे ॥ raara तत्सर्वं भाषितं राजकन्यया । अहं पक्षी महाभागे न सिद्धी नापि ज्ञानवान् ।। १५ रुदमानां महालापैस्त्वां दृष्ट्वा तु मया इह । तदा पृच्छाम्यहं देवि वद मे कारणं त्विह ] ॥ १६
* एतचिह्नान्तर्गत. पाठ: क. ख. ड. च. छ. झ. उ. पुस्तकस्थः । * एतचिदान्तर्गतः पाठः क. ख. घ ङ च छ झ ट ठ ड ढ पुस्तकस्थः ।
१ क. ख. ड. च. छ. झ. ढ यो विन्दते महीम् । ध । २८ नबुद्धिं प्र । ३. यो । ४ क. ख. ङ. च. द. "कं देवानामपि दुर्लभम् । ५ क. ख. च. छ. झट, वृन्देरुपासित । ६ क. ख. ङ च छ झ. उ. 'दैरलंकृत । ७ ड. ड. द. पि सा कन्या गिरौ तस्मिन्प्ररोदिति । रो । ८ क. ख. घ. ङ. च. छ. झ ट ठ ड. ट. कल्याणि । ९ड. स्मा त्स्थितं मं । १० क. ख. घ. ड. च. छ. झ ट ठ ड ढ क्ष्व ममाचैव स ।
Page #314
--------------------------------------------------------------------------
________________
२५
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेपितुर्गेहे यथावृत्तमात्मवृत्तान्तमेव हि । तया चाऽऽवदितं सर्व यथासंख्येन दुःखदम् ॥ १७ तदाकर्ण्य समासेन उज्ज्धलो हि महामनाः। तामुवाच महापक्षी दिव्यादेवीं सुदुःखिताम् ॥ १८ यथा तब विवाहे च भारो मरणं गताः । स्वयंवरनिमित्तेन क्षयं गतं च क्षत्रियम् ॥ १९ एतत्ते चेष्टितं सर्व मयो पितरि भाषितम् । अन्यजन्मकृतं कर्म तव पापं सुलोचने ॥ २० मम पित्रा ममाग्रे च त्वत्कर्म परिभाषितम् । [*तेन दोपेण सम्यक्त्वं लिप्ताऽसि तु वरानने २१ एतावत्कारणं सर्व अ॒कस्य परिपृच्छितम् । पूर्व कर्मविपाकं च भुझ्व त्वं च स्वमाशु च ।। २२ अथ सा तद्वचः श्रुत्वा नृपकन्योज्ज्वलस्य तु । प्रत्युवाच महात्मानं ब्रुवन्तं पक्षिणं शुभम् ॥ २३ माननीयोऽसि मे पक्षिन्कृपां कुरु माय प्रभो । कथयम्ब प्रसादेन तम्य पापस्य निप्कृतिम् ॥२४ प्रायश्चित्तं सुपुण्यं च मम पातकशांधनम् । येन प्रामोम्यहं पुण्यं विशुद्धाशेषकिल्विषा । ['प्रायश्चित्तं महाप्राज्ञ वदस्व त्वं प्रसादतः] ॥
उज्ज्वल उवाचस्वदर्थ तु महाभागे कुजलः पृच्छितो मया । ममाव्यानं तु तेनापि प्रायश्चित्तमनुत्तमम् ॥ २६ तत्कुरुप्व महाभागे मर्वपातकशोधनम् । ध्यायम्ब हि हपीकेशं शतनामजपं कुरु ॥ २७ जपयज्ञेन वे देवि कुरु व्रतमनुत्तमम् । अन्यशयनं नाम महापातकशोधनम् ॥ समाचष्टे स धर्मात्मा सर्वज्ञानप्रकाशकम् । ध्यानं स्तोत्रं स्वरूपं च विष्णाश्चैव महात्मनः ॥ २९
विष्णुरुवाचतस्मात्मा जगृहे सर्व संस्थिता निर्जने वने । सर्वद्वंद्वविनिमुक्ता संजाता तपसि स्थिता ॥ ३० [श्वतं चक्रे जिताहारा निगधारा सुदुःखिता] । कामक्रांधविहीना च वर्ग मंयम्य नित्यशः ॥ इन्द्रियाणां महाराज महामाहं निरस्य च ॥ अब्दे चतुर्थके प्राप्ते सुप्रसन्नी जनार्दनः । तस्य संदर्शयामास स्वरूपं वरदः प्रभुः ।। ३२
सूत उवाच--- इन्द्रनीलघनश्यामं शङ्खचक्रगदाधरम् । सर्वाभरणशोभाढ्यं पद्महस्तं महेश्वरम् ॥ बद्धाञ्जलिपुटा भूत्वा वेपमाना निराश्रया । उवाच गद्गदेर्वाक्यैननाम मधुसूदनम् ॥ ३४ तेजसा तव दिव्येन ध्यातुं शक्नोमि नैव हि । दिव्यरूपी भवान्कस्त्वं तद्वद कृपया प्रभो ।। ३५ ['कथयस्व प्रसादेन किमत्र तव कारणम् । सर्वमेव प्रसादन प्रब्रवीहि महामने ॥ देवमेव विजानामि तेजसा इङ्गितेस्तव । ज्ञानहीना जगन्नाथ न जान रूपनामनी ॥ किं च ब्रह्मा भवान्विष्णुः किं वा शंकर एव वा ॥] एवमुक्त्वा प्रणम्येव दण्डवद्धरणी गता । तामुवाच जगन्नाथः प्रणतां राजनन्दिनीम् ॥ ३८
२
मान॥
३६
* एतचिहनान्तर्गत. पाट: क.ख, घ..च. छ. झ.ट.ट.ड. पुस्तकस्थः। एतचिहनान्तर्गतः पाठो घ. ड. ड, पुस्तकस्थः । * एतचिहान्तगतः पाप्टः क.ख. घ.ह.च. झ. इ.. पुस्तक स्थः । + एतचिहान्तगतः पाठः क. ख. इ. च. झ. ड, ढ, पुस्तकस्थः ।
१ह, महामतिः । २ क. ख. ड, च. द. या तु परिवदित । ड. याऽपि परिवदित । ३ घ. इ. ट, ठ. ड. ग्रे तत्कृपया प। ४ छ, झ, प्रश्नस्य । ५ क. ख. ड.च. छ. झ. ड. द. पुनः । ६ इ. छ. झड. द. म् । प्रणता दीनया वाचा कुरु तात कृपां मम । क । ७ क. ख. घ. इ. च. छ. झ. ट. १. रु। भव ज्ञानपरा नित्यं कु । ८ क. ख. घ. च. द, ठ. इ. स्यै सदातुकामस्तु वर वरदनायकः । म क ख. ड. च. छ. झ. ड.. स्थातुं।
Page #315
--------------------------------------------------------------------------
________________
८९ उननवतितमोऽध्यायः ] पद्मपुराणम् ।
श्रीभगवानुवाचत्रयाणामपि देवानामन्तरं नास्ति शोभने । ब्रह्मा समर्चितो येन शंकरो वा वरानने ॥ तेनाहमचितो नित्यं नात्र कार्या विचारणा ॥ एतौ ममाभिन्नतरौ नित्यं चापि त्रिरूपवान् । अहं देवि हृषीकेशः कृपया तव चाऽऽगतः॥४० स्तवनानेन पुण्येन व्रतेन नियमेन च । संजाता कल्मषींना वरं वरय शोभने ॥ ४१
दिव्यादेव्युवाचजयाजित हृषीकेश कृष्ण क्लेशापहारक । नमामि ते पदद्वंद्वं मामुद्धर भवार्णवात ॥ ४२ एष एवास्ति मे कामो वरणीयः प्रसीद मे । तव पादौ भजिष्यामि भक्तिं देहि ममानघ ॥ ४३ दर्शयस्व जगन्नाथ मोक्षमार्ग निरामयम् । दासत्वं देहि वैकुण्ठे यदि तुष्टी जनार्दन ॥ ४४
भगवानुवाचएवमस्तु महाभागे निधूताशेषकिल्विषा । वैष्णवं परमं लोकं दुर्लभं योगिनां सदा ॥ ४५ गच्छ गच्छ महालोकं प्रमादान्मम सांप्रतम् । एवमुक्ता महाभागा माधवेन महात्मना ॥ ४६ दिव्यादेवी ह्यभूहिव्या सूर्यतेजःसमप्रभा । पश्यतां सर्वलोकानां दिव्याभरणभूषिता ॥ ४७ दिव्यमालान्विना सा चे मुक्ताहारविलम्बिनी । गता सा वैष्णवं लोकं दाहालयवर्जितम् ॥ ४८ उज्ज्वलस्तु समायातः म्वगृह हर्षसंयुतः । तत्सर्व कथयामास पितरं प्रति सत्तमः ॥ ४९ इति श्रीमहापुराणे पाद्म भूमिखण्डे वेनोपाख्याने गुरुतीर्थऽटाशीतितमोऽध्यायः ॥ ८८ ॥
आदितः श्लोकानां ममष्ट्यङ्काः-७४२४
अथोननवनितमोऽध्यायः ।
विष्णुरुवाच कुञ्जलस्तु ततः श्रुत्वा द्वितीयं वाक्यमब्रवीत् । भवान्कथय नन्सर्व किमपूर्व च दृष्टवान् ॥ श्रुतवांश्चाप्यपूर्व वा श्रोतुकामोऽस्मि मांप्रतम् ।। एवं पित्रा समादिष्टः कुञ्जलेन समुज्ज्वलः । पितरं प्रत्युवाचाथ विनयावनतस्ततः ॥
समुज्ज्वल उवाचहिमवन्तं नगश्रेष्ठं देवन्दनिपवितम् । आहारार्थ प्रगच्छामि भवनश्चाऽऽत्मनः पितः ॥ [*पश्यामि कौतुकं नित्यं यन्न दृष्टं श्रुनं कर्दा ] ॥ गन्धर्वऋषिसंकीर्णमप्सरांभिः प्रशोभितम् । बहुकौतुकशोभाढ्यं मङ्गलं मङ्गलेयुतम् ॥ बहुपुष्पफलोपेतैर्वनैर्नानाविधैस्तथा । अनेकौतुकभर्रर्मानसं परिराजते ॥ तत्र दृष्टं मया तात अपूर्व कौतुकं तदा । बहुहंससमाकीर्णो हंस एकः समागतः ॥
* एतचिह्नान्तर्गतः पाठः क. ख. घ. हु. च. छ. झ. ट. ठ. इ. ढ. पुस्तकस्थः ।
क. ख. घ. ङ. च. छ. झ. ट. . ढ. णा। अभिन्नी पूजिनी येश्च तैरहं च प्रपूजितः । अ। २ क. ख. घ. ड. च. छ. झ. ट. ठ. ड. द.त् । वरं मे दातुकामोऽसि चक्रपाणे प्र। ३ क. ख च. छ. स. उ.द.च दिव्यहा। ४ घ. ट. ठ. ड. सत उवाच । ५ छ. देवामुगनि । घ. इ. देववृक्षनि । ६ ड. “दा । देवर्षिगगसं'। ७क. ख. घ. ङ च. छ. म. ट. ठ. ड. द. मानमान्तिके । ब'।
Page #316
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेस च कृष्णो महाभाग त्रयोऽप्यन्ये समागतोः । सितेतरैश्चञ्चुपादैरन्यतःशुक्लविग्रहाः॥ ७ चतस्रस्तत्र वै भार्या रौद्राकारा विभीषणाः । दंष्ट्राकरालसंक्रूरा ऊर्ध्वकेश्यो भयानकाः॥ पश्चात्तेषां समायातास्तस्मिन्सरास मानसे । कृष्णहंसास्तु संस्नाता मानसे तात मत्पुरः। विभ्रान्ताः परितश्चान्ये न स्नातास्तत्र मानसे ॥ ९ कृष्णान्हसांस्तु संस्नाताञ्जहसुस्तास्त्रियस्तदा । ततः पूर्व विनिष्क्रान्तो हंस एको महातनुः १० पश्चात्रयो विनिष्क्रान्तास्तेश्चाहे समुपेक्षितः । विहायसा प्रयातास्ते विवदन्तः परस्परम् ॥ ११ तास्तु स्त्रियो महाभीताः समन्तादिवि बभ्रमुः । विन्ध्यस्य शिखरे पुण्ये वृक्षच्छायासु पक्षिणः॥ निषण्णास्तत्र ते सर्वे दग्धा दुःवै मुदारुणः । तेषां संपश्यमानानां लुब्धकः समुपागतः ॥ १३ मृगयां क्रीडयित्वा तु बाणपाणिर्धनुर्धरः । शिलातलं समासाद्य निषसाद सुखेन वै ॥ १४ पश्चाद्भिल्ली समायाता अनमादाय चोदकम् । स्वप्रियं पश्यते तावत्सदृशैर्लक्षणेर्युतम् ॥ १५ अत्यद्भुतं तया दृष्टं स्वकान्तस्तेजसाऽन्वितः । दिव्यतेजःसमाक्रान्तो यथा सूर्यो दिवि स्थितः॥ [*पुंसमन्यं परिज्ञाय तं परित्यज्य सर्पिता ।।
व्याध उवाचएोहि त्वं प्रिये चात्र करमान्मां त्वं न पश्यसि । क्षुधया पीड्यमानाऽहं त्वामहं चावलोकये।।१७ तस्य वाक्यं समाकर्ण्य शीघ्रं व्याधी समागता । भर्तुः पार्थ समासाद्य विस्मिता चाभवत्तदा]। कोऽयं तेजःसमाकारो देवोपमः समाहयेत् ॥
१८ तमुवाच ततो व्याधी भर्तारं दीप्ततेजसम् । अत्र किं ते कृतं वीर यद्भवान्दिव्यलक्षणः ॥ १९
सूत उवाचएवमाभाषितो व्याध्या व्याधः प्रियामभाषत । अहं ते वल्लभः कान्तं भवती च मम प्रिया ॥२० कमोन्मां नैव जानासि कथं शङ्का प्रवर्तयः । क्षुधया पीडयमानोऽहं पयश्चान्नं पदीयताम् ॥२१
व्याध्युवाचबर्बरः कृष्णवर्णश्च रक्ताक्षः कृष्णकश्चकः । ईदृशश्चास्ति मे भर्ता सर्वसत्वभयंकरः ।। २२ भवान्को दिव्यदेहस्तु प्रियेन्युक्त्वा समाह्वयेत् । एवं मे संशयं जातं वद सत्यं ममाग्रतः ॥ २३ कुलं नाम स्वकं गोत्रं क्रीडालिङ्गं तथैव च । समाचष्टे(ष्ट) प्रियायास्तु तस्याः प्रत्यय आगतः २४ प्रत्युवाचाथ सा व्याधी भर्तारं हृष्टमानसा । कस्मात्तवदृशः कायः श्वेतकञ्चकधारकः ॥ कथं जातः समाचक्ष्व महातेजःसमन्वितः ॥
सूत उवाचएवं संपृच्छ्यमानस्तु भार्यया मृगघातकः । प्रत्युवाच ततो लुब्धस्तां मियां सुखदायिनीम्॥२६ नर्मदोत्तरकूले तु संगमश्चास्ति सुव्रते । आतपेनाऽऽकुलो जीवा मम जातस्तु सुप्रिये ॥ २७ अस्मिन्हि संगमे कान्ते श्रमश्रान्तोऽस्मि सत्वरम् । गतः स्नात्वा जलं पीत्वा पश्चादिह समागनः २८
* एतचिहान्तर्गतः पाठः क. ख. इ. च. छ. झ. ड. द. पुस्तकस्थः ।। १३. हातेजात्रयो । २ ड. 'ताः । तादृशास्ते च वाला वा अन्ये शुभ्रा महीपते । च । ड. झ ८. 'ताः । तादृशास्ते च नीला वा अन्ये शुभ्रा महीपते । । ३ अ. वोऽयं सम्पागतः । त । ४ क. ख. ड. च. ड. ४. प्रियम । ५ इ. 'स्मान ज्ञायसे कान्ते तस्माद्धास्यं प्रवर्तते । क्षु । ६ क. ख. ङ. च. छ. झ. द. प्रामं । ७ क. ख. ङ. च. छ. झ. ड. ढ. व ममाऽऽश्चर्य प्रवर्तते । सू ।
Page #317
--------------------------------------------------------------------------
________________
९० नवतितमोऽध्यायः]
पअपुराणम् । नदाप्रभृति मे काय ईदृशस्तेजमाऽऽवृतः । संजातो बहुशोभाढ्यः कञ्चकः सुप्रभा गतः॥ २९ तेनाऽऽख्याते कुलादौ च प्रत्यक्षं लक्षिते तथा । निश्चित्य संगमे पुण्यं विज्ञातं च तया ततः ३० प्रत्युवाचाथ भारं संगमं मम दर्शय । तव पश्चात्मदास्यामि भोजनं मानसंयुतम् ॥ ३१ इत्युक्तः प्रियया व्याधः सत्वरं प्रजगाम ह । संगमो दर्शितस्तस्यै तेनासौ पापनाशनः ॥ ३२ सभार्यास्ते महाभाग पक्षिणो लघुविक्रमाः । ताभ्यां साधं ययुः सर्वे रेवासंगममुत्तमम् ॥ ३३ तेषां तु पश्यमानानां पक्षिणां मम पश्यतः । तयाऽपि नापितो भर्ता पुनः स्नाता हि साऽपि च ३४ दिव्यदेहधरी चोभी दिव्यकान्तिसमन्वितौ । पश्यतां पक्षिणां चैव दिव्यवस्वानुलेपनौ ॥ ३५ दिव्यमालाम्बरधरौ दिव्यगन्धानुलेपनौ । वैष्णवं यानमासाद्य मुनिगन्धर्वपूजितौ ॥ ३६ [*गतो नौ वैष्णवं लोकं वैष्णवैः परिपूजितो] । स्तयमानौ महात्मानौ दंपती दृष्टवानहम् ॥३७ वजन्तो स्वर्गमार्गण कूजन्ति पक्षिणस्तदा । तीर्थराजवरं दृष्ट्वा हर्षयुक्ताक्षरैस्तथा ॥ ३८ चत्वारः कृष्णहंसास्ते मंगमे पापनाशने । नान्वा वे भावशुद्धास्ते प्राप्ता उज्ज्वलतां तदा ॥३९ स्नात्वा पीत्वा जलं ने तु पुनबहिर्विनिर्गताः। ताश्च पत्न्यस्तदा कृष्णा मृतास्तत्स्नानमात्रतः॥४० क्रन्दमाना विचेष्टन्त्यो हाहाकारभृशं पितः । यमलोकं गतास्तास्तु तात दृष्टा मया तदा ॥ ४१ उड्डीनास्तु ततो हंसाः स्वस्थानं पनि जग्मिरे । एवं नान मया दृष्टं प्रत्यक्षं कथितं तव ॥ ४२ कृष्णवर्णा महाकाया धार्तराष्ट्रास्तु तत्प्रियाः । कथयस्व प्रसादेन के भविष्यन्ति वै पितः ॥ ४३ निर्गतान्मानसान्मध्याद्धाराष्ट्रान्बदस्व में । ['के भविष्यन्ति मे तात कथयस्व च सांप्रतम्] ४४ कस्मात कृष्णतां प्राप्ताः कस्माद शुक्रतां पुनः । मंप्राप्तास्तत्क्षणाम्नाताः कस्मान्मृताश्च ताः स्त्रियः॥ एवं वै संशयस्तात संजातो दारुणो मम । छेनुमर्हति चाधव भवाज्ञानविचक्षणः ॥ प्रसादसुमुखो भत्वा प्रणतस्य सदव मे ॥ एवं संभाप्य पितरं विरगम समुज्ज्वलः । ततः प्रवक्तुमारेभे स शुकः कुञ्जलाभिधः॥ ४७ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपान्याने गुरुतीर्थ उननवतितमोऽध्यायः ॥ ८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७४७१
अथ नवतितमोऽध्यायः ।
सूत उवाचएवं पुण्यतमं श्रुत्वा समुज्ज्वलसुभापितम् । कुञ्जलः स हि धर्मात्मा प्रत्युवाच सुतं प्रति ॥ १
कुञ्जल उवाचसंप्रवक्ष्याम्यहं तात श्रूयतां स्थिरमानसः । मर्वमंदेहविध्वंसं पवित्रं पापनाशनम् ॥ इन्द्रलोकप्रवृत्तं तं संवादं देवकातकम् । सभायां तस्य देवस्य इन्द्रस्यापि महात्मनः॥ ३ एकदा तु महाप्राज्ञो नारदो मुनिमत्तमः । देवं द्रष्टुं सहस्राक्षं जगाम त्वरितस्तदा ॥ ४ ___ एतच्चिदान्तर्गतः पाटः क. ख. हु. च. छ. झ. ह. द. पुस्तक स्थः । । एतच्चिदान्तर्गतः पाठः क. ख. घ. ड. च. छ झ. ट. ठ. इ. ढ. पुस्तकस्थः ।
१ ड. तो वस्त्रसंयुक्तः क । हु. छ. द. तो वस्त्रसंयुक्तः कभुकः शुभ्रतां ग। २ इ. धस्तया सह ज। ३. नः । मुदितास्ते । ४ क. ख. तु च. छ. झ. ट. ट. ड. द. ती। संजाती पक्षिणां श्रेष्ठ दि।
Page #318
--------------------------------------------------------------------------
________________
३१२ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेतमागतं सहस्राक्षः सूर्यतेजःसमप्रभम् । ददर्श हर्षमापन्नः समुत्थाय महामतिः॥ ५ ददावय॑ च पाद्यं च भक्त्या प्रणतमानसः । बद्धाञ्जलिपुटो भूत्वा प्रणाममकरोत्तदा ॥ ६ आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम् । पप्रच्छ प्रणतो भूत्वा श्रद्धया परया युतः ॥ ७ कस्माचाऽऽगमनं तेऽद्य कारणं वद सांप्रतम् । इत्युक्ते देवराजेन प्रत्युवाच महामुनिः॥ ८ भवन्तं द्रष्टुमायातः पृथिवीलोकतो हरे । स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया ॥ ९ देवान्पितॄन्समभ्यर्च्य दृष्ट्वा क्षेत्राण्यनेकधा । [*एतत्ते सर्वमाख्यातं यत्वया पृच्छितं पुरा ॥१०
इन्द्र उवाचदृष्टानि पुण्यतीर्थानि क्षेत्राणि च त्वया मुने । किं तीर्थ प्राप्य देवर्षे मुच्यते ब्रह्महत्यया ॥ ११ मुरापो मुच्यते पापागोनो हेमापहारकः । मित्रद्रोहान्महापापी भार्याहा च तद्वद ॥ १२
नारद उवाचयानि कानि च तीर्थानि गयादीनि सुरेश्वर । तेषां नैव प्रपश्यामि विशेष पापनाशनम् ॥ १३ सुपुण्यानि मुदिव्यानि पापनानि समानि च । सर्वाण्येव सुतीर्थानि जानाम्यहं पुरंदर ॥ १४ अविशेषं विशेषं च नैव जानामि सांप्रतम् । प्रत्यक्षं क्रियतां देव तीर्थानां गतिदायकम् ॥ १५ एवं वाक्यं समाकर्ण्य नारदस्य महात्मनः । समाई तानि चेन्द्रेण तीर्थानि भृगतानि च ॥ १६ मूर्तिमन्ति च दिव्यानि ['समायातानि सांप्रतम् । बद्धाञ्जलीनि सर्वाणि ] भूषितानि सुभूषणः दिव्याम्बराणि स्निग्धानि तेजोवन्ति च सुव्रत। [*स्त्रीपुंसोम्तु स्वरूपाणि कृतानि च विशेषतः] हंसचन्द्रप्रकाशानि दिव्यरूपधराणि च । ['मुक्ताफलस्य वर्णेन प्रभासन्ति सुरेश्वर ] ॥ १९ तप्तकाश्चनवर्णानि सारुणानि च तत्र च । [*कान्त्या शुक्लमुपनिानि प्रभासन्ति समान्तरे ॥२० कानि पानि भान्त्येव मूर्तिमन्तीनि भान्ति च । सूर्यतेजःप्रकाशानि तडिद्वर्णानि कानिचि. कानिचिद्रौप्यवर्णानि हारकेयूरकङ्कणैः । मालाभिश्च सुशाभीनि कमण्डलुकराणि च ॥ तत्कालं स्मृतमात्रेण आयातानि सभान्तरै ।। गोमती नर्मदा पुण्या चन्द्रभागा सरस्वती । देविका बिम्बिका कुब्जा कुञ्जला मञ्जुला स्रुता २३ रम्भा भानुमती पुण्या पारा चैव सुघर्घरा । शोणा च सिन्धुसौवीरा कावेरी कपिला तथा।।२४ मुकुन्दा भेदिनी पुण्या सुपुण्या च महेश्वरी । चर्मण्वती तथा ख्याना लोपा चान्या सुकौशिकी
* एतच्चिहनान्तर्गतः पाठः क. ख. घ. ड. च. छ. इ. ट. ट ड. द. पुस्तकस्य । । एतच्चिद्वान्तर्गतः पाठः क. ख. घ. च. स. ट. ठ. ड. द. पुस्तकस्थः । * एतनिहनान्तर्गतः पाट: क. ख. घ. दु च. छ. झ. ट ट. डद. पुस्तकस्थः । + एतचिहनान्तर्गतः पाठः क. ख. घ. ड. च. छ. झ. ट. ट . द. पुस्तकस्थः । । एतचिहनान्तर्गत. पाठः क. ख. घ. ड. च. छ. झ. ट. 2. ड. ढ. पुस्तकस्थः ।।
१. त्ततः । आ । २ घ. ड. छ. झ. ट.ट. ड. द. कः । स्वामिद्रा।३ क ख. घ. ड. च. छ. झ. ट. ट. ड. ढ. हाभाग भा। ४ क. ख. च. पी नार्या हन्ता कथं सुखम् । ना । ट. 'पा नायर्या हता कथं सुखी । ना । झ. पी नार्या हन्ता कथं सुखी । ना। उ. द. 'पी नारीहन्ता कथं सूखी । ना । ५ क. ख. ड.च. छ. ड. द. प्रत्ययं । ६ क, ख. घ. ङ. च. छ. झ. ट. ठ. ड. द. हृय सहस्राक्षस्तीर्थान्भूतलसंस्थितान् । यानि कानि च तीर्थानि सर्वाणि भू। ७ घ. ट. ठ. ढ. 'नि सुरूपाणि पुरंदर । का। ८ क.ख. घ. ड. च. छ. झ. ट. ट. ड. द. त् । चकासति च राप्याणि प्रभासनि समान्तरे। सर्वाभरणवस्त्रायः प्रशोभन्ते नरेश्वर ॥ हारकङ्कणकेयरौलाभिस्तु पुरंदर । दिव्यचन्दनदिग्धानि सुरभीणि गुरूणि च ॥ कमण्डलकराण्येव ह्यागतानि सभा । ९क.ख. घ. इ.च. छ. स.ट. ठ. ड. ढ. 'रे। गहातुन। १० ङ. द. वैदिका।
Page #319
--------------------------------------------------------------------------
________________
९० नवतितमोऽध्यायः ] पद्मपुराणम् । सुहंसा हंसवाहा च हेमवेगा मनोरथा । मुरथा सारुणा वेगा सुषेणा च सुपमिनी ॥ २६ वाहनी सरघा चान्या पुण्या चान्या पुलन्दिका। हिमा मनारथा दिव्या चन्द्रिका वेदसंक्रमा२७ ज्वाला हुताशनी स्वाहा काला चैव कपिञ्जली । स्वधा सुकाला कालिङ्गा गम्भीरा हिमवाहिनी देवद्रवी वीरवाहा लक्षहोमाऽप्यघापहा । पाराशरी वेदगर्भा हेमवेशा सुपुण्ड्रकी ॥ २९ एता नद्यो महापुण्या मूर्तिमत्यो बघापहाः । सर्वाभरणशोभाव्याः कुम्भहस्ताः सुपूजिताः ॥३० प्रयागः पुष्करश्चैव सर्वतीर्थमनोरमः । वाराणसी महापुण्या ब्रह्महत्याव्यपोहिनी ॥ ३१ द्वारावती प्रभासश्च यवन्ती नैमिषस्तथा । दण्डक[*श्व दशारण्यं महेश्वरकलेवरौ ॥ ३२ कालञ्जरो ब्रह्मक्षेत्रं मथुगे नाम वाहकः । माया काची नथाऽन्यानि दिव्यानि विविधानि च ॥ अष्टषष्टिस्तु तीर्थानि नदीनां दश कोटयः । गोदावरीमुग्वाः सर्वाः समायातास्तदाज्ञया ॥ ३४ द्वीपानां तु समस्तानि तीथानि च महान्ति च । [+ पूर्तिलिङ्गधराण्येव सहस्राक्षं सुरेश्वरम्]॥३५ समाजग्मुः समस्तानि तदादेशकराणि च । प्रणेमुर्देवदेवेशं ननशीपाणि सर्वशः ॥ ३६ तैस्तु प्रोक्तो महातीर्थैर्देवराजस्तु सादरम् । कम्मानया समाहना देवराज बदस्व नः ॥ ३७ ब्रूहि नः कारणं सर्व नमस्तुभ्यं मुगधिप । एवमाणितं सर्वं तीर्थानां वचनं तदा।] एवमाकर्ण्य तद्वाक्यं देवराजोऽभ्यभापत ।। कः समर्थों महाभागा ब्रह्महत्यां व्यपाहितुम् । गोवधाग्व्यं महापापं स्त्रीवधाख्यमनुत्तमम् ।। ३९ स्वामिद्रोहात्समुद्भूतं सुरापानाच दारुणम् । हेमस्तेयोद्गतं पापं गुरुनिन्दासमुद्भवम् ।। ४० भ्रूणहत्यां महाघोरां कः समर्थो निवनितुम् । गजद्रोहं महापापं बहुपीडाप्रदायकम् ॥ ४१ मित्रद्रोहं तथा चान्यन्सर्वविश्वामघातकम् । देवभदं तथा चान्यल्लिङ्गभेदं ततः परम् ॥ ४२ वृत्तिच्छेदं च विप्राणां गांप्रचारप्रणाशनम् । अगाग्दाहनं चान्यद्रामदीपनकं परम् ॥ ४३ षोडशेत महापापा अगम्यागमनं तथा । स्वामित्यागात्समुद्भूतं रणस्थानात्पलायनम् ॥ ४४ एतानि नाशयत्को वै [ +ममर्थस्तीर्थसत्तमः । समर्थो भवतां मध्य प्रायश्चित्तं विना ध्रुवम्।।४५ पश्यतां देवतानां च नारदस्य च पश्यतः । ब्रुवन्त सर्वे संचिन्त्य निश्चितं पापनाशनम् ॥ ४६ एवमुक्ते शुभे वाक्ये देवेशेन महात्मना । संमन्त्र्य तीर्थराजेन प्रोचुः शक्रं समागतम् ॥ ४७
तीथान्यूचुः-- श्रूयतामभिधास्यामो देवराज नमोऽस्तु ते । यावन्ति मर्वतीर्थानि सर्वपापहराणि च ॥ ४८ ब्रह्महत्यादिकान्येव त्वयोक्तानि सुरेश्वरम् । महाघोराण पापानि नाशितुं नैव शक्नुमः ॥ ४९ प्रयागः पुष्करश्चैव सर्वतीर्थमनुत्तमम् । वाराणसी महाभाग सर्वपातकनाशिनी ॥ महापातकनाशाय चत्वारोऽमितविक्रमाः ॥ उपपातकनाशाय वयं धात्रा विनिर्मिताः । महापापापपापार्थं सृष्टोऽसौ पुष्करो ध्रुवम् ॥ ५१
३८
---
-
..---.
एतच्चिदान्तर्गतः पाठः क. ख. हु च छ झ. इ. द. पुस्तकस्थः । + एतचिहान्तर्गतः पाटः क. ख. घ. ज. च. छ. स. ट. ठ. ड. द. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. घ. हु. च. छ. . ट. ठ. ड. ढ. पुस्तकस्थः। + एतचिहान्तर्गत: पाठः क ख. घ. इ. च. छ. स. ट. ठ. ड. द. पुस्तकस्थः ।
१ क. ख. ड. छ. झ. ड. द. वेणा भद्रवेणा सु। २ क. स्व. इ. च. छ. इ. ८. हेमा ३ ड. शुद्धा । ४ छ. झ. हेमगी ।
Page #320
--------------------------------------------------------------------------
________________
११४
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराद ततः । हर्षेण महताऽऽविष्टस्तेषां स्तोत्रं चकार ह ॥ ५२ इति श्रीमहापुराणे पाद्म भूमिखण्ड वेनोपाख्याने गुरुतार्थकथने नवतितमोऽध्यायः ॥ ९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७५२३
अथकनवतितमोऽध्यायः ।
कुञ्जल उवाचब्रह्महत्याऽभिभूतश्च सहस्राक्षा यदा पुरा । गौतमस्य प्रियासङ्गादगम्यागमनात्तथा ॥ सुजातं पातकं तस्य त्यक्तुं देवेश्च ब्राह्मणः । महस्राक्षस्तपस्तंप निरालम्बो निराश्रयः॥ २ तपन्ति देवताः सर्वा ऋषयो यक्षकिंनराः । देवराजस्य पूजार्थमभिषेकं प्रचक्रिरे ॥ देशे मालवके नीत्वा देवराज सुतोत्तमाः । चक्रुः स्नानं महाभागाः कुम्भैरुदकपूरितैः॥ ४ स्नापितुं प्रथमं नीतो वाराणस्यां स्वयं ततः । प्रयागे च सहस्राक्षः सर्वतीर्थे ततः पुनः॥ ५ महात्मना पुष्करेण स्नापितः स्वयमेव च । ब्रह्मादिभिः सुरैः सर्वैर्मुनिवृन्दद्विजोत्तमः॥ ६ नागवृन्दैनगैः सर्वैर्गन्धर्वश्च सकिनरैः । नापिता देवराजस्तु वेदमंत्रः सुसंस्कृतः॥ [ *मुनिभिः सर्वपापघ्नेस्तस्मिन्कालं द्विजोत्तम ] ॥ शुद्ध तस्मिन्सहस्राक्षे महाभागे महामतो । ब्रह्महत्या गता तस्य अगम्यागमनाद्भवा ॥ ८ [ + पापेन तेन घोरेण सायमिन्द्रस्य भूतले ] । सुप्रसन्नः महस्राक्षस्तीर्थेभ्योऽपि वरं ददौ ॥ ९ भवन्तस्तीर्थराजानो भविष्यथ न संशयः । मत्प्रसादात्पवित्राश्च यस्मादहं विमोक्षितः ॥ सुघोरात्किल्बिषादत्र युप्माभिविमलैरहम् ॥ एवं तेभ्यो वरं दत्त्वा मालवाय वरं ददौ । यस्मात्स्वयं त्वयाऽप्येतद्विधृतं मम पातकम् ॥ तस्मात्त्वमनपानेश्च धनधान्यैरलंकृतः ॥ भविष्यसि न संदेहो मत्प्रसादान संशयः । सुदुप्कालविना न्वं तु भविष्यसि न संशयः ।। १२ एवं तस्मै वरं दत्त्वा सहस्राक्षः पुरंदरः । क्षेत्राणि सर्वतीर्थानि देशान्मालवकांस्तथा । [*आखण्डलेन सार्धं ते स्वस्थानं प्रति जग्मिरे ।।
सूत उवाचतदामभृति चत्वारः प्रयागः पुष्करस्तथा ] । वाराणसी मर्वतीर्थ प्रापुः स्वस्थानमुत्तमम् ॥ १४
कुञ्जल वाच -- [+ अस्ति पाश्चालदेशे तु विदुरो नाम क्षत्रियः । तेन लोभप्रसङ्गेन ब्राह्मणो निहतः पुरा ।।१५ शिखासूत्रविहीनस्तु तिलकेन विवर्जितः । भिक्षार्थमटते सोऽह्नि ब्रह्मन्नोऽहं समागतः॥ १६ ब्रह्मनाय सुरापाय भिक्षा चान्नं प्रदीयताम् । गृहप्वेवं समस्तेषु भ्रमते याचतं पुरा।। १७
* एतच्चिदान्तर्गतः पाठः क. स्व. घ. ड. च. छ. झ. ट. ड. दृ. पुस्तकस्थः । + एतञ्चिद्वान्तर्गतः पाठः क. ख. घ. ङ. च. छ. झ ट. ठ. ड. द. पुस्तकस्थः । * एतचिहान्तर्गतोऽय पाठः क. ख. ड. च. छ. झ. ड पुस्तकस्थः । + एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. स. ड. पुस्तकस्थः ।
१क. ख. ड. च. छ.श. द. "मीम्तपोबल: । म" । ड. "मन्त्रः सुशोभनेः । म ।
Page #321
--------------------------------------------------------------------------
________________
९२ द्विनवतितमोऽध्यायः ] पअपुराणम् ।
३१५ एवं मर्वेषु तीर्थेषु अटन्नेव समागतः । ब्रह्महत्या ततस्तस्य न याति द्विजसत्तम ॥ १८ वृक्षच्छायां समाश्रित्य दह्यमानेन तेजमा । संस्थितो विदुरः पापी दुःखशोकसमन्वितः॥ १९ चन्द्रशर्मा ततो विप्रो महामोहेन पीडितः । निवसन्मगधे देशे गुरुघातक उच्यते ॥ २० वजनैबन्धुवर्गश्च परित्यक्तो दुरात्मवान । स तत्र हि ममायातो यत्रासो विदुरः स्थितः॥ [ *शिखासूत्रविहीनस्तु विप्रलिङ्गविवर्जितः ] ॥ नदाऽसौ पृच्छितस्तेन विदुरेण दुरात्मना । भवान्को हि समायातो दुर्भगो दग्धमानसः॥ विप्रलिङ्गविहीनस्तु कस्मात्त्वं भ्रममे महीम् ।। विदुरेणोदितः सोऽपि चन्द्रशर्मा द्विजोत्तमः । आचष्टे सर्वमेवापि यथापूर्व कृतं स्वकम् ॥ २३ पातकं च महाघोरं वसता च गुरोहे । महामोहगतेनापि क्रोधेनाऽऽकुलचेतसा ॥ २४ गुरोर्घातः कृतः पूर्व तेन दग्धोऽम्मि मांप्रतम् । स्ववृत्तान्तं निवेद्यैवं चन्द्रशर्माऽप्यपृच्छत ॥ २५ भवान्को हि सुदुःग्वान्मा वृक्षच्छायां समाश्रितः । विदुरेण समासेन आत्मपापं निवेदितम् ॥२६ अथ कश्चिद्विजः प्राप्तम्तृतीयः श्रमकर्पितः । वेदशर्मेनि वे नाना बहुपातकसंचयः॥ २७ द्वाभ्यामपि च संपृष्टः को भवान्दुष्कताकृतिः । कम्माद्धमसि पृथ्वीं त्वमात्मभावं निवेदय ॥२८ वेदशर्मा ततः मर्वमात्मचेष्टितमेव च । कथयामास ताभ्यां वै ह्यगम्यागमनं कृतम् ॥ २९ धिकतः सर्वलोकेश्च अन्यैः स्वजनवान्धवः । तेन पापेन संलिप्ता भ्रमाम्येवं महीमिमाम् ॥ ३० वचुलो नाम वैश्योऽथ सुगपायी समागतः । स गोनस्तु विशेपेण तैश्च पृष्टो यथा पुरा॥ ३१ तेभ्य आवेदितं तेन यथाजानं स्वपातकम् । तैस्तथाऽऽकणितं सर्व सम्यक्तस्य प्रभाषितम् ॥३२ चत्वार एवं पापिष्ठा एकस्थानं समागताः। कः कस्यापि न संपके भोजनाच्छादनेन च ॥ ३३ करोति च महाभाग वार्ता चक्रुः परस्परम् । न विशन्त्यासने चैके न स्वपन्त्येकसंस्तरे ॥ ३४ एवं दुःखसमाविष्टा नानातीर्थेषु ते गताः । एतेषां पातका घोरा न नश्यन्ति च नन्दन ॥ ३५ सामर्थ्य नास्ति तीथानां महापातकनाशनं । विदुराद्यास्ततस्ते तु गताः कालञ्जरं गिरिम् ।। ३६ इति श्रीमहापुराणे पाझे मिखण्डे वनोपाख्याने गुरुतीर्थ एकनवतितमोऽध्यायः ॥ ९१ ॥
आदितः श्लोकानां ममट्यङ्काः-७५५९
अथ द्विनवतितमोऽध्यायः ।
कुञ्जल उवाचकालञ्जरं समासाद्य निवसन्ति सुदुःखिताः । महापापैस्तु संदग्धा हाहाभूता विचेतनाः ॥ १ तत्र कश्चित्समायातः सिद्धरूपी द्विजोत्तमः । तेन पृष्टाः सुदुःखार्ता भवन्तः केन दुःखिताः॥२ स तैः प्रोक्तो महाप्राज्ञः सर्वज्ञानविशारदः । तेषां ज्ञात्वा महापापान्कृपां चक्रे सुपुण्यभाक् ॥ ३
सिद्ध उवाचअमासोमसमायोगे प्रयागः पुष्करस्तथा । सर्वतीर्थस्तृतीयस्तु वाराणसी चतुर्थिका ॥ ४
* एतच्चिदान्तर्गतः पाठः क. ख. घ. इ. च छ. झ. ट. ड. द. पुस्तकस्थः । १ अ. त्यक्तः पुराऽऽत्म । २ ङ, छ. द्विजाधमः । ३ ड. धेन ज्वलितेन च । गु' । ४ इ. च । न करोति महाभाग ज्ञानवातो द्विजोत्तम । न । ५ ड. दचको महायशाः । ने।
- --
--
Page #322
--------------------------------------------------------------------------
________________
३१६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेगच्छथैषु च वै यूयं चत्वारः पापकारिणः । गङ्गाम्भसि यदा स्नातास्तदा मुक्ता भविष्यथ ॥ पातकेभ्यो न संदेहो निर्मलत्वं गमिष्यथ ॥ आदिष्टास्तेन ते सर्वे प्रणेमुस्तं प्रयत्नतः । कालचरात्ततो जग्मुः सत्वरं पापपीडिताः ॥ ६ वाराणसी समासाद्य स्नात्वा चैव द्विजोत्तम । प्रयागं पुष्करं चैव सर्वतीर्थ तु सत्वराः॥ अमासोमसमायोगे जग्मुस्ते पापकृत्तमाः॥ विदुरश्चन्द्रशर्मा च वेदशर्मा तृतीयकः । गोनोऽथ वञ्जलश्चैव मुरापः पापचेतनः ॥ तस्मिन्पर्वणि संप्राप्त स्नाता गङ्गाम्भसि द्विज । स्नानमात्रेण मुक्तास्तु गोवधायैस्तु किल्विषैः ।। ब्रह्महत्यागुरुहत्यासुरापानादिपातकः । लिप्तानि तानि तीर्थानि परिभ्रमन्ति मेदिनीम् ॥ १० पुष्करः सर्वतीर्थश्च प्रयागः पापनाशनः । वाराणसी चतुर्था तु लिप्ता पार्द्विजोत्तम ॥ ११ कृष्णत्वं पेदिरे सर्वे हंसरूपेण बभ्रमुः । सर्वेष्वेव सुतीर्थेषु नानं चक्रुद्विजोत्तमाः ॥ १२ कृष्णत्वं मुच्यते नैव तेषां पापन चाऽऽगतम् । सुतीर्थेषु महाराज नाताः सर्वेषु वे पुनः ॥ १३ यद्यत्तीर्थ प्रयान्त्येते सर्व नीर्था द्विजोत्नम । हंस रूपेण ते यान्ति तैश्च साधं सुदुःखिताः ॥ १४ भार्याः पातकरूपाश्च भ्रमन्नि परितम्तथा । अष्टषष्टिः सुतीर्थानि हसरूपेण बभ्रमः॥ १५ तैश्च सार्थ महाराज महातीर्थसमं पुनः । मानसं च गतास्ने च पानकाकुलमानमाः ॥ तत्र स्नाता महाराज न जहनि च पातकम् ॥ लजयाऽऽविष्टमनसा मानसो हंस पथक । संजातः कृष्णकायश्च यं त्वं वै दृष्टवान्पुरा ॥ १७ रेवातीरं ततो जग्मुंस्त्वन्याधं पापनाशनम् । वायाः संगमे पुण्ये सुरसिद्धनिषेविते ॥ १८ स्नानमात्रेण मुक्तास्ते पापल्या टिम । विहाय एवं तं वर्ण शुद्धत्वं प्रतिग्मिरे ॥ १९ यं यं तीर्थ प्रयान्त्येते गत्वा महा. . . . जहसुस्ताः स्त्रियां दृष्ट्वा कृपणत्वं नैव गच्छति ॥ २० तोयानलेन कुब्जायाः पानक ५५५५५५ च । भस्मावशेषं संजातं तदा मृतास्तु ताः स्त्रियः॥ २१ ब्रह्महत्यागुरुहत्यासुरापानागमागमाः । भस्मभितास्तु संजाता रेवया कुजया हताः॥ २२ तान्तु हना महाभाग या मृतास्तु सरित्तटे । अष्टपष्टिस्तु तीर्थानां(नि) हसरूपेण वभ्रमः ॥ २३ सार्ध हंसः समायानो विद्धि त्वं तत्तु मानसम् । कृष्णहंसास्तु चत्वारस्तेषां नामानि मे शृणु॥ २४ प्रयागः पुष्करचैव मर्वतीर्थस्तथैव च । वागणमी चतुर्थी च पुत्र जाताऽधनाशना ॥ २५ ब्रह्महत्याभिभूताश्च वभ्रमुः सर्वतो महीम् । तीर्थान्येतानि दुःखेन तीर्थेषु च महामते ॥ २६ न गतं पातकं घोरं तेषां च भ्रमतां सुत । कुजायाः संगमे शुद्धा विमुक्ताः किल्विपात्किल ॥२७ तीर्यानामेव सर्वेषां पुण्यानामिह संमतः। राजा प्रयागः संजात इन्द्रस्य पुरतः किल ॥ २८ ताबद्राजन्ति तीर्थानि यावद्रेवा न दृश्यते । तावद्गर्जन्ति तीर्थानि यावदेवा न दृश्यते ॥ २९ ब्रह्महत्यादिकानां तु नाशने सा प्रतिष्ठिता । कपिलासंगमे पुण्ये रवायाः संगमे तथा ॥ मेघनादसमायोगे तथा चेवोरुसंगमे । महापुण्या महाधन्या रेवा सर्वत्र दुलेभा ॥ . सैवोंकारे भृगुक्षेत्रे नर्मदा कुब्जसंगमे । दुष्पाप्या सा नरै रेवा माहिप्मत्यां सुतोत्तम ॥ विटङ्कासंगमे पुण्ये कीटके मङ्गलेश्वर । सर्वत्र दुर्लभा रेवा सुरपुण्यसमाकुला ॥
१ क. ख. घ. ङ. च. उ. झ. ट. ठ. ड. 'स्ते च महापुरीम् । वि । २ क. ख. ङ. च. छ. झ. ड. ढ.'ग्मुरुत्तर पा। ३ क. ख. ङ च. छ. झ. ड. द. कब्जायाः । ४ अ. "ण वै तदा । ५. ध देहै: समासाद्य मा ।६ क. ख. च. छ. झ. ड. कुरुजायाः ।७ क. ख. ड.च. छ. स. ड. द. श्रीकण्ठे।
०
०
०
Page #323
--------------------------------------------------------------------------
________________
९३ त्रिनवतितमोऽध्यायः 1
पद्मपुराणम् ।
३४
तीर्थमाता महादेवी अघराशिविनाशिनी । उभयोः कूलयोर्मध्ये यत्र तत्र नरः सुधीः ॥ अश्वमेधफलं भुङ्क्ते स्नानेनैकेन मानवः ॥ एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् । सर्वपापापहं पुण्यं गतिदं चापि शृण्वताम् ॥ ३५ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनेोपाख्याने द्विनवतितमोऽध्यायः ॥ ९२ ॥ आदितः श्लोकानां समश्यङ्काः – ७५९४
अथ त्रिनवतितमोऽध्यायः ।
कुञ्जल उवाच
किं विज्वल त्वया दृष्टमद्भुतं भ्रमता महीम् । आश्वर्येण समायुक्तं तन्मे कथय सुव्रत ॥ इतः प्रयासि यं देशमाहारार्थं तु सांप्रतम् । तत्र दृष्टं ममाऽऽचक्ष्व चित्रं कौतुकमेव वा ॥ विज्वल उवाच –
२१७
..
२
७
८
९
अस्ति मेरुगिरेः पृष्ठ आनन्दं नाम काननम् । दिव्यवृक्षैः समाकीर्ण फलपुष्पमयैः सदा ॥ देवनृन्दैः समाकीर्ण मुनिमिद्धसमन्वितम् । अप्सरोभिः सुरूपाभिर्गन्धर्वैः किंनरोरगैः ॥ वापीकूपतडागैश्च नदीप्रस्रवणैस्तथा । आनन्दकाननं पुण्यं दिव्यभावैः प्रभासते । विमानैः कोटिसंख्याभिर्हसकुन्देन्दुमंनिभैः । गीतकोलाहलै रम्यैर्मेधध्वनिनिनादितम् || षट्पदानां निनादैश्च सर्वत्र मधुरायते । चन्दनैश्व सुट्टक्षैश्च चम्पकैः पुष्पितैर्वृतम् || नानादृक्षैः प्रभात्येवमानन्दवनमुत्तमम् । नानापक्षिनिनादैश्च वनं कोलाहलान्वितम् || एवमानन्दकं दृष्टं मया तत्र सुशोभनम् । त्रिमलं च सरस्तात शोभते सागरोपमम् ॥ संपूर्ण पुण्यतोयेन पद्मसौगन्धिकैः शुभैः । जलजन्तुसमायुक्तं हंसकारण्डवान्वितम् ।। [*एवमासीत्सरस्तस्य सुमध्ये काननस्य हि । देवगन्धर्वसंवाधैर्मुनिवृन्दैरलंकृतम् ] ॥ [+ किंनरोरगगन्धर्वैश्वारणैश्च सुशोभत । तत्राऽऽश्वर्य मया दृष्टं तात वक्तुं न शक्यते ] ॥ विमाने दिव्यभोगाव्ये कलशैरुपशोभिते । छत्रदण्डपताकाभी राजमानोऽथ तत्र हि ॥ [*सर्व भोगयुतेना (तथा) पिगीयमानोऽथ किंनरैः । गन्धर्वैश्वाप्सरोभिश्च शोभमानोऽथ सुव्रत ] १४ स्तूयमानो महासिद्धैर्ऋषिभिस्तत्त्ववेदिभिः । रूपेणाप्रतिमो लोके न दृष्टस्तादृशः कचित् ॥ १५ सर्वाभरणशोभाङ्गो दिव्यमालाविभूषितः । महारत्नकृता माला तस्योरसि विराजते ॥ १६ तत्समीपे स्थिता चैका नारी दृष्टा वरानना । मुक्ताहारैः समायुक्ता वलयैः कङ्कणैर्युता ॥
१०
११
१२
१३
१७
३
४
* एतच्चिहान्तर्गतः पाठः क ख च झ. पुस्तकस्थः । + एतच्चिदान्तर्गतः पाठ क. ख. घ. ह. च. छ. झ ट ठ ड. द. पुस्तकस्थः । * एतच्चिद्वान्तर्गतः पाठः क. ख. घ ङ च छ झ ट ट ट ड ढ पुस्तकस्थः ।
१ क. ख. घ. ड च. छ. झ ट ठ ड ढ तीर्थमाला । २क. ख. ङ. च. छ. झ. ड. ८. म्। एवमुक्त्वा महाप्राज्ञस्तृर्तायं पुत्रमब्रवीत् । इ ं । ३ घ ट ठ ड वृक्षै स । ४ ड ते । कोटिसंख्यादिभिर्युक्तं हंसैः कु । ५ घ ङ. छ. झ. ट. ठ, ड, ँम्यैर्वेदध्व ं । ६ डम् । विमलोऽस्ति तत्र वै तात सागरः शोभते सदा । सं । अ म् । तत्र तावत्प्रमाणोऽस्ति शोभमानः सरोवरः । सं । ७ अ. संपूर्णः । ८ न युक्तो हं' । ९ म. न्वितः । दें। क, ख, घ, ङ. व. छ. झ ट. ट. ड. द. 'ते । हेमहारश्च मुक्तानां वल ।
Page #324
--------------------------------------------------------------------------
________________
११८ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेदिव्यवस्वपरीधाना चन्दनाद्यनुलेपना । स्तूयमाना गीयमाना पुरुषेण सहाऽऽस्थिता ॥ १८ रतिरूपा वरारोहा पीनश्रोणिपयोधरा । सर्वाभरणशोभाङ्गी तादृशी रूपसंपदा ॥ १९ द्वावेतौ तु मया दृष्टौ विमानेनापि चाऽऽगता । रूपलावण्यमाधुर्यसंयुक्तौ हृष्टमानसौ ॥ २० समुत्तीर्य विमानात्तु गतौ तौ सरसोऽन्तिके । स्नातो तत्र महात्मानौ स्त्रीपुंमो कमलेक्षणौं ॥ २१ प्रगृह्य तो महाशस्त्रो दंपती च परस्परम् । तादृशो च शवो तत्र पतितो सरसस्तटे ॥ २२ [*प्रभासेते तदा ती तु स्त्रीपुंसी कमलेक्षणी । रूपेणापि महाभाग तादृशावेव तो शवौ ॥ २३ देवरूपोपमस्तात यथापूर्व तथा पुनः । यथा रूपं हि तस्यास्ति तादृशः स च दृश्यते ॥ यादृयूपा च सा नारी शवरूपा च तादृशी ।।
२४ स्त्रीशवस्य च यन्मांसं शस्त्रेणोकीर्य सा ततः। भक्षते तस्य मांसानि रक्ताप्लनानि यानि च ॥ २५ पुरुषो भक्षते तद्वच्छवमांसं समातुरः । क्षुधया पीड्यमानी तो भक्षेते पिशितं तयोः॥ २६ यावत्तृप्तिं समायातौ तावन्मांसं प्रभक्षितम् । सरसश्च जलं पीत्वा संजातो सुग्विती पितः ॥ कियत्कालं स्थिती तत्र विमानेन गतो पुनः ।। अन्ये द्वे च स्त्रियो तात मया दृष्टे च तत्र वे । रूपसोभाग्यसंपन्ने त स्त्रियाँ चारुलक्षणे ॥ २८ ताभ्यां प्रभक्षितं मांसं यदा तात महावने । सहसा ते तदा ते द्वे हास्यैरट्टाट्टकैः पुनः ॥ भक्षेते च स्वमांसानि द्वावेतो परिनित्यशः ॥ कृत्वा स्नानादिकं मांसं पश्यतो मम तत्र हि । अन्ये स्त्रियो महाभाग रोद्राकारसमन्विते ॥ ३० दंष्ट्राकरालवदने तत्रैवातिविभीपणे । ऊचतुः खादमाने तु देहि देहीति वै पुनः॥ एवं दृष्टं मया तात आश्चर्य सरसस्तटे । नित्यमुत्तीर्य तावेवं ते चाप्यन्ये च वै पितः ॥ कुर्वन्ति सदृशीं चेष्टां पूर्वोक्तां मम पश्यतः ॥ भवता पृच्छितं तात यत्कथाश्चर्यमेव च । मया प्रोक्तं तवाग्रे वै सर्वसंदेहकारणम् ॥ ३३ [+कथयस्व प्रसादाच्च प्रीयमाणेन चेतसा । विमानेनाऽऽगतो योऽसौ स्त्रिया सार्धं द्विजोत्तम।।३४ दिव्यरूपधरो यस्तु स कस्तु कमलेक्षणः । का च नारी महाभाग महामांसं प्रभक्षति ॥ ३५ स कश्चाप्यागतस्तात सा चैवाऽऽगत्य भक्षति । प्रहसते तदा ते द्वे स्त्रियो तात वदस्व नः]॥३६ तो दंपती समाचक्ष्व द्वे स्त्रियो चापि तत्पर । देहि दहीति वादिन्या संशयं छिन्धि सुव्रत ॥३७ एवं पृष्टस्तृतीयेन विज्वलेनाऽऽत्मजेन सः । प्रोवाच सर्व वृत्तान्तं च्यवनस्यापि शृण्वतः॥ ३८ इति श्रीमहापुराणे पाझे भुमिखण्डे वेनोपाख्याने गुरुतीर्थे त्रिनवतितमोऽध्यायः ॥ ९३ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७६३२
- - - - - - - -- -- - - - - - - * एतचिहान्तर्गतः पाठः क. ख. घ. च. छ. झ. ट. ट. इ. पुस्तकस्थः । + एतच्चिदान्तर्गतः पाठो घ ड. छ. ट. ठ. ड. द. पुस्तकस्थः ।
२९
क. ख. ङ. च, छ. स. ढ. 'यसर्वशोभासमाविली । स । घ. ट. ठ. ड. 'यसर्वशोभासमन्विती । स । २ घ. ङ. छ. ट. . इ. ढ. त्यमेव प्रपश्यामि यत्याश्चर्य पितः शृणु ॥ नित्यमुत्कीर्य भक्षेते ती द्वौ तन्मांसमेव च ॥ जायते च सुसंपूर्णकामी च शवयोः पुनः ॥ आश्चर्यमेतत्संजातं दृष्टं तात मया तदा ॥ भ'।
Page #325
--------------------------------------------------------------------------
________________
९४ चतुर्नवतितमोऽध्यायः ]
पनपुराणम् । अथ चतुर्नवतितमोऽध्यायः ।
११९
am"s
,
कुञ्जल उवाचश्रूयतामभिधास्यामि तत्सर्व कारणं सुत । यस्मात्तौ तादृशी जातो स्वासपरिभक्षकौ ॥ ? सर्वत्र कारणं कर्म शुभं वाऽशुभमेव च । पुण्येन कर्मणा पुत्र जन्तुः सौख्यं भुनक्ति च ॥ दुष्कृतं भुक्त एवापि पापयुक्तेन कर्मणा ॥ सूक्ष्मधमे विचार्यैव शास्त्रज्ञानेन चक्षुषा । स्थूलधर्म प्रदृष्ट्वैव सुविचार्य पुनः पुनः॥ ३ समारभेत्ततः कर्म मनसा विपुलेन वा । स मूर्तिकारकः शिल्पी समावर्तयते यथा ॥ अग्नेश्च तेजसा पुत्र ज्वालाभिश्च समन्ततः । द्रवीभूतो भवेद्धातुर्वह्निना तापितः शनैः ।। यादृशं वत्स भक्ष्यं तु रसयुक्तं च सेव्यते । तादृशं जायते वन्स रूपं चैव न संशयः॥ कर्म एव प्रधानं यजीवरूपेण वर्तते ॥ यादृशं वपते बीजं क्षेत्रे तु कृषिकारकः । भुनक्ति तादृशं वत्स फलमेव न संशयः॥ यादृशं क्रियते कर्म तादृशं परिभुज्यते । विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥ कर्मदायादका लोके कर्म एव च वान्धवाः । कर्माणि चोदयन्तीह पुरुष सुखदुःखयोः ॥ ९ सुवर्ण रजतं वाऽपि यथा रूपं निपेच्य(व्य)ते । तथा निपेव्यते जन्तुः पूर्वकर्मवंशानुगः ॥ १० पश्चैतान्यपि मृज्यन्ते गर्भस्थस्यैव देहिनः । आयुः कम च वित्तं च विद्या निधनमेव च ॥ ११ यथा कृषिफलं कर्तुः प्राप्यते यद्यदीहति । तथा पूर्वकृतं कर्म कर्तारं प्रतिपद्यते ॥ .. १२ देवत्वमथ मानुष्यं पशुतां पक्षितां तथा । तिर्यक्त्वं स्थावरत्वं च याति जन्तुः स्वकर्मभिः॥ १३ स एव तु तथा भुतं नित्यं विहितमात्मनः । आत्मना विहितं दुःखमात्मना विहितं सुखम् ॥ गर्भशय्यामुपादाय भुङ्क्ते ते पूर्वदेहिके ।। पूर्वदेहकृतं कर्म न कश्चित्पुरुषो भुवि । बलेन प्रजया वाऽपि समर्थः कर्तुमन्यथा ॥ १५ स्वकृतान्येव भुञ्जन्ति दुःखानि च सुखानि च । हेतुभिः करणवाऽपि सोऽहंकारेण बध्यते ॥१६ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तद्वच्छुभाशुभं कर्म कतारमनुगच्छति ।। उपभोगाइते तस्य नाश एव न विद्यते ॥ प्राक्तनं बन्धनं कर्म कोऽन्यथा कर्तुमर्हति । सुशीघ्रमपि धावन्तं विधानमपि धावति ॥ १८ शोभते संनिपातेन पुरा कर्म यथाकृतम् । उपतिष्ठति निष्ठन्तं गच्छन्तमनुगच्छति ॥ १९ करोति कुर्वतः कर्म च्छायेवानुविधीयते । यथा छायातपो नित्यं सुसंवन्धौ परस्परम् ॥ उपसर्गा हि विषया उपसर्गा जरादयः । पीडयन्ति नरं पश्चात्पीडितं पूर्वकर्मणा ॥ २१ येन यत्रोपभोक्तव्यं सुखं वा दुःखमेव च । स तत्र वध्यते जन्तुर्वलावन नीयते ॥ २२ दैवं प्राहुश्च जीवानां सुखदुःखोपपादनम् । अन्यथा कर्म तच्चिन्त्यं जाग्रतः स्वपतोऽपि वा ॥२३ अन्यथा दुःखिनं दैवं वध्यमेव जिघांसनि । शस्त्राग्निविषदुर्गेभ्यो रक्षितव्यं च रक्षति ॥ २४ यथा पृथिव्यां बीजानि ह्यन्नं वृक्षास्तृणानि च । तथैवाऽऽत्मनि कर्माणि तिष्ठन्ति प्रभवन्ति च ॥ तैलक्षयाद्यथा दीपो निर्वाणमधिगच्छति । कर्मक्षयात्तथा जन्तोः शरीरं नाशमृच्छति ॥ २६
१ क. ख. च. छ. झ. इ. सा निपुणेन च । स । २ म. यत्र । ३ ङ. छ. द. म् । प्रहराजा विषराजो डाकिन्यो भतविज्वराः। पि।
Page #326
--------------------------------------------------------------------------
________________
३२०
महामुनिश्रीव्यासप्रणीतं—
[ २ भूमिखण्डे -
२८
1
कर्मक्षयात्तथा मृत्युस्तत्त्वविद्भिरुदाहृतः । विविधाः प्राणिनां रोगाः स्मृतास्तेषां च हेतवः ||२७ तस्मात्तसु प्रधानं च प्राणिनां कर्म एव हि । यत्पुरा क्रियते कर्म तदिहैव प्रभुज्यते ॥ यत्वया दृष्टमेवापि पृच्छितं तात सांप्रतम् । तस्यार्थं हि मयोक्तं वै भुञ्जाते तो हि सांप्रतम् ।। २९ आनन्दके त्वया दृष्टं तयोः कर्म सुदारुणम् । शृणु वत्स प्रवक्ष्यामि विपाकं पूर्वकर्मणः ॥ ३० कर्मभूमिरियं तात चान्या भोगाय भूमयः । स्वर्गादीनां महाप्राज्ञ कर्ता गत्वा भुनक्ति च ।। ३१ चोलदेशे महाप्राज्ञ सुबाहुर्नाम भूपतिः । रूपवान्गुणवान्धीरः पृथिव्यां नास्ति तादृशः ।। ३२ विष्णुभक्तो महाज्ञानी वैष्णवानां च सुप्रियः । कर्मणा विविधनापि ध्यायेत्स मधुसूदनम् ॥ ३३ अश्वमेधादिकान्सर्वान्यजेद्यज्ञान्स वै नृपः । पुरोधास्तस्य चैवास्ति जैमिनिर्नाम ब्राह्मणः || ३४ स चाssय सुबाहुं तमिदं वचनमब्रवीत् । राजन्देहि सुदानानि यैश्व सौख्यं प्रभुज्यते ।। ३५ दानैस्तु लभते लोकान्दुर्गान्मेत्य गतो नरः । दानेन सुखमाप्नोति यशः प्राप्नोति शाश्वतम् ॥ ३६ दानेनैवास्य सत्कीर्तिर्जायते मर्त्यमण्डले । [*यावत्कीर्तिः स्थिरा चात्र तावत्कर्ता दिवं वसेत् ३७ तद्दानं दुष्करं प्राहुर्दातुं नैव शक्यते । तस्मात्सर्वप्रयत्नेन दातव्यं मानवैः सदा ॥ ] ३८
राजोवाच
दानस्य तपसो वाऽपि द्वयोर्मध्ये सुदुष्करम् । किं वा महाफलं प्रेत्य तन्मे ब्रूहि द्विजोत्तम ।। ३९ जैमिनिरुवाच
दानान्न दुष्करतरं पृथिव्यामस्ति किंचन । राजन्प्रत्यक्षमेवैकं दृश्यते लोकसाक्षिकम् ।। परित्यज्य प्रियान्प्राणान्धनार्थे लोभमोहिताः । प्रविशन्ति नरा लोके समुद्रमटवीं तथा ॥ सेवामन्ये प्रकुर्वन्ति प्रपठन्ति विपश्चितः । हिंसामायान्बहून्क्लेशान्कृषिं चैत्र तथा परे || तस्य दुःखार्जितस्यापि प्राणेभ्योऽपि गरीयसः । अर्थस्य पुरुषव्याघ्र परित्यागः सुदुष्करः ॥ विशेषतो महाराज तस्य न्यायार्जितस्य च ||
४०
४१
४२
४३
४८
श्रद्धया विधिवत्पात्रे दत्तस्यान्तो न विद्यते । श्रद्धा धर्मसुता देवी पावनी विश्वभाविनी ॥ ४४ सावित्री प्रसवित्री च संसारार्णवतारिणी । श्रद्धयाँ ध्यायते धर्मो विद्वद्भिश्वाऽऽत्मवादिभिः ॥४५ निष्किचनास्तु मुनयः श्रद्धावन्तो दिवं गताः । सन्ति दानान्यनेकानि नानाभेदैर्नृपोत्तम ।। ४६ अन्नदानात्परं नास्ति प्राणिनां गतिदायकम् । तस्मादन्नं प्रदातव्यं पयसा च समन्वितम् ॥ ४७ मधुरेणापि पुण्येन वचसा च समन्वितम् । नास्त्यन्नाच्च परं दानमिह लोके परत्र च ॥ वारणाय हितायैव सुखसंपत्तिहेतवे । श्रद्धया दीयते पात्रे निर्मलेनापि चेतसा ॥ अनस्यैकप्रदानस्य फलं भुङ्क्ते नरः सदा । ग्रासाग्रं संप्रदातव्यं मुष्टिमस्थं न संशयः ॥ अक्षयं जायते तस्य दानस्यापि महत्फलम् । न च प्रस्थं न वा मुष्टिं यस्यापि न हि संभवेत् ५ १ अनास्तिकप्रभावेन पर्वणि प्राप्य मानवः । श्रद्धया ब्राह्मणं चैकं भक्त्या चैव प्रभोजयेत् ॥ ५२ एकस्यापि प्रदानस्य यस्यापि नरेश्वर । जन्मान्तरं सुसंप्राप्य नित्यमेव भुनक्ति च ॥ पूर्वजन्मनि यद्दत्तं भक्त्या पात्रे सकृन्नरैः ॥
४९ ५०
५३
* एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड. ट. पुस्तकस्थः ।
१ क. ख. च. छ. झ. ड. सर्पादीनां । घ. ८. उ. सूर्यादीनां । ङ. ढ. सत्वादीनां । २ न. कर्मसुता । ३ क. ख. ङ. च. छ. ड. द. 'या साध्यते धर्मो महाधनार्थराशिभिः । ४ ञ. सर्वाणि ।
Page #327
--------------------------------------------------------------------------
________________
९९ पञ्चनवतितमोऽध्यायः ]
पद्मपुराणम् ।
३२१
जन्मान्तरं च संप्राप्य नित्यं चानं प्रभुज्यते । अन्नदानं प्रयच्छन्ति नित्यं हि ब्राह्मणाय ये ॥ मिष्टान्नपानं भुञ्जन्ति ते नराः स्वर्गगामिनः ||
५४
५५
अन्नमेव वदन्त्येते ऋषयो वेदपारगाः । प्राणरूपं न संदेहममृताद्धि समुद्भवम् ॥ प्राणास्तेन प्रदत्ता हि येन चान्नं समर्पितम् । अन्नदानं महाराज देहि त्वं वै प्रयत्नतः ॥ ५६ एवमाकर्ण्य वै राजा जैमिनेस्तु महद्वचः । पुनः पप्रच्छ तं विप्रं जैमिनिं ज्ञानपण्डितम् ॥ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने गुरुतीर्थे चतुर्नवतितमोऽध्यायः ॥ ९४ ॥ आदितः श्लोकानां समथ्र्यङ्काः – ७६८९
I
५७
अथ पवनवतितमोऽध्यायः ।
सुवाहुरुवाच
स्वर्गस्य मे गुणान्ब्रूहि सांप्रतं वै द्विजोत्तम । एतत्सर्वं द्विजश्रेष्ठ करिष्यामि सभाविकम् ।। जैमिनिरुवाच
नन्दनादीनि दिव्यानि रम्याणि विविधानि च । तत्रोद्यानानि पुण्यानि सर्वकामप्रदानि च ।। २ सर्वकामफलैर्वृक्षैः शोभनानि समन्ततः । विमानानि सुदिव्यानि सेवितान्यप्सरोगणैः ॥ सर्वत्रैव विचित्राणि कामगानि वशानि च । तरुणादित्यवर्णानि मुक्ताजालान्तराणि च ॥ चन्द्रमण्डलशुभ्राणि हेमशय्यासनानि च ।।
४
५
सर्वकामसमृद्धाश्च सर्वदुः ग्वविवर्जिताः । नराः सुकृतिनस्तेषु विचरन्ति यथासुग्वम् ॥ न तत्र नास्तिका यान्ति न स्तेना नाजितेन्द्रियाः । न नृशंसा न पिशुनाः कृतन्ना न च मानिनः ॥ ६ सत्याश्रयस्थिताः शूरा दयावन्तः क्षमापराः । यज्वानो दानशीलाश्च तत्र गच्छन्ति मानवाः ॥ ७ न रोगा न जरा मृत्युर्न शोको न हिमातप । न तत्र क्षुत्पिपासा च न ग्लानिश्वापि कस्यचित् ॥ ८ एते चान्ये च बहवो गुणाः स्वर्गस्य भूपते । दोषास्तत्रैव ये सन्ति ताञ्शृणुष्व च भूपते ।। शुभस्य कर्मणः कृत्स्नं फलं तत्रैव भुज्यते । न चात्र क्रियते भूप दोषस्तत्र महानयम् ॥ असंतोपश्च भवति दृष्ट्वाऽन्येषां परां श्रियम् । सुखव्याप्तमनस्कानां सहसा पतनं तथा ॥ इह यत्क्रियते कर्म फलं तत्रैव भुज्यते । कर्मभूमिरियं राजन्फलभूमिश्च सा स्मृता ॥
९
१०
११
१२
सुबाहुरुवाच
महान्तस्तु इमे दोषास्त्वया स्वर्गस्य कीर्तिताः । निर्दोषाः शाश्वता येऽन्ये तांस्त्वं लोकान्वद द्विज ।। १३
जैमिनिरुवाच
१५
आब्रह्मसदनादेव दोषाः सन्ति च वै नृप । अत एव हि नेच्छन्ति स्वर्गप्राप्तिं मनीषिणः ।। १४ आ ब्रह्मसदनादूर्ध्वं तद्विष्णोः परमं पदम् । शुभं सनातनं ज्योतिः परं ब्रह्मेति तद्विदुः ।। न तत्र मूढा गच्छन्ति पुरुषा विषयात्मकाः । दम्भलोभभयक्रोधद्रोहद्वेषैरभिद्रुताः ॥ निर्ममा निरहंकारा निर्द्वद्वाः संयतेन्द्रियाः । ध्यानयोगरताचैव तत्र गच्छन्ति साधवः ॥ एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥
५ घ. ड, छ, झ ट ठ ड ट ट्वा दीप्तां प । २ ड. "हान्तः स्वरूपा ये दो ।
४१
१६
१७
१८
Page #328
--------------------------------------------------------------------------
________________
३२२
महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेकुञ्जल उवाचएवं स्वर्गगुणाश्रुत्वा सुबाहुः पृथिवीपतिः । तमुवाच महात्मानं जैमिनि वदतां वरम् ॥ १०
सुबाहुरुवाचनाहं स्वर्ग गमिष्यामि नैव इच्छाम्यहं मुने । यस्माच्च पतनं प्राक्तं न तत्कर्म करांम्यहम् ।। २० दानमेकं महाभाग नाहं दास्ये कदा ध्रुवम् । दानस्य फललोभाच्च तस्मान्पातो न संशयः॥ २१ इत्येवमुक्त्वा धर्मान्मा सुबाहुः पृथिवीपतिः । ध्यानयोगेन देवेशं यजिप्ये कमलाप्रियम् ॥ दाहालयसंवयं विष्णुलोकं बजाम्यहम् ।।
जैमिनिरुवाचसत्यमुक्तं त्वया भूप मर्वश्रयःसमाकुलम् । राजानी दानशीलाश्च महायज्ञर्यजन्ति ते ।। २३ सर्वदानानि दीयन्ते यज्ञपु नृपनन्दन । आदावनं सुयज्ञेषु वस्त्रं ताम्बूलमेव च ।। २४ काश्चनं भूमिदानं च गोदानं प्रवदन्ति च । सुयष्णवं लोकं सुकृतन प्रयान्ति ते ॥ २९ [दानेन तृप्तिमायान्ति संतुष्टाः सन्ति भूमिप । तपम्बिनी महात्मानो नित्यमेव व्रजन्ति ते ॥२६ सुभिक्षां याचयित्वा तु स्वस्थानं तु समागताः । भिक्षाप्तानस्य भागानि प्रकुर्वन्ति च भूषत।।७ ब्राह्मणाय विभागैकं गोग्रासं तु महामते । पार्श्ववर्तिन एकं यं प्रयच्छन्ति तपांधनाः॥ २८ तस्यान्नस्य प्रदानेन फलं भुञ्जन्ति मानवाः । क्षुधातृपाविहीनाश्च विष्णुलोकं ब्रजन्ति ते ॥ २० तस्मात्त्वमपि राजेन्द्र दहि न्यायाजितं धनम् । दानाज्ज्ञानं ततः प्राप्य ज्ञानान्सिद्धिं च यास्यमि।। य इदं शृणुयान्मर्त्यः पुण्याग्व्यानमनुत्तमम् । विमुक्तः सर्वपापेभ्यो विष्णुलोकं स गच्छनि ॥३१ इति श्रीमहापुगणे पाद्म भूमिखण्डे वनोपाव्याने गुरुतीर्थ पवनवतितमोऽ यायः ॥ ९ ॥
आदितः श्लोकानां समठ्यङ्काः-७७२८
अथ पण्णवनितमोऽध्यायः ।
सुबाहुरुषाचदुष्टेन कर्मणा येन सुकृतेनापि कर्मणा । नरकं कीदृशान्ति तन्म त्वं वक्तुमर्हसि ।। १
जैमिनिरुवाच--- ब्राह्मण्यं पुण्यमुत्सृज्य यं द्विजा लोभमांहिताः । कुकर्मण्युपजीवन्ति ते वै निरयगामिनः ॥ . नास्तिका भिन्नमर्यादाः कन्दर्पविषयोन्मुखाः । दाम्भिकाश्च कृतघ्नाश्च ते वै निरयगामिनः ।। : ब्राह्मणेभ्यः प्रतिश्रुत्य न प्रयच्छन्ति ये धनम् । ब्रह्मस्वानां च हारा नरा निरयगामिनः ।। ४ पुरुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः । असंबद्धमलापाश्च ते वै निरयगामिनः ।। ये परस्वापहर्तारः परदृषणसोत्सुकाः । पराश्रिया प्रतप्यन्ते ते वै निरयगामिनः ॥ ६ प्राणिनां प्राणहिंसायां ये नरा निरताः सदा । परनिन्दारता ये च ते वै निरयगामिनः ।। ७ कृपारामतडागानां प्रपानां च विदूषकाः । [+सरसां चैव भत्तारो नरा निरयगामिनः ॥ ८ * एतचिहान्तर्गतः पाठः क. ख. ४. च छ. झ. ट. . ड. द. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः छ. पुस्तकस्थः ।
-
-
-
-
---
------ - - - ---
१ घ. ट. ह. परस्त्रिया । २ ड, दा । नास्तिका भिन्नमर्यादास्ते वै । ३ क.ख. घ. ङ. च. छ. झ.ट. ड.. 'नांवामीनां च परंतप । उ ।
Page #329
--------------------------------------------------------------------------
________________
२६ पण्णवतितमोऽध्यायः ] पद्मपुराणम् ।
३२३ विपर्ययं व्रजेद्यस्ताशिन्भृत्यातिथींस्ततः ] । उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः॥ ९ पत्रज्यादूषका गजन्ये चैवाऽऽश्रमदूपकाः । मग्वीनां दूषकाश्चैव ते वै निरयगामिनः ॥ १० आद्यं पुरुपमीशानं सर्वलोकमहेश्वरम् । न चिन्तयन्ति ये विष्णुं ते वै निरयगामिनः॥ ११ प्रयाजानां मखानां च कन्यानां शुद्धचेतमाम् । साधूनां च गुरूणां च दूपका निरयंगमाः ॥१२ [ *काष्ठेर्वा शङ्कभिर्वाऽपि शलरंटमभिग्न वा । ये मार्गानुपरुन्धन्ति ते वै निरयगामिनः ]॥१३ मर्वभूतेष्वविश्वस्ताः कामेनाऽऽनास्तथैव च । मर्ववर्णेषु भुजानास्ते वै निरयगामिनः॥ १४ आगतान्भोजनार्थाय ब्राह्मणान्वृत्तिकर्शितानं । अवज्ञाय प्रवर्तन्ते निरयेषु पतन्ति वै ॥ १५ अंत्रं वृत्तिं गृहं चैव प्रीति छिन्दन्ति ये नगः । आशाछेदं च कुर्वन्ति ते वै निरयगामिनः ॥१६ [ +शवाणां चैव कर्तारः शल्यानां धनुषां तथा । विक्रेतारश्च राजेन्द्र ते वै निरयगामिनः]॥१७ अनाथं वैष्णवं दीनं गेगा वृद्धमेव च । नानुकम्पन्ति ये मुढाम्ते वै निरयगामिनः ॥ १८ नियमान्पूर्वमादाय ये पश्चादजितेन्द्रियाः । अतिक्रामन्ति चाञ्चल्यात्ते वै निरयगामिनः ॥ १९ हन्त ते कथयिप्यामि नगन्दै म्वर्गगामिनः । भोगिनः भवलोकम्य ये प्रोक्तास्तान्निबोध मे ॥२० मत्येन नपसी ज्ञानध्यानेनाध्ययनेन वा । ये धर्ममनुवर्तन्त ते नराः स्वर्गगामिनः ॥ २१ ये च होमपरा ध्यानदंवतार्चनतत्पराः । आददाना महात्मानम्ते नगः स्वर्गगामिनः ॥ २२ शुचयः शुचिदेशे वा वासुदेवपगयणाः । भक्त्या च विष्णुमापन्नास्ते नराः स्वर्गगामिनः ॥ २३ मातापित्रांश्च शुश्रृपां ये कुर्वन्ति सदाऽऽहताः । वर्जयन्ति दिवा स्वमं ने नराः स्वर्गगामिनः ॥ २४ सर्वहिंसानिवृत्ताश्च साधुमङ्गाश्च ये नगः । सर्वस्यापि हिने युक्तास्ते नराः स्वर्गगामिनः ॥ २५ शुश्रृपाभिः ममायुक्ता गुरूणां मानदा नगः । प्रनिग्रहनिवृत्ताश्च ते नराः स्वर्गगामिनः ॥ २६ भयात्कामात्तथाऽऽक्रोशादरिद्वान्पूर्वकर्मणः । न कुन्मन्ति च ये ननं ते नराः स्वर्गगामिनः।। २७ सहस्रपरिवंटारस्तथैव च सहस्रदाः । दानारश्च सहमागां ने नराः स्वर्गगामिनः ॥ २८ आत्मस्वरूपभाजश्च यौवनम्थाः क्षमागताः । ये वे जितन्द्रिया वीगस्ते नराः स्वर्गगामिनः॥ २९ सुवर्णस्य प्रदातागं गवां सुमेश्च भारत । अन्नानां वासमां चैव पुरुषाः स्वर्गगामिनः ॥ ३० निवेशनानां वन्यानां नगणां च परंनए । म्बयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः॥ ३१ द्विपतामपि ये दोपान्न वदन्नि कदाचन । कीर्तयन्ति गुणांश्चैव ते नगः स्वर्गगामिनः ॥ ३२ दृष्ट्वा विज्ञान्प्रहप्यन्ति प्रियं दत्वा वदन्ति च । त्यक्तदानफलेच्छाश्च ते नराः स्वर्गगामिनः॥३३ ये परंपां श्रियं दृष्ट्वा न तप्यन्ति विमन्सगः । प्रहपाश्चाभिनन्दन्ति ते नराः स्वर्गगामिनः ॥ ३४
एतथिमान्तर्गतः पाठांदछए...स्तकरशः । + सिदान्ताः पाटः क. ख. च. छ. झ. ट. ट. द. पुस्तकस्थः ।
व राज्यमद। सटर नः । ब्राह्मणानां गवां चव कन्यानां मुहृदां तथा । सा' । ३ ड रस्थिभिरे । ४ न. ख इन दा. ट म्ताः कालकता । घ. ट. र. मताः कलिका तथ । ५ क. ख. च. छ. स. न । परीक्षां ये न कवन्ति । नि । इ. द. 'न् । प्रतिषधं च कुर्वान्त नि । ६ क. ख. च. झ. वस्त्राणां । ७ क. ख. . च झ. इ. द. शिल्पाना । ८ इ. छ. म. द. याः । विलोपयन्ति तान्मयस्ते वै । घ. ट. ४. ह. याः। विलापयति तान्भयस्ते व।९र. ढ. नः । इत्येत कथिता राजनरा निग्यगा। १० क.ख. च. छ. झ. साक्षान्न्या दान। 'सा ज्ञानाहाने । हु. मा क्षान्त्या दानेनाध्यापन । ह. मा क्षान्न्या ज्ञानेनाध्यापने । ११ दुः. 'मतपःस्नान। ढ. आश्रधाना । २. झ. आदधाना । १३ इ. छ. झ. ढ. णा: । पठन्ति विष्णुगायत्री ते न । घ.ट. ठ... 'णाः परति विष्णं गायन्ति ते न। १४ क. ख. घ. च. ट. ठ. सवमहाश्च। १५ छ. झ. दाः । त्रातार । १६ छ. धान्यानां वित्तानां च।
Page #330
--------------------------------------------------------------------------
________________
३२४ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेप्रवृत्तौ च निवृत्तौ च मुनिशास्त्रोक्तमेव च । आचरन्ति महात्मानस्ते नराः स्वर्गगामिनः ॥ ३५ ये नराणां वचो वक्तुं न जानन्ति च विप्रियम् । प्रियवाक्येन विज्ञातास्ते नराः स्वर्गगामिनः।। ३६ [*ये नाम भागं कुर्वन्ति कुतृप्णाश्रमकर्षिणः(?)। हन्तकारस्य दातारस्ते नराः स्वर्गगामिनः॥३७ वापीकपतडागानों प्रपानां चैव वेश्मनाम् । आरामाणां च कर्तारस्ते नराः स्वर्गगामिनः ॥ ३८ असत्येष्वपि सत्या ये ऋजवोऽनार्जवेष्वपि । प्रवक्तारश्च दातारस्ते नराः स्वर्गगामिनः ॥ ३९ यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः। सानुक्रोशाः सदाचारास्ते नराः स्वर्गगामिनः ॥४० अवन्ध्यं दिवसं कुयुधमेणेकेन सर्वदा । व्रतं गृह्णन्ति ये नित्यं ते नराः स्वर्गगामिनः ॥ ४१ मित्रामित्रे स्तुवन्तश्च तुल्यं पश्यन्ति ये सदा । शान्तात्मानो जितान्मानस्ते नराः स्वर्गगामिनः॥ ४२ ये च स्युर्भयसंत्रस्ता ब्राह्मणांश्च तथा स्त्रियः। सार्थान्वा परिरक्षन्ति ते नराः स्वर्गगामिनः॥ ४३ गङ्गायां पुष्करे तीर्थे गयायां च विशेषतः । पितृपिण्डप्रदातारस्ते नराः स्वर्गगामिनः ॥ ४४ न वशाश्चेन्द्रियाणां ये तथा संयमने रताः । त्यक्तभोगभयकोधास्ते नराः स्वर्गगामिनः ॥ ४५ [+यकामत्कुणदंशादीन्ये जन्तुंस्तुदतस्तनुम् । पुत्रवत्परिरक्षन्ति ते नराः स्वर्गगामिनः॥ ४६ मनसश्चेन्द्रियाणां च सर्वदा निग्रहे रताः । परोपकारनिरतास्ते नराः स्वर्गगामिनः ॥ ४७ यज्ञानां च विशेषेण विधिना संवपन्ति ये । सर्वद्वंद्वसहा दान्तास्ते नराः स्वर्गगामिनः ॥ ४८ ये पूताः परदारांश्च कर्मणा मनसा गिरा । रमयन्ति न सत्त्वस्थास्ते नराः स्वर्गगामिनः ॥ ४९ निन्दितानि न कुर्वन्ति कुर्वन्ति विहितानि च । आत्मशक्तिं विजानन्ति ते नराः स्वर्गगामिनः ॥ एतत्ते कथितं सर्व मया तत्त्वेन पार्थिव । दुर्गतिः सुगतिश्चैव प्राप्यते कर्मभिर्यथा ॥ ५१
ततः परेषां प्रतिकूलमाचरन्पयाति घोरं नरकं सुदुःखदम् ।
सदाऽनुकूलस्य नरस्य जीविनः सुखावहा मुक्तिरदरसंस्थिता। इति श्रीमहापुराणे पाझे भूमिखण्डे वनोपाख्याने गुरुतीर्थ षण्णा तमोऽध्यायः ॥ ९६ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७७७३
अथ सप्तनवतितमोऽध्यायः ।
कुञ्जल उवाचएवमाकर्ण्य तां राजा मुनिना तेन भाषिताम् । धर्माधर्मगतिं सर्वा तं मुनि प्रत्यभाषत ॥ १
सुवाहुरुवाचसोऽहं धर्म करिष्यामि नाहं पापं द्विजोत्तम । वासुदेवं जगद्योनि भजिप्ये नितरां मुने ॥ २ ततो धर्मेण नेनैव संपूज्य मधुसूदनम् । इष्ट्वा च विविधैर्य विष्णुलोकं स भूपतिः ॥ पूजितः सर्वकामश्च प्राप्तवान्सत्वरं मुदा ॥ गते सति महालोके देवदेवं न पश्यति । क्षुधा जाता महातीबा तृष्णा चातिप्रवर्धते ॥ [*तयोश्चापि महामाज्ञ जीवपीडाकरा बहु ॥
- * एतचिहान्तर्गतः पाठो ड. छ. स. ड. पुस्तकस्थः । + एताञ्चद्वान्तर्गतः पाटो अ. पुस्तके नास्ति । एतच्चिद्रान्तर्गतः पाठः क. ख. घ. ड. च. छ. स. ट, ठ. ड. द. पुस्तकस्थः।
१४ 'नां प्रासादानां च ।। २. छ. ढ. 'पि । रिपुष्वपि हिता ये च ते न'। ३ घ. ड. छ. ट. ट. ढ. 'नः । आकोशन्तं स्तुवन्तं च तु । ४. छ. द. यः । आत्मनाप। ५ घ, छ.ट. ट. ड.क्तलोभभ । ६ इ. छ. ढ. यथोक्तेन । छ.स. महातीवा।
Page #331
--------------------------------------------------------------------------
________________
९७ सप्तनवतितमोऽध्यायः ]
पद्मपुराणम् ।
३२५
राजा च प्रियया सा क्षुधातृष्णामपीडितः । न पश्यति हृषीकेशं दुःखेन महताऽन्वितः ] ॥ ५
सूत उवाच --
६
७
८
९
एवं सुदुःखिते राजा प्रियया सह सत्तमः । आकुलो व्याकुलो जातः पीडितः क्षुधया भृशम् ॥ इतश्वेतश्व वेगैश्व धावते वसुधाधिपः । सर्वाभरणशोभाङ्गो वस्त्रचन्दनभूषितः ।। पुष्पमालामशोभाङ्गो हारकुण्डलमण्डितः । रत्नदीप्त्या प्रशोभाङ्गः प्रययौ स महीपतिः ।। एवं दुःखसमाचारः स्तूयमानश्च पाठकैः । दुःखशोकसमाविष्टः स्वप्रियां वाक्यमब्रवीत् । विष्णुलोकमहं प्राप्तस्त्वया सह सुशोभने । ऋषिभिः स्तूयमानोऽपि विमानेनापि भामिनि ॥। १० कर्मणा न मे चेयं क्षुधाsतीव प्रवर्धते । विष्णुलोकं च संप्राप्य न दृष्टो मधुसूदनः ॥ तत्किं हि कारणं भद्रे न भुनज्मि महत्फलम् । कर्मणाऽथ निजेनापि एतदुःखं प्रवर्तते ॥ सैवं श्रुत्वा च तद्वाक्यं राजानमिदमब्रवीत् ।।
११
१२
भार्योत्राच -
सत्यमुक्तं त्वया राजन्नास्ति धर्मस्य वै फलम् ||
१३
वेदशास्त्रपुराणेषु सम्यक्पश्यन्ति ब्राह्मणाः । दुःखशोको विधूयेह सर्वदोषान्निरस्य च ॥ १४ नामोच्चारणमात्रेण विष्णोश्चैव सुचक्रिणः । पुण्यात्मानो महाभागा ध्यानेनापि महात्मनः ।। १५ त्वया चाऽऽराधितो देवः शङ्खचक्रगदाधरः । [* अन्नादिदानं विप्रेभ्यो न प्रदत्तं द्विजोदितम् ] १६ फलं तस्य प्रजानामि न दृष्टो मधुसूदनः । क्षुधा मां बाधते राजंस्तृष्णा चैव प्रशोषयेत् ॥ १७
कुञ्जल उवाच -
१८
१९
एवमुक्तस्तु प्रियया राजा चिन्ताकुलेन्द्रियः । ततो दृष्ट्वा महापुण्यमाश्रमं सुमनोहरम् ॥ दिव्यवृक्षसमाकीर्णं तडागैरुपशोभितम् । नानावृक्षसमाकीर्ण सर्वकामसमन्वितम् ॥ श्रीखण्डैश्वानुगन्धैश्च सुपुष्पैः सुशुभायते । एवं पुष्पसमाकीर्ण सुपुण्यं श्रिय (सुश्रि ) योज्ज्वलम् ॥ २० वापीकूपतडागैश्व पुण्यतोयप्रपूरितैः । हंसकारण्डवाकीर्ण नानाखगविशोभितम् ।।
२१
२२
२५
२७
आश्रमः शोभते पुण्यैर्मुनिभिस्तत्त्ववेदिभिः । दिव्यवृक्षसमाकीर्ण मृगवातैश्च शोभितम् ॥ नानापुष्पसमाकीर्णं हृद्यगन्धसमाकुलम् । द्विजसिद्धैः समाकीर्णमृषिशिष्यैः समाकुलम् ॥ योगियोगीन्द्रसंघुष्टं देववृन्दैरलंकृतम् । कदलीवनसंघैश्व सुफलैः परिशोभितम् ।। स सुबाहुस्ततो राजा तथा स्वप्रियया सह । प्रविवेश महापुण्यं नन्दनं सर्वकामदम् ॥ भासमानो दिशः सर्वा यत्राssस्ते सूर्यसंनिभः । वामदेवो मुनिश्रेष्ठो वैष्णवानां वरः सदा ||२६ राजमानं महादीप्त्या परया सूर्यसंनिभम् । योगासनसमारूढं योगपट्टेन शोभितम् ।। ध्यायमानं हृषीकेशं भुक्तिमुक्तिप्रदायकम् । वामदेवं महात्मानं ददर्श मुनिसत्तमम् ।। तत्र गत्वा प्रणम्यैव स राजा प्रियया सह । वामदेवस्ततो दृष्ट्वा प्रणतं राजसत्तमम् ॥ आशीर्भिरभिनन्द्यैव प्रियया सहितं मुदा । उपवेश्याssसने पुण्ये सुबाहुं राजसत्तमम् ॥ आसनादि ततः पाद्यैरर्घपूजादिकेन च । सत्कारं कारयामास सभार्य संस्थितं तदा ॥ अथ पप्रच्छ राजानं महाभागवतोत्तमम् ॥
२८
२९
३०
* एतचिहान्तर्गतः पाठः, ट. पुस्तकस्थः ।
२३
२४
३१
१ क. ख. ड. च. छ. झ. श्रमनाशनम् । २ ङ. छ. ढ णं ब्रह्मलक्ष्म्या समायुतम् । ३ क. ख. च. छ. इ. ड. पद्मकलार शोभितम् ।
Page #332
--------------------------------------------------------------------------
________________
३२६
महामुनिश्रीव्यासप्रणीतं —
[२ भूमिखण्डे
वामदेव उवाच
त्वामहं विष्णुधर्मज्ञं विष्णुभक्तं नरोत्तम । जाने ज्ञानेन राजेन्द्र दिव्येन चोल भूमिपम् ॥ निरामयोऽसि वै राजन्भार्यया मियया सह ।।
३२
राजोवाच --
निरामयोऽस्मि भगवन्प्राप्तो विष्णोः परं पदम् । मया हि परया भक्त्या वासुदेवो जनार्दनः ३३ आराधितो जगन्नाथ भक्त्या प्रीतः सुरेश्वरः । कस्मात्तत्र न पश्यामि तं देवं कमलापतिम् ॥ ३४ क्षुधा मे बाधते चात्र तृष्णाऽतीव सुदारुणा । ताभ्यां शान्ति न गच्छामि सुखं विन्दामि नैव च एतन्मेsकारणं [दुःखं संजातं मुनिसत्तम । तन्मे त्वं कारणं] ब्रूहि प्रसादसुमुखो भव ॥ ३६
वामदेव उवाच
भवान्भक्तोऽसेि राजेन्द्र श्रीकृष्णस्य सदैव हि । आराधितस्त्वया भक्त्या परया मधुसूदनः ३७ भक्त्योपचारैः स्ानाद्यैर्गन्धपुष्पादिभिस्तथा । न पूजितोऽथ नैवेद्यैः फलैश्व जगतां पतिः || ३८ दशमीं प्राप्य राजेन्द्र सदैव हि त्वया कृतम् । एकभक्तं न दत्तं तु ब्राह्मणाय सुभांजनम् ॥ ३० एकादशी च संप्राप्य न कृतं भोजनं त्वया । विष्णुमुद्दिश्य विप्राय न दत्तं भोजनं त्वया ॥४० अन्नदानं विशेषेण कदा दत्तं न हि त्वया । अन्नं चामृतरूपेण पृथिव्यां संस्थितं सदा ॥। ४१ ओषध्यस्तु महाराज नानाभेदास्तु ताः शृणु । कटुतिक्तकषायाश्च क्षाराम्लमधुरास्तथा ।। fararaiपस्कराः सर्वा नानारूपाश्च भूतले । अमृताज्जज्ञिरे सर्वा औषध्यः पुष्टिहेतवः ॥ ४३ अन्नमेव तु संस्कृत्य ओषधीर्व्यञ्जनान्विताः । देवेभ्यां [ विष्णुरूपेभ्य इति संकल्प्य दीयते । पितृभ्यो] विष्णुरूपेभ्यो हस्ते च ब्राह्मणस्य च ॥
४२
४४
४५
४८ ४९.
1
५१
अतिथिभ्यस्ततो दत्वा परिजनं प्रभोजयेत् । स्वयं तु भुज्यते पश्चात्तदन्नममृतोपमम् ॥ प्रेत्य दुःखं न तस्यास्ति सुखमेव हि केवलम् । ब्राह्मणाः पितरो देवाः क्षेत्ररूपाश्च भूपते ।। ४६ यथा हि कर्षकः कश्चित्सुकृषि कुरुते सदा । तद्वन्मर्त्यः कृषिं कुर्यात्क्षेत्र विप्राख्यकं नृप ।। ४७ स्वभावलाङ्गलेनापि ब्रह्मतादेन नोदयत् । दृषभौ तु मतौ नित्यं बुद्धिश्चैव तपस्तथा ।। सत्यज्ञानानुभावीशः शुद्धात्मा च प्रतोदकः । विप्रं चैव महाक्षेत्र नमस्कारैविसर्जयेत् । स्फोटयेत्कल्मषं नित्यं कर्षको हि यथा नृप । क्षेत्रस्य उद्यमे युक्तो विष्णुकामः प्रसाधयेत् ||५० तद्वाक्यैश्च महापुण्यैः शुभैर्विप्रान्प्रसादयेत् । पर्वतीर्थाप्तिकालश्च घनरूपोऽभिवर्षणे ।। पशुकामो भवेत्क्षेत्री ततः क्षेत्र मवापयेत् । तद्भूप प्रशस्ताय विप्राय परिदीयते ।। क्षेत्र उप्तस्य बीजस्य यथा क्षेत्री प्रभुञ्जते । फलमेव महाराज तथा दाता भुनक्ति च ।। प्रेत्य चात्रैव नित्यं च तृप्तो भवति नान्यथा । ब्राह्मणाः पितरो देवाः क्षेत्ररूपा न संशयः ५४ मानवानां महाराज बेपतां प्रददति च । फलमेव न संदेही यादृशं तादृशं ध्रुवम् ।। [t कटुकाद्धि न जायेत राजन्मधुर एव च । तद्वच्च मधुराख्याच्च न जायेत्कटुकः सदा ॥ यादृशं वपते बीजं तादृशं फलमश्रुते । न वापयति यः क्षेत्रं न स भुञ्जति तत्फलम् ॥ तद्वद्देवाश्च विप्राश्च पितरः क्षेत्ररूपिणः । दर्शयन्ति फलं राजन्दत्तस्यापि न संशयः ] ॥
५२
५३
५५
५६
५७
५८
*
• एतच्चिहान्तर्गतः पाठः क. ख. ङ च छ झ ट पुस्तकस्थः । + एतच्चिहान्तर्गतः पाठः क. ख. ड. च. छ. झ ८. पुस्तकस्थः । + क. ख. घ ङ च छ झ ट ठ ड ढ पुस्तकस्थोऽयं पाठः ।
१८. द्वद्विष्णुप्रपन्नाय । क. ख. ङ. च. छ. झ. ढ. 'द्वद्धि सुप्रसन्नाय । २ क. ख. ङ. च. छ. द. वापिता ।
Page #333
--------------------------------------------------------------------------
________________
९७ सप्तनवतितमोऽध्यायः ] पद्मपुराणम् ।
३२७ यादृशं हि कृतं कर्म त्वयैव च शुभाशुभम् । तादृशं भुझ्व राजेन्द्र यथा तेनैव जायते ॥ ५९ न पुरा देवविप्रेभ्यः पितृभ्यश्च कदा त्वया । मिष्टान्नपानमेवापि दत्तं सुमनसा तदा ॥ ६० मुभाज्यभॊजनैमिष्टैर्मधुरैचोप्यपेयकः । सुभक्ष्यरात्मना भुक्तं कस्मै दत्तं न च त्वया ॥ ६१ स्वशरीरं त्वया पुष्टमन्नर मृतसंभवैः । यस्मात्कृतं महाराज तस्मात्क्षुधा प्रवर्तते ॥ ६२ कर्मव कारणं राजन्नराणां सुखदुःखयोः । जन्ममृत्योर्महाभाग भुक्ष्व तत्कर्मणः फलम् ॥ ६३ पूर्वेऽपि च महात्मानो दिवं प्राप्ताः स्वकर्मणा । पुनः प्रयाता भूलोकं कर्मणः क्षयकालतः॥६४ नलो भगीरथश्चैव विश्वामित्रों युधिष्ठिरः । कर्मणैव हि संप्राप्ताः स्वर्ग राजस्वकालतः ॥ ६५ दिएं हि प्राक्तनं कर्म तेन दुःग्वं मुग्वं लभेत् । तदुल्लययितुं राजन्कः समर्थाऽपि हीश्वरः ॥६६ अथ तस्मानृपश्रेष्ठ म्वगतस्यापि नेऽभवत् । शुतृष्णासंभवो वेगम्ततो दुष्टं हि कर्म ते ॥ ६७ यदि ते क्षुत्पतीकागं ाभीष्टो नृपसत्तम । तद्गत्वा भुक्ष्व कायं स्वमानन्दारण्यसंस्थितम् ॥ नव चेयं महागजी झुन्क्षामाऽनीव दृश्यते ॥
सुबाहुम्बाचकस्य दानेन किं पुण्यं द्रव्यस्य मुनिसत्तम । तत्प्रवृहि महाप्राज्ञ यदि तुष्टोऽसि सांप्रतम् ॥ ६९
वामदेव उवाचअन्नदानान्महासाग्व्यमुदकस्य महामते ॥ स्वर्ग भुञ्जन्ति वै मल्ः पीड्यन्त नैव पानकैः । यदा दानं न दत्तं तु भवेदपि च मानवैः ॥७१ मृत्युकाले तु संप्राप्त दानं सर्व ददाति च । आदावेव प्रदातव्यमन्त्रं चोदकसंयुतम् ॥ ७२ मुच्छत्रोपानहाँ दद्याज लपात्रं तु शोभनम् । भूमि सुकाश्चनं धेनुमष्टी दानानि योऽर्पयेत् ॥ ७३ स्वर्गे न जायते तस्य क्षुधातृष्णादिवाधनम् । क्षुधा न वर्धते राजन्नन्नदानात्सुतृप्तिमान् ॥ ७४ तृष्णा तीवा न हि स्याद्व तप्तो भवति मर्वदा । उदकस्य प्रदानेन च्छत्रदानेन भूपते ॥ ७५ छायामामोति सुम्निग्धां वाहनं च नृपोत्तम । [*उपानहप्रदानेन अन्यदेवं वदाम्यहम् ॥ ७६ भूमिदानान्महाभोगान्ममृद्धान्यामुयान्नरः । गोदानन महाराज रमैः पुष्टो भवेत्सदा ॥ मुखभोगान्स भुञ्जानः स्वर्गलोक वमेन्नरः ।। तृप्तो भवति वै दाता गोदानन न संशयः । नीरुजः सुग्वसंपन्नः संतुष्टैश्युनिवर्जितः ॥ काश्चनंन सुवर्णस्तु जायते नात्र संशयः । सुश्रीमान्रूपवांम्त्यागी रत्नदानाद्भवेन्नरः ॥ ७९ मृत्युकाले तु संप्राप्त निलदानं प्रयच्छति । सर्वभागपतिभृत्वा विष्णुलोकं स गच्छति ॥ ८० एवं दानविशेषेण प्राप्यते परमं सुग्वम् । गोदानं भूमिदानं च अन्नं चैवोदकं त्वया ॥ ८१ जीवमानेन राजेन्द्र न दत्तं ब्राह्मणाय वै । मृत्युकाले च नो दत्तं तस्मात्क्षुत्ते प्रवर्तते ॥ ८२ एतत्तं कारणं प्रोक्तं जातं कर्मवशानुगम् । यादृशं हि कृतं कर्म तादृशं परिभुज्यते ॥ ८३
सुवाहुरुवाचकथं क्षुधा प्रशान्ति मे प्रयानि मुनिसत्तम । अनया शोपितो देहो ह्यतीव परिदूयते ॥ ८४
७७
७८
* एतच्चिदान्तर्गतः पाठः क. ख. घ. इ च. छ. झ. ट. ठ, ड. द. पुस्तकस्थः ।
१५. सु. ट. ठ. ह. द. 'च । कियत्कालमिदं कर्म कर्तव्यं प्रियया मह । त। २. छ. ढ. "हाभाग सर्वान्कामा. नवाप्नुयात् । गो ।३ क. ख. घ. च. झ. ट. ट. इ. 'न्सवान्कामानवाप्नुयात् । गा'। ४ ङ. द. टस्तु धनान्वितः ।
Page #334
--------------------------------------------------------------------------
________________
३२८ महामुनिश्रीव्यासमणीत
[ २ भूमिखण्डेअतस्तृप्त्यै द्विजश्रेष्ठ प्रायश्चित्तं वदस्व मे । कर्मणश्चात्य घोरस्य यथा शान्तिर्भवेन्मम ॥ ८५
वामदेव उवाचमायश्चित्तं न चैवास्ति ऋते भोगानरोत्तम । कर्मणश्च फलं सब तत्त्वं स्वस्य प्रभुश्व हि ॥ ८६ यत्र ते पतितः कायः प्रियायाश्चैव भूपते । युवाभ्यां हि प्रगन्तव्यं तत्र स्मरणपूर्वकम् ॥ ८७ उभाभ्यामपि भोक्तव्यः कायश्चाक्षय एव सः। [*स्वं स्वं राजन्न संदेहस्त्वया वै प्रियया सह।।]
सुबाहुरुवाचकियत्काल प्रभोक्तव्यं मयैवं प्रियया सह । तदादिश महाभाग प्रमाणं तद्वचो मम ॥ ८०
वामदेव उवाचवासुदेवाभिधं स्तोत्रं महापातकनाशनम् । यदा त्वं श्रोप्यसे राजस्तदा मोक्ष प्रयास्यसि ॥ एतत्ते सर्वमाख्यातं स्वेच्छया गच्छ तत्कुरु ॥ एवं श्रुत्वा ततो राजा भार्यया सह वै तदा । गत्वा तत्र शरीरं स्वं भुङ्क्ते वै प्रियया सह।।९१ नित्यमेव महाप्राज्ञ तद्वत्पूर्ण भवेद्वपुः । नित्यं प्रभुङ्क्तं वै राजा राज्ञी चास्य भुधान्विता ॥ ९२ यथा यथा स राजाऽपि भुङ्क्ते वै स्वकलेवरम् । हसन्ति च तदा नार्यस्तयोर्भावं वदाम्यहम्।।९३ देवैः साधे ततः श्रुत्वा चरितं तस्य भूपतेः । हास्यं च कुरुते शक्रस्तस्य राज्ञः सुरेश्वरः ॥ ९४ ततो वर्षशतान्ते तु वामदेवं महामुनिम् । स्मृत्वा स गर्हयामास आत्मानं प्रति सुव्रत ॥ ९५ न दत्तं पितृदेवेभ्यो ब्राह्मणेभ्यः कदा मया । न दत्तमतिथिभ्यो हि तदुत्थमिह भुज्यते ॥ ९६ दीनेभ्योऽपि न दत्तं मे कृपया वाऽऽतुराय च । एवं स भुङ्क्ते वै मांसं गर्हयन्स्वीयकर्म तत्॥ ९७ एवं स्वमांसं भुञ्जानं सुबाहुं प्रियया सह । हसेते च तदा दृष्ट्वा प्रज्ञा श्रद्धा च द्वे स्त्रियाँ ॥ ९८ तस्य कमविपाकस्य शुभात्मा हसते नृप । मम सङ्गप्रसङ्गन न दत्तं पापचेतसा ॥ ९९ प्रज्ञा च वचनैस्तैस्तु राजानं हसते पुनः । क गतोऽसौ महामोहा येन त्वं मोहितो नृप । १०० लोभेन मोहयुक्तेन तमोगर्ने निपातितः । तत्रापतित्वा सद्यव(?) पतितो दुःखसंकटे ॥ १०१ दानमार्ग परित्यज्य लोभमार्ग गतो नृप । भार्यया सह भुक्ष्व त्वं व्यापितः क्षुधया भृशम् १०२ एवं तं हसते |ज्ञा सुवाई, प्रिययाऽन्वितम् । एतद्वै कारणं प्रोक्तं तयोर्हास्यस्य पुत्रक ॥ १०३ भक्षमाणस्य भूपस्य देहं स्वं दुःखिते तदा । ऊचतर्देहि देहीति क्षुधा तृष्णा च ते परे ॥ १०४ क्षुधा तृष्णा महाप्राज्ञ भीमरूप भयानके । पयसा मिश्रितं भक्तं याचेते नृपतीश्वरम् ॥ १०५ एतत्ते सर्वमाख्यातं यच्चया परिपृच्छितम् । अन्यत्कि ते प्रवक्ष्यामि तद्वदख महामते ॥ १०६
एतचिहान्तर्गत: पाट: क. ख. घ. ड च. छ. झ. ट. पुस्तकस्थः ।
१ इ. दृ. 'च--साहसाकारमयुक्तं मयंव द्विजसत्तम । त। २ क. ख. घ. इ. च. छ. झ. ट. ठ. ढ. 'ज्ञा तस्य पुत्रक । य । इ. शी तत्र सुपुत्रक । य। ३ क ख. घ. ड. च. छ झ. ट. ट. इ. द. म् । प्रज्ञासाथै महाश्रद्धा चरित्रं तस्य भपतेः । हास्यं हि कुरुते नित्यं तस्य श्रद्धानुयायिनी । प्रज्ञया प्रेर्यमाणेन न दत्तं श्रद्धयाऽन्वितम् । ब्राह्मणेभ्यः ससं. कल्प्य अन्नमुद्दिश्य वैष्णवे । एवं स भक्षते मांसं स्वस्य कायस्य नित्यदा। योषित्तदात्मकायं च रसैश्चामृतसंनिर्भः । न । ४ क. ख. घ. ङ. छ. झ. ट. ठ. ड. द. भ्यः सुतोत्तम । न । ५ क.ख. ड. च. छ. झ. ह. द. हि वृद्धेभ्यश्च विशेषतः । दी। घ. ट. ठ. हि विप्रेभ्यश्च विशेषतः । दी। ६ क, ख. घ. ड. छ. झ. ट ठ ड. द. "सं स्वयमेव यथा नृप । ए । ७ घ. ट. ठ. ड. प्राज्ञं । ८ क. ख. ड. च. छ. द. ति याच्यमानः शृणुष्व हि।९ । घ. ट. ठ. ड. ति वाच्यमानः शृणुष्व हि। क्षु । ९. इ. द. मि धर्मसंदेहमिश्रितम् । वि ।
Page #335
--------------------------------------------------------------------------
________________
९८ अष्टनवतितमोऽध्यायः ]
पनपुराणम् । विज्वल उवाचवासुदेवाभिधानं च स्तोत्रं कथय में पितः । येन मोक्षं बजेदाशु तद्विष्णोः परमं पदम् ॥ १०७ इति श्रीमहापुगणे पाझे मिखण्डे वनोपाख्याने गुरुनाथ सप्तनवतितमोऽध्यायः ॥ ९७ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७८८०
अथाटानवतितमोऽध्यायः ।
विष्णुरुवाचएवमुक्ते शुभे वाक्ये विज्वलेन महात्मना । कुञ्जलो वदनां श्रेष्ठः स्तोत्रं पुण्यमुपादिशत् ॥ १ ध्यात्वा नत्वा हृषीकेशं सर्वकेशविनाशनम् । मर्वश्रेयःप्रदातारं सर्वदुःग्वविनाशनम् ।। २ मोक्षद्वारं सुखोपेतं शान्तिदं पुष्टिवर्धनम् । सर्वकामप्रदातारं ज्ञानदं ज्ञानवर्धनम् ॥ ३ वासुदेवस्य यस्तोत्रं विज्वलाय प्रकाशिनम् । [*वासुदेवाभिधानं चाप्रमेयं पुण्यवर्धनम् ॥ सोऽवगम्य पितुः सर्व विज्वलः पक्षिणां वरः ।। तत्र गन्तुं प्रचक्राम पितुः पृष्टं तदा नृप । एवं गन्तुं नमनिं विज्वलं ज्ञानपारगम् ।। उवाच पुत्रं धर्मात्मा उपकारसमुद्यतम् ।।
कुञ्जल उवाचपुत्र तस्य महज्जाने पातकं चापि भपतः । इनो गन्वा पठस्व न्वं सुवाहाश्वोपशृण्वतः ॥ ६
यथा यथा श्रीप्यति स्तोत्रमुत्तमं तथा तथा ज्ञानमयो भविष्यति ॥
श्रीवासुदेवस्य न संशयों वे तस्य प्रमादाच शिवं मयोक्तम् ॥ ७ अथाऽऽमन्व्य गुरुं तस्मादुड्डीय लघुविक्रमः । आनन्दकाननं पुण्यं संप्राप्तो विज्वलस्तदा ॥ ८ वृक्षच्छायां ममाश्रित्य उपविष्टो मुदान्वितः। प्रेक्षमाणः स गजानं विमाननाऽऽगतं पुनः॥ ९ एष्यत्यसो कदा राजा सुबाहुः प्रियया सह । पातकान्मांचयिप्यामि स्तात्रेणानेन वे कदा ॥१. तावद्विमानः संप्राप्तः किङ्किणीजालमण्डितः । गन्धर्ववरमंतुष्टमन्वप्सरोभिः समन्वितः ।। ११ सर्वकमसमृद्धस्तु अन्नांदकविवर्जितः । तस्मिन्याने स्थितो गजा सुबाहुः प्रियया सह ॥ १२ समुत्तीर्णो विमानात्तु सरसस्तस्य मंनिधौ । शस्त्रमादाय तीक्ष्णं तु यावत्कृन्तति तच्छवम् ॥ १३ वावद्धि विज्वलेनापि समाधानं कृतं तदा । भो भोः पुरुषशार्दूल देवोपम भवानिदम् ॥ १४ करोषि(ति) निघृणं कर्म नृशंसन च शक्यते । कर्तुं ततस्तु पृच्छं त्वां कोऽयं विधिविपर्ययः॥१५ दुष्कृतं साहसं कर्म निन्धं लोकेषु सवदा । वेदाचारविहीनं तु कस्मात्मारब्धवानिह ॥ १६ तन्मे त्वं कारणं सर्व कथयस्व यथातथम् । इत्येवं भापितं तस्य विज्वलस्य महात्मनः ॥ १७ समाकर्ण्य महाराजः स्वमियां वाक्यमब्रवीत् । प्रिये वर्षशतं भुक्तं मयेदं पापकर्मणा ॥ १८
___* एनचिहान्तर्गतः पाठः घ. ट ट. पुस्तकस्थः । क. ख. घ. ङ. च. ट. ट. दु. द. र हरेः स्तोत्रमुदीरितम । वासुदेवाभिधानं तत्सर्व' । २क. ख घ. उ. च. छ. स. ट ठ. इ. द.'गम्यावधायैव वि। ३ क. ख. घ. ड. च. छ. झ.ट. ठ. इ. इ. रः । एवं स्तोत्रं महापुण्यं वासुदेवाख्यमत्तमम् । कुजलेनोपदिष्टं तजगृहे विज्वलस्तदा । क। ४ क. ख. घ. कु. च. छ. स. ट ठ. इ. ढ. वृक्षशाखां । ५. ख. घ. ङ. च. छ. झ. ट. ट. इ. ८. तु पुरुषशादल को । ६ क. ख घ. इ. च. छ. झ. ट. ट. इ. द. ये युगसहस्रं तु वर्वितं मम अत्र च । ।
Page #336
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीत
[२ भूमिखण्डेकदा न भाषितं केन यथाऽयं परिभाषते । ममैवं पीडयमानस्य भुधया हृदयं प्रिये ॥ १९ निर्गतं चोत्सुकं कान्ते शान्तिश्चित्ते प्रवर्तते । यावदस्य श्रुतं वाक्यं सर्वदुःखस्य शान्तिदम् ॥२० तावचित्ते समालादो वर्धते चारुहासिनि । कोऽयं यमोऽम्वुपो धर्मः सहस्राक्षोऽथवा पिये।।२१ मुनीनां स्याद्वैचः सत्यं यदुक्तं मुनिना पुरा । एवमाभाषितं श्रुत्वा प्रियस्यानन्तरं प्रिया ॥ २२ राजानं प्रत्युवाचाय भार्या पतिपरायणा । सत्यमुक्तं त्वया नाथ इदमाश्चर्यमुत्तमम् ॥ २३ क्या ते वर्तते कान्त मम चित्ते तथा पुनः । पक्षिरूपधरः कोऽयं पृच्छते हितकारिवत् ॥ २४ एवमाभाषितं श्रुत्वा मियायाः पृथिवीपतिः । बद्धाञ्जलिपुटो भूत्वा पक्षिणं वाक्यमब्रवीत् ॥ २५
सुबाहुरुवाचस्वागतं ते महापात्र पक्षिरूपधर प्रभो । शिरसा भार्यया सार्ध तव पादाम्बुजद्वयम् ॥ २६ नमस्करोम्यहं पुण्यमस्तु नस्त्वत्प्रसादतः । भवान्कः पक्षिरूपेण पुण्यमेवं प्रभाषते ॥ २७ यादृशं क्रियते कमे पूर्वदेहेन सत्तम । सुकृतं दुष्कृतं वाऽपि तदिहेव प्रभुज्यते ॥ २८ अथ तेनाऽऽत्मकं वृत्तं तदने विनिवेदितम् । यथोक्तं कुञ्जलेनापि पित्रा पूर्व श्रुतं तथा ॥ २९ [कथयस्व स्ववृत्तान्तं भवान्को मे प्रभाषते] । मुबाहुं प्रत्युवाचंदं वाक्यं पक्षिवरस्तदा ।। ३०
विज्वल उवाच---- शुकजात्यां समुत्पनः कुञ्जलो नाम मे पिता । तस्याहं विज्वलो नाम तृतीयस्तु सुतेष्वहम् ॥३१ नाहं देवो न गन्धर्वो न च सिद्धो महाभुज ॥ नित्यमेव प्रपश्यामि कर्म चैतत्सुदारुणम् । कियत्कालं महत्कर्म साहसाकारसंयुतम् ॥ ३३ करिष्यसि महाराज तन्मे त्वं कारणं बद।
मुबाहुरुवाचबासुदेवाभिधानं यत्पूर्वमुक्तं हि ब्राह्मणः ॥ श्रोष्याम्यहं यदा भद्र गतिं स्वां प्राप्नुयात्तदा । पुण्यात्मना भापितं वै मुनिना संयतात्मना॥ तदाऽहं पातकान्मुक्तो भविष्यामि न संशयः।
विज्वल उवाचतवार्थे पृच्छितस्तातस्तेन मे कथितं च यत् । तत्तेऽद्याहं प्रवक्ष्यामि शाश्वतं शृणु सत्तम ॥ ३६ ___ * अस्य श्रीवासुदेवाभिधानस्तोत्रस्यानुष्टुप्छन्दः । नारद ऋषिः । ॐकारो देवता । सर्वपातकनाशाय चतुर्वर्गसाधनार्थे चे विनियोगः ।। ॐ नमो भगवते वासुदेवाय, इति मत्रः॥ परमं पावनं पुण्यं वेद वेदमन्दिरम् । विद्याधारं मखाधार प्रणवं तं नमाम्यहम् ।। निरावासं निराकारं सुभकाशं महोदयम् । निर्गुणं गुणकर्तारं नमामि प्रणवं परम् ॥ ४० गायत्रीसाम गायन्तं गीत गीतमुप्रियम् । गन्धर्वगीतभोक्तारं प्रणवं तं नमाम्यहम् ॥ महाकान्तं महोत्साहं महामोहविनाशनम् । आचिन्वन्तं जगत्सर्व गुणातीतं नमाम्यहम् ॥ ४२
३४
_
* एतचिहान्तर्गतः पाठः क. ख. घ. ङ. च. छ. स. ट. ट. . द. पुस्तकस्थः ।
. क.ल.घ. स.च.. झ. ट. ठ. ह. द. वर्तते । २ क.ख. ङ. च. छ. स. ड. 'यं देवो नु गन्धर्वः सहस्राक्षो भविष्यति ।म। घ.ट.ठ. यं देवानुगो धर्मः सहस्राक्षो भविष्यति ।म। ३ड.दूरो देवि सिद्धः कश्चिद्भविष्यति।ए । ४.ख. घ. च. ट. ठ... द. द्विजोत्तमः । ५ ड. जपे। क. ख घ. 6. च. छ. 8. ट. . इ. द. भवाधारं ।
Page #337
--------------------------------------------------------------------------
________________
९८ अष्टनवतितमोऽध्यायः ] पञ्चपुराणम् । भाति सर्वत्र यो भूत्वा भूतानां भूतिवर्धनः । समभागाय सद्धर्म नमामि अगवं परम् ॥ ४५ विचारं वेदरूप तं येहाख्यं यज्ञवल्लभम् । योनि सर्वस्य लोकस्य ओंकारं प्रणमाम्यहम् ॥ ४४ तारकं सर्वलोकानां नौरूपेण विराजितम् । संसारार्णवमनानां नमामि प्रणवं हरिम् ॥ १५ वसते सर्वभूतेषु एकरूपेण नैकर्धा । धामकैवल्यरूपेण नमामि वरदं सुखम् ॥ १६ सूक्ष्म सूक्ष्मतरं शुद्धं निर्गुणं गुणनायकम् । वजितं प्राकृतैर्भावैर्वेदाख्यं तं नमाम्यहम् ॥ ४७ देवदैत्यवियोगैश्च वर्जितं तुष्टिभिस्तथा । वेदैश्च योगिभिर्येयं तमोंकारं नमाम्यहम् ॥ ४८ व्यापकं विश्ववेत्तारं विज्ञानं परमं पदम् । शिवं शिवगुणं शान्तं वन्दे प्रणवमीश्वरम् ॥ १९ यस्य मायां प्रविष्टास्तु ब्रह्माद्याश्च सुरासुराः । न विन्दन्ति परं शुद्ध मोक्षद्वारं नमाम्यहम्॥५०
आनन्दकन्दाये च केवलाय मुद्धाय हमाय परावराय । नमोऽस्तु तस्मै गुणनायकाय श्रीवासुदेवाय महाप्रभाय ।। श्रीपाश्चजन्येन विराजमानं रविप्रभेणापि सुदर्शनेन । गदाख्यकेनापि विशोभमानं विष्णुं सदैवं शरणं प्रपद्ये ॥ यं वेदकोशं सुगुणं गुणानामाधारभूनं सचराचरस्य । यं सूर्यवैश्वानरतुल्यतेजमं तं वासुदेवं शरणं प्रपद्ये ।। तमोघनानां निकरैः प्रकाशं करोति नित्यं यतिधर्महेतुम् । उद्योतमानं रवितेजसोचं तं वासुदेवं शरणं प्रपद्ये ॥ मुधानिधानं विमलांशुरूपमानन्दमानेन विराजमानम् । यं प्राप्य जीवन्ति सुरादिलोकास्तं वासुदेवं शरणं प्रपद्ये ॥ यो भाति सर्वत्र रविप्रभावैः करोति शोषं च रसं ददाति । यः प्राणिनामन्तरगः मवायुस्तं वासुदेवं शरणं प्रपद्ये ॥ ज्येष्ठस्तु रूपेण स देवदेवो विभर्ति लोकान्सकलान्महात्मा । एकार्णवे नौरिव वतते यस्तं वासुदेवं शरणं प्रपद्ये ॥ अन्तर्गतो लोकमयः सदैव भवत्यसौ स्थावरजङ्गमानाम् । स्वाहामुखो देवमुखस्य हेतुस्तं वासुदेवं शरणं प्रपद्ये ॥ रसैः सुपुण्यैः मकलैस्तु पुष्टः स सौम्यरूपैर्गुणवित्स लोके । रत्नाधिपो निर्मलतेजसैव तं वासुदेवं शरणं प्रपद्ये ॥ [*अस्त्येव सर्वत्र विनाशहेतुः सर्वाश्रयः सर्वमयः स सर्वः। विना हृषीकैर्विषयान्पभुक्ते तं वासुदेवं शरणं प्रपद्ये ॥ तेजःस्वरूपेण बिभर्ति लोकान्सत्वान्समस्तान्स चराचरस्य । निष्केवलो ज्ञानमयः सुशुद्धस्तं वासुदेवं शरणं प्रपद्ये ॥
* एतचिहान्तर्गतः पाठः क. ख. ङ. च. स. ड. द. पुस्तकस्थः । १ घ.ट.ठ. 'मभावाय संबन्धं न'। इ. सर्वज्ञं भिक्षुसंबन्धं न । २ ङ.. शिवम् । ३ इ.स. शास्य भजवत्सलम्।।. इ.स.ट.ठ.इ.इ. भूतानां । ५ ङ.छ... र्वलोकेषु । ६ ड. धा । काम । ७ घ.ट.3. दख्यात । .छ.इ. दस्थान न। ८ क.ख.घ..च.छ.झ.ट.उ.ड. द. शुभम् । ९ अ. द. य विशुद्धबुद्धये शु। १० २. °न्दकन्देन । ११ क.स.म.प.अ..... "त्र वरप्र। १२ क.ख.इ.च.झ... 'वगणस्य । १३ क.ख. छ.स.ड. 'णदःसलो। १४ क.ख.प.स.च.म.ट...जीवस्वरूण।
Page #338
--------------------------------------------------------------------------
________________
३३२
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डे[दैत्यान्तकं दुःखविनाशमूलं शान्तं परं शक्तिमयं विशालम् । संमाप्य देवा विलयं प्रयान्ति तं वासुदेवं शरणं प्रपद्ये ॥ सुखं सुखाप्तं सुहृदं सुरेशं ज्ञानार्णवं तं मुहितं हितं च । सत्याश्रयं सत्यगुणोपविष्टं तं वासुदेवं शरणं प्रपद्ये ॥ यज्ञस्वरूपं पुरुषार्थरूपं सत्यान्वितं मापतिमेव पुण्यम् । विज्ञानमेतं जगतां निवासं तं वासुदेवं शरणं प्रपद्ये ॥ अम्भोधिमध्ये शयनं हि यस्य नागाङ्गभोगे शयने विशाले । श्रीः पादपद्यद्वयमेव सेवते तं वासुदेवं शरणं प्रपद्ये ॥ पुण्यान्वितं शंकरमेव नित्यं तीर्थरनेकैः परिमेव्यमानम् । वत्पादपद्मद्वयमेव तस्य श्रीवासुदेवस्य नमामि नित्यम् ॥ [+अघापहं वा यदि वाऽम्बुजं नद्रक्तोत्पलाभं ध्वजवायुयुक्तम् । अलंकृतं नूपुग्मुद्रिकाभिः श्रीवासुदेवस्य नमामि पाठम् ॥] देवैः सुसिद्धमुनिभिः सदेव नुतं सुभक्त्या उरगाधिपैश्च । तत्पादपङ्केरूहमंव पुण्यं श्रीवासुदेवस्य नमामि नित्यम् ॥ यस्यापि पादाम्भसि मन्जमानाः पृता दिवं यान्ति विकल्मषास्ते ॥ मोक्षं लभन्ने मुनयः सुतुष्टास्तं वासुदेवं शरणं प्रपद्ये ॥ पादोदकं तिष्ठति यत्र विष्णोर्गङ्गादितीर्थानि सदैव तत्र । त्यजन्ति प्राणांश्च अपापदेहाः प्रयान्ति शुद्धाः सुगृहं मुगरेः॥ पादोदकेनाप्यभिषिच्यमाना अत्युग्रपापैः परिलिप्तदहाः। ने यान्ति मुक्ति परमेश्वरस्य तस्यैव पादा सततं नमामि ॥ नेवेद्यमात्रण सुभक्षितन सुचक्रिणस्तस्य महात्मनश्च ।। ते वाजपेयस्य फलं लभन्ते सर्वार्थयुक्ताश्च नरा भवन्ति । नारायणं दुःखविनाशनं तं मायाविहीनं सकलं गुणज्ञम् । यं ध्यायमानाः सुगतिं व्रजन्ति तं वासुदेवं सततं नमामि ॥ यो वन्यस्त्वृषिसिद्धचारणगणर्देवैः सदा पूज्यते
यो विश्वस्य हि सृष्टिहेतुकरणे ब्रह्मादिकानां प्रभुः । यः संसारमहार्णवे निपतितस्योद्धारको वत्सल. स्तस्यैवापि नमाम्यहं सुचरणो भक्त्या वरौ साधकौ ॥
* एतचिहान्तर्गतः पाठः क. ख. ङ. च. झ. इ. द. पुस्तकस्थः । + एतच्चिदान्तर्गतः पाठो ड. पुस्तकस्थः ।
१क. ख. घ ङ. च. झ. ट. इ. द. सुखान्तं । २ ट. 'नात्मवन्तं । ३ क. ख. झ. यज्ञाङ्गरूपं परमार्थरूपं मखावि। ङ. द. यज्ञाहरूप परमार्थरूपं मायान्वि। ट. यज्ञाङ्गरूपं । ४ इ. 'त्र । पिबन्ति यत्प्राप्य सुपा'। ट. 'त्र । त्यजन्ति यं प्राप्य सुपा । ५म. भक्ति६ क. ख. घ. ड. च. छ.स. ट, ठ, ढ. "णं नरकवि । ७ ट. म् । सद्धर्मराशिं सुगति सुकान्तं तं । ८ क. ख. च. छ. झ. ड. यं धामराशि सुगतं सुकान्तं तं । ९ य. ट. . इ. देवः स । १० ६. महात्मनः । ११क.. च. छ. झ, इ. द. पावनी ।
Page #339
--------------------------------------------------------------------------
________________
९९ नवनवतितमोऽध्यायः ] पद्मपुराणम् ।
यो दृष्टो निजपण्डपे सुरगणैः श्रीवामनः सामगः __ सामोद्गीतकुतूहलः सुरगणेचैलोक्य एकः प्रभुः । कुर्वस्तु ध्वनितैः स्वकैर्गतभयान्यः पापभीतारणे __तस्याहं चरणारविन्दयुगलं वन्दे परं पावनम् ॥ राजन्तं निजमण्डले मखमुखे ब्रह्मश्रिया पूजितं
दिव्येनापि स्वतेजसा करमयं यं चेन्द्रनीलोपमम् । देवानां हितकाम्यया सुतनुजं वैरोचनस्यार्पर्क
दासत्वं मम दीयतां सुरपते बन्दे परं वामनम् ॥ तं दृष्टं रविमण्डले मुनिगणैः संप्राप्तवन्तं दिवं
चन्द्रार्की तु तपन्नमेव सहसा संप्राप्तवन्ती सदा । तस्यैवापि सुचक्रिणः सुरगणाः पापुर्लयं सांपतं
काये विश्वविकोशके तमतुलं नौमि प्रभुं विक्रमम् ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाग्व्याने गुरुतीर्थेऽश्नवतितमोऽध्यायः ॥ ९८ ॥
आदितः श्लोकानां समयङ्काः-७९.५७
अथ नवनवतितमोऽध्यायः ।
विष्णुरुवाच -
स्तोत्रं पवित्रं परमं पुराणं पापापहं पुण्यमयं शिवं च ।। धन्यं सुसक्तं परमं सुजाप्यं निशम्य राजन्म सुरवी बभूव ।। गता सुतृष्णा क्षुधया समेना देवोपमो भुमिपनिर्वभृव । भार्या च राज्ञः सुभगा वभव जातावुभौ पापविमुक्तदेहौ ।। हरिस्तु देवः प्रभुराविरासीद्विप्रः सुपुण्यैर्हरिभक्तियुक्तः । आगत्य भूपं गतकल्मषं तं श्रीशङ्खचक्राब्जगदासिधा ॥ श्रीनारदो भार्गवव्यासमुख्याः समागतास्तत्र मृकण्डसूनुः । वाल्मीकिनामा मुनिर्विष्णुभक्तः समागतो ब्रह्मसुतो वसिष्ठः ।। गर्गो महात्मा हरिभक्तियुक्तो जावालिरभ्यावथं काश्यपश्च । आजग्मुरेते हरिणा समेना विष्णुप्रिया भागवतां वरिष्ठाः ॥ पुण्याः सुधन्या गतकल्मपास्ते हरेः सुपादाम्बुजभक्तिलीनाः। श्रीवासुदेवं परिवार्य तस्थुः स्तुवन्ति भूपं विविधप्रकारैः ॥
१क.ख. घ. ङ. च. छ. झ. ट. . ढ. सूत उवाच । २ क. ख. १. च छ. झ. ड. द. राजा स । ३ घ. ट.. १. भूतप । ४ क. ख. च. ड. च तस्यापि सुभाति रूपाता । ङ. छ. झ. द. च तस्यापि विभाति रूपैर्जाता। प. ट. ठ. च तस्य सुभगा च रूपाता । ५ इ. छ. झ. ह. द. ५ कश्य । ६ क. ख. च. झ. पं परिवार्य तस्थुः । दें। छ. 'पं परिवार्य ते तु । दें।
Page #340
--------------------------------------------------------------------------
________________
११४ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेदेवाच सर्वे हुतभुमुखाश्च ब्रह्मा हैरश्चापि स देवदेवः । गायन्ति दिव्यं मधुरं मनोहरं गन्धर्वराजादिसुगायनाश्च ॥ मुंदेवयुक्तैः परमार्थसंमितैः स्तवैः सुपुण्यैर्मुनयः स्तुवन्ति । उच्चस्तरां भूपतिमेव देवता हरिभाषे वचनं मनोहरम् ॥ बरं यथेष्टं वरयस्व भूपते ददाम्यहं ते परितोषितो यतः । हरेस्तु वाक्यं स निशम्य राजा दृष्ट्वा मुरारिं वदमानमग्रे ॥ नीलोत्पलाभ मुरघातिनं प्रभु शकालचक्रासिगदामधारिणम् । श्रिया समेतं परमेश्वरं तं रत्नोज्ज्वलं कङ्कणहारभूषितम् ॥ [*रविप्रभं देवगणैः सुसेवितं महार्हहाराभरणैः सुभूषितम् ] । सुदिव्यगन्धैर्वरलेपनहरि सुभक्तिभावैरवनीं गतो नृपः॥ दण्डप्रणामः सततं ननाम जयेत्युवाचाथ महामुदं गतः । दासोऽस्मि भृत्योऽस्मि सुरेश ते सदा भक्तिं न जाने तव भावमुत्तमम् ॥ १२ जायान्वितं मामिह चाऽऽगतं हरे प्रपाहि वै त्वां शरणं प्रपन्नम् । धन्यास्तु ते माधव मानवा द्विजाः सदेव ये ध्यानमनोविलीनाः॥ १३ समुच्चरन्तो भव केशवेति प्रयान्ति वैकुण्ठमितः सुनिर्मलाः ॥ तवैव पादाम्बुजमार्जनं पयः पुण्यं तथा ये शिरसा वहन्ति ॥
समस्ततीर्थोद्भवतोयसंप्ठतास्ते मानवा यान्ति हरेश्च धाम ॥ नास्ति योगो न मे भक्तिर्नास्ति ज्ञानं न मे क्रिया। कस्य पुण्यस्य सङ्गेन वरं पापे प्रयच्छसि १५
__हरिरुवाचवासुदेवाभिधानं यन्महापातकनाशनम् । भवता विज्वलात्पुण्याच्छुतं राजन्विकल्मषम् ॥ १६ तेन त्वं मुक्तिभागी च संजातो नात्र संशयः। मम लोके प्रभुक्ष्व त्वं दिव्यान्भोगान्मनोनुगान्
सुबाहुरुवाचयदि देव वरो देयो मह्यं दीनाय वै त्वया । विज्वलाय प्रयच्छ त्वं प्रथमं वरमुत्तमम् ॥ १८
हरिरुवाचविज्वलस्य पिता पुण्यः कुञ्जलो ज्ञानपण्डितः । वासुदेवमहास्तोत्रं नित्यं जपति भूपते ॥ १९ पुत्रैश्च प्रियया चैव समेतो मां प्रपत्स्यति । यश्चैवं जपति स्तोत्रं तस्य दास्ये महत्फलम् ॥ २० एवमुक्ते शुभे वाक्ये राजा केशवमब्रवीत् । इदं स्तोत्रं महापुण्यं सफलं कुरु केशव ॥ २१
. वासुदेव उवाचसत्ये युगे महाराज यदा स्तोष्यति मानवः । तदा मोक्ष प्रदास्यामि तत्क्षणानात्र संशयः ॥२२ त्रेतायां मासमात्रेण प्रौसषरकेन द्वापरे । वर्षेकेण कला प्राप्ते ये जपन्ति च मानवाः॥ २३
* एतचिहान्तर्गतः पाठो ङ. झ ८. द. पुस्तकस्थः । ११. हरिश्चापि । २ क. ख. इ. च. छ. स. द. 'पि सुदिव्यदेव्यः । गा। ३ क. स्व. ड. च. छ. स. स. द. गीतं । ४ क. ख. च.. सवेगय। ५. गहरूपिणं । क.ख. हु.च. छ. म. द. पापान्वितं । क. ख. घ. ङ. उ.स. . रन्माधव । ८ क.ब. अ. च. छ. ड. ह. मार्गनिर्गतं पयः पनीत शि। ११. भावो । ढ, पुण्यं । १०. द. त्वं भक्तियुकोऽसि सं। ११४. छ. द. कृते । क. ख. च. स. ड. ब्राझे काले । १२४. ह. द्विमानव ।
Page #341
--------------------------------------------------------------------------
________________
१०० शततमोऽध्यायः]
पापुराणम् । स्वर्ग यास्यन्ति राजेन्द्र वैष्णवं गतिदायकम् । त्रिकालमेककालं वा स्नातो जपति ब्रामणः।।२४ यं यं तु वाञ्छते काम स स तस्य भविष्यति । क्षत्रियो जयमामोति धनधान्यैरलंकृतः ॥ २५ वैश्यो भविष्यति श्रीमान्शूद्रः सुखमवामुयात् । अथ यः श्रावयेत्स्तोत्रं पापान्मुक्तो भविष्यति ॥ श्रावको नरकं घोरं कदाचित्रैव पश्यति । मम स्तोत्रप्रसादाच सर्वसिद्धो भविष्यति ॥ २७ भुञ्जानेषु च विप्रेषु श्राद्धकाले तु यः पठेत् । पितरो वैष्णवं लोकं तृप्ता यास्यन्ति भूपते ॥ २८ तर्पणान्ते जपं कुयोड्राह्मणो वाऽपि क्षत्रियः । पिबन्ति चामृतं तस्य पितरो दृष्टमानसाः ॥ २९ होमे च यज्ञमध्ये च भावाजपति मानवः । तत्र विघ्ना न जायन्ते सर्वसिद्धिर्भविष्यति ॥ ३० विषमे दुर्गसंस्थाने सिंहव्याघ्रभयेषु च । चौराणां संकटे प्राप्ते तत्र स्तोत्रमुदीरयेत् ॥ ३१ तत्राभयं महाराज स्तोत्रपाठाद्भविष्यति । अशेषेष्वेव दुर्गेषु राजद्वारे गते नरे ॥ वासुदेवाभिधानस्य अयुतं जपते नरः । ब्रह्मचर्येण च स्नातः क्रोधलोभविवर्जितः ॥ द्विलक्षं बिल्वकै)मं घृतगुग्गुलसंयुतम् । वासुदेवं प्रपूज्यैव कुर्यात्मयतमानसः॥ स्तोत्रं प्रति ततो देयो होमो ध्यानेन मानवैः । तेषां सुभृत्यवतित्वं पार्थ नैव त्यजाम्यहम् ॥३५ कलौ युगेऽपि संप्राप्ते स्तोत्रे दास्यं प्रयास्यति । वेदभङ्गप्रसङ्गेन यस्य कस्य न दीयते ॥ ३६ सर्वकामसमृद्धार्थः सर्वदेव भविष्यति । एवं हि सफलं स्तोत्रं मया भूप कृतं शृणु ॥ ३७ ब्रह्मणा निर्मितं स्तोत्रं जप्तं रुद्रेण वै पुरा । ब्रह्महत्याविनिर्मुक्त इन्द्रो मुक्तश्व किल्बिषात् ॥३८ देवाश्च ऋषयः सर्वे सिद्धविद्याधरांरगाः । जपित्वा स्तोत्रमेतत्तु सिद्धिमापुर्यथेप्सिताम् ।। ३९ पुण्यो धन्यः स वै दाता पुत्रवान्हि भविष्यति । मम स्तोत्रं पठेद्यस्तु नात्र कार्या विचारणा॥४० आगच्छ त्वं स्त्रिया सार्ध मम स्थानं नृपोत्तम । हस्तावलम्बनं दत्तं हरिणा तस्य भूपतेः ॥ ४१ नेदुर्दुन्दुभयस्तत्र गन्धर्वा ललितं जगुः । ननृतुश्वाप्सर श्रेष्ठाः पुष्पवृष्टिं प्रचक्रिरे ॥ देवाश्च ऋषयः सर्वे वेदस्तात्रः स्तुवन्ति ते । ततो दयितया साध जगाम नृपतिर्हरिम् ॥ ४३
तं स्तूयमानं सुरसिद्धसंधैः स विज्वलः पश्यति हृष्टमानसः ॥ समागतस्तिष्ठति यत्र वे पिता माता च वेगेन महाप्रभावः ॥ इति श्रीमहापुगणे पाझे मिखण्डे वनोपाख्याने गुरुतीर्थ नवनवतितमोऽध्यायः ॥ ७९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-८००१
श्र
अथ शततमोऽध्यायः ।
विष्णुरुवाचनर्मदायास्तटे रम्ये वटे तिष्ठति वै पिता । विज्वलोऽपि समायातः पितरं प्रणिपत्य सः ।। १ वासुदेवाभिधानस्य स्तोत्रस्यापि महामतिः । समाचष्टे स धर्मात्मा महिमानं पितुः पुरः॥ २ यथा विष्णुः समागत्य ददौ तस्मै वरं शुभम् । तत्सर्व कथयामास सुमसभेन चेतसा ।। ३ कुञ्जलोऽपि च वृत्तान्तं समाकर्ण्य च भूपतेः । हर्षेण महताऽऽविष्टः पुत्रमालिनय विज्वलम् ॥४ आह पुण्यं कृतं वत्स त्वया राशि महात्मनि । उपकारं महत्पुण्यं वासुदेवस्य कीर्तनात् ॥ ५
१८. अन्त्यजः शृणुयात्स्तो । २ इ. वैरिणां । ३ क. स. उ. च. छ. स. इ. "तः । तिलतब्दुलकहोम दशांघमाज्यमिश्रितम् । ठ.द.तः । तिलतण्डुलकहोम गुडगुग्गुलसंयुतम् । ४ क. ख. र.च. छ....।
Page #342
--------------------------------------------------------------------------
________________
३१६ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेअथैवं स प्रशस्यापि आशीभिरभिनन्ध चे । स्थितस्तस्मिन्वटे रम्ये च्यवनस्योप पश्यतः ॥ ६ एतत्ते सर्वमाख्यातं तेषां वृत्तं महात्मनाम् । वैष्णवानां महाराज अन्यत्किं ते वदाम्यहम् ॥ ७
वेन उवाचअमृतं शङ्खपात्रेण पानार्थ मम चार्पितम् । [*तस्मात्कस्य न च श्रद्धा पातुं मर्त्यस्य भूतले ] ॥ उत्तम वैष्णवं ज्ञान पानानामिह सर्वदा ।। त्वयैवं कथ्यमानस्य पाने तृप्तिर्न जायते । श्रोतुं हि देवदेवेश मम श्रद्धा विवर्धते ॥ कथयस्व प्रसादेन कुञ्जलस्यापि चेष्टितम् । महात्मना किमुक्तं तु चतुर्थतनयं प्रति ।। तन्मे सुविस्तरादेर्वे कथयस्व महामते ।।
विष्णुरुवाचश्रूयतामभिधास्यामि चरितं कुञ्जलस्य च । बहुश्रेयःसमायुक्तं चरितं च्यवनस्य च ॥ ११ इदं पुण्यं नरश्रेष्ठ ह्याख्यानं पापनाशनम् । यः शृणोति नरो भक्त्या गोमहम्रफलं लभेत् ॥ १२ इति श्रीमहापुगणे पाझे मिखण्डे वनोपाख्याने गुरुतीर्थे सततमोऽध्यायः ॥ १० ॥
आदितः श्लोकानां समष्ट्यङ्काः-७३२२
अर्थकाधिकशततमोऽध्यायः ।
सूत उवाचदेवदेवो हृषीकेशस्त्वपुत्रं नृपोत्तमम् । समाचष्टे समाश्रेयमाख्यानं पापनाशनम् ॥ श्रूयतामभिधास्यामि चरित्रं श्रेयदायकम् । द्विजस्यापि च वृत्तान्तं कुञ्जलस्य महात्मनः ॥ २
विष्णुरुवाच-- कुञ्जलश्चापि धर्मात्मा चतुर्थ पुत्रमेव च । समाहय मुदा युक्त उवाचनं कपिञ्जलम् ॥ ३ किं तु पुत्र त्वया दृष्टं श्रुतं वाऽपूर्वकं च यत् । भोजनार्थ प्रयासि त्वमितः कुत्र सुतोत्तमः ॥ वदाचक्ष्व महाभाग यद्धि दृष्टं सुपुण्यदम् ।।
कपिञ्जल उवाच यच्च तात मया दृष्टमपूर्व तद्वदाम्यहम् । [यन्न दृष्टं श्रुतं कन कम्मानव श्रुतं मया तदिहैव प्रवक्ष्यामि श्रूयतामधुना पितः ॥] शृण्वन्तु भ्रातरः सर्वे मातस्त्वं शृणु सांप्रतम् । कैलासः पर्वतश्रेष्ठो धवलश्चन्द्रसनिभः ॥ ६ नानाधातुसमाकीर्णो नानावृक्षोपशोभितः । गङ्गाजलेः शुभैः पुण्यः क्षालितः सर्वतोऽपि च ॥ ७ नदीनां तु सहस्राणि ख्यातानि विविधानि च । यस्मात्तात प्रसूतानि जलानि शुभदानि च।।८ ___* एतचिहान्तर्गतः पाठः क. ख. घ. च. छ. झ. ट. ट. ड. पुस्तकस्थः । । एतच्चिदान्तर्गतः पाठः क. ख. घ. ड. च. छ. झ. ट. ठ... द. पुस्तकस्थः ।।
क. ख. घ. उ. च. छ.. ट. ठ. ड. ढ. च । पुत्रं देवसमोपेतं स्तुत्वा चैव पुनः पुनः । ए । २ क. ख. च. 'नार्थममृतं शृणु । त । घ. ट. ठ. 'नार्थमानातं दिवः । त। ३ क. ख, घ. च. छ. स. ट... ड. नं वैष्णवैश्चरितं पुनः । त्व'। ४ क. स. घ. ह. च. छ. स.ट. ठ.:. द. 'व कृपया कथयस्व मे । वि। ५ घ. ट. ट. ड. लोकाख्यः । ६ क, ख. प.अ. ब. छ. झ.ट..ड. द. दिव्यानि । ७क. ख. च. छ. झ. विमलानि । घ. ड.ट.ट. इ. द. विविधानि ।
Page #343
--------------------------------------------------------------------------
________________
१०१ एकाधिकशततमोऽध्यायः] पत्रपुराणम् । तडागानि सहस्राणि सोदकानि महान्ति च । महागिरौ सरस्यश्च इंससारससेविताः॥ ९ तस्मिशिखरिणां श्रेष्ठे पुण्यदाः पापनाशिकोः । विविधानि प्रशस्तानि पुष्पितानि वनानि च॥१० नानावृक्षोपयुक्तानि हरितानि समन्ततः । किंनराणां गणैश्चैव अप्सरोभिः समाकुलः ॥ ११ गन्धर्वैचारणैः सिद्धदेववृन्दैः सुशोभितः। दिव्यवृक्षवनोपेतो गेङ्गापातैः समाकुलः ॥ १२ [*दिव्यगन्धैः सुगन्धैश्च नानारत्नसमन्वितः] । स्फाटिकाभिः शिलाभिश्च सर्वतः समलंकृतः १३ सूर्यतेजोमयो राजस्तेजोभिश्च समाकुलः । चन्दनैश्वारुगन्धैश्च बकुलैर्नीलपुष्पकैः ।। १४ नानापुष्पमयैर्वृक्षैः सर्वत्र समलंकृतः । पक्षिणां सुनिनादैश्च दिव्यानां मधुरायते ॥ १५ षट्पदानां निनादैश्च वृक्षे मधुरायते । कोकिलानां तु गीर्भिश्च ध्वनितः सकलो गिरिः॥ गणैः कोटिभिराकीर्ण तत्राऽऽस्ते शिवमन्दिरम् ॥ स्वर्गाभिरमणं पुण्यं पुण्यदं सुशिलोच्चयम् । दिग्गजानां सुघोषैश्च शब्दितं च समन्ततः ॥ १७ नानामृगैः समाकीर्ण शाखामृगसमाकुलम् । मयूरकेकायोश्च गुहासु च विनादितम् ॥ १८ कन्दरैर्लेपनैः कूटैः सानुभिश्च विराजितम् । नानाप्रस्रवणोपेतमौषधीभिर्विराजितम् ॥ १९ दिव्यं दिव्यगुणोपेतं पुण्यधामममाकुलम् । सेवितं पुण्यलोकैश्च पुण्यराशिं महागिरिम् ॥ २० पलिन्दभिल्लकोलैश्च मेवितं पर्वतोत्तमम् । विकटः शिवः कूटरविराजः प्रशोभते ॥ अन्यैर्नानाविधैः पुष्पैः कौतुकैर्मङ्गलैः शुभैः । गङ्गोदकमपातैश्च महाशब्दं प्रशुश्रुवे ॥ २२ [+शंकरस्य गृहं तात कैलासं गनवानहम् । तत्राऽऽश्चर्य मया दृष्टं यन्न दृष्टं कदा श्रुतम् ॥ २३ श्रूयतामभिधास्यामि तान सर्व मयोदितम् । शिवरागिरिगजस्य मेरोः पुण्यान्महोदयात् ॥ २४ हिमक्षीरसवणेस्तु प्रवाहः पतते भुवि । गङ्गायाश्च महाभाग रंहसा भोगवार्जितः ॥ २५ कैलासस्य शिरः पाप्य तत्र विस्तरतां गतः । दशयोजनविस्तीणेस्तत्र गङ्गादो महान् ॥ महातोयेन पुण्येन विमलेन विराजते ॥ सर्वतोभद्रता प्राप्तो महाहंमः प्रशोभते । [*नामोच्चारेण दिव्येन पुण्येन मधुरेण च ॥ २७ हंसास्तत्र भकूजन्ति तेन स्रोतो विराजते । तस्यैवाग्रे शिलायां हि कन्या चैका महामते ॥ २८
आसीना मुक्तकेशा तु रूपद्रविणशालिनी । दिव्यरूपसुमंपनी सेवलक्षणसंयुता ॥ २९ दिव्यालंकारसंभूषा सा च तत्र विराजते । न जाने गिरिराजस्य तनया वा महोदधेः॥ ३० नो वाऽस्ति ब्रह्मणः पत्नी नो वा स्वाहा भविष्यति। इन्द्राणी वा महाभागा रोहिणी वा भविष्यति। ईदृशी न यमस्यापि युवती परिदृश्यते । अन्यासां च सुदिव्यानां नारीणां तात सर्वथा ॥ ३२ यादृशं शीलसद्भावं गुणरूपं तु दृश्यते । अप्सरसां कदा नास्ति तादृशं रूपलक्षणम् ॥ ३३ यादृशं तु मया दृष्टं तदङ्गे विश्वमोहनम् । शिलापदे समासीना दुःखेनापि समाकुला ॥ ३४
* एतचिहान्तर्गतः पाठः क. ख. दु. च. छ. झ. इ. द. पुस्तकस्थः । + एतचिबान्तर्गतः पाठो घ. . छ. 2. ठ. ड. द. पुस्तकस्थः । एतचिहान्तर्गत: पाठो घ. ड. छ झ. ट. ट. डद. पुस्तकस्थः ।
१ क. ख. घ. ङ. च. छ. म. ट. ठ. ड. सपनानि । २ क. ख. घ. ङ. च. छ. झ. ट. ढ. द. महागिरौ। ३ घ. ट. ठ. ड. का: । वनानि विविधान्येव पू। ४ घ. ङ. छ. स. ट. ठ. इ. द. "नि शुभानि च । कि ।५ क.ख..च.छ. म. द. दिव्यभागैः । ड. दिव्यभोगः। ६ क. ख. र. च. ड. द. सबनो । ७. ड. ढ. म्। अंशुभिर्धवलं पुण्यं पुण्यराशिशि" । ८ ङ. छ. द. म् । सिंहश्च गर्जमानश्च शरभैः कमरैस्ततः । ९ट. १. प्रव्रजन्ति । १.उ. छ... तस्यतीरे शि।" घ. ट. ह. 'पा सुवर्णा सर्वलक्षणा ।दि । १२ छ. इ. सगुणा सर्वलक्षणा ।दि । इ. इ. सगुणा दिव्यलक्षगा । दि। १३ क. ख.च.'शी रूपसंपत्तियुवतीनां न ।
Page #344
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासमणीतं
[ २ भूमिखण्डेरुदते मुस्खरैर्बाला अनेकैः खजनैर्विना । अश्रूणि पतमानानि मुक्ताभानि बहूनि च ॥ ३५ निर्मलानि पतन्त्यत्र स्रोतस्येव महामते । बिन्दवो मौक्तिकाभास्ते पतिता हि महोदके ॥ ३६ तेभ्यो भवन्ति पानि हृद्यानि सुरभीणि च । पद्मानि जज्ञिरे तेभ्यो नेत्राश्रुभ्यो महामते ॥३७ गङ्गाम्भसि तरन्त्येव असंख्यातानि तानि तु [*पतितानि सुहृयानि रंहसा यान्ति तानि तु] ॥ गङ्गाप्रवाहमध्ये तु हंसवृन्दैः समं पितः । [+भागीरथ्याः प्रवाहस्तु तस्माच्चैव विनिर्गतः॥ ३९ कैलासशिखरं प्राप्य रत्नाख्यं चारुकन्दरम् । वर्तते तोयपूर्णस्तु योजनद्वयविस्तृतः॥ ४० हंसवृन्दसमाकीर्णो जलपक्षिसमाकुलः । नानावर्णविशेषाणि मन्ति पनानि तत्र च ॥ ४? प्रवाहे निर्मले तात मुनिवृन्दनिषेविते ।] अश्रुभ्यो यानि जातानि प्रभाते कमलानि च ॥ ४२ गगोदकम्लतान्येव सौरभ्याणि महान्ति च । प्रभवन्ति प्रवाहे तु निर्मले जलपूरिते ॥ [*जलमध्ये सुहंसेश्च जलपक्षिनिनादिते ॥
सूत उवाच रत्नाढ्ये तु गिरौ तस्मिन्रत्नेश्वरमहेश्वरः । देवदैत्यैः सुपूज्योऽपि तिष्ठत्येव तु सर्वदा ॥ ४४ तत्र दृष्टो मया तात कश्चित्पुण्यमयो मुनिः । जटाभारसमाक्रान्तो निर्वासा दण्डधारकः ॥ ४५ निराधारो निराहारस्तपसाऽतीव दुर्बलः । कृशाङ्गोऽप्यस्थिसंघातस्त्वमात्रणव चेष्टितः ॥ ४६ भस्मनाऽऽकुलितान्येव तस्याङ्गानि महात्मनः। शुष्कपत्राणि भक्षेत शीर्णानि पतितानि च ॥४७ [+शिवभक्तः समासीनो दुःखाधारो महातपाः। अश्रुभ्यो यानि जातानि पद्मानि सुहृयानि च] ४८ गङ्गातोयात्समानीय देवदेवं प्रपूजयेत् । रत्नेश्वर महाभागो नृत्यगीतविशारदः ॥ ४९ गायते नृत्यते तस्य द्वारस्थस्त्रिपुरद्विषः । तत्राऽऽगत्य स धर्मात्मा रोदते सुस्वरेरपि ॥ ५० एवं दृष्टं मया तात अपूर्व वदतां वर । कथयस्व प्रमादान्मे यदि त्वं वेत्सि कारणम् ॥ ५१ सा का नारी महाभाग कस्मात्तत्र प्ररोदिति । कस्मात्सदेव पुरुपा देवमर्चेन्महेश्वरम् ॥ ५२ तन्मे त्वं विस्तराढहि सर्वसंदेहकारणम् । एवमुक्तो महाप्राज्ञः कुञ्जलोऽपि सुतेन हि ॥ कपिञ्जलेन प्रोवाच विस्तराच्ण्वतो मुने ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थ एकाधिकशततमोऽध्यायः ॥ १०१ ॥
आदितः लोकानां समष्ट्यङ्काः-८०६६
अथ ड्यधिकशततमोऽध्यायः ।
कुञ्जल उवाचसर्व वत्स प्रवक्ष्यामि यत्वयोक्तं ममाथुना । भवयोर्वेदनं यत्तु यस्मार्जातं द्विजोत्तम ॥ १ एकदा तु महादेवी पार्वती पर्वतोत्तमं । क्रीडमाना महात्मानमीश्वरं वाक्यमब्रवीत् ॥ २
* एतचिहान्तर्गतः पाठः क ख. घ. दु.च. छ. झ. ट. ठ. ड. द. पुस्तकस्थः । + एतच्चिद्वान्तर्गतः पाठः क. ख. घ. ड.च. छ. झ.ट. . इ. द. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. घ. इ. च. छ. झ. ट.ठ. इ.ढ. पुस्तकस्थः । + एतचिनान्तर्गतः पाटः क. ख ङ. च. छ. झ. इ. . पुस्तकस्थः ।
१. प्रवाहे । २ क. घ ङ. च. छ. झ. ट. ड. ड. द. रत्नाख्ये । ३ छ. 'स्मिन्वसते च म । ४ क. ख. ङ. च. छ. झ. इ. द. निराशो । ५ञ. योस्तेजसा सा तु य । ६ अ. 'उजाता द्वि । ७ क. ख. इ. च. छ. झ. इ. ढ. प्रमदोत्तमा।
Page #345
--------------------------------------------------------------------------
________________
"50,
१०२ द्यधिकशततमोऽध्यायः ]
पद्मपुराणम् । मेमोरसि महादेव महदेतत्सुदोहदम् । दर्शयस्व ममाग्रे त्वं काननं काननोत्तमम् ॥ ३
महादेव उवाचएवमस्तु महादेवि नन्दनं देवसंकुलम् । दर्शयिष्यामि ते पुण्यं द्विनसिद्धनिषेवितम् ॥ एवमाभाष्य तां देवीं तया सह गणैस्ततः । जग्मतुर्वत्स तौ देवी नन्दनं नवमेव तु ॥ सर्वाङ्गसुन्दरं पुष्पमाल्याद्याभरणैर्युतम् । घण्टामालाभिसंयुक्तं किङ्किणीजालमालिनम् ॥ ६ वसनैः पद्मपुप्पैस्तु मुक्तामाल्यसुशोभितम् । हंसचन्द्रप्रतीकाशं वृषभं चारुलक्षणम् ॥ ७ समारूढो महादेवो गणकोटिसमातृतः । नन्दिभृङ्गिमहाकालस्कन्दचण्डमनोहराः ॥ वीरभद्रो गणेशश्च पुष्पदन्तो जनेश्वरः। सुबलोऽतिवलो नाम मेघनादो घंटावहः ॥ . ९ घण्टाकर्णश्च कालिन्दः पुलिन्दो वीरवाहुकः । केशारिः किंकरो नाम चन्द्रहासः प्रजापतिः॥१० एते चान्ये च बहवः सनकाद्यास्तपोधनाः । गणश्च कोटिसंख्यातः स शिवः परिवारितः ॥ ११ नन्दनं वनमेवापि सेवितं देवकिंनरैः । प्रविवेश महादेवो गणैर्देव्या च सेवितः ॥ १२ दर्शयामास देवेशो गिरिजायै सुशोभितम् । नानापादपसंछन्नं फलपुष्पसमाकुलम् ॥ १३ [*दिव्यरम्भासमाकीर्ण पुष्पवद्भिश्च चम्पकैः । मल्लिकाभिः सुपुष्पाभिर्मालतीजालसंकुलम् ] १४ नित्यपुष्पितशाखाभिः पादपैः शोभितं वनम् । राजमानं महावृक्षश्चन्दनैश्चारुगन्धिभिः॥ १५ देवदारुवनैर्जुष्टं लवङ्गश्च समाकुलम् । [+सरल रिकेलैश्च तद्वन्पूगीफलद्रुमः॥ खजूरपनसैर्दिव्यैः फलभारावनामितैः । परिमलोदारसंयुक्तगुरुवृक्षसमाकुलम् ॥] अग्नितेजःसमाभामैः सप्तपणः सुपुप्पितैः ॥
१७ राजवृक्षः कदम्बैश्च पुप्पशोभासमन्वितम् । जम्बुनिम्बमहाक्षातुलिङ्गसमाकुलम् ॥ १८ नारङ्गः सिन्दुवारैश्च पिप्पलैः शालनिन्दुकैः ।[+उदुम्बरः कपित्थश्च जम्बुपादपशोभितम् ॥ १९ लकुचैः पुष्पसौगन्धैः स्फुटनॉरैः समाकुलम् ] । चूतैश्च फलराजानीलश्चव घनोपमः ॥ २० शोभितं नन्दनं पुण्यं शिवेन परिदर्शितम् । शोभितं च द्रुमैश्वान्यैः सनीलवनोपमः ॥ २१ सर्वकामफलोपेतैः केल्याणफलदायकैः । कल्पद्रुमैमहापुण्यैः शोभितं नन्दनं वनम् ॥ २२ नानापक्षिनिनादैश्च संकुलं मधुरस्वनैः । कोकिलानां रुतेः पुण्यरुदघुष्टं मधुकारिभिः ॥ २३ मकरन्दविलीनाभिभ्रमरीभिर्विराजितम् । नानावृक्षः समाकीर्ण नानामृगगणाकुलम् ॥ २४ वृक्षेभ्यः पतितैः पुष्पैः सुगन्धैः पतितैर्भुवि । मा च भू राजते पुत्र पूजिनेव सुगन्धिभिः ॥ २५ तत्र वाप्यो महापुण्याः पद्मसौगन्धनिर्मलाः । तोयस्ताः क्षुभिताः पुत्र हंसकारण्डवोषिताः॥ २६ तडागैः सागरप्रख्यस्तोयसौगन्थ्यपूजितः । नन्दनं भाति सर्वत्र गणैरप्सरसां महत् ॥ २७ विमानः कलशैः शुभैमदण्डः सुशोभनः । नन्दनं वनराजस्तु प्रासादेश्च सुशोभितः॥ २८ यत्र तत्र प्रभात्येव किंनराणां महागणः । [*गन्धर्वैरप्सरोभिश्च सुरूपाभिद्विजोत्तम ॥] २९
* एच्चिद्वान्तर्गतः पाठः क. ख. दु. च. छ. घ. इ. द. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. झ. ड. ढ. पुस्तकस्थः । + एतच्चिदान्तर्गतः पाठः क. ख. च. छ. झ. . पुस्तकस्थः । * एतच्चिदान्तर्गतः पाठः क. ख. घ. ङ. च छ. झ.ट. ठ. ड. दृ पुस्तकस्थः ।
१. महोदय म । २ ड. म् । वेणुमा । ३ छ. झ. 'म् । भ्रमरैः पुष्पवस्त्रैश्च मु। ४ इ. घटेश्वरः । ५ घ. ठ. इ. पाटलानां वनोत्तमम् । ६.. बकलः । ७ ख. ड. च. छ. स. १. "नाग: स। ८ क. ख. ङ.चम् । नील: शालवनदिव्यस्तालानां तु वनस्ततः । छ. झ. द.म् । तमालैस्तु विशालस्तैः शोभितं तपनोपमः । ९ ङ. छ. स. द. कल्पनारणदा । १० क. ख. घ. ङ. च. छ. झ. ट. ट.ड. ' यर्मधुरैर्मधु। ११ ह नद्यो । १२ क.ख.इ.च.छ.स.ह. सुधान्वितैः ।
Page #346
--------------------------------------------------------------------------
________________
३५० महामुनिश्रीव्यासमणीतं
[ २ भूमिखण्डेदेवतानां विनोदैश्च मुनिबन्दैः सुयोगिभिः । सर्वत्र शोभते पुण्यं स्थानं तु नन्दनस्य च ॥ ३०
एवं समालोक्य महानुभावो भवश्व देव्या सहितो महात्मा ॥ श्रीनन्दनं पुण्यवतां निवासं सुखाकर शान्तिगुणोपपत्रम् ॥ आदित्यतेजःसमतेजसां गणेः प्रभाति वै रश्मिभिजोतरूपेः। पुष्पैः फलैः कामगुणोपपनैः कल्पत्रुमो नन्दनकाननेऽपि ॥ एवंविधं पादपराजमेव समीक्ष्य देवी च शिवं बभाषे ।
अस्याभिधानं कथयस्व नाथ सर्वस्य पुण्यस्य नगस्य पुण्यम् ।। शिव उवाच
अस्य प्रतिष्टा महती शुभाख्या देवेषु मुख्यो मधुसूदनश्च । नदीषु मुख्या सुरनिम्नगापि विसृष्टिकर्ता च यथैव धाता ॥ सुखावहानां तु यथैव चन्द्रो भूतेषु मुख्या च यथैव पृथ्वी । नगेन्द्रराजो हि यथा नगानां जलाशयेवेव यथा समुद्रः॥ महौषधीनामिव देवि चावं महीधराणां हिमवान्यथैव । विद्यासु मध्ये च यथाऽऽत्मविद्या लोकेषु सर्वेषु यथा नरेन्द्रः ॥
तथैव मुख्यस्तरुराज एष सर्वातिथिः सर्वपतेः श्रियोपमः। पार्वत्युवाच
गुणांश्च शंभो मम कीर्तयस्व वृक्षाधिपस्यापि शुभान्सुपुण्यान् ॥ आकर्ण्य देवो वचनं बभाषे देव्यास्तु सर्व सुतरोहितस्य । यं यं तु कल्पयन्ति सुपुण्ययुक्ता देवोपमा देववराश्च देवि ॥ तं तं हि वृक्षः प्रददाति तेभ्यः फलाद्रसानां स च वृक्ष एकः। तस्माच सर्वे प्रभवन्ति पुण्या दुष्पाप्यमत्रैव तपोधिकास्ते ।। जीवाधिक रत्नमयं सुदिव्यं देवास्तु भुञ्जन्ति महामधानाः। शुश्रावं देवी वचनं शिवस्य आश्चर्यभृतं मनसा विचिन्त्य ॥ तस्यानुमत्या परिकल्पितं च स्त्रीभावरूपं सुगुणं सुरूपम् । सर्वाङ्गरूपं सुगुणं सुरूपं तस्मात्तदा सा गिरिजा प्रलेभे ॥ विश्वस्य मोहाय यथोपविष्टा सहायरूपा मकरध्वजस्य । क्रीडानिधानं सुखसिद्धिरूपं सर्वाभिपन्ना कमलायंताक्षी ॥ पमानना पद्मकरा सुपमा चामीकरस्यापि यथा मुमूर्तिः । प्रभासु तद्विमला सुतेजा लीलासुतेजाश्च सुकुश्चितास्ते ॥ प्रलम्बकेशाः परिसूक्ष्मबद्धाः पुष्पैः सुगन्धैः परिलेपिताश्च । मबदकुन्ता हटकेशबन्धैर्विभाति सा रूपवरेण पाला ॥ सीमन्तमार्गे च मुक्ताफलानां माला विभात्येव यथा तरूणाम् । सीमन्तमूले तिलकं सुदेव्या यथोदितो दैत्यगुरुः सुतेजाः॥
१ क. ख. च... पदिष्टा । १ म. यथा श्रीः ।
।
Page #347
--------------------------------------------------------------------------
________________
१०२ व्यधिकशततमोऽध्यायः]
परपुराणम् । भाले सुपये मृगनाभिपनसमुत्यतेजामकरैविभाति ॥ सीमन्तमूले तिलकस्य तेजः प्रकाशयेवूपश्रियं मुलांके ॥ केशेषु मुक्ताफलके च भाले तस्याः सुशोभा विकरोति नित्यम् । यथा तु चन्द्रः परितो विभाति सुरम्यचेष्टेव विभाति तद्वत् ॥ संपूर्णचन्द्रोऽपि यथा विभाति ज्योत्स्नानिपातेन हिमांशुतेजः। तस्यास्तु वक्त्रं परिभाति तद्वच्छोभाकरं विश्वविशारदं च ॥ हिमांशुरेवापि कलङ्कयुक्तः संक्षीयते नित्यकलाविहीनः। संपूर्णमस्त्येव सदैव हृष्टं तस्यास्तु वक्त्रं परिनिष्कलङ्कम् ॥ गन्धं विकाशं कमले स्वकीयं ततः समालोक्य सुखं न लेभे । पद्मानना सर्वगुणोपपन्ना मदीयभावः परिनिर्मितयम् ॥ गन्धं स्वकीयं तु विपश्य प तस्या मुखाद्वाति जगत्समीरः ।
लज्जाभियुक्तं सहसा बभव जलं समाश्रित्य सदैव तिष्ठति ॥ *कतिमातिनियतबुद्ध्या सुधियो वदन्ति समदननृपतेः कोशं समुद्रकलाभिः। सुवरदशनरत्नेहाँस्यलीलाभियुक्ता अरुणअधरविम्ब शोभमानस्तु आस्यः ।। शुद्धा सुनासिका तस्याः सुकर्णी रत्नभूषितौ । हेमकान्तिसमोपेतो कपोली दीप्तिसंयुतौ ॥ ५३ रेखात्रयं प्रशोभेत ग्रीवायां परिसंस्थितम् । सौभाग्यसंपच्छारैस्तिस्रो रेखा इहैव हि ॥ ५४ सुस्तनी कठिनौ पीनौ वर्तुली बिल्वमंनिभी । तस्याः कन्दर्पकलशावभिषेकाय कल्पितौ ॥ अंसावतीव शोभेते सुसमी मानसाविती ॥ सुभुजौ वर्तुलौ स्निग्धौ सुवर्णी लक्षणान्वितौ । सुसमौ करपयौ तौ पद्मवर्णों मुशीतलौ ॥ ५६ दिव्यलक्षणसंपन्नौ पद्मस्वस्तिकसंयुतो । सरलाः पद्मसंयुक्ता अङ्गल्यो नखसंयुताः॥ ५७ नखानि मणिभासीनि जलबिन्दुनिभानि च । पद्मगर्भप्रतिच्छन्नो वर्णस्तदसंभवः ॥ ५८ पद्मगन्धा च सवोङ्गे पोव भाति भामिनी । सवेलक्षणसंपना नगकन्या सुशोभिता ॥ ५९ रक्तोत्पलनिभा पादो सुशक्तो चातिशोभनो । रत्नज्योतिःसमाकारा नखाः पादाप्रसंभवाः६० यथोद्दिष्टं च शास्त्रेषु तथा चार प्रदृश्यते । सर्वाभरणशोभाजी हारकरणनूपुरा ॥ ६१ मेखलाकटिसूत्रेण काञ्चीनादेन राजते । नीलेन पट्टवस्त्रेण परां शोभांगता तु सा ॥ ६२ कचकेनापि दिव्येन सुरक्तेन गुणान्विता । पार्वतीकल्पिताद्भावागुणं पाप्ता महोदयम् ॥ ६१ कल्पद्रुमान्मुदं लेभे शंकरं वाक्यमब्रवीत् । यथोक्तं तु त्वया देव तथा दृष्टं वनं मया ॥ यादृशं कथ्यते भावस्तादृशं परिदृश्यते ।
सूत उवाचअथ सा चारुसर्वाङ्गी तयोः पार्थे समेत्य वै । पादाम्बुज ननामाय सा भक्त्या उभयोर्मुदा॥६५ उवाच वचनं स्निग्धं त्वं हारि च सा तदा । कस्मादृष्टा त्वया मातः कथयस्वात्र कारणम् ॥६६
देव्युवाचवृक्षस्य कौतुकाद्भावान्मया वै प्रत्ययः कृतः । सघः प्राप्तं फलं भद्रे भवतीरूपसंपदा ॥ ६७
* सर्वपुस्तकेषु च्छन्दोभङ्गोऽथासंगतिश्च । १ क. ख. च. लक्ष्णौ । २ क. स. ड. छ. अ. सुश्लक्ष्णौ ।
Page #348
--------------------------------------------------------------------------
________________
१४२ महामुनिश्रीव्यासप्रणीतं
२ [ भूमिखण्डेअशोकसुन्दरीनाम्ना लोके ख्याति प्रयास्यसि । सर्वसौभाग्यसंपमा मम पुत्री न संशयः ॥ ६८ सोमवंशे तु विख्यातो यथा देवः पुरंदरः । नहुषो नाम राजेन्द्रस्तव नाथो भविष्यति ॥ ६९ एवं दत्त्वा वरं तस्यै जगाम गिरिजा गिरिम् । कैलासं शंकरेणापि मुदा सा परयान्विता ॥७० इति श्रीमहापुरोण पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे यधिकशततमोऽध्यायः ॥ १०२ ॥
आदितः श्लोकानां समष्टयङ्काः-८१३६
अथ त्र्यधिकशततमोऽध्यायः ।
कुञ्जल उवाचअशोकसुन्दरी जाता सर्वयोषिद्वरा तदा । रेमे तु नन्दने पुण्ये सर्वकामगुणान्विते ॥ ? गुरूंपाभिः सुकन्याभिर्देवानां चारुहासिनि । सर्वान्भोगान्प्रभुञ्जाना गीतनृत्यविचक्षणा ॥ २ विप्रचित्तिसुतो हुण्डो रौद्रस्तीत्रश्च सर्वदा । स्वेच्छाचारो महाकामी नन्दनं प्रविवेश ह ॥ ३ अशोकसुन्दरीं दृष्ट्वा सर्वालंकारशोभिताम् । तस्यास्तु दर्शनाईत्यो विद्धः कामस्य मार्गणैः ॥ ४ तामुवाच महाकायः का त्वं कस्यासि सुन्दरि। कस्मात्त्वं कारणाचात्र ह्यागताऽसि वनोत्तमम् ॥५
अशोकसुन्दर्युवाचशिवस्यापि सुपुण्यस्य सुताऽहं शृणु सांप्रतम् । स्वमाऽहं कार्तिकेयस्य जननी गिरिजा मम ॥६ बालभावेन संप्राप्ता लीलया नन्दनं वनम् । भवान्को हि किमर्थं तु मामेवं परिपृच्छसि ॥ ७
हुण्ड उवाचविप्रचित्तेः सुतश्चाहं गुणलक्षणसंयुतः । हुण्डेति नाना विख्यातो बलवीर्यसमन्वितः॥ दैत्यानामप्यहं श्रेष्ठो मत्समो नास्ति राक्षसः ॥ देवेषु मर्त्यलोकेषु तपसा यशसा कुलैः । अन्येषु नागलोकेषु धनभाग्यैर्वरानने ॥ दर्शनात्ते विशालाक्षि हतः कन्दर्पमार्गणैः । शरणं तेऽप्यहं प्राप्तः प्रसादसुमुखी भव ।। भवस्व वल्लभा भायो मम पाणसमा प्रिया॥
अशोकसुन्दर्युवाचश्रूयतामभिधास्यामि सर्वसंबन्धकारणम् । भवितव्या मुजातस्य लोके स्त्री पुरुषस्य हि । भवितव्यस्तथा भतो स्त्रिया यः सदृशो गुणेः॥ संसारे लोकमार्गोऽयं शृणु हुण्ड यथाविधि । अस्त्येव कारणं चात्र यथा ते न भवाम्यहम् ॥१२ सुभायों देत्यराजेन्द्र शृणुष्व यतमानसः । तरुराजादहं जाता यदा काले महामते ॥ १३ शंभोभावं सुसंगृह्य पार्वत्या कल्पिताऽस्म्यहम् । देवस्यानुमतो देव्या सृष्टो भर्ता ममैव हि ॥१४ सोमवंशे महामाज्ञः स धर्मात्मा भविष्यति । जिष्णुजिष्णुसमो वीर्ये तेजसा पावकोपमः ॥ १५ सर्वज्ञः सत्यसंधश्च त्यागे वैश्रवणोपमः । यज्वा दानपतिः सोऽपि रूपेण मन्मथोपमः ॥ १६ नहुषो नाम धर्मात्मा गुणशीलमहानिधिः । देव्या देवेन मे दत्तः ख्यातो भर्ता भविष्यति॥१७
१ घ. ट. ठ. ड. वीक्षकः । २ क. स्व. रु. च. छ. झ. इ. द. पुणुर्विष्णु। ३ क. ख. च. छ. 'मः । धर्मशः सत्यवाग्धीरस्त्यागे। ङ, झ. ड. म. धर्मज्ञः सत्यवान्धीरस्त्यागे।
Page #349
--------------------------------------------------------------------------
________________
१०३व्यधिकशततमोऽध्यायः] पअपुराणम् ।
३४३ यस्मात्सर्वगुणोपेतं पुत्रमाप्स्यामि सुन्दरम् । इन्द्रोपेन्द्रसमं लोके ययाति जनवल्लभम् ॥ १८ लप्स्याम्यहं हितं वीरं यस्माच्छम्भोः प्रसादतः। [*अहं पतिव्रता वीर परभार्या विशेषतः।]१९ अतस्त्वं सर्वदा हुण्ड त्यज भ्रान्तिमितो व्रज। प्रहस्यैवं वचो ब्रूते सोऽशोकसुन्दरी प्रति २०
हुण्ड उवाचनैव युक्तं त्वया प्रोक्तं देव्या देवेन चैव हि । नहुषो नाम धर्मात्मा सोमवंशे भविष्यति ॥ २१ भवती वयसा ज्येष्ठा स कनिष्ठो न युज्यते । कनिष्ठा स्त्री प्रशस्ता स्यात्पुरुषो न प्रशस्यते ॥२२ कदा स पुरुषो भद्रे तव भर्ता भविष्यति । तारुण्यं यौवनं यावन्नाशमेव प्रयास्यति ॥ २३ यौवनस्य बलेनापि रूपवत्यः सदा स्त्रियः । पुरुषाणां वल्लभत्वं प्रयान्ति वरवाणनि ॥ २४ तारुण्यं हि महामूल्यं युवतीनां वरानने । तस्याऽऽधारेण भुञ्जन्ति भोगान्कामान्मनोनुगान् ॥२५ कदा सोऽभ्येप्यते भद्र आयुपुत्रः शृणुष्व मे । यौवनं वर्ततेऽद्यैव वृथा चैव भविष्यति ॥ २६ गर्भत्वं च शिशुत्वं च कौमारं च निशामय । कदा स यौवनोपेतस्तव योग्यो भविष्यति ॥ २७ योवनस्य प्रलोभेन पिवस्व मधुमाधवीम् । मया सह विशालाक्षि रमस्व त्वं सुखेन वै॥ २८ हुण्डस्य वचनं श्रुत्वा शिवस्य तनया पुनः । उवाच दानवेन्द्रं सा साधो तन्न भविष्यति ॥ २९ अष्टाविंशतिके प्राप्ते द्वापराख्ये युगे तदा । शेषावतारो धर्मात्मा वसुदेवसुतो बलः ॥ ३० रैवतस्य सुतां भार्या दिव्यां चैव करिष्यति। साऽपि जाता महाभागा कृताख्ये हि युगोत्तमे ॥ ३१ युगत्रयप्रमाणेन सा हि ज्येष्ठा बलादपि । बलस्यापि पिया जाता रेवती प्राणसंमिता ॥ ३२ भविष्यद्वापरे प्राप्त ह*सा तु भविष्यति । मायावती पुरा नाता गन्धर्वतनया वरा ॥ ३३ अपहृत्य निहत्येव शंबरो दानवोत्तमः । तस्या भता समाख्यातो माधवस्य सुतो बली ॥ ३४ प्रद्युम्नो नाम वीरेशो यादवेन्द्रस्य नन्दनः । तस्मिन्युगे भविप्ये च भाव्यं पृष्टं पुरातनः ॥ ३५ व्यासादिभिर्महाभागानवद्भिर्महात्मभिः। एवं हि दृश्यते देत्य वाक्यं देव्या तदोदितम् ॥३६ मां प्रत्युक्तं यथा धाव्या पुत्र्या हिमवतस्तदा । त्वं तु लोभेन कामेन लुब्धो वदसि दुष्कृतम् ॥ किल्विषेण समायुक्तं वेदशास्त्रविवर्जितम् । यद्यस्य दृष्टमेवास्ति शुभं वाऽप्यशुभं यथा ॥ ३८ पूर्वकर्मानुसारेण तद्भविष्यति तस्य च । [*देवानां ब्राह्मणानां च वदने यत्सुभाषितम् ॥ ३९ निःसरेद्यदि सत्यं तदन्यथा नैव जायते । मद्भाग्यादवमाज्ञातं नहुषस्यापि तस्य च ।] समायोगं विचार्य देव्या प्रोक्तं शिवेन च ॥
४० एवं ज्ञात्वा शमं गच्छ त्यज भ्रान्ति मनःस्थिताम् । नैव शक्तो भवान्दैत्य मनो मे चालितुं ध्रुवम्॥४१ पतिव्रतादृढं चित्तं कः प्रचालयितुं विभुः । महाशापेन योक्ष्यामि इतो गच्छ महासुर ॥ ४२ एवमाकण्ये तद्वाक्यं हुण्डो वै दानवो वली । मनसा चिन्तयामास कथं भायों भवेदियम् ॥ ४३ विचिन्त्य हुण्डो मायावी अन्तर्धानं समागतः । मायया कन्यकारूपो बभूव मम नन्दन ॥ ४४ सा कन्याऽपि वरारोहा मायारूपाऽगमत्ततः। हास्यलीलासमायुक्ता यत्राऽऽस्ते भवनन्दिनी॥४५
*एतचिहान्तर्गतः पाठः क. ख. दु. च. छ. झ. द. पुस्तकस्थः । + एतदने क. ख. घ. उ. च. छ. स. ट. उ. र. ढ. पुस्तकेषु 'बलेन वयसा युक्तो नहुषस्तु न युज्यते'इन्यर्धभाधकम् । एतचिहान्तर्गतः पाठः क. ख. घ. उ. च. छ. स. ट. ठ. ड. द. पुस्तकस्थः ।
१ क, ख. इ. च. छ. झ. द ह रणे धीरं २ ग. घ. च. छ. ज. स. म. द. 2. द. महामूलं। ३ .म् । तस्मानिष्कम्य वेगेन तस्मात्स्थानाद्विहाय ताम् ।अन्यस्मिन्दिवसे प्राप्ते मायां कृत्वा तमोमयीम् । दिव्यं मायामयं रूपं कृत्वा नार्यास्त दानवः । हा।
Page #350
--------------------------------------------------------------------------
________________
३४४
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डे
उवाच वाक्यं स्निग्धेव अशोकसुन्दरीं प्रति । काऽसि कस्यासि सुभगे तिष्ठसि त्वं तपोवने ।। ४६ किमर्थं क्रियते वाले कामशोषणकं तपः । तन्ममाऽऽचक्ष्व सुभगे किं निमित्तं सुदुष्करम् ॥ ४७ तनिशम्य शुभं वाक्यं दानवेनापि भाषितम् । मायारूपेण च्छन्नेन साभिलाषेण सत्वरम् ||४८ आत्मसृष्टिसुवृत्तान्तं प्रवृत्तं तु यथा पुरा । तपसः कारणं सर्व समाचष्टे सुदुःखिता ॥ उपप्लवं तु तस्यापि दानवस्य दुरात्मनः । मायारूपं न जानाति सौहृदात्कथितं तया ॥
४९
५०
हुण्ड उवाच
साधुव्रताऽसि हे देवि सम्यग्व्रतपरायणा । साधुशीलसमाचारा सोवाचाशोकसुन्दरीम् ॥ अहं पतिव्रता भद्रे पतिव्रतपरायणा ।।
५१
तपश्चरामि सुभगे भर्तुरर्थे महासती । मम भर्ता हतस्तेन हुण्डेनापि वरात्मना तस्य नाशाय वै घोरं तपस्यामि महत्तपः ||
५२
1
५३
५४
५६
५७
एहि मे स्वाश्रमे पुण्ये गङ्गातीरे वसाम्यहम् । अन्यैर्मनोहरैर्वाक्यैरुक्ता प्रत्ययकारकैः ॥ हुण्डेन सखिभावेन मोहिता शिवनन्दिनी । समाकृष्टा सुवेगेन महामोहेन मोहिता ॥ नीता चाऽऽत्मग्रहं दिव्यमनौपम्यं सुशोभनम् । मेरोः सुशिखरे पुत्र वैड्र्याख्यं पुरोत्तमम् ||५५ स्वस्त्रीवर्गगणोपेतं काञ्चनाख्यं सदा शुभम् । तुङ्गप्रासादसंबाधैः कलशैर्दण्डचामरः ॥ नानावृक्षसमोपेतैर्वनैनीलैर्घनोपमैः । वापीकूपतडागैश्च नदीभिस्तु जलाशयैः ॥ शोभमानं महारत्नैः प्राकारैर्हेमसंयुतः । सर्वकामसमृद्धार्थैः पूर्ण दैत्यगृहस्तथा ॥ ददृशे सा पुरं रम्यमशोकसुन्दरी तदा । कस्य देवस्य संस्थानं कथयस्व सखे मम । सोवाच दानवेन्द्रस्य पूर्व दृष्टस्य वै त्वया । हुण्डस्य स्थानमेतद्धि सोऽहं दानवपुंगवः ॥ मया त्वं तु समानीता मायया चात्र भामिनि । [तामाभाष्य गृहं नीता शातकौम्भं सुशोभनम् नानावेश्मैः समाजुष्टं कैलासशिखरोपमम् ] । निवेश्य सुन्दरीं तत्र दोलायां कामपीडितः ।। ६२ पुनः स्वरूपी दैत्येन्द्रः कामबाणप्रपीडितः । करसंपुटमाबध्य उवाच वचनं तदा ।।
५८
५९
६०
६३
यं यं त्वं वाञ्छसे भद्रे तं तं दद्मि न संशयः । भज मां त्वं विशालाक्षि भजन्तं कामपीडितम् ॥ अशोकसुन्दर्युवाच -
नैव चालयितुं शक्या भवता दानवेश्वर । मनसाऽपि न वै धार्या मम मोहं समागतम् ।। (१) ६५ भवादृशैर्महापापैर्देवैर्वा दानवाधम । दुष्प्राप्याऽहं न संदेह एवं प्राह पुनः पुनः ||
६६
६७
६८
स्कन्दानुजा सा तपसाऽभियुक्ता जाज्वल्यमाना महता रुषा च । संहर्तुकामा परिदानवं तं कालस्य जिहेव यथा स्फुरन्ती ॥ सा प्रोवाच पुनर्देवी तमेवं दानवाधमम् । उग्रं कर्म कृतं पाप आत्मनाशनहेतवे ।। आत्मनाशाय नाशाय स्वजनस्यास्य वै त्वया । स्वगृहं प्रापिता दीप्ता सुशिखा कृष्णवर्त्मनः ६९ arisशुभः कूटपक्षी सर्वशोकैः समुद्रतः । गृहं स प्रविशेद्यस्य तस्य नाशो भवेद्ध्रुवम् ॥ स्वजनस्य च सर्वस्य धनस्य च कुलस्य च । स द्विजो नाशमिच्छेत विशत्येवं यदा गृहम् ॥ ७१ तथा तेऽहं गृहं प्राप्ता तव नाशं समीहती । जीवं कुलं धनं धान्यं पुत्रपौत्रादिकं तथा ॥ ७२
७०
* एतचिहान्तर्गत: पाठश्छपुस्तकस्थः ।
१ क. ख. ङ. व. ड. ड. मायामोहेन । २ छ नसो नेव संधान म । ३ ङ. छ. उ. 'देहो मा वदस्व पु । ४ झ. "था च कुर्कुट पक्षी सर्वलोकेऽप्यमङ्गलः । गृ । ५ क. ख. ङ. च. छ. झ. ढ. तव ।
Page #351
--------------------------------------------------------------------------
________________
१०३ व्यधिकशततमोऽध्यायः ] पत्रपुराणम् । पुत्राणां धनधान्यस्य ते वंशस्य च सांप्रतम् । सर्व ते नाशयित्वाऽहं यास्यामि च न संशयः॥७॥ यथा त्वयाऽहमानीता चरन्ती परमं तपः । पतिकामा प्रवाञ्छन्ती नहुषं चाऽऽयुनन्दनम् ॥ ७४ तथा त्वां मम भर्ता हि नाशयिष्यति दानव । मन्निमित्त उपायोऽयं दृष्टो देवेन वै पुरा ॥ ७५ सत्येयं लौकिकी गाथा यां गायन्ति विदो जनाः । प्रत्यक्षं दृश्यते लोके न विन्दन्ति कुबुद्धयः।। यत्र येन प्रभोक्तव्यं यस्माहुःखसुखादिकम् । सत्यं च भुज्यते तत्र तस्मादेव न संशयः॥ ७७ कर्मणोऽस्य फलं भुक्ष्व स्वकीयस्य महीतले । यास्यसे निरयं स्थानं परदाराभिमर्शनात् ॥७८ सुतीक्ष्णं हि सुधारं तु सुखङ्गं च विघट्टति । अङ्गुल्यग्रेण कोपाय तथा मां विद्धि सांप्रतम् ॥७९ सिंहस्य संमुखं गत्वा क्रुद्धस्य गर्जितस्य वो । को लुनाति मुखात्केशान्साहसाकारसंयुतः ।। ८० सत्याचारां दमोपेतां नियतां तपसि स्थिताम् । निधनं चेच्छने सद्यो यो वै मां भोकुमिच्छति ॥ स मणिं कृष्णसर्पस्य जीवमानस्य सांप्रतम् । ग्रहीतुमिच्छत्येवापि यथा कालेन प्रेषितः ॥ ८२ भवांस्तु प्रेषितो मृढ कालेन काममोहितः । तदा त ईदृशी जाता कुमतिः किं न पश्यासि ॥ ८३ ऋते तु आयुपुत्रेण समालोकयते हि कः । अन्यो हि निधनं याति मम गात्रावलोकनात् ॥ ८४ एवमाभाष्य तं दुष्टं गङ्गातीरं गता सती । मशोका दुःखसंविना नियता नियमान्विता ॥ ८५ पूर्वमाचरितं घोरं पतिकामनया तपः । तव नाशार्थमद्याहं चरिष्ये दारुणं तपः॥ ८६ यदा त्वां निहतं दुष्ट नहुषेण महात्मना । निशितैर्वनसंकाशेर्बाणैराशीविषोपमैः॥ ८७ रणे निपतितं पाप मुक्तकेशं सलोहितम् । गंतोत्साहं प्रद्रक्ष्यामि तदा यास्याम्यहं पतिम् ॥ ८८ एवं सुनियमं कृत्वा गङ्गातीरे अनुत्तमे । संस्थिता हुण्डनाशाय निश्चिता शिवनन्दिनी ॥ ८९
वह्नर्यथा दीप्तिमती शिखोज्ज्वला तनोभियुक्ता पदहेत्सुलोकान् ॥
क्रोधेन दीप्ता विबुधेशपुत्रिका गङ्गातटे दुश्वरमाचरत्तपः ॥ कुञ्जल उवाच--- एवमुक्त्वा महाभागा शिवस्य तनया गता । गङ्गाम्भसि ततः स्नात्वा सुपुरे काश्चनाहये ॥ ९१ तपश्चचार तन्वङ्गी हुण्डस्य वधहेतवे । अशोकसुन्दरी बाला सत्येन च समन्विता ॥ ९२ हुण्डोऽपि दुःखितो जान आत्मना पापचेतमा । चिन्तयामास संतप्ता यतीव वचनानलैः ॥ ९३ समाहूय अमात्यं तं कम्पनाख्यमथाब्रवीत् । समाचष्ट प्रवृत्तान्तं तस्याः शापोद्भवं महत् ॥ ९४ शप्तो ह्यशोकसुन्दर्या शिवस्यापि सुकन्यया । नहुषस्यापि मे भर्तुस्त्वं तु हस्तान्मरिष्यासि ॥ ९५ नैवं स्यात्तु ह्यसौ गर्भ आयोर्भार्या न गुर्विणी। यथा तु स्यादलीकस्तु तस्याः शापस्तथा कुरु ९६
कम्पन उवाचअपहृत्य पियां तस्य आयोश्चापि समानय । अनेनापि प्रकारेण तव शत्रुर्न जायते ॥ ९७ [*नो वा प्रपातयस्व त्वं गर्भ तस्याः प्रभीषणेः । अनेनापि प्रभावेण तव शत्रुर्न जायते ॥९८ जन्मकालं प्रतीक्षस्व नहुषस्य दुरात्मनः । अपहृत्य समानीय जहि त्वं पापचेतनम् ॥ ९९ एवं संमन्त्र्य तेनापि कम्पनेन स दानवः । अभूत्स चोद्यमी ह्येवं नहुषस्य प्रणाशने ॥ १००
* एतचिहान्तर्गतः पाठः उ. पुस्तकस्थः । १ ङ. छ. तनिमित्त । २ ग. घ. ज. ट. ठ. ड. वा । कौतुकान्मृगकोपेन साहसात्कर्तुमिच्छति । स । ३ क. ख.. च. छ. झ. इ. ड. कालमोहितः । ४६. ट. गतासं च प्र। छ. गताशं च प्र। ५क. ख. र.च. छ.स. ह. द. निबला। ६ . आपयुक्तेन चें। क. ख. मदनानलैः । ८ ङ. छ. श. ड. व जातस्त्वसी ।
Page #352
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासमणीत
[२ भूमिखण्डेविष्णुरुवाचऐलपुत्रो महाभाग आयुर्नाम क्षितीश्वरः । सार्वभौमः स धर्मात्मा सत्यधर्मपरायणः ।। १०१ इन्द्रोपेन्द्रसमो राजा तपसा यशसा बलैः । दानयज्ञैः सुपुण्यैश्च सत्येन नियमेन च ॥ १०२ एकच्छत्रेण वै राज्यं चक्रे भूपतिसत्तमः । पृथिव्यां सर्वधर्मज्ञः सोमवंशस्य भूषणम् ॥ १०३ पुत्रं न विन्दते राजा तेन दुःखी व्यजायत । चिन्तयामास धर्मात्मा कथं मे जायते सुतः १०४ इति चिन्तां समापेद आयुश्च पृथिवीपतिः। पुत्रार्थ परमं यत्नमकरोन्सुसमाहितः॥ १०५ अत्रिपुत्रो महात्मा वै दत्तात्रेयो द्विजोत्तमः । क्रीडमानः स्त्रिया साध [श्मदिरारुणलोचनः १०६ वारुण्या मत्तधर्मात्मा स्त्रीवृन्देन समावृतः । अङ्के युवतिमाधाय] सर्वयोषिद्वरां शुभाम् ॥ १०७ गायते नृत्यते विमः सुरां च पिवते भृशम् । विना यज्ञोपवीतेन महायोगीश्वरोत्तमः ॥ १०८ पुष्पमालाभिर्दिव्याभिर्मुक्ताहारपरिच्छदः । चन्दनागुरुदिग्धाङ्गी राजमानो मुनीश्वरः॥ १०९ तस्याऽऽश्रमं नृपो गत्वा तं दृष्ट्वा द्विजसत्तमम् । प्रणाममकरोन्मुना दण्डवत्सुसमाहितः॥ ११० अत्रिपुत्रः स धर्मात्मा समालोक्य नृपोत्तमम् । आगतं पुरता भक्त्या अथ ध्यानं समास्थितः१११ एवं वर्षशतं प्राप्तं तस्य भूपस्य सत्तम । निश्चलत्वं परिज्ञाय मानम भक्तितत्परम् ॥ ११२ [+समाहूय समाचष्टे किमर्थ क्लिश्यसे नृप। ब्रह्माचारण हीनाऽस्मि ब्रह्मत्वं नास्ति मेकदा ११३ मुरामांसपलुब्धोऽस्मि स्त्रिया सक्तः सदव हि । वरदाने न में शक्तिरन्यं शुश्रूष ब्राह्मणम् ११४
आयुरुवाचभवादृशो महाभाग नास्ति ब्राह्मणसत्तमः । सर्वकामप्रदाता वै त्रलोक्ये परमेश्वरः ॥ ११५ अत्रिवंशे महाभाग गोविन्दस्त्वं सुरोत्तम । ब्राह्मणस्यैव रूपेण भवान्दै गरुडध्वजः ॥ ११६ नमोऽस्तु देवदेवेश नमोऽस्तु परमेश्वर । त्वामहं शरणं प्राप्तः शरणागतवत्सल ॥ ११७ उद्धरस्व हृषीकेश मायां कृत्वा प्रतिष्ठसि । विश्वस्थानां प्रजानां च विद्वांसं विश्वनायकम् ११८ जानाम्यहं जगन्नाथं भवन्तं मधुसूदनम् । मां रक्ष शरणं प्राप्त विश्वरूप नमोऽस्तु ते ॥ ११९
कुञ्जल उवाचगते बहुतिथे काले दत्तात्रेयो नृपात्तमम् । उवाच मैत्तरूपेण कुरु त्वं वचनं मम ॥ १२० कपालेन सुरां देहि बहुलं मांसभोजनम् । एवमाकर्ण्य तद्वाक्यं स चाऽऽयुः पृथिवीपतिः ॥१२१ उत्सुकस्तु कपालेन सुरामाहृत्य वेगवान् । पलं सुविपुलं चैव च्छित्वा हस्तेन सत्वरम् ॥ १२२ नृपेन्द्रः प्रददौ तस्मै दत्तात्रेयाय पुत्रक । अथ प्रसनचेताश्च संजानो मुनिपुंगवः ॥ १२३ दृष्ट्वा भक्तिं प्रभावं च गुरुशुश्रूषणं तथा । समुवाच नृपन्द्रं तमायुं प्रणतमानसम् ॥ १२४ वरं वरय भद्रं ते दुर्लभं भुवि भूपते । सर्वमेव प्रदास्यामि यं यमिच्छसि सांप्रतम् ॥ १२५
राजोवाच-~भवान्दाता वरं सत्यमिच्छया मुनिसत्तम । पुत्रं देहि गुणोपेतं सर्वशं गुणसंयुतम् ॥ १२६ ___ * एतचिहान्तर्गतः पाठो ङ. छ. ड इ. पस्तकस्थः । + एतच्चिद्वान्तर्गतः पाटः क. ख. ङ. च. ड. द. पुस्तकस्थः ।
१क. ख. ङ. च. छ.स. इ. ढ तुगपुत्रो । २ घ. ट. ठ. ड. ह. सत्यधर्मज्ञः । ३ क.ख. घ. च. छ. झ.ट. ठ. ड. योगीन्द्रः । ४ क. ख. घ. ड. च. छ. स. ट. ठ. ड. द. अवज्ञाय ततः स्थि । ५ घ. ङ. छ. ट. ठ. ढ. 'श्वस्यास्य प्रधा. तारं भवन्तं वि। ६ अ. मत्पूजनेन । ७ क. ख. घ. छ. च. छ झ. ड. पाचितं । ट. पवित्रं । ८ ड उद्धतेन क । ९क. ब. घ..च. छ. स. ट. ठ. . ढ. सुपाचितं । १० ङ. छ. द. परम् । ११ क. स्व. घ. ड. च. छ. स. ट. ठ. ढ. प्रणतमाहतः । ड. प्रणतमाहतम् । १२ क. ख. घ. ड. च. छ. स.ट.ठ. इ. द. सत्यं कृपया।
Page #353
--------------------------------------------------------------------------
________________
१०४ चतुरधिकशततमोऽध्यायः] पद्मपुराणम् । देवतीर्थार्चनकरमजेयं देवदानवैः । राक्षसैर्दानवैर्षोरैः क्षत्रियः किंनरैस्तथा ॥ १२७ देवब्राह्मणसंभक्तः प्रजापालो विशेषतः । यज्वा दीनगतिः शूरः शरणागतवत्सलः॥ १२८ दाता भोक्ता महात्मा च वेदशास्त्रेषु पारगः । धनुर्वेदेषु निष्णातः शास्त्रेषु च परायणः ॥१२९ अनाहतमति(रः संग्रामेष्वपराजितः । एवंगुणः सुरूपश्च यस्मादशः प्रजायते ॥ १३० देहि पुत्रं महाभाग मम वंशभाकरम् । यदि वाऽपि वरो देयस्त्वया मे स्वेच्छया विभो १३१
दत्तात्रेय उवाच -- एवमस्तु महाराज तव पुत्रो भविष्यनि । तंव वंशकरः पुण्यः सर्वजीवदयापरः ॥ ११२ एभिर्गुणैस्तु संयुक्तो वैष्णवांशेन मंयुनः । राजा च सार्वभौमश्च इन्द्रतुल्यो नरेश्वरः ॥ १११ एवं खलु वरं दवा ददौ फलमनुत्तमम् । नृपमाह महायोगी स्वभार्यायै पदीयताम् ॥ १३४ एवमुक्त्वा विसृज्यैव तमायुं पृथिवीपनिम् । आशीभिरभिनन्द्यैव ह्यन्तर्धानं चकार ह ॥ १३५ इति श्रीमहापुगणे पाझे भामग्वण्डे वेनोपाख्याने गुरुनीर्थे व्यधिकशततमोऽध्यायः ॥ ५०३ ॥
आदिनः श्लोकानां ममष्ट्यङ्काः --८२७०
अथ चतुर्गधकशततमोऽध्यायः ।
कुञ्जल उवाचगते तस्मिन्महाभागे दत्तात्रये महामुनी । आजगाम महाराजः शक्रप्रस्थपुरं प्रति ॥ १ इन्दुमत्या गृहं हृष्टः प्रविवश श्रियाऽन्वितम् । सर्वकामसमृद्धार्थ कुबेरभवनोपमम् ॥ २ चक्रे राज्यं म मेधावी यथा स्वर्ग पुरंदरः । स्वर्भानुसुनया माधमिन्दुमत्या द्विजोत्तम ॥ ३ सा च इन्दुमती राज्ञी गर्भमाप फलाशनात् । दत्तात्रेयस्य वचनादिव्यतेजःसमन्वितम् ॥ ४ इन्दुमत्या महाभाग स्वमं दृष्टमनुत्तमम् । रात्री देवान्वितं तावद्भहुमङ्गलदायकम् ॥ गृहान्तर विशन्तं च पुरुषं सूर्यसंनिभम् । मुक्तामालान्वितं विमं श्वेतवस्त्रेण शोभितम् ॥ श्वेतपुष्पकृता माला नस्य कण्ठे विराजते । सर्वाभरणशोभाङ्गो दिव्यगन्धानुलेपनः ॥ चतुर्भुजः शङ्गपाणिर्गदाचक्रासिधारकः । छत्रण ध्रियमाणेन चन्द्रबिम्बानुकारिणा ॥ ८ शोभमानो महातेजा दिव्याभरणभूषितः । हारकङ्कणकेयूरेनूपुराभ्यां विराजितः ॥ चन्द्रबिम्बानुकाराभ्यां कुण्डलाभ्यां विराजितः । एवंविधा महाप्राज्ञः कश्चित्पुमान्समागतः।।१० इन्दुमती समाहूय स्नापिता पयसा तदा । शकेन क्षीरपूर्णन हंसवर्णेन भामिनी(म्) ॥ ११ रत्नकाश्चनबद्धन संपूर्णन पुनः पुनः । श्वेतं नागं सुरूपं च सहस्रशिरसं वरम् ॥ १२ महामणिसुसंदीप्तं ज्वालामालासमाकुलम् । क्षिप्तं तेन मुंखप्रान्ते दत्तं मुक्ताफलं पुनः॥ १३
१ क. ख. घ च. छ. झ. ट. ८. देवार्य मुदेवं च त्यजेयं देवदा । इ द. देवीर्य सुतेज च यजेयं देवदा' । र देवीर्य सुदेव च ह्यजयं दैत्यदा। २ क. ख. घ. दु. च. छ. झ. ट. ट. द. वैः । क्षत्रिय राक्षसरिर्गन्धः किं । र.वः । क्षत्रिय राक्षसरिर्गन्धर्वैः कि । ३ क. ख. घ. इ. च. छ. झ. इ. द. दानपतिः । ४ क. ख. घ. ङ. च. छ. स.ट. ठ... द. हात्याी '। ५क. ख. घ. दु. च. छ. ट. ठ. डद. प्रधारकम् । ६ क. ख. घ. 3. च. छ. स.ट. ठ. कृपया । ७ क. ख. घ. हु. च. छ. झ. ट. ठ. १. द. गृहे । ८ क. ख. ङ. च. "युं प्रणतं पुरः । भा" । घ.ट. ठ... ये प्रणतं पुनः । आ । ९ य. ख. च. छ. स. ट. ठ. ह. जः स आयुः स्वपु'। १० क. ब. घ..च... ट... ढ. द्धार्थमिन्द्रस्य भ । ११ क. ख. घ. च. झ. ट. ड. सुस्वप्नान्ते ।
How mi hai tog
to
Page #354
--------------------------------------------------------------------------
________________
३४८
महामुनिश्रीव्यासप्रणीतं—
[ २ भूमिखण्डे -
१५
कण्ठे तस्याः स देवेश इन्दुमत्या महायशाः । हस्ते पद्मं ततो दत्त्वा स्वस्थानं प्रति जग्मिवान् १४ एवंविधं महास्वमं सा तु दृष्ट्वा सुतोत्तम । समाचष्टे महाभागा तमायुं भूपतिं पतिम् ॥ समाकर्ण्य महाराजश्चिन्तयामास वै पुनः । समाहूय गुरुं पश्चात्कथितं स्वममुत्तमम् ॥ शौनकं सुमहाभागं सर्वशं ज्ञानिनां वरम् ॥
राजोवाच
१६
अद्य रात्रौ महाभाग मम पत्न्या द्विजोत्तम । विप्रो गेहं विशन्दृष्टः किमिदं स्वप्रकारणम् ।। १७ शौनक उवाच -
१८
२०
२१
बरो दत्तस्तु ते पूर्वं दत्तात्रयेणे धीमता । आदिष्टं च फलं राज्ञ्यां सुगुणं सुतहेतवे ।। तत्फलं किं कृतं राजन्कस्यै त्वया नियोजितम् । स्वभार्यायै मया दत्तमिति राज्ञोदितं वचः १९ श्रुत्वोवाच महाप्राज्ञः शौनको द्विजसत्तमः । वृत्तान्तं स्वप्रभावेन तव गेहे सुतोत्तमः ॥ वैष्णवांशेन संयुक्तो भविष्यति न संशयः । स्वमस्य कारणं राजनेतत्ते कथितं मया । इन्द्रोपेन्द्रसमो राजंस्तव पुत्रो भविष्यति । पुत्रस्ते सर्वधर्मात्मा सोमवंशस्य भूषणः || धनुर्वेदे सवेदे च सगुणोऽसौ भविष्यति । एवमुक्त्वा स राजानं शौनको गतवान्गृहम् ।। २३ हर्षेण महताऽऽविष्ट राजाऽभूत्सह : भार्यया ||
२२
२४
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे चतुरधिकशततमोऽध्यायः ॥ १०४ ॥ आदितः श्लोकानां समथ्र्यङ्काः -८२९२
अथ पचोत्तरशततमोऽध्यायः ।
कुञ्जल उवाच
१
३
४
गता सा नन्दनवनं सखीभिः सह क्रीडितुम् । तेत्रोक्तं केनचिद्वाक्यमस्या गर्भे महाबलः ।। भविष्यति सुतश्रेष्ठो हुण्डस्यान्तं करिष्यति । एवंविधं महद्वाक्यं [*मप्रियं दुःखदायकम् ॥ २ समाकर्ण्य समायाता पितुरग्रे निवेदितम् । समासेन तया तस्य पुरतो दुःख ] दायकम् ॥ पितुरग्रे जगादाथ पिता श्रुत्वा च विस्मितः । शापमशोकसुन्दर्याः सस्मार च पुरा कृतम् ॥ गर्भस्य नाशनायैव इन्दुमत्याः स दानवः । विविक्तमुद्यमं चक्रे कालाकृष्टो दुरात्मवान् ॥ ५ छिद्रान्वेषी ततो भूत्वा चेन्दुमत्याश्च नित्यशः । यदा पश्यति तां राज्ञीं रूपौदार्यगुणान्विताम् ॥ दिव्येन तेजसा युक्तां रक्षितां विष्णुतेजसा । [+ दिव्यतेजः समायुक्तां सूर्यबिम्बोपमां तु ताम् ] ॥ तस्याः पार्श्वे महाभाग रक्षणार्थं स्थितः सदा । दुरात्मा दानवो हुण्डस्तस्याश्च बहु दर्शयेत् ॥ ८ नानाविधा भीषिका मायावी मायया सदा । गर्भस्य तेजसा चैव रक्षिता विष्णुतेजसा ॥ ९ भयं न जायते तस्या मनस्येव कदा पुनः । विफलो दानवो जात उद्यमश्च निरर्थकः ॥ १०
* एतच्चिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड ढ पुस्तकस्थः । + एतचिह्नान्तर्गतः पाठः ड. पुस्तकस्थ: ।
१ क. ख. ड. च. छ. झ. उ. 'मः । दत्तात्रेयप्रसादेन । घ ट ठ 'मः । दत्तात्रेयप्रभावेन । २ क. ख. ङ. च. ड. तत्राऽऽकर्ण्य महद्वाक्यमाप्रयं तु तदा पितुः । चारणानां स पुत्राणां भाषतां हर्षकेण वै । आयोर्गेहे महावीर्यो विष्णुतुल्यपराक्रमः । वेदे तु ब्रह्मणा तुल्यः सर्वशास्त्रविशारदः । भी । ३ ग. घ. ज. अ. ट. उ. 'क्यमाश्रुत्वा सुखदायकम् । पितुरप्रे ज' ।
Page #355
--------------------------------------------------------------------------
________________
१०५ पञ्चाधिकशततमोऽध्यायः ] पत्रपुराणम् ।
२४९ मनः खिमं बभूवास्य हुण्डस्यापि दुरात्मनः । एवं वर्षशतं तस्य पश्यमानस्य वै गतम् ॥ ११ प्रसूता सा हि पुत्रं चे धर्मात्मानं महामतिम् । रात्रौ चैव सुतश्रेष्ठ तस्याः पुत्रो व्यजायत ॥ तेजस्वी वीरशोभाभिर्यथा सूर्यो नभस्तले ।
सूत उवाच-- अथ दासी महादृष्टा काचित्सूतिगृहागता । अशौचाचारसंयुक्ता महामङ्गलवादिनी ॥ १३ तस्याः सर्व परिज्ञाय स हुण्डो दानवाधमः । अस्या अङ्गं प्रविश्यैव प्रविष्टश्चाऽऽयुमन्दिरे ॥ १४ महाजने प्रसुप्ते च निद्रयाऽनीव मोहिते । तं पुत्रं देवगर्भाभमपहृत्य बहिर्गतः ॥ १५ काश्चनाख्यं पुरं प्राप्तः स्वकीयं दानवाधमः । समाहूय प्रियां भार्या विपुलां तामयाब्रवीत् ॥१६ वधस्वैनं महापापं बालरूपं रिपुं मम । पश्चात्सूदस्य वै हस्ते भोजनार्थ प्रदीयताम् ॥ १७ नानाद्रव्यैः समायुक्तं पाचयस्त्र हि निघृणम् । सूदहस्तान्महाभागे अहं भोक्ष्ये न संशयः ॥१८ वाक्यमाकर्ण्य तद्भतुर्विपुला विस्मिताऽभवत् । कस्मानिघृणतां याति मम भर्ताऽतिनिष्ठुरः ॥१९ सर्वलक्षणसंपन्नं देवगर्भोपमं मुतम् । कस्य कस्मात्प्रभक्षेत कृपाहीनः सुनिघृणः ॥ २० इत्येवं चिन्तयामास कारुण्येन समन्विता । पुनः पप्रच्छ भर्तारं कस्माद्भक्षसि बालकम् ॥ २१ यस्माद्भवसि संक्रुधो ह्यतीव निरपत्रपः । सर्व मे कारणं हि तत्त्वेन दनुजेश्वर ॥ आत्मदोषस्य वृत्तान्तं समासेन निवेदितम् । शापं ह्यशोकसन्दर्या हुण्डेनापि दुरात्मना ॥ २३ तया ज्ञातं तु तत्सर्व कारणं दानवस्य वै । वध्योऽयं बालकः सत्यं नो वा भर्ता मरिष्यति॥२४ इत्येवं संविचार्यैव विपुला क्रोधमूर्छिता । मेकलां तु समाहूय सैरन्ध्रीं वाक्यमब्रवीत् ॥ २५ जह्येनं बालकं दुष्ट मेकलेऽद्य महानसे । सूदहस्ते प्रदेहि त्वं हुण्डभोजनहेतवे ॥ २६ मेकला बालकं गृह्य सूदमाहूय चाब्रवीत् । राजादेशं कुरुष्वाद्य पचस्वैनं हि बालकम् ॥ २७ एवमाणितं तेन सूदेनापि महात्मना । आदाय बालकं हस्ताच्छवमुद्यम्य चोयतः॥ २८ एष वै देवदेवस्य दत्तात्रेयस्य तेजसा । रक्षितस्त्वायुपुत्रश्च म जहास पुनः पुनः॥ २९ तं हसन्तं समालोक्य स सूदः कृपयाऽन्वितः । सैरन्ध्री कृपया युक्ता मूदं तं प्रत्युवाच ह॥३० नैव वध्यस्त्वयाँ सूद शिशुरेप महामते । दिव्यलक्षणसंपन्नः कस्य जातः मुसत्कुले ॥ १
सूत उवाच-- सत्यमुक्तं त्वया भद्रे वाक्यं वै कृपयाऽन्वितम् । राजलक्षणसंपन्नो रूपवान्कस्य बालकः ॥ १२ कस्माद्भोक्ष्यति पापात्मा हुण्डोऽयं दानवाधमः । येन वै रक्षितो वंशः पूर्वमेव स्वकर्मणा ॥३३ आपत्स्वपि स जीवेत दुर्गेषु नान्यथा भवेत् । नद्या वेगहतश्चापि वह्निमध्यगतोऽपि वा ॥ ३४ जीवते नात्र संदेहो यस्य कर्म सहायकम् । तस्माद्धि क्रियते कर्म धर्मपुण्यममन्वितम् ॥ ३५ आयुष्मन्तो नरास्तेन प्रविन्दन्ति सुखं ततः । तारकं पालकं कर्म रक्षते जाग्रते हि तत् ॥ १६ भुक्तिदं जायते नित्यं मैत्रस्थानप्रदायकम् । दानपुण्यान्वितं कर्म पियवाक्यसमन्वितम् ॥ ३७ उपकारयुतं यश्च करोति शुभकृत्तदा । तमेव रक्षते कर्म सर्वदैव न संशयः ॥
१ क ख ङ, च. छ. झ. ट. . मनेप्सित नव जात हु । २ क. ख. घ. इ. च. छ. स. ट. ठ. ह. द. च स्वर्भानोस्तनया तदा । रा। ३ क. ख. घ. ङ. च. छ. झ ड. द. विद्युदां । ४ . निर्जितम् । ५ छ. उ. विद्युदा। घ. छ. ठ. ठ... विद्यदा । ७ इ. 'तः । स त देवेन देवेश कृपयाऽपि स्वकर्मणा ।र'। ८ क, ख. घ. ङ. प.छ.स. ट... . 'याऽयव शि।
Page #356
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासपणीत
( २ भूमिखण्डेअन्ययोनि प्रयाति स्म प्रतिषिद्धन कर्मणा । किं करोति पिता माता अन्ये स्वजनवान्धवाः ३९ कर्मणा निहतो यस्तु न स्युस्तस्य हि रक्षणे । येनैव कर्मणा चैव रक्षितश्चाऽऽयुनन्दनः ॥ ४० तस्मात्कृपान्वितो जातः सूदः कर्मवशानुगः । सैरन्ध्री च तथा जाता प्रेरिता तस्य कर्मणा॥४१ द्वाभ्यामेव सुतस्तस्य रक्षितश्चारुलक्षणः । रात्रावेव प्रणीतोऽसौ तस्माद्भीत्या महाश्रमे ॥ ४२ वसिष्ठस्याऽऽश्रमे पुण्ये सैरन्ध्या पुण्यकर्मणा । शुभे पर्णकुटीद्वारे तस्मिन्नेव महाश्रमे ॥ ४३ गता सा स्वगृहं पश्चानिक्षिप्य बालकं च तम् । एणं निपात्य सूदन पाचितं मांसमेव हि ॥ ४४ भोजयित्वा स देत्येन्द्रो हुण्डस्तुष्टोऽभवत्तदा । शापं ह्यशोकसुन्दर्या मोघं मेने तदाऽसुरः।। हर्षेण महताऽऽविष्टः स हुण्डो दानवेश्वरः॥
कुञ्जल उवाचप्रभाते विमले जाते वसिष्ठो मुनिसत्तमः । बहिर्गतो हि धर्मात्मा कुटीद्वारान्पपश्यति ॥ ४६ संपूर्ण बालकं दृष्ट्वा दिव्यलक्षणसंयुतम् । संपूर्णेन्दुप्रतीकाशं सुन्दरं चारुलोचनम् ॥ पश्यन्तु मुनयः सर्वे यूयमागत्य बालकम् । कस्य केन समानीतं रात्रौ चैवाङ्गणे मम ॥ ४८ देवगन्धर्वगर्भाभं राजलक्षणसंयुतम् । कन्दर्पकोटिसंकाशं पश्यन्तु मुनयोऽमलम् ॥ ४९ महाकौतुकसंयुक्ता हृष्टा द्विजवरास्ततः । समपश्यंस्तं तु पुत्रमायोश्चैव महात्मनः ॥ वसिष्ठः स तु धर्मात्मा ज्ञानेनाऽऽलोक्य बालकम् । [*आयुपुत्रं समाज्ञातं चरित्रेण समन्वितम्] वृत्तान्तं तस्य दुष्टस्य हुण्डस्यापि दुरात्मनः । कृपया ब्रह्मपुत्रस्तु समुत्थाय सुबालकम् ॥ ५२ कराभ्यामथ गृह्णाति यावद्द्विजवरोत्तमः । तावदृष्टिं सौमनस्यां चक्रुर्देवा द्विजापरि ॥ ५३ ललितं सुस्वरं गीतं जगुर्गन्धर्व किन्नराः। ऋषयो वेदमत्रेश्च स्तुवन्ति नृपनन्दनम् ॥ ५४ वसिष्ठस्तं समालोक्य वरं वै दत्तवांस्तदा । नहुपत्येव ते नाम ख्याति लोकं गमिष्यति ॥ ५५ हुषितो नैव तेनापि बालभावेनराधिप । तस्मान्नहुष ते नाम देवपूज्यो भविष्यसि ॥ ५६ जातकर्मादिकं कर्म तस्य चक्रे द्विजोत्तमः । व्रतदानं विसर्ग च गुरुशिष्यादिलक्षणम् ॥ ५७ वेदं चाधीत्य संपूर्ण षडङ्ग सपदक्रमम् । सर्वाण्येव च शास्त्राणि ह्यधीत्य द्विजसत्तमात् ॥ ५८ सेविसर्ग धनुर्वेद सरहस्योपसंयमम् । शस्त्रास्त्राणि च दिव्यानि जग्राह मुनिसत्तमात् ॥ ५९ ज्ञानशास्त्राणि चान्यानि राजनीत्यादिकानि च । वसिष्ठादायुपुत्रस्तु शिष्यरूपेण भक्तिमान्॥६० सर्व विद्यासुनिष्पन्नो नहुषश्चातिसुन्दरः । प्रसादाच वसिष्ठस्य चापबाणधरोऽभवत् ॥ ६१ इति श्रीमहापुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे पश्चोत्तरशततमोऽध्यायः ॥ १०५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-८३५४
अथ षडधिकशततमोऽध्यायः ।
कुञ्जल उवाचआयुभार्या महाभागा स्वर्भानोस्तनया सुतम् । अपश्यन्ती स्वकं चापि देवोपममनोपमम् ।। १
* एतचिहान्तर्गतः पाठो घ. छ. ट. ठ. ड. पुस्तकस्थः । १क.ख. ड. च. छ.स. ढ. अनयो नयतां याति प्रेरितस्तस्य क । २ घ. छ. ट. ठ. ड. अन्यं । ३ ड. 'मलाः । म। ४ छ.स. ट. ठ. इ. सुतोपरि । ५ क. ख. ङ. च. छ. झ. 6. ड. द. वसिष्ठाच । ६ क. ख. ड. च. छ. स. ड. ढ. नि प्रहमक्षोयुतानि च ज्ञा"। ७ घ. छ. ट. ठ. ड. सूत ।
Page #357
--------------------------------------------------------------------------
________________
१०६ षडधिकशततमोऽध्यायः] पद्मपुराणम् । हाहाकारं महत्कृत्वा रुरोद वरवर्णिनी । केन मे लक्षणोपेतो हृतो बालः सुलक्षणः ॥ २ तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतः । संप्राप्तो हि मया वत्सः सकामैर्दारुणैः पुनः ॥ १ दत्तात्रयेण पुण्येन तुष्टेन सुमहात्मना । दत्तः पुत्रो हृतः केन रुरोद करुणान्विता ॥ ४ हा पुत्र वत्स मे तात हा बाल गुणमन्दिर । कासि केनाभिनीतोऽसि मम शब्दः प्रदीयताम् ॥५ सोमवंशस्य सर्वस्य भूषणस्त्वं न संशयः । केन त्वमद्य नीतोऽसि मम प्राणैः समन्वितः ॥ ६ सुराजलक्षणैर्दिव्यैः संपूर्णः कमलेक्षणः । केनाप्यद्य हृतो वत्स किं करोमि क याम्यहम् ॥ ७ स्फुट जानाम्यहं कर्म बन्यजन्मनि यत्कृतम् । न्यासभङ्गः कृतः कस्य तस्मात्पुत्रो हृतो मम ॥ ८ [*किंवा छलं कृतं कस्य पूर्वजन्मनि पापया । कर्मणः कस्य वै दुःखमनुभुञ्जामि नान्यथा ॥ ९ रत्नापहारिणी जाता पुत्ररत्नं हृतं मम । तस्माद्देवेन वै दिव्य अनौपम्यगुणाकरः ॥ १० किंवा वितर्कितो विप्रः कर्मणस्तस्य वे फलम् । प्राप्तं मया न संदेहः पुत्रशोकान्वितं भृशम् ॥ ११ किंवा शिशुविरोधश्च कृतो जन्मान्तरे मया । तस्य पापस्य भुञ्जामि कर्मणः फलमीदृशम् ॥ १२ याचमानस्य चैवाग्रे वैश्वदेवस्य कर्मणि । किं वाऽपि नापितं चान्नं व्याहृतिभिर्हतं द्विजैः ॥ १३ एवं सुवेदनायुक्ता स्वभानुतनया तदा । इन्दुमती महाभागा शोकविहलिनाऽभवत् ॥ १४ पतिता मूर्छिता शोकाद्विदलत्वं गता सती । निःश्वामं मुञ्चमाना सा वन्सहीना यथा हि गौः ॥१५ आयू राजाऽथ शोकेन दुःग्वन महताऽन्वितः । हृतं श्रुत्वा हि पुत्रं तु धर्य नत्याज पार्थिवः १६ तपमश्च फलं नास्ति नास्ति दानस्य वै फलम् । यस्मादेवं हतः पुत्रस्तस्मानास्त्यत्र संशयः १७ दत्तात्रेयः प्रमन्नस्तु वरं मे दत्तवान्पुग । अजेयं च जयापेनं पुत्रं सर्वगुणान्वितम् ॥ १८ तद्वरस्य प्रसादात्तु कथं विघ्नो ह्यजायत । इति चिन्तापरी राजा दुःखितः प्रारुदद्भशम् ॥ १९ इति श्रीमहापुराणे पाञ मिरवण्डे वनोपाख्याने गुरुनाथ नाहुपे पदधिकशततमोऽध्यायः ॥ १०६ ॥
आदितः श्लोकानां सपथ्यङ्काः-८३७३
अथ सप्तोत्तरशततमोऽध्यायः ।
कुञ्जल उवाचअथासो नारदः साक्षात्स्वाद्राजानमागतः । नृपमाश्वासयामास कस्माद्राजन्यरुयते ॥ १ पुत्रापहरणात्तेऽद्य क्षेमं जातं महामते । देवादीनां महाराज एवं ज्ञात्वा तु मा शुचः॥ २ सर्वविद्या गुणांश्चापि वरान्कामांस्तथैव च । लब्ध्वा कामाभिसंपूर्णो ह्यागमिष्यति ते सुतः ॥ ३ येनाप्यपहृतस्तेऽद्य वालो देवगुणोपमः । आत्मगेहे महाराज कालो नीतो न संशयः॥ ४ तस्य नाशं स वै कृत्वा महावीर्यो महाबलः । स त्वामभ्येप्यते भूयः शिवस्य सुतया सह ॥ ५ इन्द्रोपेन्द्रसमः पुत्रो भविष्यति स्वतेजसा । इन्द्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः॥ ६
* एतच्चिद्वान्तर्गतः पाठो घ. छ. ट. ठ. इ. पुस्तकस्थः । घ. ट. ठ. ड. वा फलं कस्य पूर्व पापयाऽपहृतं मया । पुत्रसंतापजं दुःखं तस्मात्प्राणोमि । २ क. ख. घ. उ. च. छ. झ. ट. ठ. ड. द. मि पुत्रशोक सुदारुणम् । या । ३ क. ख. ड. च. झ. द. प्रभुझानस्य । ४.न करुणान्वितः। ५ क. ख. ड. च. छ. झ. ड. ढ. 'यं यौवनोपे। ६ क. ख. च. छ. स. ट. ठ. अ. द. वंज्ञो हि गुणी भूत्वा सर्ववेत्ता न संशयः । सर्वकलाभि'।
Page #358
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवमाभाष्य राजानमायुं देवर्षिसत्तमः । जगाम सहसा तस्य पश्यतः सानुगस्य ह ॥ ७ गते तस्मिन्महाभागे नारदे देवसद्मनि । आयुरागत्य तां राही तत्सर्व विन्यवेदयत् ॥ ८ दत्तात्रेयेण दत्तस्तु पुत्रो देववरोपमः । स वै राजि कुशल्यास्ते विणोश्चैव प्रसादतः ॥ ९ येनाप्यसौ हतः पुत्रः सगुणो मे वरानने । शिरस्तस्य गृहीत्वा तु पुनरेवाऽऽगमिष्यति ॥ १० इत्याह नारदो भद्रे मा कृथाः शोकमेव च । त्यज मोहं महामोदं कुरु भद्रे सुखाकरम् ॥ ११ भर्तुर्वाक्यं निशम्यैवं राज्ञी इन्दुमती ततः । अतिहर्षान्विता जाता पुत्रस्याऽऽगमनं प्रति ॥ १२ पयोक्तं देवऋषिणा तत्तथैव भविष्यति । दत्तात्रयेण मे दत्तस्तनयो हजरामरः॥ १३ भविष्यति न संदेहः प्रतिभात्येवमेव हि । इत्येव चिन्तयित्वा तु ननाम द्विजपुंगवम् ॥ १४
नमोऽस्तु तस्मै पैरिसिद्धिदाय अत्रेः सुपुत्राय महात्मने च ॥
यस्य प्रसादेन मया सुपुत्रः प्रातः सुपुण्यश्च यशःपदश्च ।। एवमुक्त्वा तु सा देवी विरराम मुहर्षिता । आगमिष्यन्तमाज्ञाय नहुषं तनयं पुनः ॥ १६ इति श्रीमहापुराणे पाझे भूमिखण्डे वेनोपाख्याने गुरुनीर्थे नाहुषे सप्तोतरशततमोऽध्यायः ॥ १० ॥
आदितः श्लोकानां समश्यङ्का:-८३८९
अधाष्टोत्तरशत्ततमोऽध्यायः ।
कुजल उवाचब्रह्मपुत्रो महातेजा वमिष्ठस्तपतां वरः। नहुषं तं समाहृय इदं वचनमब्रवीत ॥
१ वनं गच्छस्व शीघ्रं त्वं वन्यमानय पुष्कलम् । स मुनेर्वाक्यमाकर्ण्य नहुषस्तु वनं ययौ ॥ २ अयमेष महापात्रो नहुषो नाम वीर्यवान् । आयुपुत्रः सुधर्मात्मा बाल्यान्मात्रा वियोजितः ॥ ३ अस्यैवातिवियोगेन आयुभार्या प्ररोदिति । अशोकसुन्दरी चापि तपस्तपे सुदृश्वरम् ॥ ४ कदा पश्यति सा देवी पुत्रमिन्दुमती शुभम् । नहुषं नाम धर्मज्ञं हृतं पूर्व तु दानवैः ॥ ५ तमाशाय निरालम्बा शिवस्य तनया वरा । अशोकसुन्दरी बालाऽप्यायुपुत्रस्य कारणात् ॥ ६ सा संगता ह्यनेनापि कदा चेव भविष्यति । एवं सांसारिकं वाक्यं दिवि चारणभाषितम् ॥ ७ शुश्राव स हि धर्मात्मा नहुषो विक्रमान्वितः । स गत्वा वन्यमादाय वसिष्ठस्याऽऽश्रमं प्रति ।।८ वन्यं निवेद्य पुण्यात्मा वसिष्ठाय महात्मने । बद्धाञ्जलिपुटो भूत्वा भक्त्या नमितकंधरः ॥ ९ तमुवाच महामाझं वसिष्ठं तपतां वरम् । भगवन्मे श्रुतं वाक्यमपूर्व चारणेरितम् ॥ १० एष वै नहुषो नान्ना आयुपुत्रो वियोजितः । मात्रा सह सुदुःखेस्तु इन्दुमत्या हि दानवैः ॥ ११ शिवस्य तनया बाला तपस्तेपे सुदुश्वरम् । निमित्तमस्य धीरस्य नहुषस्यति वे गुरो ॥ १२ एवमाभाषितं तत्र तत्सर्व च श्रुतं मया । कोऽसावायुः स धर्मात्मा का सा चेन्दुमती शुभा॥ १३ अशोकसुन्दरी का सा नहुषश्चेति कः प्रभो । एतन्मे संशयं जातं तद्भवांश्छेत्तुमर्हति ॥ १४ अन्यः कोऽपि महामावः कुत्रासी नहुषेति च । तच्च सर्व मम ब्रूहि कारणान्तरमेव च ॥ १५
१. स एव भद्रे संजातो विष्णोश्च सह तेजसा । ये । २ घ. छ. स. ट. ठ. ज चैनं महामोहं कायधर्मविनाशनम् । ३ . परिसद्विजाय । ४ इ. प्तः सुवरिश्च सुपुण्यद । ५ क. ख. घ. ङ. च. छ. स. ट. ठ. ड. ढ. सूत । ६ क. ख. ड. च. छ. स. ड. ढ. प्राज्ञ इहाऽऽसीमहु ।
Page #359
--------------------------------------------------------------------------
________________
१०९ नवाधिकशततमोऽध्यायः ] पद्मपुराणम् ।
वसिष्ठ उवाचआय राजा स धर्मात्मा सप्तद्वीपाधिपो बली। भार्या चेन्दुमती तस्य सत्यरूपा तपस्विनी ॥१६ तस्यामुत्पादितः पुत्रो भवान्वे गुणमन्दिरम् । आयुना गजगजेन सोमवंशस्य भूषणम् ॥ १७ हरस्य कन्या सुश्रोणी गुणरूपैरलंकृता । अशोकमुन्दरी नाम्ना सुभगा चारुहासिनी ॥ १८ तवार्थे सा तपस्तेपे निरालम्बो तु यौवने । तस्या भर्ता भवान्सृष्टो धात्रा योगेन निश्चितः ॥१९ गङ्गायास्तीरमासाद्य ध्यानयोगममन्विताम् । हुण्डस्तु दानवेन्द्रो यो दृष्ट्वा चैकाकिनी स ताम् २० तपसा प्रज्वलन्ती च सुभगां कमलेक्षणाम् । रूपोदार्यगुणोपेतां कामबाणैः प्रपीडितः॥ २१ तां बभाषेऽन्तिकं गत्वा मम भार्या भवेति च । एवं सा तद्वचः श्रुत्वा तमुवाच यशस्विनी ॥२२ मा हुण्ड साहसं कार्षीमा जल्पस्व पुनः पुनः । अप्राप्याऽहं त्वया दैत्य परभार्या विशेषतः॥२३ देवेन मे पुरा सृष्ट आयुपुत्रो महाबलः । नहुषो नाम मेधावी भविष्यनि पतिर्मम ॥ २४ देवेंदत्तो महातेजा मरणं त्वं परीप्समि। [*ततः शापं प्रदास्यामि येन भस्मी भविष्यसि ॥ २५ एवमाकर्ण्य तद्वाक्यं कामवाणप्रपीडितः । मायया च हना नेन प्रणीता निजमन्दिरम् ॥ २६ ज्ञात्वा तया महाभाग शप्तोऽसौ दानवाधमः । नहुषस्यैव हस्तेन तव मृत्युभविष्यति ॥ २७ अजाते त्वयि संजाता वदसे त्वं यथैव तत् । स त्वमायुसुतो वीर हतो हुण्डेन पापिना ॥ २८ सूदेन रक्षितो दास्या प्रेषितो मम चाऽऽश्रमम् । एवं त्वं वनमध्ये च दृष्टश्चारणकिंनरैः॥ २९ यत्तु वै स्मारितं वत्स मया तन्कथितं पुनः । जहि तं पापकर्तारं हुण्डाख्यं दानवाघमम् ॥ ३० नेत्राभ्यां हि प्रमुश्चन्तीमश्रूणि परिमार्जय । इतो गत्वा प्रपश्य॑ त्वं गङ्गातीरं महाबलम् ॥ ३१ निपात्य दानवेन्द्रं त्वं कारागृहात्समानय । अशोकसुन्दरी या हि तस्या भर्ता भवस्व हि ॥ ३२ एतत्ते सर्वमाख्यातं प्रश्नस्यापि हि कारणम् । आभाप्य नहुपं विप्रो विरराम महामतिः ॥ ३३
आकर्ण्य सर्व मुनिना नियुक्तमाश्चर्यरूपं प्रविचिन्त्य भूयः ।
तस्यान्तमेकः परिकर्तुकाम आयोः सुतः कोपमथो चकार । इति श्रीमहापुराणे पाने भमिन्यण्डे वेनोपाग्याने गुरुतीर्थ नहुपेऽटोत्तर शततमोऽध्यायः ॥ १०८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-८४२३
अथ नवाधिकशमतमोऽध्यायः ।
कुञ्जल उवाचप्रणिपत्य महात्मानं वसिष्ठं तपतां वरम् । अरण्यं निर्जगामाथ वाणपाणिधनुर्धरः॥
एणस्य मांसं सुविपाच्य भाजितं बालस्तया रक्षित एव बुद्ध्या । आयोः सुपुत्रः सगुणः सरूपो देवोपमो देवगुणैश्च युक्तः ॥
* एतच्चिदान्तगतः पाठः, छ. पुस्तकस्थः ।
१क. ख. इ. च. छ. झ. ड.इ. म्वा तपांव । २. इ. तपस्विनी। ३ घ. छ. ट. ठ. इ. "ति महाबलः। दे। ४ ट. "ववृत्तिर्महा। ५ क. ख. ङ. च छ. झ. ड. ४. रेः । त्वं तु मुश्रावितो व । ६ क. ख. घ. इ. च. छ.स. ड.. 'श्य त्वमिन्दमती प्रबोधय । नि । क.ख.घ. उ. च. छ. झ.ट. इ.इ. विष्णुरुवाच । ८ क.ख.. च. छ. ..... भामन्त्र्य।
Page #360
--------------------------------------------------------------------------
________________
३५४
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेतेनैव मांसेन सुसंस्कृतेन मृष्टेन पकेन रसानुगेन ।
तमेष दैत्यं परिभाष्य सूदो दुष्टं सुहर्षेण व्यभोजयत्तदा ॥ बुभुजे दानवो मांसं रसेनाक्तं सुचाटुना । हर्षेणापि समाविष्टो जगामाशोकसुन्दरीम् ॥ ४ तामुवाच ततस्तूर्ण कामोपहतचंतनः । आयोः पुत्रो मया भद्रे भक्षितः पतिरेव ते ॥ मामेव भज चावनि भुझ्व भोगान्मनोनुगान् । किं करिष्यसि तेन त्वं मानुषेण गतायुषा ॥ ६ उवाच तद्वचः श्रुत्वा शिवकन्या यशस्विनी । भर्ता मे दैवतैर्दत्तो अमरो दोषवर्जितः ॥ ७ तस्य मृत्युनं वै दृष्टो देवैरपि महात्माभिः । एवमाकण्ये तद्वाक्यं दानवो दुष्टचेष्टितः॥ ८ तामुवाच विशालाक्षी प्रहस्यैव पुनः पुनः । अव भक्षितं मांसमायुपुत्रस्य सुन्दरि ॥ जातमात्रस्य बालस्य नहुषस्य दुरात्मनः । एवं त्वाकर्ण्य मा वाक्यं कोपं चक्र सुदारुणम् ॥१० प्रोवाच सत्यसंस्था सा तपसा भाविता पुनः । तप एवं मया नप्तं मनमा नियमन व ॥ ११ आयुसूनुश्चिरायुश्च स सत्यन भविष्यति । इतो गच्छ दुराचार यदि जीवितुमिच्छसि ॥ १२ अन्यथा त्वामहं शप्स्ये पुनरेव न संशयः । एवमाणितं तस्याः सृदेन नृपतिं प्रति ॥ १३ परित्यज्य महाराजनेतामन्यां समाश्रय । सदेन पेपिनो दैत्यः म हुण्डो दानवाधमः ॥ १४ निर्जगाम त्वरायुक्तः स स्वां भायों प्रियां प्रति । चेष्टितं नैव जानानि दास्या सुदन यत्कृतम् ।। तस्यै निवेदितं सर्व प्रियायै वृत्तमेव च ।।
सूत उवाचअशोकसुन्दरी सा च महता तपसा किल ।। दुःखशोकेन संतप्ता कृशीभूता तपस्विनी। चिन्तयन्ती प्रियं कान्तं तं ध्यायति पुनः पुनः ।। १७ किं न कुर्वन्ति वे दैत्या उपायैर्विविधैरपि । उपायज्ञाः सदा बुद्ध्या युपायेनापि सर्वदा ॥ १८ वर्तन्ते दनुजश्रेष्ठा नानाभावः सुसंपदा । यथोपायेन वगन हृताऽहं पापिना पुरा ॥ १० तथा स घातितः पुत्र आयोश्चैव भविष्यति । यं दृष्ट्वा देवयोगेन भवितारमनामयम् ॥ २० उद्यमेनापि पश्येत किंवा नद यति वा न वा । किंवा स उद्यमः श्रेष्ठः किंवा तत्कर्मजं फलम् ।। २१ भाविभावः कथं नश्येत्ततो वंदः प्रतिष्ठति । विशेषां भाविता देवः स कथं चान्यथा भवेत् ।।२२ एवं सा तु महाभागा चिन्तयन्ती पुनः पुनः । विद्युद्धरः किंनरस्तु बृहवंशो महातनुः ॥ २३ एतन्मध्ये महाकायः पक्षाभ्यां हि विवर्जितः । द्विभुजो वंशहस्तश्च हारकङ्कणशाभितः ॥ २४ दिव्यगन्धानुलिप्ताङ्गो भार्यया सह चाऽऽगतः । तामुवाच निगनन्दा स सुतां शंकरस्य हि ।। किं त्वं चिन्तयसे देवि विद्धि विद्युद्धरं हि माम् । किंनरं विष्णुभक्तं त्वां प्रषितं देवमत्तमः २६ दुःखमेवं न कर्तव्यं भवत्या नहुषं प्रति । हुण्डन पापचारेण वधार्थ तस्य धीमतः ॥ २७ कृतमेवाखिल कर्म हृतश्चाऽऽयुसुतः शुभे । स तु वै रक्षितो देवरुपायविविधैरपि ॥ २८ हुण्ड एवं विजानाति आयुपुत्रो हृतो मया । भक्षितस्तु विशालाक्षि इति जानाति सुत्रने ॥ २९ भवती श्रावयित्वा तु गतोऽसी दानवाधमः । स्वेन पूर्वविपाकेन पुण्यस्यापि महायशाः ॥ ३० पूर्वजन्मार्जितेनैव तव भर्ता स जीवति । पुण्यस्यापि बलेनैव येषामायुर्विनिर्मितम् ।। ३१
११. दो देवान्वगमायुसुतस्य तस्य । बु । छ. 'दो देवानुगमायुसुतस्य राजन् । बु। २ क ख. घ. ड. च. छ. झ. इ.इ. कालोप। ३ क. ख. र. च. छ. स. १. द. तपस्विनी। ४ क. स. उ. च. छ. स. २. द. हुण्ड: पापचेतनः । नि'। ५ क ख. घ. ड. च. छ. झ. ट. ठ. इ. द. पद्यमेना।
Page #361
--------------------------------------------------------------------------
________________
१०९ नवाधिकशततमोऽध्यायः ] पद्मपुराणम् । स्वर्जितस्य महाभागे नाशमिच्छति घातुकः । हनमाना महापापाः परतेजोविदृषकाः॥ ३२ तेषामथो विनाशाय प्रवृत्तं हि दिने दिने । नानाविधैरुपायैस्ते विषशस्त्रादिभिस्ततः॥ ३३ हन्तुमिच्छन्ति तं पुण्यं पुण्यकर्माभिरक्षितम् । पापिनश्चैव हुण्डाद्या मोहनस्तम्भनादिभिः ॥ ३४ पीडयन्ति दुराचाग नानाभेदैर्बलावलैः । सुकृतम्य प्रयोगेण पूर्वजन्मानितेन वा ॥ १५ पुण्यस्यापि महाभागे पुण्यवन्तं च रक्षितम् । विफलत्वं प्रयान्न्येव उपायाः पापिभिः कृताः ३६ यत्रतत्राणि मत्राश्च शस्त्राग्निविषवन्धनाः । रक्षयन्ति महात्मानं देवपुण्यैः सुरक्षितम् ॥ ३७ कर्नागे भस्मतां यान्ति म वै निपुनि पुण्यभाक । आयुपुत्रस्य वीरस्य रक्षका देवताः शुभे ॥३८ पुण्यस्य मंचयं सर्व नपसां निधिमेव च । तम्माच रक्षितो वीरो नहुषो बलिनां वरः ॥ ३९ सत्यन नपसाऽनेने पुण्यश्च संयमदमः । मा कृथा दारुणं दुःखं मुश्च शोकमकारणम् ॥ ४० स हि जीवति धर्मात्मा मात्रा पित्रा विना बने । तपोवने वसत्येकस्तपस्विभिरलंकतः॥ ४१ वेदवेदाङ्गनचज्ञो धनुर्वेदम्य पारगः । विराजते शशी यद्वत्स्वकलाभिः सुनेजसा ॥ ४२ नर्थों विगजते सोऽपि म्बकलाभिः सुमध्यम । विद्याभिश्च महापुण्यस्तपोभिर्विविधैस्तथा ॥ ४३ राजते परवीरनो रिपुहा मुरवल्लभः । हुण्डं निहत्य दैत्येन्द्रं न्वामेवं हि प्रलप्स्यते ॥ ४४ त्वया सार्धे स्त्रिया चेव पृथिव्यामकभूपतिः । भविष्यति महायोगी यथा स्वर्गे तु वासवः ॥४५ त्वं तम्मात्पाप्म्यमे भद्रे सुपुत्रं वामवोपमम् । ययानि नाम धर्मज्ञ प्रजापालनतत्परम् ॥ ४६ तथा कन्याशनं चापि रूपौदार्यगुणान्वितम् । यामां पुण्यैर्महाराज इन्द्रलोकं प्रयास्यति ॥ ४७ इन्द्रत्वं भोक्ष्यने देवि नहुषः पुण्यविक्रमः । ययानि म धर्मान्मा आत्मजस्ते भविष्यति ॥ ४८ [ *प्रजापाली महाराजः सर्वजीवदयापरः] । तम्य पुत्रास्तु चत्वारो भविष्यन्ति महौजसः ४९ बलवीयगुणोपेता धनुर्वेदम्य पारगाः । प्रथमस्तवसुनाम पुरुर्नाम द्वितीयकः ॥ उरुनाम तृतीयस्तु चतुर्थो वीर्यवान्यदुः । एवं पुत्रा महावीर्यास्तेजस्विनो महाबलाः ॥ ५१ भविष्यन्ति महात्मानः सर्वतेजःसमन्विताः । यदोश्चैव सुता धीराः सिंहतुल्यपराक्रमाः॥ ५२ तेषां नामानि भद्रे ते शृणु मे गदतः शुभे । भोजश्च भीमकश्चापि अन्धकः कुकुरस्तथा ॥ ५३ वृष्णिर्नाम सुधर्मात्मा सत्याधारी भविष्यनि । पष्ठस्तु श्रुतमनश्च श्रुताधारश्च सप्तमः ॥ ५४ कालदंष्ट्रो महावीर्यः ममरे कालजिदली । यदोः पुत्रा महावीर्या यादवाग्व्या धरातले ॥ ५५ तेषां पुत्राश्च पौत्राश्च भविष्यन्ति धरातलं । एवं नहुषवंशो वै नव देवि भविष्यति ॥ ५६ दुःखमेव परित्यज्य स्थीयतामधुना सुखम् । समेप्यान महाप्राज्ञस्तव भर्ता शुभानने ॥ ५७ निहत्य दानवं हुण्डं त्वामेवं परिणप्यति । दुःग्वजानानि सोणानि नेत्राभ्यां हि पतन्ति च ५८ अणि चेन्दुमत्याश्च संमार्जयति मानदः । आयांश्च दुःग्वमु इत्य स्वकुलं तारयिष्यति ॥ ५९ सुखिनं पितरं कृत्वा प्रजापालो भविष्यात । एतत्ते सवमाख्यानं देवानां कथनं शुभ ॥ दुःखशोकं परित्यज्य सुखेन परिवर्तय ॥
* एतचिहान्नर्गतः पाठः क. ख. घ. इ. च छ. झ ट. ट. ड. द. पुस्तकस्थः । १ क ख. ङ. च. श. ह. ट म् । कीचटाभिः कुविद्याभिमोह । २ ड. न ापार्यः सं'। । क. ख. हु. च. छ. झ. ड... "स्विपरिपालितः । ४ क. ख. घ. ड. च. छ. झ. ट. ठ. इ. द. था म हि महाप्राज्ञः कलाभिः शृणु सुन्दरि । वि। ५ क. ख. घ. दु.च. झ. ट. इ. ढ. "भियेशसा तदा । रा। छ. भियंशसा सदा ।रा। 63. "सां सतर्म। ७ क. ख. र. च. छ. अ. द. वरानने । ८ क. ख. हु. च. छ. म. द. सहस्रशः ।
Page #362
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
अशोक सुन्दर्युवाच -
[*कदा ह्येष्यति मे भर्ता विहितो दैवतैर्यदि । सत्यं वदस्व धर्मज्ञ मम सौख्यं प्रवर्धय ।। ६१ शीघ्रं द्रक्ष्यसि भर्तारं त्वमेव शृणु सुन्दरि ] | एवमुक्त्वा जगामाथ गन्धर्वो विबुधालयम् ।। ६२ अशोक सुन्दरी चापि तपस्तेपे हि तत्र वै । कामं क्रोधं परित्यज्य लोभं चापि शिवात्मजा || ६३ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थ नाहुषे नवाधिकशततमोऽध्यायः ॥ १०९ ॥ आदितः श्लोकानां समथ्र्यङ्काः -- ८४८६
अश्र दशाधिकशततमोऽध्यायः ।
३५६
कुञ्जल उवाच -
३
७
11
८
आमन्त्र्य च मुनीन्सर्वान्वसिष्टं तपतां वरम् । समुत्सुको गन्तुकामी नहुषो दानवं प्रति । ततस्ते मुनयः सर्वे वसिष्ठाद्यास्तपोधनाः । आशीर्भिरभिनन्द्यैनमायाः पुत्रं महाबलम् ॥ आकाशे देवताः सर्वा जनुर्वै दुन्दुभीन्मुदा । पुष्पवृष्टिं प्रचक्रुश्च नहुषस्यापि मूर्धनि ।। अथ देवः सहस्राक्षः सुरैः सार्धं समागतः । ददौ शस्त्राणि चास्त्राणि[+ सूर्यतेजोपमानि च ॥ ४ देवेभ्यो नृपशार्दूलो जगृह द्विजसत्तमाः । तानि दिव्यानि चास्त्राणि दिव्यरूपोपमोऽभवत् ]॥ ५ अथ ते र्भुनयः सर्वे सहस्राक्षमथाब्रुवन । स्यन्दनो दीयतामस्मै नहुषाय सुरेश्वर ॥ मुनीनां मतमाज्ञाय वज्रपाणिः स सारथिम् । आहूय मातलि चापि ह्यादिदेश सुराधिपः ॥ एनं गच्छ महात्मानं युज्यतां स्यन्दनेन वै । सध्वजेन महात्मानं समरे नृपनन्दनम् स चोवाच सहस्राक्षं कारप्यं तव शासनम् । एवमुक्त्वा जगामाऽऽशु वायुपुत्रं रणोद्यतम् ॥ ९ राजानं प्रत्युवाचाथ देवराजेन भाषितम् । विजयी भव धर्मज्ञ रथेनानेन संगरे | इत्युवाच सहस्राक्षस्त्वामेव नृपतीश्वर । जहि त्वं दानवं संख्ये हुण्डं व पापचेतनम् ॥ एवमाकर्ण्य राजेन्द्रः सानन्दपुलकोद्गमः । प्रसादाद्देवराजस्य वसिष्ठस्य महात्मनः । दानवं सूदयिष्यामि समरे पापचेतसम् । देवानां च विशेषेण मम मायामचारिणम् ॥ एवमुक्ते शुभे वाक्ये नहुषेण महात्मना । अथाऽऽयातः स्वयं विष्णुः शङ्खचक्रगदाधरः ॥ स्वचक्राच्चक्रमुत्पाद्य सूर्यबिम्बोषमं महत् । ज्वलता तेजसा दीप्तं सुवृत्तान्तं शुभावहम् ॥ नहुषाय ददौ देवो हर्षण महता किल । तस्मै शूलं ददौ शंभुः सुतीक्ष्णं तेजसाऽन्वितम् ।। १६ तेन शूलवरेणासौ शोभते समरोद्यतः । [द्वितीयः शंकरथायं त्रिपुरनो यथा प्रभुः ] ॥ ब्रह्मास्त्रं दत्तवान्ब्रह्मा वरुणः पाशमुत्तमम् । [ + चन्द्रतेजःप्रतीकाशं जलजं नालसंगतम् ] ॥ वज्रमिन्द्रस्तथा शक्तिं वायुश्चापं समार्गणम् । आग्नेयास्त्रं तथा वह्निर्ददौ तस्मै महात्मने || १९
१०
११
१२
१३
१४
१५
१७
१८
* एतचिहान्तर्गतः पाठः क ख घ ड च छ. झ ट ठ ड ढ पुस्तकस्थः +एतच्चिदान्तर्गतः पाठः क. ख. घ. ङ. छ. झ. ट, ठ, ड, ढ, पुस्तकस्थः । एतच्चिहान्तर्गतः पाठः क. ख.घ. ड. च. ट. ट. ड. ट. पुस्तकस्थ: । + एतच्चि - नान्तर्गतः पाठः क. ख. घ. ङ. च. छ. झ. ट. ट. ड. द. पुस्तकस्थः ।
।
१ क. ख. ङ. च. छ. झ. ट ड ड सूत । २ ग घ ज ज ट ट 'कोऽभवद्युण्डं हन्तुं वै दानवाधमम् । ३ क. ख. ङ. च. छ. स. ह. 'पोमलाः । आ । ४ क. ख. ङ. व. छ. ढ. देवताः । ५ क. ख ङ. च. छ. झ. ट. ट. ड. दवानां । ६ क. ख. घ. ड. च. छ. झ ट ठ ड ढ महाप्राज्ञं ।
Page #363
--------------------------------------------------------------------------
________________
११० दशाविकशततमोऽध्यायः] पयपुराणम् । शस्त्राण्यत्राणि सर्वाणि दिव्यानि विविधानि च । ददुर्देवा महात्मानस्तस्मै राञ महौजसे ॥२०
कुञ्जल उवाचअथ आयुसुतो वीरो दैवतैः परिमानितः॥ आशीभिनन्दितश्चापि मुनिभिस्तत्त्वदर्शिभिः । आरुरोह रथं दिव्यं भास्वर रत्नभूषितम् ॥ २२ [*घण्टारवैः प्रणदन्तं क्षुद्रघण्टासमाकुलम् । रथेन तेन दिव्येन शुशुभे नृपनन्दनः॥ २३ दिवि मार्गे यथा सूर्यस्तेजसा स्वेन वै किल । ['प्रतपस्तेजसा तद्वदैत्यानां मस्तकेषु सः] ॥ २४ जगाम शीघ्रं वेगेन यथा वायुः सदागनिः । [*यत्रामौ दानवः पापस्तिष्ठते स्वगणैर्युतः ॥ तेन मातलिना साध वाहकेन महात्मना ॥ इति श्रीमहापुगणे पाये भमिखण्डे वेनोपाग्याने गुरुतीर्थ नाहषे दशाधिकशततमोऽध्यायः ॥ ११० ॥
आदितः श्लोकानां समष्ट्यङ्काः-८५११
अकादशाधिकशततमोऽध्यायः ।
• * rr १
कुञ्जल उवाच
[*निर्गच्छमाने समरे च वीर नहुपे हि तम्मिन्सुरगजतुल्ये ।
सकोतुका मङ्गलगीतयुक्ताः स्त्रियस्तु सवाः परिजग्मुरत्र । देवतानां वग नार्यो रम्भाद्यप्सग्सस्तदा । किंनर्यः कौतुकोन्मुक्यो जगुः स्वरेण सत्तम] ॥ २ गन्धर्वाणां तथा नार्यों रूपालंकारमंयुनाः । कौतुकेन गतास्तत्र यत्र राजा स तिष्ठति ॥ ३ पुरं महोदयं नाम हुण्डस्यापि दुगत्मनः । नन्दनोपवने - दिव्यैः सर्वत्र समलंकृतम् ॥ सप्तकक्षायुसँगैहैः कलशैरुपशोभितैः । सोपानमहादण्डैः शोभमानं पुरोत्तमम् ।। कैलासशिखराकारैः सोन्नतैर्दिवमाश्रितैः । मश्रियान्वित]र्दिव्यैर्धाजमानं गृहोत्तमैः॥ ६ वनश्चोपवनैर्दिव्यैस्तडागैः सागरोपमैः । जलपूर्णः मुशोभैस्तु पौ रक्तोत्पलान्वितैः॥ ७ महारत्नप्रकाशैश्च घट्टालकशतैरपि । परिखाभिः सुपूर्णाभिर्जलशब्दः सुशोभितम् ॥ अन्यैश्चैव महारत्नैर्गजेश्चैव विराजितम् । सुनारीभिः समाकीर्ण पुरुषैश्च महाप्रभैः ।। नानाप्रभावैदिव्यैश्च शोभमानं महोदयम् । राजश्रेष्ठो महावीरो नहुपो ददृशे पुरम् ॥ पुरमान्ते वनं दिव्यं दिव्यवृक्षरलंकृतम् । तद्विवेश महावीरो नन्दनं हि यथाऽमरः॥ ११ रथेन सह धर्मात्मा तन मातलिना सह । प्रविष्टः स तु राजेन्द्रो वनमध्ये सरित्तटे ॥ १२ तत्र ता रूपसंयुक्ता दिव्या नार्यः समागताः । गन्धर्वा गीततत्त्वज्ञा जगुर्गीतैर्नृपोत्तमम् ।। मृताश्च मागधाः सर्वे तं स्तुवन्ति नरोत्तमम् । शुश्राव गीतं मधुरं नहुषः किंनरेरितम् ॥ १३ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतार्थकथने नाहुष एकादशाधिकशततमोऽध्यायः ॥ १११ ॥
आदितः श्लोकानां समष्ट्यङ्काः-८५२४ * एतचिहनान्तर्गतः पाठः क. ख घ. इ. च. छ. झ. ट. ठ. ड. उ. पुस्तकस्थः । एतचिहनान्तर्गतः पाठः क. ख. घ. ड. च. छ. झ. ट. . ड. द. पुस्तकस्थः । * एतच्चिदान्तगतः पाठो घ. छ.ट. . पुस्तकस्थः । । एतस्मात्याक 'निर्गच्छमानं मनिदेववृन्दैदृष्ट नृपेन्द्र बलवीर्यकोविदम् । इन्द्रोपमं विष्णुसमं मुसंख्ये वधाय हुण्डस्य समुत्सुकं तम् । इत्यधिक क. ख. घ. छ. च. छ. ट. ठ. ड. द. पुस्तकेषु । * एतच्चिदान्तर्गतः पाठः क. ख. घ. उ. च. छ.स. ट. .... पुस्तकस्थः । 1 एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. स. द. पुस्तकस्थः ।।
१घ.ट. 3. इ. सत।
..
Page #364
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीत
[२ भूमिखण्डे
अथ द्वादशाधिकशततमोऽध्यायः ।
कुञ्जल उवाच
तदेव गानं च सुरागनाभिर्गीतं समाकर्ण्य च गीतकैर्भुवः ।
समाकुला चापि बभूव तत्र सा शंभुपुत्री परिचिन्तयाना ॥ आसनासूर्णमुत्थाय महोत्साहेन संयुता। तूर्ण गता वरारोहा तपोबलसमन्विता ॥ तं दृष्ट्वा देवसंकाशं दिव्यलक्षणसंयुतम् । दिव्यगन्धानुलिप्ताङ्गं दिव्यमालाभिशोभितम् ॥ ३ दिव्यैराभरणैर्वस्त्रेः शुशुभे नृपनन्दनः । [*दीप्तिमांश्च यथा सूर्यो दिव्यलक्षणसंयुतः॥ ४ किंवा देवी महाप्राज्ञो गन्धर्वो वा भविष्यति। किंवा नागसुतः सोऽयं किंवा विद्याधरी भवेत् ॥५ देवेषु नैव पश्यामि कुतो यक्षेषु जायते । अनया लीलया देवः सहस्राक्षोऽपि जायने ॥ ६ शंभरेव भवेत्किवा किंवा चायं मनोभवः। किंवा पितुः सखा मे स्यान्पोलस्त्योऽयं धनाधिपः ।। एवं समालोकयन्ती बलरूपगुणान्वितम् । समेत्य तं सखीभिस्तु रम्भाद्याभिः स्थिताऽभवत् ।।८ इति श्रीमहापुराणे पाझे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे द्वादशाधिकशततमोऽध्यायः ।। १५ ।।
आदितः श्लोकानां समष्ट्यङ्काः-८५३२
अथ त्रयोदशाधिकशततमोऽध्यायः ।
रम्भोवाचतप एतत्परित्यज्य किमालोकयसे शुभे । मनः संरक्ष वै साध्वि पुरुषस्य विचिन्तनात् ॥ १
___ अशोकसुन्दर्युवाच .. मनस्तपसि लीनं मे नहुषस्यापि काम्यया । न व चालयितुं शक्यं देवैरपि संहेश्वरः ॥ २ एनं दृष्ट्वा महाभागे मनो मे चलते भृशम् । रन्तुमिच्छाम्यहं गत्वा एवमुत्कण्ठतां गतम् ॥ ३ एवं विपर्ययश्चाऽऽसीन्मनसो मे वरानने । तन्मे त्वं कारणं ब्रूहि तवास्ति ज्ञानमुत्तमम् ॥ ४ आयोः पुत्रस्य भार्याऽहं देवैः सृष्टा महात्मनः । कस्मान्मे धावते चेत उत्सुकं रन्तुमेव च ॥ ५
रम्भोवाचसर्वेष्वेवे महाभागे देहरूपेषु भामिनि । वसत्यात्मा स्वयं ब्रह्म ज्ञानरूपः सनातनः ॥ ६ यद्यपि प्रकृतेर्भावैरिन्द्रियैरपकारिभिः । मोहपाशर्शतबद्धस्तथा सिद्धस्तु सर्वदा॥ प्रकृतिर्नैव जानाति तां वै वैज्ञानिकी कलाम् । अयं शुद्धस्तु धर्मज्ञ आत्मा वेत्ति च मुन्दरि ॥८
* एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. झ. ड. ढ. पुस्तकस्थः ।
१ घ. छ. ट. ठ. इ. नाभिः स्तोत्रं सुपुण्य परिचारणेरितम् । तमेव गायन्ति सुगीतकैस्तु शभोस्तु पुत्री ।२ क. ख. घ. ङ. च. छ. स. ट. ठ. ड. ढ. व्यरूपसमप्रभम् । ३ क. ख. घ. ड. च. छ. झ. ट. ठ. ड. ढ. 'माचिन्तयतीव यावत्सविस्तरं रूपगुणान्विता सा । समेत्य रम्भा सुमहासखीभिरुवाच तां शम्भुमुतां प्रहस्य ॥८॥ ४ क. ख. घ. ङ. च. छ. स. ट. ठ. ड. ढ. भे। तपसः क्षरणं स्याद्वै पु । ५ ड. महाभागं । ६ ड. शुभे । ७क. ख. घ. ड. च, छ. स.ट. 8. इ. द. "हि यद्यस्ति । ८ क. ख. घ. ङ. च. छ. श. ट. ट. ड. द. महात्माभिः । ९ क. ख. घ. ङ. च छ. स. ट. ठ. ४. द. व हि सत्त्वेषु घटरू' । १. ग. ज. अ. ट. नि । वासनात्मा स्वयं ब्रह्माज्ञानरूपस्य चाऽऽत्मनः ।
Page #365
--------------------------------------------------------------------------
________________
पद्मपुराणम् ।
३५९
९
१०
११३ त्रयोदशाधिकशततमोऽध्यायः ] गच्छत्यपि मनस्ताप एनं दृष्ट्वा महामतिम् । पापमेवं परित्यज्य सत्यमेव प्रधावति ॥ भर्ताऽयमायुपुत्रस्ते तत्सत्यं च न संशयः । अन्यं दृष्ट्वा विशङ्केत पुरुषं पापलक्षणम् ॥ [*एवं विधिः कृतो देवैः सत्यपाशेन बन्धितः । अस्यास्तु वायुपुत्रोऽपि भर्तृत्वमुपयास्यति । । १ १ एवमाकर्णितं भद्रे ह्यात्मानं चापि सुन्दरि ] । तद्ध्रुवं सत्यसंपन्नो विज्ञानात्मा स्वयं स्थितः १२ अन्यं भावं न जानाति ह्यायुपुत्रं च विन्दति । प्रकृतिर्नैव ते देवि ह्येनं जानाति चाऽऽगतम् १३ ऐवं ज्ञात्वा प्रधानात्मा तवाद्यैव प्रधावति । आत्मा सर्व प्रजानाति आत्मा देवः सनातनः ।। १४ स्वयमेव नरेन्द्रोऽयं नहुषो नाम वीर्यवान् । तस्माद्गच्छति चेतस्ते सत्यवन्धं विशिष्यते ॥ १५ आयोः सुतं परिज्ञाय अन्यं चैव न गच्छति । एतत्ते सर्वमाख्यातं शाश्वतं त्वन्मनोगतम् ।। १६ go हत्वा महाघोरं समरे दानवाधमम् | त्वां नयिष्यति स्वस्थानमायोश्च गृहमुत्तमम् ॥ १७ हृतो दैत्येन वीरेन्द्रो निजपुण्येन शेषितः । [ 'वाल्यात्प्रभृति वीरेन्द्रो वियुक्तः स्वजनेन वै ] १८ पितृमातृविहीनस्तु गतो वृद्धिं महावनं । यास्यत्येव पितुर्गेहं त्वयैव सह सांप्रतम् ॥ एवमाभाषितं श्रुत्वा रम्भायाः शिवनन्दिनी । हर्षेण महताऽऽविष्टा तामुवाच तपस्विनी ॥ अयमेव स धर्मात्मा मम भर्ता सुवीर्यवान् । मनो मे धावते सत्यं कामाकुलितविद्दलम् ।। २१ नास्ति चित्तममो देवो यो जानाति सुनिश्चितम् । सत्यमेतन्मया दृष्टं सुचित्रं चारुहासिनि ।। २२ मनोभवसमानं तु पुरुषं दिव्यलक्षणम् । न ( प्र ) धावत्यतिभावेन एनं दृष्ट्वा यथा सखि ।। २३ तथा न धावते भद्रे पुंसमन्यं न मन्यते । एवं गन्तव्यमात्राभ्यां सखीभिर्गृहमेव हि ॥ एवमाभाष्य सा रम्भां गमनायोपचक्रमे । गमनायोत्सुकां ज्ञात्वा नहुषस्यान्तिकं प्रति ।। तामुवाच ततो रम्भा कम्मादेवि न गम्यते ।।
२४
२५
१९
२०
सूत उवाच -
२७
२८
२९
३०
३१
सख्या च रम्भया सार्ध नहुषं वीरलक्षणम् । तस्यान्तिकं तु संप्राप्य प्रेषयामास तां सखीम् २६ एनं गच्छ महाभागे नहुषं देवरूपिणम् । कथयस्व कथामेतां तवार्थ आगता यतः ।। एवं सखि करिष्यामि सुप्रियं तव सुव्रते । एवमुक्त्वा गता रम्भा नहुषं राजनन्दनम् ॥ चापंत्राणधरं वीरं द्वितीयमिव वासवम् । प्रत्युवाच गता रम्भा संख्या वचनमुत्तमम् || आयुपुत्र महाभाग रम्भाऽहं समुपागता । शिवस्य कन्यया वीर तपस्यन्त्या प्रयोजिता ॥ त्वदर्थं देवदेवेन उमया दिव्यया पुरा । भार्यारत्नं बने सृष्टं श्रेष्ठं लोकेषु दुर्लभम् || दुष्प्राप्यं च नरश्रेष्ठैर्देवैः सेन्द्रैस्तपोधनैः । गन्धर्वैः पन्नगैः सिद्धैश्वारणैः पुण्यलक्षणैः ॥ स्वयमेव समायातं तत्रार्थे शृणु सांप्रतम् । स्त्रीरत्नं च महाप्राज्ञ प्रकृष्टं पुण्यनिर्मितम् ॥ अशोकसुन्दरी नाम तवार्थं तपसि स्थिता । अत्यर्थं तु तपस्तप्तं भवन्तमिच्छते सदा ॥ एवं ज्ञात्वा महाप्राज्ञ भजमानां भजस्व हि । त्वदृते सा वरारोहा पुरुषं नैव याचते ॥ नहुषेण तयोक्तं तु श्रुत्वा तथाऽवधारितम् । प्रत्युत्तरं ददौ चाथ रम्भं मे श्रूयतां वचः ॥ [तन्तु सर्वं विजानामि यत्त्वयोक्तं ममाग्रतः । ममाग्रे कथितं पूर्व वसिष्ठेन महात्मना ॥
३२
३३
३४
३५
३६
३७
* एतच्चिदान्तर्गत: पाठी घ ट ट उ पुस्तकस्थः । + एतचान्तर्गतः पाठः क. ख. घ. ड. च. छ. झ ट ठ ड. ह. पुस्तकस्थः । * एतच्चिहान्तर्गतः पाठः क. ख. ट. च. छ. झ. ह. पुस्तकस्थः ।
१ क. स्व. ग. तद्भावम' । २ ड. एन। ३ घ ट ठ ड समुद्रजाम् । ४ क. ख. घ ङ च छ झ ट ठ ढ. तेsत्यर्थ का । ५. घ. ज. अ. ट ठ विस्तरं । ६ ट. कुअल । ७ घ. च. झ ट ठ ड 'पतृणध' ।
Page #366
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासमणी
[ २ भूमिखण्डेसर्वमेव विजानामि यस्यास्तु तप उत्तमम् । ] श्रूयतां वचनं रम्भे येन सौख्यं भविष्यति ॥ ३८ अहत्वा दानव हुण्डं न गच्छामि वैरानने । सर्वमेतत्सुवृत्तान्तमहं जानामि चैव हि ॥ ३९ ममार्थ तव संभूतिस्तप आचरितं त्वया । मम भार्या न संदेहो भवती विधिना कृना ॥ ४० ममार्थे निश्चयं कृत्वा तप आचरितं त्वया । हृता तस्मादुपायेन भवती नियमस्थिता ॥ ४१ सूतिगृहादहं तेन दानवेनाधमेन च । बालभावस्थितो देवि पितृमातृविनाकृतः॥ ४२ तस्मात्तं तु हनिष्यामि [*हुण्डं तं दानवाधनम् । पश्चात्वामुपनेप्येऽहं ] वसिष्ठम्याऽऽश्रमं प्रति॥ एवं कथय भद्रं ते रम्भे मत्मियकारिणीम् । एवं विसर्जिता तेन सत्वरं सा गता पुनः ॥ ४४ अशोकसुन्दरी देवीं कथयामास तस्य च । समासेन तथा सर्व रम्भा सा द्विजसत्तम ॥ ४५ अशोकसुन्दरी बाला ह्यवधार्य सुभाषितम् । नहुषस्यापि वीरस्य हर्षेण च समन्विता ॥ १६ तस्थौ तत्र तया सार्ध स्वसख्या रम्भया तदा । भर्तुश्च कीदृशं वीर्यामिति पश्याम्यहं स्थिता ४७ इति श्रीमहापुराणे पाद्मे मिखण्डे वनोपाख्याने गुरुतीर्थे नाहुषे त्रयोदशाधिकशनतमोऽध्यायः॥११३॥
आदितः श्लोकानां समष्टयङ्काः-८५७९
अथ चतुर्दशाधिकशततमोऽध्यायः ।
कुञ्जल उवाचअथ ते दानवाः सर्वे हुण्डस्य परिचारकाः । नहुपस्यापि संवादं रम्भायाः शुश्रुवुस्तदा ॥ १ आचचक्षुश्च ते हुण्डं देत्यन्द्रं सर्वमेव तत् । तमाकये स चुक्रार्ध दृनं वाक्यमथाब्रवीत् ॥ २ गच्छ दूंत ममाऽऽदेशांत्वमेवं तं समाचर । संभापत तया सार्धं पुरुपः शिवकन्यया ॥ ३ स्वामिनिर्देशमाकर्ण्य जगाम लघु दानवः । विविक्तं नहुपं वीगमिदं वचनमब्रवीत् ॥ ४ [+रथेन साश्वसूतेन दिव्येन परितिष्ठसि । धनुषा दिव्यवार्णस्तु सभायां हि भयंकरः॥ ५ कस्य केन सुकार्येण पेपितः केन व भवान । ] अनया रम्भया तेऽद्याप्यनया शिवकन्यया ॥६ किमुक्तं तत्स्फुटं सर्व कथयस्व ममाग्रतः । हुण्डस्य देवमर्दम्य न विभति भवान्कथम् ॥ ७ एतन्मे सर्वमाचक्ष्व यदि जीवितुमिच्छनि । मद्या गच्छात्र मा तिष्ठ दुःसहां दानवाधिपः ॥ ८
नहुष उवाच - योऽसावायुर्बली राजा सप्तद्वीपाधिपः प्रभुः । तस्य मां तनयं विद्धि सर्वदेत्यविनाशनम् ॥ नहुषं नाम विख्यातं देवब्राह्मणपूजकम् ।। हुण्डेनापहृतं बाल्ये स्वामिना तव मानद । सेयं कन्या शिवस्यापि दैत्यनापहृता पुरा ॥ १० घोरं तपश्चरत्येषा हुण्डस्यापि वधाय च । योऽहमादी हृतो बालस्वयाऽऽयोः सतिकागृहात् ११ दास्या अपि करे दत्तः सूदस्यापि दुरात्मना । वधार्थ श्रूयतां पाप सोऽहमद्य समागतः ॥ १२
* एनचिहान्तर्गतः पाटः क. ख. ड. च. छ. झ. द. पुस्तकस्थः । + एतांच्चदान्तर्गत: पाठः क. ख. घ. ङ. च. छ. स. ट. ठ. इ. ढ. पुस्तकस्थः ।
-----.-.
.
----
....
१क. ख. ङ. च. छ. झ. ड पापं । २ छ. वगङ्गनाम् । ३ क. ख. घ. ङ. च. च. छ. झ.ढ स्मात्सुपापेन । ४ क. ख. घ. ङ. च. छ. स.ट. ठ. ह. द. सूत । ५ क. ख. घ. ङ. च. छ. झट. ठ. इ. द. पापाः । ६ क. ख. ड. च. छ. स... ध विशठं वा । ७क. ख. घ. ङ. च. छ.स. ट. ठ. ड.. वार । ८ छ. शाज्जानीहि पुरुषं हि तम् ।सं।
. तत्र। १.क. ख. ङ. छ. झ. द. विशठो । ड. विसृष्टी ।
Page #367
--------------------------------------------------------------------------
________________
१११ पञ्चदशाधिकशततमोऽध्यायः ]
पद्मपुराणम् ।
२६१
१४
अस्यापि हुण्डदैत्यस्य दुष्टस्य पापकर्मणः । अन्यांश्च दानवान्घोरानयिष्ये यमसादनम् ॥ १३ मामेवं विद्धि पापिष्ठ एवं कथय दानवम् । एवमाकर्ण्य तत्सर्व नहुषस्य महात्मनः ॥ गत्वा हुण्डं स दुष्टात्मा आचचक्षेऽस्य भाषितम् । निशम्य तन्मुखात्तूर्ण चुक्रोध दितिजेश्वरः १५कस्मात्सूदेन पापेन तया दास्या न घातितः । यतोऽयं वृद्धिमायातो मया व्याधिरूपेक्षितः १६ अद्यैनं घातयिष्यामि त्वनया शिवकन्यया । आयोः पुत्रं खलं युद्धे बाणैरेभिः शिलाशितैः ।। १७ एवमुक्त्वां विचिन्त्यैव सारथिं वाक्यमब्रवीत् । योजय स्यन्दनं त्वं मे वाजिभिः साधुभिः शुभैः ।। १८ सेनाध्यक्षं समाहूय इत्युवाच रुषाऽन्वितः । सज्यतां मम सैन्यं त्वं शूरान्नागान्प्रकल्पय ॥ १९ सारोहैस्तुरगान्योज पताकाध्वजचामरैः । चतुरङ्गं बलं मेऽय योजयस्व हि सत्वरम् || एवमाकर्ण्य तत्तस्य हुण्डस्यापि मतं लघु । सेनाध्यक्षो महाप्राज्ञः सर्व चक्रे यथाविधि || चतुरङ्गेण तेनासौ बलेन महताऽऽवृतः । जगाम नहुषं वीरं चापबाणधरं रणे ॥ इन्द्रस्य स्यन्दने युक्तं सर्वशस्त्रभृतां वरम् । उद्यतं समरे वीरं दुरापं देवदानवैः ॥ पश्यन्ति गगने देवा विमानस्था महौजसः । तेजोज्वालासमाकीर्ण दिविस्थमिव भास्करम् ||२४ सूत उवाच -
२०
२१
२२
२३
२५
२६
२७
अथ ते दानवाः सर्वेषुस्तं शरोत्तमैः । खड्रैः पाशैर्महाशूलैः शक्तिभिश्च परश्वधैः ॥ युयुधुः संयुगे तेन नहुषेण महात्मना । संरम्भाद्गर्जमानास्ते यथा मेघ गिरौ तथा ।। तद्विक्रमं समालोक्य आयुपुत्रः प्रतापवान । इन्द्रायुधसमं चापं विस्फार्य सगुणस्वरम् ॥ वज्रस्फोटसमः शब्दः चापस्यापि महात्मना । नहुषेण कृतो विमा दानवानां भयप्रदः ॥ महता तेन शब्देन दानवाश्च चकम्पिरे । कम्पनाविष्टहृदया भग्नसत्वा महाहवे ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वनेोपाख्याने गुरुतीर्थे च्यवनोपाख्याने नाहुषे चतुर्दशाधिकशततमोऽध्यायः ॥ ११४ ॥ आदितः लोकानां समथ्र्यङ्काः - ८६०८
२८
२९
अथ पञ्चदशाधिकशततमोऽध्यायः ।
कुञ्जल उवाच
ततस्त्वसौ संयति राजमानः समुद्यतश्चापधरी महात्मा || [+ यथैव कालः कुपितः स लोकान्संहर्तुमैच्छत्तु तथा स दानवान् ॥ महास्त्रजालै रवितेजतुल्यैः सुदीप्तिमद्भिर्निजघान तेजसा । वायुर्यथोन्मूलयतीह पादपांस्तथैव राजा निजघान दानवान् ॥ ] वायुर्यथा मेघचयं च दिव्यं संचालयेत्स्वेन बलेन तेजसा । तथा स राजा ह्यसुर्रान्समस्तान्संनाशयेद्वाणवरैः सुतीक्ष्णैः ॥
न शेकुर्दानवाः सर्वे बाणवर्षे महात्मनः । मृताः केचिद्भुताः केचिन्नष्टाः केचिन्महाहवात् ॥ ४
+ एतच्चिहान्तर्गत: पाठो ड. पुस्तकस्थः ।
१ ड. क्त्वा स दैत्येन्द्रः सा । २क. ख. ङ च छ झ. ढ. समातुरः । ३ क. ख. ङ. व. छ. झ. ड. धीरं । ४. घा इवाम्बरे । त । ५ क. ख. घ ङ च छ, झ. ठ ड ढ कश्मलावि । ६क. ख. ङ. च. छ. स. ड. ड. 'रान्मदोत्कटान्संना ।
૪
Page #368
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[२ मूमिखण्डेमहातेज महापाझं महादानवशासनम् । स चुक्रोध सुदुष्टात्मा दृष्ट्वा तं नृपनन्दनम् ॥ ५ स्थितो गत्वेदमाभाष्य तिष्ठ तिष्ठेति चाऽऽहवे । त्वामद्यैव नयिष्यामि आयुपुत्र यमान्तिके ॥ ६
नहुष उवाचस्थितोऽस्मि समरे पश्य त्वामहं हन्तुमागतः । अहत्वा नैव यास्यामि भवन्तं पापचेतनम् ॥ ७ इत्युक्त्वा धनुरादाय बाणानग्निशिखोपमान । छत्रेण ध्रियमाणेन शुशुभे सोऽपि संगरे ॥ ८ इन्द्रस्य सारथिं दिव्यं मातलिं वाक्यमब्रवीत् । वाहयस्व रथं मेऽद्य हुण्डदेत्यस्य संमुखे ॥ ९ इत्युक्तस्तेन वीरेण मातलिर्लयुविक्रमः । तुरगांश्चोदयामास महावातरोपमानं ॥ १० उत्पेतुश्च ततो वाहा हंसा इवे सरोजले । छत्रेण चंन्दुवर्णेन स रथेन पताकिना ॥ ११ नभस्तलं समासाद्य यथा सूर्यो विराजते । आयुपुत्रस्तथा संख्ये तेजसा विक्रमेण च ॥ १२ अथ हुण्डो रथस्थोऽपि भ्राजमानः स्वतेजसा । सर्वायुधास्त्रसंयुक्तस्तद्वेत्सोऽप्यम्बरे स्थितः॥१३ उभयो:रयोयुद्धं देवविस्मयकारकम् । आसीत्तदा महापाज्ञ दारुणं भीतिदायकम् ॥ १४ मुबाणेनिशितैस्तीक्ष्णैः कङ्कपत्रेः शिलीमुखेः । हुण्डेन ताडितो राजा स बाहोरन्तरे तदा ॥ १५ सुभाले पञ्चभिर्वाणविद्धः क्रुद्धोऽभवत्तदा । [*स विद्धस्तु महाबाणरधिकं शुशुभे नृपः ॥ १६ सारुणः करमालाभिरुदयंश्च दिवाकरः । रुधिरेण सुदिग्धाङ्गो हेमबाणैस्तनुस्थितैः॥ १७ सूर्यवच्छोभते राजा पूर्ववन्नभमि स्थितः । दृष्ट्वा तु पौरुषं तस्य दानवं वाक्यमब्रवीत् ॥ १८ तिष्ठ तिष्ठ क्षणं देत्य पश्य मे लाघवं पुनः । इत्युक्त्वा चरणे देत्यं जघान दशभिः शरैः॥ १९ मुखे बाणैर्हतस्तेन मूर्छितो निपपात ह । पश्यमानः सुरैः सर्वं रथांपरि महाबलः ॥ २० देवैश्व चारणैः सिद्धेः कृतः शब्दः महर्षजः । जय जयेति राजेन्द्र शङ्खान्दःमः पुनः पुनः ॥ २१ स कोलाहलशब्दस्तु तुमुलो देवतेरितः । कर्णगन्धं समाविष्टो हुण्डस्य मूछितस्य च ॥ २२ श्रुत्वा स धनुरादाय बाणमाशीविषोपमम् । स्थीयता स्थीयतां युद्धे न मृतोऽस्मि त्वया हतः२३ इत्युक्त्वा पुनरुत्थाय लाघवेन समन्वितः । एकविंशतिभिर्वाणनहषं चाहनत्पुनः ॥ २४ एकेन मुष्टिमध्ये तु बहुभिर्जानुमध्यतः । चतुर्भिश्च महाश्वांश्च च्छत्रमंकन चैव च ॥ पञ्चभिर्मातलिं विद्ध्वा रथनीडं तु सप्तभिः। [ ध्वजदण्डं त्रिभिस्तीक्ष्णेर्दानवः शिखिभित्रिभिः]॥ आदानं दानवेन्द्रस्य शरमाक्षं दुरात्मनः । लाघवं तस्य व दृष्ट्वा देवास्तं विस्मयं गताः ॥ २७ तस्य पौरुषमापश्य स राजा दानवेश्वरम् । धीरोऽसि कृतविद्योऽसि शुगंऽसि रणपण्डितः।।२८ इत्युक्त्वा दानवं तं तु धनुर्विस्फार्य भूपतिः । मार्गणैर्दशभिस्तं तु विव्याध लघुविक्रमः ॥ २९ त्रिभिर्ध्वजं प्रचिच्छेद स पपात धरातले । तुरगान्पातयामास चतुर्भिस्तस्य सायकैः ॥ ३० एकेन च्छत्रं तस्यापि चकर्त लघुविक्रमः । दशभिः सारथिस्तस्य प्रेषितो यममन्दिरम् ॥ ३१ दंशनं दशभिश्छित्वा शरैश्च विदलीकृतः । सर्वाङ्गेषु च त्रिंशद्भिविव्याध दनुजेश्वरम् ॥ ३२ हताचो विरथो जातो बाणपाणिर्धनुर्धरः । अभ्यधावत्स वेगेन वर्षयनिशितैः शरैः ॥ ३३ खड़चमेधरो देत्यो राजानं तमधावत । धावमानस्य हुण्डस्य खडं चिच्छेद भूपतिः॥ ३४
* एतच्चिदान्तर्गतः पाठः क. ख. घ. ड. च छ. झ. ट. ठ. इ. ८. पुस्तकस्थः । + एतचिहान्तर्गतःपाठो ड. पुस्तकस्थः।
१ क. ख. अ. व यथाम्बरे । छ । २ ड. 'द्वत्स चाऽऽहवे स्थि । ३ दृ. ड. द. मुबाणैः पञ्चभिविद्धो नहुषोऽपि पुनस्तदा । ४ छ. झ. 'खे भाले हत । ५ इ. तो दुष्ट वै यु। ६ घ. ट. ठ. ड. निशितैस्तं ।
Page #369
--------------------------------------------------------------------------
________________
११६ षोडशाधिकशततमोऽध्यायः ]
पद्मपुराणम् ।
३७
३८
३९
क्षुरमैर्निशितैर्बाणैश्वर्म चिच्छेद भूपतिः । अथ हुण्डः सुदुष्टात्मा समालोक्य समन्ततः ।। जग्राह मुद्गरं तूर्ण मुमोच लघुविक्रमः । वज्रवेगं समायान्तं ददृशे नृपतिस्तदा ॥ मुद्गरं स्वनवन्तं चापातयदम्बरात्ततः । [दशाभिर्निशितैर्बाणैः क्षुरमैश्च स्वविक्रमात् ] ॥ मुद्गरं पतितं दृष्ट्वा दशखण्डमयं भुवि । गदामुद्यम्य वेगेन राजानं समधावते || खड्गेन तीक्ष्णधारेण तस्य बाहुं प्रचिच्छिदे । सगदं पतितं भूमौ साङ्गदं कटकान्वितम् ॥ महाशब्दं ततः कृत्वा वज्रस्फोटमयं स तु । रुधिरेण विदिग्धाङ्गो धावमानो महाहवे || ४० क्रोधेन महताविष्टो ग्रस्तुमिच्छति भूपतिम् । दुर्निवार्यः समायातः पार्श्वे तस्य च भूपतेः ॥४१ नहुषेण महाशक्त्या ताडितो हृदि दानवः । पतितः सहमा भूमौ बज्राहत इवाचलः ।। तस्मिन्दैत्ये गते भूमावितरे दानवा गताः । विविशुगिरिदुर्गेषु कति पातालमास्थिताः ॥ देवाः प्रहर्ष जग्मुस्ते गन्धर्वाः सिद्धचारणाः । हते तस्मिन्महापापे नहुषेण महात्मना ॥ तस्मिन्हते दैत्यवरे महाहवे देवाश्व सर्वे प्रमुदं च लेभिरे ।
ITS.
४२
३६२
३५
३६
अथ पोडशाधिकशततमोऽध्यायः ।
४३
४४
तां देवरूपां तपसा विवर्धितां स आयुपुत्रः प्रतिलभ्य हर्षितः ।
४५
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवनेोपाख्याने नाहुषे पञ्चदशाधिकशततमोऽध्यायः ॥ ११५ ॥ आदितः श्लोकानां समयङ्काः- ८६५३
कुञ्जल उवाच
अशोकसुन्दरी पुण्या रम्भया मह हर्षिता । नहुषं प्राप्य विक्रान्तं तमुवाच तपस्विनी ॥ अहं ते धर्मतः पत्नी देवैर्दिष्टा तपस्विनी । उद्वाहयस्व मां वीर पतिधर्ममिहेच्छतीम् ॥ सदैव चिन्तमाना च त्वामहं तप आस्थिता । भवान्धर्मप्रसादेन मया प्राप्तो नृपोत्तम । नहुष उवाच
———
४
७
८
मदर्थे नियता भद्रे यदि त्वं तप आस्थिता । गुरोर्वाक्यान्मुहूर्तेन तव भर्ता भवाम्यहम् ॥ अनया रम्भया सार्धमावां गच्छाव भामिनि । समारोप्य रथे तां तु रम्भां च सुमनोहराम् ॥ ५ तेनैव रथमुख्येन वसिष्ठस्याऽऽश्रमं प्रति । जगाम लघुवेगेन ताभ्यां सह महाशयाः ॥ तमाश्रमगतं विप्रं समालोक्य प्रणम्य च । तया सार्धं महातेजा हर्षेण महताऽन्वितः ॥ यथा च युद्धं संजातं निहतो दानवो यथा । निवेदयामास सर्व वसिष्ठाय महात्मने ॥ वसिष्ठोऽपि समाकर्ण्य नहुषस्य विचेष्टितम् । हर्पेण महताऽऽविष्ट आशीर्भिरभिनन्द्य तम् ॥ तिथौ लग्ने शुभे प्राप्ते तयोस्तु मुनिपुंगवः । विवाहं कारयामास अग्निब्राह्मणसंनिधौ । आशीर्भिरभिनन्द्यैवं मिथुनं प्रेषितं पुनः । मातरं पितरं पश्य द्रुतं गत्वा महामते ।। त्वां च दृष्ट्वा हि ते माता पिताऽसौ चापि सुव्रतः । हर्षेण दृद्धिमानोतु पर्वणीव तु सागरः।। १२ एवं संप्रेषितो वीरो मुनिना ब्रह्मसूनुना । तेनैव रथवर्येण जगाम लघुविक्रमः ।
९
१०
११
१३
* एतचिहान्तर्गत: पाठो घ ट ठ ड. पुस्तकस्थः ।
१
१ ड. रं स्वेन बाणेन चिच्छेद नृपतिस्तदा । द' । २ ड. पातयामास मुद्गरम् । ३ ड त । राजा परशुना तस्य बाहु चिच्छेद पर्वतः । स ।
Page #370
--------------------------------------------------------------------------
________________
१८
३६४ महामुनिश्रीव्यासप्रणीतं
[२ भूमिखण्डेनमस्कृत्य द्विजेन्द्र तं गतो मातलिना तदा । [*स्वपुरं पितरं द्रष्टुं तां च माता यशस्विनीम्॥१४
सूत उवाच]-- अप्सरा मेनका नाम प्रेषिता दैवतैस्ततः । आयोर्भार्या सुदुःखेन पतिता शोकसागरे । १५ तामुवाच महाभागां देवीमिन्दुमती प्रति । मुश्च शोकं महाभागे तनयं पश्य संमुखम् ॥ १६ निहत्य दानवं पापं तव पुत्रापहारकम् । समायान्तं सभायां च वीरश्रिया समन्वितम् ॥ १७ मुवृत्तं संगरे तत्र नहुषेण यथा कृतम् । तस्यै निवेदयामास इन्दुमत्यै च मेनका ॥ मेनकाया वचः श्रुत्वा हर्षेणाऽऽकुलितेक्षणा । सखि सत्यं ब्रवीषि त्वमित्युवाच सगद्गदम् ॥१९ सामृतं सुमियं वाक्यं मनःप्रोत्साहकारकम् । जीवादिकं मया देयं त्वयि सर्वस्वमेव च ॥ २० एवमाभाष्य तां देवी राजानमिदमब्रवीत् । तव पुत्रो महाबाहुः समायातो हि सांपतम् ॥ २१ आख्याति च महाभाग एषा चैव वराप्सरा । भर्तारमेवमाभाष्य विरराम महर्षिता ॥ २२ समाकर्ण्य नृपेन्द्रस्तु तामुवाच प्रियां सतीम् । पुरा प्रोक्तं महाभागे मुनिना नारदेन हि ॥ २३ पुत्र प्रति न कर्तव्य दुःखं राजन्कदाचन । तं निहत्य स्ववीर्येण दानवं चैष्यते पुनः॥ संजातं सत्यमेवं हि मुनिना भाषितं पुरा । अन्यथा वचनं तस्य कथं देवि भविष्यति ॥ २५ दत्तात्रेयो मुनिश्रेष्ठः साक्षाद्देवो जनार्दनः । शुश्रूषितो मया देवि त्वया च तपसा पुरा ॥ २६ पुत्ररत्नं तेन दत्तं विष्णुतेजःसमन्वितम् । सदा हनिप्यति पर दानवं पापचेतनम् ॥ २७ सर्वदेत्यमहतो च प्रजापालो महाबलः । दत्तात्रयेण मे दत्तो वैष्णवांशः सुतोत्तमः॥ एवं संभाष्य तां देवीं राजा चेन्दुमती तदा । महोत्सवं ततश्चक्रे पुत्रस्याऽऽगमनं प्रति ॥ २९ हर्षेण महताऽऽविष्टो विष्णुं सस्मार वै पुनः॥
अर्थोपपत्रं सुरसंघयुक्तमानन्दरूपं परमार्थमेकम् । क्लेशापहं सौख्यपदं नराणां सद्वैष्णवानामिह मोक्षदं परम् ॥ इति श्रीमहापुराणे पाद्मे भूमिखण्ड वेनोपाख्याने गुरुतीर्थे षोडशाधिकशततमोऽध्यायः ॥ ११६ ॥
आदितः श्लोकानां समष्टयङ्काः-८६८४
अथ सप्तदशाधिकशततमोऽध्यायः ।
१ २
कुञ्जल उवाचनहुषः प्रियया सार्धं तया चैवापि रम्भया । ऐन्द्रेणापि सुदिव्येन स्यन्दनेन वरेण च ॥ नागाहयं पुरं प्राप्तः सर्वशोभासमन्वितम् । दिव्यमण्डपयुक्तं च भवनरुपशोभितम् ॥ हेमतोरणगेहैश्च पताकाभिरलंकृतम् । नानावादित्रसंघोषेन्दिचारणशोभितम् ॥ देवरूपोपमैः पुण्यैः पुरुषैः समलंकृतम् । नारीभिर्दिव्यरूपाभिर्गजाश्वैः स्यन्दनैस्तथा ॥ नानामङ्गलशब्दैश्च वेदध्वनिसमाकुलम् । गीतवादित्रशब्दैश्च वीणावेणुस्वनैस्तथा ॥
* एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. इ. इ. . पुस्तकस्थः । १ घ. ट. 8. ह. 'त्यै महामतिः । में । २ क. ख. घ. ड. च. छ. स. ट. . इ. ढ मङ्गलयु। ३ ४. गसंधैव ।
Page #371
--------------------------------------------------------------------------
________________
११७सप्तदशाधिकशततमोऽध्यायः ] पद्मपुराणम् । सर्वशोभासमाकीर्ण विवेश स पुरोत्तमम् । वेदमङ्गलघोषैश्च ब्राह्मणैरभिपूजितः ॥ ६ ददर्श पितरं वीरो मातरं तां सुपुण्यकाम् । हर्षेण महताऽऽविष्टः पितुः पादौ ननाम सः॥ ७ अशोकसुन्दरी सा तु तयोः पादौ पुनः पुनः । ननाम भक्त्या भावेन चोभयोः सा वरानना ८ रम्भा च सा ननामाप्यदर्शयत्पीतिमुत्तमाम् । [*नमस्कृत्वा समाभाष्य स्वगुरुं नृपनन्दनः॥९ अनामयं च पप्रच्छ मातरं पितरं प्रति । एवमुक्तो महाभागः सानन्दपुलकोद्गमः॥ १०
__ आयुरुवाचअद्यैव व्याधयो नष्टा दुःखशोकावुभौ गतौ । भवतो दर्शनात्पुत्र संतुष्ट हृष्यते जगत् ] ॥ ११ कृतकृत्योऽस्मि संजातस्त्वयि जाते महौजास । स्ववंशोद्धरणं कृत्वा त्यहमेव समुद्धृतः॥ १२
इन्दुमत्युवाचपर्वणी प्राप्य चेन्दोस्तु तेजो दृष्ट्वा महोदधिः । वृद्धिं याति महाभाग तथाऽहं तव दर्शनात् ॥१३ वधिताऽस्मि सुहृष्टाऽस्मि ह्यानन्देन समाकुला । दर्शनात्ते महाभाग धन्या जाताऽस्मि मानद १४ एवं संभाष्य तं पुत्रमालिङ्गय तनयोत्तमम् । शिरस्याघ्राय तस्यापि वत्सं धेनुर्यथा स्वकम् ॥१५ अभिनन्ध सुतं प्राप्त नहुषं देवरूपकम् । आशीभिः सर्वपुण्याभिर्देवी चन्दुमती तथा ॥ १६
सूत उवाचअथासौ मातरं पुण्यं देवीमिन्दुमती सुतः । कथयामास वृत्तान्तं यथा चाऽऽहवमात्मनः ॥ १७ स्वभार्यायास्तथोत्पत्तिं प्राप्तिं चैव महायशाः। हुण्डेनापि यथा युद्धं हुण्डस्यापि निपातनम् ॥१८ समासेन समस्तं तदाख्यातं स्वयमेव हि । मातापित्रोर्यथा चाग्रे तयोरानन्ददायकम् ॥ १९ मातापितरावाकये पुत्रस्यापि पराक्रमम् । हर्षेण महताऽऽविष्टौ संजातौ पूर्णमानसौ ॥ २० नहुषो धनुरादाय इन्द्रस्य स्यन्दनेन च । जिगाय पृथिवीं सर्वो सप्तद्वीपां सपत्तनाम् ॥ २१ पित्रोः समर्पयामास वसुपूर्णा वसुंधराम् । पितरं हर्णयन्नित्यं दानधर्मंः सुकर्मभिः ॥ २२ पितरं याजयामास राजसूयादिभिस्तदा । महायज्ञैः सुदानश्च वर्तनियमसंयमैः॥ २३ [+सुदानैर्यशसा पुण्यैर्यज्ञैः पुण्यमहोदयः]। सुसंपूर्णौ कृतो तो तु पितरौ चाऽऽयुसूनुना ॥ २४ अथ देवाः समागत्य नागाह्वयं पुरोत्तमम् । अभ्यषिश्चन्महात्मानं नहुषं वीरमर्दनम् ॥ २५ मुनिभिः सह सिद्धैश्च ह्यायुनाऽनेन भूभुजा । अभिषिच्य स्वराज्ये ते समेतं शिवकन्यया ॥ २६ भार्यायुक्तः सुकायेन आयू राजा महायशाः। दिवं जगाम धर्मात्मा देवैः सिदैः सुपूजितः॥२७ ऐन्द्रं पदं परित्यज्य ब्रह्मलोकं गतः पुनः । हरलोकं जगामाय स राजा देवपूजितः॥ २८ स्वकर्मभिर्महाराजः सुपुत्रस्यापि तेजसा । हरेलोकं जगामार्थ स राजा भक्तसत्तमः ॥ २९ पुरुषैः पुण्यकर्माख्यैरीदृशे पुण्य उत्तमे । यतितव्यं महाभाग किमन्यैः शोकैकारकैः ॥. १० जातो यथा स धर्मात्मा नहुषः पितृतारकः। कुलस्य धर्ता सर्वस्य ज्ञानविज्ञानसंयुतः॥ १ एतत्ते सर्वमाख्यातं चरितं तस्य धीमतः । अन्यत्कि ते प्रवक्ष्यामि वद पुत्र कपिञ्जल ॥ १२
एतचिहान्तर्गतः पाठःक.ख. घ..च.छ...
* एतचिहान्तर्गतः पाठः क.स.घ..च. पुस्तकस्थः। इ. इ.पुस्तकस्थः ।
११. थ निवसत्येव पूजितः । पु । छ. ध निवसत्येष भूपतिः । पु। २ . 'ग्य धर्मा । ३ १. कसागरैः । जा। ४. र. फलस्य।
Page #372
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवंविधं पुण्यमयं चरित्रं वरिष्ठमेतयशसा समेतम ।।
आयोः सुतस्यापि शृणोति मयों भोगान्स भुक्त्वैति पदं मुरारेः॥ ३३ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतीर्थे च्यवमोपाख्याने नाहुषे सप्तदशाधिकशततमोऽध्यायः ॥ ११ ॥
आदितः श्लोकानां समध्यङ्काः-८७१७
अथाष्टादशाधिकशततमोऽध्यायः ।
कपिञ्जल उवाचगङ्गामुखे पुरा तात रोदमाना वराङ्गना । नेत्राभ्यामश्रुविन्दनि पतन्ति च महाजले ॥ ? गङ्गामध्ये निमज्जन्ति भवन्ति कमलानि च । पुण्यानि हृद्यरूपाणि सुगन्धीनि महान्ति च* ॥२ अस्थिशेषोऽथ पुरुषो जटाचीरधरः पुनः । तानि सौगन्थ्ययुक्तानि पानि विचिनोति सः॥३ हेमवर्णानि दिव्यानि शिवं नीत्वा समर्चयेत् । सा का नारी समाचक्ष्व सवा को हि महामते ॥४ अर्चयित्वा शिवं चापि कस्मात्पश्चात्परोदिति । एतन्मे सर्वमाचक्ष्व यद्यहं तव वल्लभः ॥ ५
कुञ्जल उवाचशृणु वत्स प्रवक्ष्यामि वृत्तान्तं देवनिर्मितम् । चरितं सर्वपापघ्नं विष्णोश्चैव महात्मनः ॥ ६ योऽसौ हुण्डो महावीर्यो नहुषेण हतो रणे । तस्य पुत्रो महाबीर्यो विहुण्डस्तपसान्वितः ॥ ७ निहतं पितरं श्रुत्वा सामात्यं सपरिच्छदम । आयुपुत्रेण धीरेण नहुषेण बलीयसा ॥ तपश्चचार संक्रुद्धो देवान्हन्तुं समुद्यतः । पौरुषं तस्य दुष्टस्य तपसा वर्धितस्य च ॥ जानन्ति देवाः सर्वे तु दुःसहं समराङ्गणे । हुण्डात्मजो विहुण्डस्तु त्रैलोक्यं हन्तुमिच्छति ॥ १० पितुर्वैरं करिष्यामि हनिष्ये मानवान्सुरान । एवं समुद्यतः पापी देवब्राह्मणकण्टकः॥ ११ उपद्रवं समारंभे प्रजाः पीडयते च सः। तस्यैव तेजसा दग्धा देवाश्चन्द्रपुरोगमाः ॥ शरणं देवदेवस्य जग्मुर्विष्णोर्महौजसः । देवदेवं जगन्नाथं शङ्खचक्रगदाधरम् ।। ऊचुश्च पाहि नो नित्यं विहुण्डस्य महाभयात् ॥
विष्णुरुवाचवर्धन्तु देवाः सर्वे तु सुसुखेन महेश्वराः । विहुण्डं नाशयिष्यामि पापिनं देवकण्टकम् ॥ १५ एवमाभाष्य तान्देवान्मायां कृष्णो विधाय च । स्वयमेव स्थितस्तत्र नन्दने सुमहायशाः ॥ १६ मायामयं चकाराथ स्वकं रूपं गुणान्वितम् । विष्णुमाया महाभागा सवेविश्वप्रमोहिनी ॥ १७ [+चकार रूपमतुलं विष्णोर्माया प्रमोहिनी] । विहुण्डस्य वधार्थाय रूपलावण्यशालिनी ॥ १८
___ कुञ्जल उवाचस देवानां वधार्थाय दिव्यमार्ग जगाम ह । नन्दने तपन्ती मायामपश्यदितिजेश्वरः॥ १९ तया विमोहितो दैत्यः कामवाणकृतान्तरः । आत्मनाशं न जानाति कालरूपां वरस्त्रियम् ।। २० तां दृष्ट्वा तप्तहेमामां रूपद्रविणशालिनीम् । लुब्धो विदुण्डः पापात्मा तामुवाच वराङ्गनाम् ॥२१ कासि कासि वरारोहे मम चित्तपमाथिनी । संगमं देहि मे भद्रे रक्ष रक्ष वरानने ॥ २२ ___ * एतदने क. ख. ड. च. छ. स. ढ. पुस्तकेषु ' तस्यास्तात सुनेत्राभ्यां किमर्थ सा प्रदेवति । गङ्गोदके महाभाग निर्मला अश्रुपिन्दवः ' इत्यधिकम् । + एतचिहान्तर्गतोऽयं पाठो ड. पुस्तकस्थः ।
Page #373
--------------------------------------------------------------------------
________________
११९ एकोनविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
३६७ संगमात्तव देवेशि यं यमिच्छसि मांप्रतम् । तं तं दनि महाभागे दुर्लभं देवदानवैः॥ २३
मायोवाचमामेव भोक्तुमिच्छा चेदायं मे देहि दानव । सप्तकोटिमितेश्चैव पुष्पैः पूजय शंकरम् ॥ २४ कामोदसंभवैर्दिव्यैः सुगन्धैर्देवदुर्लभैः। तेषां पुष्पकृतां मालां मम कण्ठे सुशोभिताम् ॥ २५ आरोपय महाभाग एनहायं प्रदेहि मे । तदाऽहं सुप्रिया भार्या भविष्यामि न संशयः ॥ २६
विहुण्ड उवाच[*एवं देवि करिष्यामि वरं दमि प्रयाचितम् ]| वनानि यानि पुण्यानि दिव्यानि दितिजेश्वरः २७ बभ्राम मन्मथाविष्टो न पश्यति च तद्रुमम् । कामोदकाख्यं पप्रच्छ यत्र तत्र गतः स्वयम्॥२८ कामोदको द्रुमो नास्ति वदत्येवं महाजनः । पृच्छमानः स दुष्टात्मा कामबाणैः प्रपीडितः ॥२९ पप्रच्छ भार्गवं गत्वा भक्त्या नमितकंधरः । कामोदकं द्रुमं ब्रूहि कान्तं पुष्पसमन्वितम् ॥ ३०
शुक्र उवाचकामोदः पादपो नास्ति योपिदेवास्ति दानव । यदा सा हसते चैव प्रसङ्गेन महर्पिता ॥ ३१ ['सुहासाजज्ञिरे दैन्य सुगन्धानि वराण्यपि। सुमान्येतानि दिव्यानि कामोदानि न संशयः३२ अतिपीतानि पुष्पाणि सौरभेण युतान्यपि । नेनाप्येकेन पुष्पेण यः पूजयति शंकरम् ॥ ३३ तस्येप्सितं महाकामं संपूरयति शंकरः । तस्याश्च रोदना[*देव प्रभवन्ति न संशयः ॥ ३४ तादृशान्येव पुष्पाणि लोहितानि महान्ति च । सौरभण विना दैन्य] नेपां स्पर्श न कारयेत् ३५ एवमाकण्ये तस्यापि वाक्यं शुक्रस्य भापितम् । उवाच सानु कुत्राऽऽस्ते कामोदा भृगुनन्दन ३६
शुक्र उवाचगङ्गाद्वारे महापुण्ये सर्वपातकशोधने । कामोदाख्यं पुरं तत्र निर्मितं विश्वकर्मणा ॥ कौमोदपत्तने नारी दिव्यभोगैरलंकृता । तथा चाऽभरण नि सर्वदेवः सुपूजिता ॥ ३८ त्वया तत्रैव गन्तव्यं पूजितव्या वराप्सराः। उपायनापि पुण्येन तां प्रहामय दानव ॥ ३९ एवमुक्त्वा स योगीन्द्रः शुक्रस्तं दानवं प्रति । विरराम महातेजाः स्वकार्यायोद्यतोऽभवत् ॥४० इनि श्रीमहापुराणे पाद्म भूमिखण्टे वनापाग्याने गुरुतीर्थ कामोदाख्यान नामाटादशाधिकशततमोऽध्यायः ॥ ११८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-८७५७
अथैकोनविशत्यधिकशततमोऽध्यायः ।
कपिञ्जल उवाचएतस्या हसनात्तात सुपुष्पाणि भवन्ति वै । पुण्यानि दिव्यगन्धीनि दुर्लभानि मुरासुरैः॥ १ कस्मात्ता देवताः सर्वाः प्रवाञ्छन्ति महामते । [* शंकरस्तोपमायाति हास्यपुष्पैः सुपूजितः ॥२
* एतचिह्नान्तर्गतः पाठः क. ख. घ. कु. च छ. झ. ट. ठ. ४. द. पुस्तकस्थः । एतचिहान्तर्गतः पाठः क.ख. घ. ङ. च. छ. झ. ट. ठ. ड. द. पुस्तकस्थः । * एतच्चिद्वान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड. द. पुस्तकस्थः । 1 एतच्चिद्वान्तर्गतः पाठः क. ख. घ. ढः च. छ. ट. ठ. इ. ढ. पुस्तकस्थः ।
घ. छ.ट. ठ. ड. टिसहयस्त्वं पु। २ क. ख. ग. घ. ङ. च. छ. ज. स. म. ट. ठ. ड, ढ, ण्ठे स्म दानव । आ । ३. कामोदोपवने । ४. सहृद्यानि। ५ क. ख. ड. च. छ.. इ. द. पुष्पाणि ।
Page #374
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासपणीतं
[ २ भूमिखण्डेको गुणस्तस्य पुष्पस्य तन्मे कथय विस्तरात्] । गङ्गासमागमे पुण्ये वाराणस्याश्च मध्यगे ॥ ३ कामोदा सा भवेत्का तु कस्य पुत्री वराङ्गना । हासात्तस्या महाभाग पुष्पाणि प्रभवन्ति च ॥४ किंगुणं तत्फलं भूहि सकलं विस्तरेण च ॥
कुञ्जल उवाचपुरा देवैर्महादैत्यैः कृत्वा सौहार्दमुत्तमम् । अमृतार्थे प्रमथितं सागरक्षीरमुद्यतैः ॥ ६ मथनादेवदैत्यानां कन्यारत्नचतुष्टयम् । वरुणेन दर्शितं पूर्व सोमेनैव तथा पुनः॥ पश्चात्पदर्शितं पुण्यममृत कलशस्थितम् । कन्याचतुष्टयं तत्र देवानां हितमिच्छति ॥ सुलक्ष्मी म सा चैका द्वितीया वारुणी तया । कामोदाख्या हृता या च श्रेष्ठा चैव चतुर्थिकार तासां मध्ये वरा श्रेष्ठा पूर्व जाता महामते । तुलसीति समाख्याता लोके पूज्या सदैव हि ॥१० निपानरूपा सर्वेषां पयःफेनसमुद्भवा । अमृतस्य तरङ्गाच्च कामोदाख्या बभूव ह ॥ ११ सोमो राजा तथा लक्ष्मीर्जज्ञाते त्वमृतादपि । त्रैलोक्यभूषणं सोमः संजातः शंकरस्य हि ॥ १२ मृत्युरोगहरा जाता सुराणां वारुणी तथा। ज्येष्ठा सुपुण्यदा जाता लोकानां हितमिच्छताम् १३ अमृतादुत्थिता देवी कामोदा नाम पुण्यदा । विष्णोः प्रीत्यै भविष्ये तु वृक्षरूपं प्रयास्यति १४ विष्णुमीतिकरी सा तु भविष्यति सदैव हि । तुलसी नाम सा पुण्या भविष्यति न संशयः।।१५ तया सह जगन्नाथो रमिष्यति सदैव हि । तुलस्याः पत्रमेकं यो नीत्वा कृष्णाय दास्यति ॥१६ स मेनेऽस्योपकारं तु किमस्मै प्रददाम्यहम् । इत्येवं चिन्तयित्वा तु तस्य प्रीतिकरो भवेत् ।।१७ एवं कामोदनामाऽसौ पूर्वकन्याचतुष्टये । यदा सा हसते देवी हर्षाद्गदभाषिणी ॥ १८ सौवर्णानि मुगन्धीनि मुखात्तस्याः पतन्ति च । अम्लानानि सुपुष्पाणि तानि संगृह्य यत्नतः॥ योऽर्चयेच्छंकरं देवं ब्रह्माणं माधवं तथा । तस्य देवाः प्रतुष्यन्ति यं यमिच्छति तत्पदाः ॥२० रोदित्येषा यदा सा च केन दुःखेन दु:खिता । नेत्राश्रुभ्यो हि तस्यास्तु प्रभवन्ति पतन्ति च ॥ तानि चैव महाभाग हृयानि सुमहान्ति च । सोरभेण विना तेस्तु यः पूजयति शंकरम् ॥ २२ तस्य दुःखं च संतापो जायते नात्र संशयः । पुष्पेस्तु तादृशेर्देवान्सकृदचति पापधीः॥ २३ तस्य दुःखं प्रकुर्वन्ति देवास्तत्र न संशयः । एतत्ते सर्वमाख्यातं कामोदाख्यानमुत्तमम् ॥ २४ अथ कृष्णो विचिन्त्यैव दृष्ट्वा विक्रमसाहसम् । विहुण्डस्यापि पापस्य उद्यमं साहसं तदा ॥२५ नारदं प्रेषयामास मोहयैनं दुरासदम् । नारदस्त्वथ संश्रुत्य वाक्यं विष्णोर्महात्मनः॥ २६ गच्छमानं दुरात्मानं कामोदा प्रति दानवम् । गत्वा तमाह दैत्येन्द्रं नारदः प्रहसन्निव ॥ २७ क यासि त्वं हि दैत्येन्द्र सत्वरस्तु समातुरः । सांप्रतं केन कार्येण कस्यार्थ केन नोदितः ॥२८ ब्रह्मात्मजं नमस्कृत्य प्रत्युवाच कृताञ्जलिः । कामोदपुष्पार्थमहं प्रस्थितोऽस्मि द्विजोत्तम ॥ २९ तमुवाच स धर्मात्मा पुष्पैः किं ते प्रयोजनम् । विश्वर्य पुनः प्राह कार्यकारणमात्मनः ॥ ३० नन्दनाख्ये वने पुण्ये काचिनारी वरानना । तस्या दर्शनमात्रेण गतोऽहं कामवश्यताम् ॥ ३१ तया प्रोक्तोऽस्मि विमेन्द्र पुष्पैः कामोदसंभवैः । पूजयस्व महादेवं पुष्पेस्तैः सप्तकोटिभिः ॥३२ ततस्ते सुमिया भार्या भविष्यामि न संशयः । तदर्थ प्रस्थितोऽस्म्यद्य कामोदाख्यं पुरं प्रति ३३ तामहं कामयिष्यामि सिन्धुजां शृण सत्तम । मनोहरैर्महाहास्यासयिष्याम्यहं पुनः॥ ३४ पीता सती महाभागा हसिष्यति पुनः पुनः । तद्धास्यं गद्दं विप्र मम कार्यप्रवर्धनम् ॥ ३५ १. ख. ग. घ. इ. च. ज. स. म. ट. ठ... मृदुरों । २ क. स्व. घ. ड. च. छ. झ.ट... ड, ढ. सौहृयानि ।
Page #375
--------------------------------------------------------------------------
________________
१६९
१२० विंशत्यधिकशततमोऽध्यायः ] पनपुराणम् । तस्या हास्यात्पतिष्यन्ति दिव्यानि कुसुमानि च । तैस्तु देवमुमाकान्तं पूजयिष्यामि सांगतम्३६ वेन पूजाप्रदानेन तुष्टो दास्यति मे फलम् । ईश्वरः सर्वभूतेशः शंकरो लोकभावनः ॥ ३७
नारद उवाचतत्र दैत्य न मन्तव्यं कामोदाख्ये पुरोत्तमे । विष्णुरस्ति स मेधावी सर्वदेवजयावहः ॥ ३८ येनोपायेन पुष्पाणि कामोदाख्यानि दानव । तव हस्ते प्रयास्यन्ति तदुपायं वदाम्यहम् ॥ १९ गबातोयेषु दिव्यानि पतितानि न संशयः। प्रवाहस्य जलैः पुण्यैरागमिष्यन्ति सांप्रतम् ॥ ४० नानि त्वं प्रतिगृहाण सुहृयानि महान्ति च । गृहीत्वा तानि पुष्पाणि सापयस्व हि वाञ्छितम्।। नारदो दानवश्रेष्ठं मोहयित्वा ततः पुनः । चिन्तयामास धर्मात्मा कथं कार्य मयाऽधुना ॥ ४२ कथमभूणि सा मुश्चेत्केनोपायेन दुःखिता । चिन्तयानस्य तस्यैवं क्षणं वै नारदस्य च ॥ ततो बुद्धिः समुत्पन्ना कामोदाख्यं पुरं गतः ॥ इति श्रीमहापुगणे पाने भूमिखण्डे वेनोपाख्याने गुरुतीर्थे कामोदाख्यानं नामकोनविंशत्यधिकशततमोऽध्यायः ॥ ११९ ॥
आदितः श्लोकानां सपनाः -८८००
अथ विशत्यधिकशततमोऽध्यायः ।
कुञ्जल उवाचकामोदाख्यं पुरं दिव्यं सर्वदेवसमाकुलम् । सर्वकामसमृद्ध्यर्थमपश्यनारदस्ततः ॥ कामोदाया गृहं प्राप्य प्रविवेश द्विजोत्तमः । कामोदा तु ततो दृष्ट्वा सर्वकामसमाकुलाम् ॥ २ तया संपृच्छितो विप्रः सुवाक्यैः स्वागतादिभिः । दिव्यासने समारूढस्तां पप्रच्छ द्विजोत्तमः३ मुखेन स्थीयते भद्रे विष्णुतेजःसमुद्भवे । अनामयं न पप्रच्छ आशीभिरभिनन्ध ताम् ॥ ४
कामोदोवाचप्रसादाद्भवतां विष्णोः मुखेन वर्तयाम्यहम् । कथयस्व महाभाग त्वं प्रश्नोत्तरकारणम् ॥ ५ महामोहः समुत्पन्नो हकस्मान्मुनिपुंगव । व्यापकः सर्वलोकानां ममा मतिनाशकः ॥ ६ तस्मानिद्रा समुत्पन्ना यथा मर्ये प्रवर्तते । सुप्तया तु मया दृष्टः स्वमो वै दारुणां मुने ॥ ७ केनाप्युक्तं समेत्यैवं पुरतो मे द्विजोत्तम । अव्यक्तो यो हृषीकेशः संसारं स गमिष्यति ॥ ८ तदामभृति दुःखेन व्यापिताऽस्मि महामते । तन्मे त्वं कारणं शूहि भवाज्ञानवतां वरः॥ ९
नारद उवाचवातिकः पैत्तिकश्चैव कफजः सांनिपातिकः । स्वमः प्रतर्तते भद्र मानवेषु न संशयः॥ १० न जायते च देवेषु स्वमो निद्रा च मुन्दरि । आदित्योदयवेलायां दृश्यते स्वम उत्तमः ॥ ११ स स्वमो मानवानां च पुण्यस्य फलदायकः । अन्यचैव प्रवक्ष्यामि स्वमस्य कारणं शुभे ॥ १२ महावातोल्बणे चैव चलन्त्यापो वरानने । त्रुटन्त्यम्बुकणाः सूक्ष्मास्तस्मादुदकसंचयात् ॥ १३ बहिरेव पतन्त्येते निर्मलाम्बुकणाः शुभे । पुनर्लयं प्रयान्त्येते दृश्यादृश्या भवन्ति ते ॥ १४
१क. ख. घ. ङ. च. छ. स. ट. इ. इ. दैत्यक्षया । छ. दैत्यभया । २ क. ख. घ. स. च. छ. स. हर द. सत । ३ क. ख. ग. स. 'तः । चिन्तयानः कार्यसिद्धि प्र। ४ ढ. जायेत स देवेषु तपोनिष्टेण सु। ५.. 'णाः स्थलास्त।
Page #376
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेतद्वत्स्वमस्य वै भावः कथ्यते शृणु भामिनि । आत्मा शुद्धो न रक्तस्तु रागद्वेषविवर्जितः ॥ १५ पञ्चभूतात्मकानां च मुषित्वैव सुनिश्चलः । षड्विंशतिसुतत्त्वानां मध्ये चैष विराजते ॥ १६ शुद्धात्मा केवलो नित्यः प्रकृतेः संगतिं गतः । तद्भावैर्वायुरूपैश्च चलते स्थानतो यदा ॥ १७ आत्मनस्तेजसश्चैव प्रतितेजः प्रजायते । अन्तरात्मा शुभं नाम तस्य एव प्रकथ्यते ॥ १८ पयसश्च यथा भिन्ना भवन्त्यम्बुकणाः शुभे । आत्मनस्तु तथा तेजो ह्यन्तरात्मा प्रकथ्यते ।। १९ F हि पृथ्वी स वै वायुः स चाप्याकाश एव हि । स वै तेजश्च दिव्यं तु एते पञ्च पुरा कृताः आत्मनस्तेजसो भूता मलरूपा महात्मनः । तस्यापि संगति प्राप्ता एकत्वं च प्रयान्ति ते ॥ २१ आत्माभावप्रदोषेण नाशयन्ति वरानने । [*मृत्पिण्डमन्यमिच्छन्ति वारं वारं वरानने] ॥ २२ तेषां क्रीडाविहारोऽयं सृष्टिसंवन्धकारणम् । उदकस्य तरङ्गस्तु जायते च विलीयते ॥ २३ पुनभूतिः पुनहानिस्तथा दृश्यः पुनः पुनः । अपां रूपस्य दृष्टान्तं तद्वदेषां न संशयः॥ २४ आत्मा न नश्यते देवि तजा वायुने नश्यति । न नश्यता घराकाशी न नश्यन्त्याप एव च।।२५ पश्चैव आत्मना साधं प्रभवन्ति प्रयान्ति च । आत्मादयो यमी भंद्र नित्यरूपा न संशयः।। २६ पिण्ड एव प्रणश्यत तेषां मंजात एव च । विषयाणां सुदोषश्च रागद्वेषादिभिहनः ॥ २७ प्राणाः प्रयान्ति वै पिण्डान्पश्च पञ्चात्मका द्विजाः । पिण्डान्ने वसत आत्मा प्रतिरूपः स्थिनः स च अन्तरात्मा यथा चाग्नेः स्फुलिङ्गस्तु प्रकाशते । तथा प्रकाशमायाति दृश्यादृश्यः प्रजायते ।।२९ शुद्धश्चात्मा परं ब्रह्म सो जागर्ति नित्यशः । अन्तगन्मा प्रवद्धस्तु प्रकृतेश्च महागुणैः ॥ ३० अन्नाहारस्तु मंपुष्टैरन्तरात्मा सुग्वं ब्रजेत् । सुमुग्वान्जायते ['मोहस्तस्मान्मनः प्रमुह्यति ॥ ३१ पश्चात्संजायते] निद्रा तामसी लयवर्धिनी । नाडीमार्गेण यः सूर्यो मेरुमुल्ल झ्य गच्छति ।। ३२ तदा रात्रिः प्रजायेन यावन्नोदयते रविः । विषयान्धकारमुक्तस्त्वन्तरात्मा प्रकाशते ॥ ३३ भावस्तत्त्वात्मकानां तु पर्श्वभावस्तु प्रेषितैः । पूर्वजन्मास्थितः पिण्डेग्न्तरात्मा प्रगृह्यते ॥ ३४ स च पश्यति वै स्थानमुच्चावचं शुभानने । संसारे अन्तगन्मा व दोर्वद्धः प्रणीयते ॥ ३५ कायं रक्षति जीवात्मा पश्चात्तिष्टति नित्यशः ॥ उदानः स्फुरते तीव्रस्तस्माच्छन्दः प्रजायते । [*शुप्का भस्वा यथा श्वासं कुरुते वायुपूरिता ३७ तद्वच्छब्दवशाच्वासमुदानः कुरुने बलात । आत्मनस्तु प्रभावन [दानो बलवान्भवेत् ॥ ३८ एवं कायः प्रमुग्धस्तु मृतकल्पः प्रजायते । ततो निद्रा महामाया तस्याङ्गेषु प्रयाति सा ॥ ३९ हृदि कण्ठे तथा चाऽऽस्ये नामिकाग्रे प्रतिष्ठति । बाह विकुच्य संतिष्ठद्धृद्गतां नाभिमण्डले ॥ ४० आत्मनस्तु प्रभावाच उदानो नाम मारुतः । प्रजायंत महातीवो बलरोधं करोति सः॥ ४१ यथा रज्जुप्रबन्धस्तु दारुकीलधरः स्थितः । तथा चाऽऽत्मा सुमंलग्नः प्राणवायुन संशयः॥ ४२ अन्तरात्मप्रसक्तस्तु प्राणवायुः शुभानने । बुद्धिविद्रोहितो भद्र अन्तरात्मा प्रधावनि ॥ ४३ ___ एतच्चिद्रान्तर्गतः पाठः, छ. ड. पुस्तकस्थः ।। एतच्चिदान्तर्गतः पाटः क. ख. दृ. च. द. ढ. पुस्तकरथः । * तएचिहान्तर्गतः पाठो ड. पुस्तकस्थः ।
..
.
c
..
३६
१छ. 'ने । एतनिमित्तमि । २ घ. ट. ठ. , 'तः । प्रणाशं यान्ति वै पिण्डाः पञ्च । ३ क.ख. घ. दृ. च. छ. झ. ट. ठ. ह. द. द्विज । ४ क. ख. ह. च. झ. ड. ड. दा जयति । निश्चितः । अ । ५ क. ख. ड. च. छ. झ. ह. द. "सी तमव । ६ क. ख. ङ. च झ. द. 'श्चतत्त्वैः प्रपोषितः । पु' । छ. श्चतत्त्वः प्रतोषितः । । क, ख. इ. च. स. ड. द. महामते । ८ ड. बलाद्रोधं । ९ व. द. ट. इ. वायुमहामते । बु ।
Page #377
--------------------------------------------------------------------------
________________
१२१ एकविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
३७१ पूर्वजन्मार्जितावासान्स्मृत्वा तत्र प्रधावति । तत्र संस्थो महाप्राज्ञः स्वेच्छया रमते पुनः ॥ ४४ एवं नानाविधान्स्वमानन्तरात्मा प्रपश्यति । उत्तमांश्च विरुद्धांश्च कर्मयुक्तावरानने ॥ ४५ गिरीस्तथा सुदुर्गाश्च बहूनुच्चावचांस्तथा । तदेव वानिकं विद्धि [*कफरत्तद्वदाम्यहम् ॥ ४६ जलं नदीं तडागांश्च पयःस्थानानि पश्यति । अग्निं च पश्यते देवि बहु काश्चनमुत्तमम् ।। ४७ तदेव पैत्तिकं विद्धि ]भाव्यं चैव वदाम्यहम् । प्रभाते दृश्यते स्वमो भव्यो वाऽभव्य एव च ॥४८ कर्मयुक्तो वरारोहे लाभालाभप्रकाशकः । स्वमस्यापि अवस्थानं कथितं वरवर्णिनि ॥ ४९ तद्भाव्यं तु वरारोहे विष्णाश्चैव भविष्यति । तन्निमित्तं त्वया दृष्टो दुःस्वमः स तु प्रेक्षितः ॥५० इति श्रीमहापुगणे पाद्मे भूमिखण्डे वेनोपाग्याने गुरुनार्थ कामोदाव्याने विंशाधिकशततमोऽध्यायः ॥ १२० ॥
आदिनः श्लोकानां समष्ट्यङ्काः-८८५०
अथकांवशाधिकशततमोऽध्यायः ।
कामोदोवाचन विदुर्देवताः सर्वा यस्यान्तं रूपमेव हि । यस्मिल्लीनम्नु सर्वोऽयं से विश्वात्मा प्रकथ्यते ।। ? यस्य मायाप्रमुग्धस्तु संसारः शृणु नारद । कम्मापयाति संसारं मम स्वामी जगत्पतिः ॥ २ पापेश्चापि सुपुण्यश्च नगे बद्धस्तु कर्मभिः । मंसारं सरने विप्र हरिः कस्माद्वद्वद ॥ ३
नारद उवाचशृणु देवि प्रवक्ष्यामि यत्कृतं तेन विष्णुना । भृगारग्रे प्रतिज्ञातं यज्ञरक्षां करोम्यहम् ॥ ४ इन्द्रस्य वचनात्मद्यो गतोऽसौ दानवैः मह । योद्धं विहाय गोविन्दो भृगोश्चैव मवोत्तमम् ॥ ५ मखं त्यक्त्वा गते देवि पश्चात्तदानवोत्तमः। आगत्य ध्वमिनः सर्वः स यज्ञः पापचेतनः ॥ ६ हरि क्रुद्धस्तु योगीन्द्रः शशाप भृशमेव नम् । दश जन्मानि भुइक्ष्व त्वं मच्छापकलुपीकृतः ॥७ कर्मणश्वास्य संभोगं संभोक्ष्यति जनादनः । ननिमित्तं त्वया देवि दुस्वप्नः प्रसमीक्षितः॥ ८ इत्युक्त्वा तां गतो विप्रो ब्रह्मलोकं स नारदः । कृष्णस्यापि सुदुःखेन दुःविता साऽभवत्तदा ॥ रुरोद करुणं बाला हाहंति वदती मुहुः । गङ्गानीगंपविष्टा सा जलान्ते शृणु नन्दन ॥ १० स्वनेत्राभ्यां तथाऽश्रृणि दुःखेनापि प्रमुश्चति । तान्यणि प्रमुक्तानि गङ्गानाये पतन्त्यपि ॥ ११ जलेप्वव निमजन्तस्तस्याश्चाप्यश्रुविन्दवः । संभवन्ति पुनस्तान पद्मरूपाणि तानि च ॥ १२ गङ्गातोयप्रयुक्तानि वाहितानि प्रयान्ति वै । ददृशे दानवश्रेष्ठो विष्णुमायाप्रमोहितः॥ १३ दुःखजानि न जानाति मुनिना कथितान्यपि । हर्षेण महताऽऽविष्टः परिजग्राह सोऽसुरः ॥ १४ पद्मस्तु पुष्पितैः सोऽपि पूजयेद्गिरिजाप्रियम् । सप्तकोटिभिदैत्येन्द्री विष्णुमायाहृतान्तरः ॥ १५ अथ क्रुद्धा जगद्धात्री शंकरं वाक्यमब्रवीत् । पश्यनस्य विकर्मत्वं दानवस्य तु दुर्मतेः॥ १६ शोकोत्पन्नः प्रफुल्लैश्च भवन्तं परिपूजयेत् । प्राप्यते दुःखसंतापं मुदं प्रामुं न चाईति ॥ १७
* एतच्चिद्वान्तर्गतः पाठः क. ख. ए. च. छ. झ. ह. द. पुस्तकस्थः ।
क.
क. ख. ड. च. द. स वा आत्मा । ड. म वै स्वात्मा । २ ख. कु. च. छ म. द. म् । नरकान्दश प्रभ। ख. घ. रु. छ. झ.ट. ठ. ड. द. स्थ महामते । शो ।
Page #378
--------------------------------------------------------------------------
________________
३७२
महामुनिश्रीव्यासपणीतं--
[ २ भूमिखण्डेईश्वर उवाचसत्यमुक्तं त्वया भद्रे अनेन पापकारिणा । सत्योधमः परित्यक्तः कामोदार्थ कृतः पुरा ॥ १८ शोकजानि प्रफुल्लानि गङ्गातोयगतान्यपि । अयमेष प्रगृह्णाति कामाकुलितचेतनः ॥ १९ पूजयेचापि दुष्टात्मा शोकसंतापकारकैः । दुःखजैः शोकजैः पुष्पैस्तैस्तु श्रेयः कथं भवेत् ॥ २० [झ्यादृशेनापि भावेन मामेव परिपूजयेत् ] । तादृशेनापि भावेन अस्य सिद्धिर्भविष्यति ॥ २१ मन्ये ध्यानविहीनोऽयं कामोदान्यस्तमानसः । संजातः पापचारित्रो जहि देवि स्वतेजसा ॥२२ एवमाकर्ण्य तद्वाक्यं शंभोश्चैव महात्मनः । अस्यैव संक्षयं शंभो करिष्ये तव शासनात् ॥ २३ एवमुक्त्वा ततो देवी तस्यापि वधकाङ्क्षया । वर्तते हि विहुण्डस्य वधोपायं विचिन्तयेत् ॥२४ [+ कृत्वा मायामयं रूपं ब्राह्मणस्य महात्मनः । पूजयेच्छंकरं नाथं सुपुष्पैः पारिजातकैः ] ॥२५ समेत्य दानवः पापो दिव्यां पूनां विनाशयेत् । कामाकुलः सुदुःखार्तस्तद्गतो भावतत्परः॥२६ विष्णोश्चैव महामायां पूर्वदृष्टां स दानवः । सस्मार चापि वै नित्यं कामबाणपपीडितः॥ २७ तस्याः स्मरणमात्रेण कंदर्पण बलीयसा । विरहाकुलदुःखार्तो देवतेहि मुहुर्मुहुः ॥ २८ कालकृष्टः सुदुष्टात्मा शोकजातानि तानि सः। परिगृह्य समायातः पूजनार्थ महेश्वरम् ॥ २९ देव्या कृतां हि तां पूनां सुपुष्पैः पारिजानकैः । तानि नीत्वा तु लोभेन शोकजः परिपूजयेत् ३० नेत्राभ्यां तस्य दुष्टस्य बिन्दवोऽश्रुसमुद्भवाः । अविरलास्ततो वत्स पतन्ति लिङ्गमस्तके ॥ ३१ देवी ब्राह्मणरूपेण तमुवाच महामते । को भवान्पूजयदेवं शोकाकुलमनाः सदा ॥ ३२ पतन्त्यश्रूणि देवस्य मस्तके शोकजानि ते । अपवित्राणि मे हि एतमर्थ ममाग्रतः ॥ ३३
विहुण्ड उवाचपूर्व दृष्टा मया नारी सर्वसौभाग्यसंपदा । [सर्वलक्षणसंपमा कामस्याऽऽयतनं महत् ] ॥ ३४ वस्या मोहेन संदग्धः कामेनाऽऽकुलतां गतः । तया प्रोक्तं हि संभोगे देहि मे दायमुत्तमम् ।।३५ कामोदसंभवैः पुष्पैः पूजयस्व महेश्वरम् । तेषां पुष्पकृतां मालां मम कण्ठे परिक्षिप ॥ ३६ कोटिभिः सप्तसंख्यातैः पूजयस्व महेश्वरम् । तदर्थ पूजयाम्येव ईश्वरं फलदायकम् ॥ ३७ कामोदसंभवः पुष्पैर्दुर्लभैर्देवदानवैः ॥
देव्युवाचक ते भावः क ते ध्यानं कते ज्ञानं दुरात्मनः। [+ ईश्वरस्यापि संबन्धो नास्ति किंचित्तवैव हि] ३९ कामोदाया वरं रूपं कीदृशं वद सांपतम् । क लब्धानि सुपुष्पाणि हास्यात्तस्या भवानि च॥४०
विहुण्ड उवाचभावं ध्यानं न जानामि न दृष्टा सा मया कदा । गङ्गातोयगतान्येव परिगृहामि नित्यशः ॥ ४१ तैरहं पूजयाम्येकं शंकरं हि वदाम्यहम् । ममाग्रे कथितं विप्र शुक्रेणापि महात्मना ॥ ४२ वचनात्तस्य देवस्य पूजयामि दिने दिने । एतत्ते सर्वमाख्यातं यच पृष्टोऽस्मि सांपतम् ॥ ४३
देव्युवाचकामोदारोदनात्पुष्पैर्दुःखेनाथ समुद्भवैः । लिङ्गमर्चयसे पाप पापभावेन नित्यशः ॥ यादृशेनापि भावेन पुष्पैश्च यादृशैस्त्वया । अचितो देवदेवेशस्तादृशं फलमामुहि ॥ ४५
* एतचिहान्तर्गतः पाठो ड. पुस्तकस्थः । + एतचिहान्तर्गतः पाठो घ. छ. ट. ठ. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. . च. छ. स. ह. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः क. ख. छ. च. छ. स.ड. द. पुस्तकस्थः ।
३८
Page #379
--------------------------------------------------------------------------
________________
१२२ द्वाविंशत्यधिकशततमोऽध्यायः ] पचपुराणम् । [*दिव्यपूजां विनाश्यैवं शोकपुष्पैः समर्चयेत् । एतदोषस्तवैवाघ समुत्पनः सुदारुणः] ॥ ४६ तस्माद्दण्डं प्रदास्यामि भुक्ष्व स्वकर्मजं फलम् । तस्य वाक्यं समाकर्ण्य कालाकष्टोऽभ्यभाषत।।१७ रे रे दुष्ट अनाचार मम कर्मप्रदूषक । हन्मि त्वामिह खड़ेन अनेनापि न संशयः॥ ४८ इत्युक्त्वा ब्राह्मणं तं स निशितं खड्गमाददे । इन्तुकामः स्वशक्त्या च अभ्यधावत दानवः ४९ सा देवी विप्ररूपेण संक्रुद्धा परमेश्वरी । स्वस्थानमागतं दृष्ट्वा हुंकारं विससर्ज ह॥ ५. तेन हुंकारनादेन पतितो दानवाधमः । निश्रेष्टः कामरूपेण वजाहत इवाचलः ॥ ५१ पतिते दानवे तस्मिन्सर्वलोकविनाशके । लोकाः स्वास्थ्यं गताः सर्वे दुःखतापविवर्जिताः ॥५२ एतस्मात्कारणात्पुत्र सा स्त्री वे परिरोदिति । गङ्गातीरे वरारोहा दुःखव्याकुलमानसा ॥ एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥
विष्णुरुवाचएवमुक्त्वा स्वपुत्रं च कुञ्जलः पक्षिणां वरः । विरराम महापात्रः किंचित्रोवाच भूपते ॥ ५४ इति श्रीमहापुराणे पाद्म भूमिखण्डे वेनोपाख्याने गुरुतीर्थे कामोदाख्यान एकविंशत्यधिकशततमोऽध्यायः ॥ १२१ ॥
कामोदाख्यानं समाप्तम् । आदितः श्लोकानां समयकाः-८९०५
अथ द्वाविंशत्यधिकशततमोऽध्यायः ।
विष्णुरुवाचकुञ्जलो धर्मपक्षी स इत्युक्त्वा तान्सुतान्पति । विरराम महामानः किंचित्रोवाच तान्पुनः॥ १ वटाधस्थो द्विजश्रेष्ठस्तमुवाच महाशुकम् । को भवान्धर्मवक्ता हि पक्षिरूपेण वर्तते ॥ २ किंवा देवोऽथ गन्धर्वः किंवा विद्याधरो भवान् । कस्य शापादिमां प्राप्तो योनि कीरस्य पातकीम् ॥३ कस्मात्त ईदृशं ज्ञानं वर्ततेऽतीन्द्रियं शुक । सुपुण्यस्य तु कस्यापि कस्य वै तपसः फलम् ॥ ४ किंवा प्रच्छन्नरूपण अनेनापि महामते । कस्त्वं सिदोऽय देवो वा तन्मे कथय कारणम् ॥ ५
कुञ्जल उवाचभोः सिद्ध त्वामहं जाने कुलं ते गोत्रमुत्तमम् । विद्या तपः प्रभावं च यस्मादमसि मेदिनीम ६ सर्व विष प्रवक्ष्यामि स्वागतं तव सुव्रत । उपविश्याऽऽसने पुण्ये छायामाश्रय शीतलाम् ॥ ७ अव्यक्तप्रभवो ब्रह्मा तस्माजझे प्रजापतिः । ब्रह्मणस्तु गुणैर्युक्तो भृगुब्रह्मसमो द्विजः॥ ८ भार्गवो नाम तस्याऽऽसीत्सर्वधर्मार्थतत्त्ववित् । तस्यान्वये भवान्विा च्यवनः ख्यातिमान्भुवि ९ नाहं देवो न गन्धर्वो नाहं विद्याधरः पुनः । योऽहं विम प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ १० कश्यपस्य कुले जातः कश्चिद्राह्मणसत्तमः । वेददेदात्तत्त्वज्ञः सर्वधर्मप्रकाशकः ॥ ११ विद्याधर इति ख्यातः कुलशीलगुणैर्युतः । राजमानः सदा विप्रः प्रभावैस्तपसः सदा ॥ १२ संबभूवुः सुतास्तस्य त्रयो विद्याधरस्य वे । वसुशर्मा नामशर्मा धर्मशर्मा तु ते त्रयः॥ ११ [ तेषामहं धर्मशर्मा कनिष्ठो गुणवर्जितः । वसुशर्मा मम भ्राता वेदशास्त्रार्यपारगः] ॥ १४
* एतचिहान्तर्गतः पाठः क. ख. ह. च छ. स. इ. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाठः क. ख.स.स.छ. स. उ.द. पुस्तकस्थः ।
१ड. पक्षीन्द्र है।
Page #380
--------------------------------------------------------------------------
________________
२७४
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेआचारैश्च समायुक्तो विद्यादिस्वगुणैः पुनः । नामशर्मा महामाज्ञस्तद्वचाऽऽसीगुणाधिकः ॥ १५ अहमेव महामूर्खः संजातः शृणु सत्तम । विद्यानामुत्तमं विष भावमर्थ शुभं कदा ॥ १६ न शृणोमि न वै यामि गुरुगेहमनुत्तमम् । ततस्तु जनको मे तु मामेव परिचिन्तयेत् ॥ १७ धर्मशर्मेति मे पुत्रो यस्य नाम निरर्थकम् । संजातः क्षितिमध्ये तु न विद्वान्मे गुणाकरः॥ १८ इति चिन्त्य स धर्मात्मा मामुवाच सुदुःखितः । व्रज पुत्र गुरोर्गेहं विद्यार्थ परिसाधय ।। १९ एवमाकर्ण्य तसस्य पितुर्वाक्यं मया शुभम् । [*नाहं तात गमिष्यामि गुरोर्गेहं सुदुःखदम् ॥२० यत्रैव ताडनं नित्यं भूभङ्गादि च क्रोधनम् । अनं न दृश्यते तत्र कर्मणा शृणु सत्तम ॥ २१ दिवा रात्रौ न निद्राऽस्ति नास्ति सुखस्य साधनम् ]] तस्माद्धि कारणात्तात न यास्ये गुरुमन्दिरम् २२ विद्याकार्य न करिष्ये क्रीडार्थमुत्सुकः पितः । भोक्ष्ये स्वप्स्ये प्रसादात्ते करिष्ये क्रीडनं पुनः२३ डिम्भैः सार्ध सुखेनापि दिवारात्रावतन्द्रितः। [+मामुवाच स धर्मात्मा मूहूँ ज्ञात्वा सुदुःखितः]२४ मा पुत्र साहसं कार्षीविद्यार्थमुद्यमं कुरु । विद्यया पाप्यते सौग्व्यं यशः कीर्तिस्तथाऽतुला ॥२५ मानं स्वर्गः सुमोक्षश्च तस्माद्वियां प्रसाधय । पूर्व सुदुःखमूला तु पश्चाद्विद्या सुखपदा ॥ २६ तस्मात्साधय पुत्र त्वं विद्या गुरुगृहं व्रज । पितुर्वाक्यमकुर्वाणो ह्यहमेवं दिने दिन ॥ २७ यत्र तत्र स्थितो नित्यमर्थहानि करोम्यहम् । उपहासः कृतो लोकेर्मम विम प्रकुन्सनम् ॥ २८ मम लज्जा समुत्पन्ना जीवनाशकरी तदा । विद्यार्थमुद्यतो विष के गुरुं प्राथेयाम्यहम् ॥ २९ इतिचिन्तापरो जातो दुःखशोकसमाकुलः । कथं विद्यामहं जाने कथं विन्दाम्यहं गुणान् ॥ ३० कथं मे जायते स्वर्गः कथं माझं व्रजाम्यहम् । इत्येवं चिन्तयन्वि वार्धक्यमगर्म पुनः ॥ ३१ देवतायतने दुःखी उपविष्टस्त्वहं कदा । मद्भाग्यैः प्रेषितः कश्चिसिद्धोऽकस्मात्ममागतः ॥ ३२ निराश्रयो निराहारः सदानन्दस्तु निस्पृहः । एकान्तमास्थितो विप्र दयायुक्तो जितेन्द्रियः।।३३ परब्रह्मणि संलीनो ज्ञानध्यानसमाधिमान । तमहं संश्रितो विप्र ज्ञानरूपं महामतिम् ॥ ३४ अहं सिद्धमभावेन भक्त्या नमितकंधरः । नमस्कृत्य महात्मानं पुरतस्तस्य संस्थितः ॥ ३५ दीनरूपी बह जातो मन्दभाग्यस्त्वहं यतः । तेनाहं पृच्छितो विप्र कथं भवान्प्रशोचति ॥ ३६ केनाभिप्रायभावेन दुःखमेवं भुनक्ति वै । तेनैवमुक्तो विप्रन्द्र घृणिना योगिना तदा ॥ ३७ सुमूढत्वं मया तस्य पूर्ववृत्तान्तमेव हि । तस्मै संश्रावितं सर्व सर्वज्ञत्वं कथं व्रजेत् ॥ ३८ एतदर्थमहं दुःखी भवान्मम गतिथि॒वम् । स चोवाच महात्मा मे सर्व ज्ञानस्य कारणम् ॥ ३९ इति श्रीमहापुराणे पाये भूमिखण्डे वेनोपाख्याने गुरुतीर्थ च्यवनसंवाद द्वाविशत्यधिकशततमोऽध्यायः ॥ १२२ ॥
आदितः श्लोकानां समष्टयङ्काः--८९४४
अथ त्रयोविंशत्यधिकशततमोऽध्याय. ।
सिद्ध उवाचश्रूयतामभिधास्यामि ज्ञानरूपं तवाग्रतः । न स्तो ज्ञानस्य वै हस्तो न च पादौ न चक्षुषी ॥१
*एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. . ढ. पुस्तकस्थः। +एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. स. १.द. पुस्तकस्थः।
क. ख. र. च. छ. म. द.म् । बहुदुःखमयं तात । २ घ. ट. ठ. ड. छ. "न्तयाऽऽविष्टो दुःखार्तोऽपि गतः ३क. ख. ग. स.च.छ.ज.म. म. ड. प्रविषादम। ४ छ. ड. योगयुक्तो।५ क.ख.ड, च छ. झ. द. ज्ञानिना ।
पु
Page #381
--------------------------------------------------------------------------
________________
१२३ त्रयोविंशत्यधिकशततमोऽध्यायः ] पनपुराणम् । नासाकर्णौ च ज्ञानस्य नास्ति वै पाणसंग्रहः । केन दृष्टं तु वै शान कानि लिङ्गानि तस्य च ॥ आकारैर्वजितं नित्यं सर्व वत्ति स सर्ववित् । दिवा प्रकाशकः सूर्यो रात्रौ प्रकाशवेच्छशी ॥३ गृहे प्रकाशको दीपो लोकमध्ये स्थिता ह्यमी । तत्पदं केन वै धाम्ना दृश्यते शृणु सत्तम ॥ ४ न विन्दन्ति च मूढास्ते मोहितो विष्णुमायया । कायमध्ये स्थितं ज्ञानं ध्यानदीप्तमनौपमम् ।। ५ तत्पदं तेन दृश्येत चन्द्रसूर्यादिभिर्न च । हस्तपादं विना ज्ञानमचक्षुः कर्णवर्जितम् ॥ ६ सर्वत्र गतिमञ्चास्ति सर्व गृह्णाति पश्यति । सर्वमाघ्राति विप्रेन्द्र शृणोत्येव न संशयः। ७ नास्ति ज्ञानसमो दीपः सर्वान्धकारनाशने । स्वर्गे भूमौ च पाताले स्थाने स्थाने च दृश्यते ॥८ कायमध्ये स्थितं ज्ञानं न विन्दन्ति कुबुद्धयः । ज्ञानस्थानं प्रवक्ष्यामि यस्माज्ज्ञानं प्रजायते ॥९ पाणिनां हृदये नित्यं निहितं सर्वदा द्विज । कामादीन्सुमहाभोगान्महामोहादिकांस्ततः ॥ १० विवेक वाहिना मवान्दिधक्षति सदैव यः । सर्वशान्तिमयो भूत्वा चेन्द्रियार्थान्धमदयेत् ॥ ११ ततस्तु जायते ज्ञानं सर्वतत्त्वार्थदर्शकम् । शान्तिमूलमिदं ज्ञानं निर्मलं पापनाशनम् ॥ १२ तम्माच्छान्ति कुरुष्व त्वं सर्वसौख्यप्रवर्धिनीम् । समः शत्रौ च मित्रे च यथाऽऽत्मनि तथा परे भवस्व नियतो नित्यं जिताहारो जिनेन्द्रियः । मैत्रं नैव प्रकर्तव्यं वैरं दूरं परित्यज ॥ ११ निःमङ्गो निस्पृहो भूत्वा एकान्तस्थानमंश्रयः । सर्वप्रकाशको ज्ञानी सर्वदर्शी भविष्यास ॥१५ एकस्थानस्थिता वत्स त्रैलोक्ये यद्भविष्यति। वृत्तान्तं वेत्स्यसि त्वं तु मत्प्रसादान संशयः॥ १६
कुञ्जल उवाचसिद्धेन तेन मे विप्र ज्ञानरूपं प्रकाशिनम् । नस्य वाक्ये स्थितो नित्यं तद्भावेनापि भावितः १७ त्रैलोक्ये वर्तते यद्यदेकस्थानस्थितो यहम् । तत्तदेव प्रजानामि प्रसादात्तस्य सगुरोः॥ १८ तत्ते सर्व समाख्यातमात्मवृत्तान्तमेव हि । अन्यत्किं ते प्रवक्ष्यामि तद्यूहि द्विजसत्तम ॥ १९
च्यवन उवाचकीरयानि कथं प्राप्तो भवाज्ञानवतां वरः । तन्म त्वं कारणं हि सर्वसंदेहनाशनम् ॥ २०
कुञ्जल उवाच-. संमोजायते पापं संसर्गात्पुण्यमंव वा । तस्माद्धि वर्जयेच्छुद्धी भव्यो विरुद्धमेव च ॥ २१ लुब्धकेनापि पापेन केनाप्येकः शुकः शिशुः । वन्धयित्वा ममानीतो विक्रयार्थ समुद्यतः ।। २२ चाटुकारं सुरूपं तं चादवाक्यं समीक्ष्य च । गृहीतो ब्राह्मगैकेन मम दत्तः सुप्रीतये ॥ २३ ज्ञानध्यानस्थितो नित्यमहमेवं द्विजोत्तम । म मे बालस्वभावेन कौतुकात्करसंस्थितः ॥ २४ तस्य कौतुकवाक्यैवा मुग्धोऽहं द्विजसत्तम । शुकस्य पुत्ररूपस्य नित्यं तत्परमानसः॥ २५ मामेवं वदते सोऽपि तात मामहि आस्यताम् । स्थानं गच्छ महाभाग देवानर्चय सांपतम् ॥२६ इत्यादिचाटुकैवाक्यममिवं परिभाषते । तस्य वाक्यविनादेन विस्मृतं ज्ञानमुत्तमम् ॥ २७ पुष्पार्थ फलभोगार्थ गतोऽहं वनमेव हि । नीतः शुको बिडालेन मम दुःखाय केवलम् ॥ २८ अनृशंसर्तृभिः सर्वयस्थैः साधुकारिभिः । विडालन हतः पक्षी तेनैव भक्षितो हि मे ॥ २९ श्रुत्वा मृत्युं गतं विप्र शुकं तं चाटुकारकम् । महता दुःखभावेन असोनातिपीडितः॥ ३०
१क.ख. घ. ड.च.छ.झ.ट..ड.इ. "ता माहमा । २. स्कन्धवजितम् । ३ क.ख..च. म.र. 'गोद्धर्म एव हि । त । ४ छ. भव्यं संसर्गमे । ५ ग. घ. ज. अ. ट. ठ.. पुण्येन । ६ क. ख. घ. उ. च. छ. ट.. इ. इ. स्नानं । क. ख. ड. च. छ. ई. 'भारेण अ।
Page #382
--------------------------------------------------------------------------
________________
३७६
महामुनिश्रीव्यासप्रणीतं -
[ २ भूमिखण्डे
३२
४०
[ तस्य दुःखेने मुग्धोऽस्मि तीव्रेणापि सुपीडितः ] । महता मोहजालेन बद्धोऽहं द्विजपुंगव ३१ मालपं रामचन्द्रेति शुकराजेति पण्डित । श्लोकराजेति तं विप्र मोहाच्चलितमानसः ।। ततोऽहं दुःखसंतप्तः संजातः स्वेन कर्मणा । बियोगेनापि विप्रेन्द्र शुकस्य शृणु सांप्रतम् ।। ३३ विस्मृतं तन्मया ज्ञानं सिद्धेनापि प्रकाशितम् । संस्मरशुकसंज्ञानं तं शुकं चाटुकारकम् ।। ३४ बत्स वत्सेति नित्यं वै मालपं शृणु भार्गव । गद्यपद्यमयैर्वाक्यैः संस्कृताक्षरसंयुतैः ।। ३५ त्वां विना कश्च मां वत्स बोधयिष्यति सांप्रतम् । कथाभिस्तु विचित्राभिः पक्षिराज प्रसाद्य माम् ।। अस्मिन्सुनिर्जनोद्याने विहाय क गतो भवान् । केन वै वत्स दोषेण तन्मे कथय सांप्रतम् ॥ ३७ एवंविधैरहं वाक्यैः करुणैस्तैस्तु मोहितः । एवमादि मलप्याहं शोकेनापि सुपीडितः ।। ३८ मृतोऽहं तेन दुःखेन तद्भावेनापि मोहितः । मरणे यादृशो भावो मतिश्वाssसीच्च यादृशी ।। ३९ areशेनापि भावेन जातोऽहं द्विजसत्तम । गर्भवासो मया प्राप्तो ज्ञानस्मृतिविधायकः ॥ स्मृतं पूर्वकृतं कर्म स्वयमेव प्रचेष्टितम् । मया पापेन मूढेन किं कृतं कृतात्मना || गर्भयोगसमारूढः पुनस्तं चिन्तयाम्यहम् । तेन मे निर्मलं ज्ञानं जातं तु सर्वदर्शकम् || गुरोस्तस्य प्रसादाच्च प्राप्तं ज्ञानमनुत्तमम् । तस्य वाक्योदकैः स्वच्छैः कायस्य मलमेत्र मे सबाह्याभ्यन्तरं विम क्षालितं निर्मलं कृतम्। तिर्यक्त्वं च मया प्राप्तं शुकजातिसमुद्भवम् ॥ ४४ शुकस्य ध्यानभावेन मरणे समुपस्थिते । तस्मिन्काले मृतो विम तद्भावेनापि भावितः ॥ ४५ तादृशोऽस्मि पुनर्जातः शुकरूपो महीतले । मरणे यादृशो भावः प्राणिनां परिजायते ।। तादृशाः स्युस्तु सत्त्वास्ते तपास्तत्पराक्रमाः । तद्गुणास्तत्स्वरूपाश्च भावभूता भवन्ति हि मृत्युकालस्य विप्रेन्द्रभावेनापि न संशयः । [ अतुलं प्राप्तवाज्ञानमहमत्र महामते ।। तेन सर्वे विपश्यामि यद्भतं यद्भविष्यति । वर्तमानं महामाझ ज्ञानेनापि महामते । सर्वे विदाम्यहं यत्र संस्थितोऽपि न संशयः ।] तारणाय मनुष्याणां संसारे परिवर्तताम् नास्ति तीर्थ गुरुसमं बन्धच्छेदकरं द्विज ।।
४१
1
४२
४३
४६
४७
४८
४९
एतत्ते सर्वमाख्यातं शृणु भार्गवनन्दन । यत्त्वया पृच्छितं विम तत्ते सर्वे प्रकाशितम् ॥ स्थलजाश्चोदकात्सर्व बाह्यं मलं प्रणश्यति । जन्मान्तरकृतान्पापान्गुरुतीर्थ प्रणाशयेत् || संसारे तारणायैव जङ्गमं तीर्थमुत्तमम् ॥
विष्णुरुवाच
शुक एवं महाप्राज्ञश्यवनाय महात्मने । तत्त्रं प्रकाशयित्वा तु विरराम नृपोत्तम । [+एतते सर्वमाख्यातं जङ्गमं तीर्थमुत्तमम् ] । वरं वरय भद्रं ते यद्वै मनसि वर्तते ।। बेन उवाच
नाहं राज्यस्य कामार्थी नान्यत्किचित्प्रकामये । सदेहो गन्तुमिच्छामि तत्र कार्य जनार्दन एवं वरमहं मन्ये यदि दातुमिहेच्छसि ।।
५०
५१
५२
५३
५४
५५
* एतच्चिहान्तर्गतः पाठः क. ख. ड च छ. झ. ड. पुस्तकस्थः । + एतच्चिहान्तर्गतः पाठः क. ख. घ. च. छ. झ. ट. ठ. ड. पुस्तकस्थः । * इदमार्षम् । + एतच्चिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड. उ. पुस्तकस्थः ।
१ क. ख. ङ. च. श. ट. न दग्धों । २छ. झ. °स्मिन्मुनिजनो ।
Page #383
--------------------------------------------------------------------------
________________
१२४ चतुर्विशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
विष्णुरुवाचयज त्वमश्वमेधेन राजसूयेन भूपते । गोभूस्वर्णाम्बुधान्यानां कुरु दानं महामते ॥ ५६ दानाबश्यति वै पापं ब्रह्मवध्यादिघोरकम् । चतुर्वर्गस्तु दानेन सिध्यत्येव न संशयः॥ ५७ तस्मादानं प्रकर्तव्यं मामुद्दिश्य च भूपते । यादृशेनापि भावेन मामुद्दिश्य ददाति यः॥ ५८ तादृशं तस्य वै भावं सत्यमेवं करोम्यहम् । ऋषीणां दर्शनात्स्पर्शादृष्टस्ते पापसंचयः ॥ ५९ आगमिष्यसि यज्ञान्ते मम देहं न संशयः । एवमाभाष्य तं वेनमन्तर्धानं गतो हरिः॥ ६० इति श्रीमहापुराणे पाने भूमिखाडे वेनोपाख्याने गुरुतीर्थ त्रयोविंशत्यधिकशततमोऽध्यायः ॥ १२३ ॥,
आदितः श्लोकानां समष्ट्यङ्काः-९००४
अथ चतुर्विशन्यधिकशततमोऽध्यायः ।
सूत उवाचअन्तर्धानं गते विष्णौ वेनो राजा महामतिः । क गनो देवदेवेश इतिचिन्तापरोऽभवत् ॥ १ हर्षेण महताऽऽविष्टश्चिन्तयित्वा नृपोत्तमः । समाहूय पृथु चैव स्वपुत्रं मधुराक्षरैः॥ २ उवाच च महाभागो हर्पण महताऽऽवृतः । त्वया पुत्रेण भूलॊके तारितोऽस्मि सुपातकात् ॥ ३ नीत उज्ज्वलतां वत्स वंशो मे सांप्रतं पृथो । मया विनाशितो दोस्त्वया चैव प्रकाशितः॥ ४ यजेऽहं चाश्वमेधेन दास्ये दानान्यनकशः । विष्णुलोकं प्रयास्यामि सकायस्त्वत्प्रसादतः ॥ ५ संभरस्त्र महाभाग संभारांश्चाप्यनुत्तमान । आमत्रय महाभागान्ब्राह्मणान्वेदपारगान् ॥ ६ एवं पृथुः समादिष्टो वेनेनापि महात्मना । प्रत्युवाच महात्मा स वेनं पितरमादरात् ॥ ७ कुरु राज्यं महाभाग भुक्ष्व भोगान्मनोनुगान् । सुदिव्यान्मानुपान्पुण्यान्यज्ञैर्यज जनार्दनम् ॥८ [+एवमुक्त्वा प्रणम्पैनं पितरं ज्ञानतत्परम् ] । धनुरादाय स पृथुः सवाणं यत्नपूर्वकम् ॥ ९ आदिदेश वरान्मान्धोषध्वं भूनले मम । पापमेवं न कर्तव्यं कर्मणा नियमेन वै ॥ १०
-
+तचिहान्तर्गत: पाठ: क. ख. इ.च. छ. झ. ड.. पुस्तकस्थः ।
१क. ख. घ. हु. च. छ. झ. ट. ट. इ. द. ते । दानयज्ञश्च भूयस्त्वमन्नार्यः शुभदायकैः । पचादागच्छ मे कायं सखी भव गतवरः । एवमाभाष्य त वनमन्तधानं गतो हरिः । हर्षेण महताऽऽविष्टो वेनराजा महामतिः । क गतो देवदेवेश इति चिन्त्य मुहुर्मुहुः ।।
इति श्रीपद्मपुराणे गुरुतीर्थाख्यानं समाप्तम् ॥ व्यास उवाचविष्णुना देवदेवेन समाख्यातमनुत्तमम् । धर्माग्ल्यानं महापुण्यं सर्वपातकनाशनम् । तीर्थानां जगमानां हि सङ्घ प्रत्ययकारकम् । स वेनः किं चकाराथ तन्मे कथय पद्मज ।
ब्रह्मोवाचपनरुवाच जगन्नाथो नारायणो नृपोतमन् । यज त्वमश्वमेधेन दद दानं महामते। दानानश्यन्ति ते पापा अधोरा गतिमा शकाः । हस्तिहत्यादिका राजस्तस्माद्दानं प्रदीयते । चतुर्वर्गस्तु दानेन सिध्यते नात्र संशयः । तस्माद्दान प्रदातव्यं मामुहिश्य नरोत्तम । यादृशेनापि भावेन माभूद्दिश्य ददाति यः । तादृशं तस्य भावेन सत्यमेकं करोम्यहम् । ऋषीणां दर्शनास्पर्शान ते पातक नृप । पश्चाद्भवान्समागच्छ गेहं च मम संनिधौ । एवमुक्त्वा हृषीकेशो अन्तर्धानं गतस्ततः । हर्षेण । २ क. ख. घ. ङ. च. छ. झ. ठ. ढ.महाभागे । ३ क.स्व.. च. छ. झ. ह. द. त्रिविधेन ।
Page #384
--------------------------------------------------------------------------
________________
३७८
महामुनिश्री व्यासप्रणीतं -
[ २ भूमिखण्डे -
करिष्यति च यः पापमाज्ञां वेनस्य भूपते । उल्लङ्घ्य वध्यतां सोऽपि यास्यते नात्र संशयः ।। ११ दान प्रदातव्यं यज्ञैश्चैव जनार्दनम् । यजध्वं मानवाः सर्वे तन्मनस्का विमत्सराः || १२ एवं शिक्षां तु दत्त्वा च राज्यं भृत्येषु वेनजः । निक्षिप्य स गतो विप्रास्तपसोऽर्थे तपोवनम् १३ सर्वान्दोषान्परित्यज्य संयम्य विषयेन्द्रियान् । शतवर्षप्रमाणं वै निराहारो बभूव ह । तपसा तस्य वै तुष्टो ब्रह्मा पृथुमुवाच ह । तपस्तपसि कस्मात्त्रं तन्ममाऽऽचक्ष्व सुव्रत ॥ १५
१४
पृथुरुवाच
अहो वेनो महाप्राज्ञः पिता मे कीर्तिवर्धनः । [समाचरति यः पापमस्य राज्ये नराधमः ॥ १६ शिरश्छेता भवत्वेष तस्य देवो जनार्दनः ] । अदृष्टैश्व महाचकैर्हरिः शास्ता भवेत्स्वयम् ।। १७ मनसा कर्मणा वाचा कर्तुं वाञ्छन्ति पातकम् । तेषां शिरांसि त्रुयन्तु शङ्गवृक्षफलं यथा ।। १८ एतदेव वरं मन्ये शृणु त्वत्तः सुरेश्वर । प्रजानां दोषभावैश्च न लिप्यति पिता मम ।। तथा कुरुष्व देवेश यदि भद्रमिहेच्छसि । ददस्व उत्तमं कामं चतुर्मुख नमोऽस्तु ते ।। २० ब्रह्मोवाच
१९
एवमस्तु महाभाग पिता ते पूततां गतः । विष्णुना शासितो वत्स पुत्रेणापि त्वया पृथो ।। २१ एवं पृथुं समुद्दिश्य वरं दत्त्वा गतो विभुः । पृथुश्चापि महाप्राज्ञो राज्यकर्मणि संस्थितः ।। २२ बैन्यस्य राज्ये विप्रेन्द्राः पापं कश्चिन्न चाऽऽचरेत् । यस्तु चिन्तयतं पापं त्रिविधेनापि कर्मणा२३ शिरश्छेदो भवेत्तस्य यथा चक्रेर्निकुन्तितः । तदाप्रभृति वै पापं नैव कोऽपि समाचरेत् || २४ इत्याज्ञा वर्तते तस्य वैन्यस्यापि महात्मनः । सर्वलोकाः समाचारैः परिवर्तन्ति नित्यशः ।। २२ दानभोगैः प्रवर्तन्ते सर्वधर्मपरायणाः । सर्वसौख्यैः प्रवर्धन्ते प्रसादात्तस्य भूपतेः ।। २६
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने चतुविशत्यधिकशततमोऽध्यायः ॥ १२४ ॥ आदितः श्लोकानां समथ्र्यङ्काः - ९०३०
अथ पञ्चविशत्यधिकशततमोऽध्यायः ।
सूत उवाच --
३
dress समामाप्य प्रेतः परमधार्मिकः । संबभार स संभारान्नानापुण्यान्नृपात्मजः ॥ निमन्त्र्य ब्राह्मणान्सर्वान्नानादेशोद्भवानथ । अथ वेन इयाजासावश्वमेधेन भूपतिः ॥ दानान्यदाद्राह्मणेभ्यो नानारूपाण्यनेकशः । जगाम वैष्णवं लोकं सकायो जगतीपतिः ।। विष्णुना सह धर्मात्मा नित्यमेव प्रवर्तते । एतद्वः सर्वमाख्यातं चरितं तस्य भूपतेः ।। सर्वपापोपशमनं सर्वदुःखविनाशनम् । पृथुरेवं स धर्मात्मा राज्यं पृथ्व्याश्चकार ह ।। त्रैलोक्येन समं पृथ्वीं दुदोह नृपसत्तमः । प्रजाऽनुरञ्जिता तेन पुण्यधर्मानुकर्मभिः || एतत्ते सर्वमाख्यातं भूमिखण्डमनुत्तमम् । प्रथमं सृष्टिखण्डं हि भूमिखण्डं द्वितीयकम् ॥ भूमिखण्डस्य माहात्म्यं कथयिष्याम्यहं पुनः । अस्य खण्डस्य वै श्लोकं यः शृणोति नरोत्तमः ।। ८
७
* एतच्चिहान्तर्गतः पाठः क. ख. घ ङ च छ झ. ड ढ पुस्तकस्थः ।
१ ज. न्तु शङ्ख । ट. 'न्तु शिशवृ" । घ ठ न्तु संश' । २ क. ख. ड. छ. झ ड ढ पृथुः । ३ ड. “मर्थक' ।
Page #385
--------------------------------------------------------------------------
________________
१२५ पञ्चविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
३७९ दिनस्यैकस्य वै पापं तस्य चैत्र प्रणश्यति । यो नरो भावसंयुक्तो अध्यायं शृणुते सुधीः॥ ९ तस्य पुण्यं प्रवक्ष्यामि श्रूयतां द्विजसत्तमाः । दत्तस्य गोसहस्रस्य ब्राह्मणेभ्यः सुपर्वणि ॥ १० यत्फलं तत्मजायेत विष्णुश्चैव प्रसीदति । अस्य पद्मपुराणस्य पठमानस्य नित्यशः॥ ११ कलो युगे सुविघ्नाश्च जायन्ते तस्य नो कदा ॥
व्यास उवाचकस्मात्कलौ प्र(न)जायन्ते शृण्वानस्य च पद्मज । नरस्य पुण्यपकस्य नाना विघ्नाः सुदारुणाः ॥
ब्रह्मोवाचमखस्याप्यश्वमेधस्य यत्फलं परिकथ्यते । तत्फलं दृश्यते विप्राः पुराणे पद्मसंज्ञके ॥ १४ अश्वमेधमखः पुण्यः कलो नैव प्रवर्तते । पुराणं चापि यत्तद्वदश्वमेधसमं किल ॥ १५ अश्वमेधस्य यत्पुण्यं स्वर्गमोक्षफलप्रदम् । न भुञ्जन्ति नराः पापाः पापमार्गेषु संस्थिताः ॥ १६ पुराणस्यास्य च फलं पद्मसंज्ञस्य मत्तमाः। अश्वमेधस्य यत्पुण्यं [*स्वर्गमोक्षफलप्रदम् ॥ १७ न भुञ्जन्ति नराः पापाः पापमार्गेषु संस्थिताः । पुराणस्यास्य पुण्यस्य पद्मसंज्ञस्य सत्तम ॥ १८ कलौ युगे नरैः पापैर्गन्तव्यं नरकार्णवम् । तस्माच्छोप्यन्ति तत्पुण्यं] चतुर्वर्गप्रसाधकम् ॥ १९ येन श्रुतमिदं पुण्यं पुराणं पद्मसंज्ञकम् । सर्व हि माधितं तेन चतुर्वर्गस्य कारणम् ॥ २० अश्वमेधस्य यज्ञस्य फलं तस्य प्रजायते । शृण्वानम्य नरस्यापि महाविघ्नो न संचरेत् ॥ २१ अश्रद्धा जायते चापि पाठकस्य नरस्य च । लोमश्च जायते तस्य श्रावकस्य द्विजोत्तमाः ॥ २२ प्रेपिता देवदेवेन महामोहाः सुदारुणाः । अकरोत्स विनाशं तु शृण्वतश्चास्य नित्यशः॥ २३ दृपकाः कुन्सकाः पापाः मंभवन्ति दिने दिने । ज्ञातव्यं तु सुशुद्धेन विनरूपं ममाधुना ॥ २४ [*संजातं दृश्यते व्यास तथा होमं समाचरेत् । ] वैष्णवैश्च महामविष्णुसूक्तैः सुपुण्यदैः २५ विष्ण्वागधनमत्रण सहस्रशीर्षकेण च । इदं विष्णुरित्यनेन आब्रह्मेण पुनः पुनः ॥ २६ त्र्यम्बकेण च मत्रंण [+होममेव समाचरेत् । बृहन्माम्ना सुमत्रेण ] द्वादशाक्षरकेण वा ॥ २७ यस्य देवस्य या होमस्तस्य मव्रण होमयेत् । अष्टोत्तरतिलाय॑श्च पालाशेः समिधेरपि ॥ २८ विनंशं पूजयेत्पूर्व शारदां च सुरश्वरीम् । ग्रहाणामपि कर्तव्यं स्थापनं पूजनं द्विजाः॥ २९ जातवेदोमहामायां चण्डिको क्षेत्रनायकम् । निलेश्च तण्डुलैराज्यस्तपामन्त्रसमुद्भवैः ॥ ३० एवं होमः प्रकर्तव्यो ब्राह्मणेभ्यो धनार्पणम् । यथामामर्थ्यमंवापि दक्षिणा धेनुसंयुताः ॥ ३१ ततो विघ्नाः प्रणश्यन्ति पुराणं मिद्धिमानुयात् । एवं न कुरुते यस्तु तस्य विघ्नं वदाम्यहम् ३२ तस्याङ्गे जायते रांगो बहुपीडाप्रदायकः । भार्याशोकः पुत्रशोको धनहानिः प्रजायते ॥ १३ नानाविधान्महारोगान्भुञ्जते नात्र संशयः । यस्य गेहे नास्ति वित्तमुपवास समाचरेत् ॥ ३४ एकादशी स संप्राप्य पूजयेन्मधुसदनम् । उपचारैः पोडशभिर्भावयुक्तेन चेतसा ॥ ३५
___एतच्चिदान्तर्गतः पाठः, द. छ. स.इ. द. पुस्तकस्थः । एतदने क. ख. ङ. च. छ. स. ड. ढ. पुस्तकेषु 'अश्वमेधादयो यज्ञाः कस्मात्रष्टा महामते । कली यगेत ते सर्वेसर्वद माङ्गमुस्वराः । यः कोऽपि शत्रुमपत्रः श्रद्धावान्भावतत्परः। श्रोतुमिच्छति धर्मात्मा सपत्रो भार्यया सह । श्रवणार्य महाश्रद्धा पर्व यत्र प्रजायते' इत्यधिकं दृश्यते । * एतचिहान्तर्गतः
एतद्विान्तर्गतः पाठः क. ख..च छ... पुस्तकस्थः।
पाठः क.ख. घ. ड.च. छ. झ. ट.ट. द. पुस्तकस्थः ।
१क. ख. ङ. ह. दयोऽन्तरे भा । २ क. ख. च. प्रायः । घ. छ. ठ. तात। ३ क.ब. ग. घ... छ.ज. झ. ज. ड. द. विष्णोरराटम' ।
Page #386
--------------------------------------------------------------------------
________________
महामुनिश्रीव्यासप्रणीतं पद्मपुराणम् ।
[ २ भूमिखण्डम्
का
४ः
ब्राह्मणान्भोजयेद्यस्तु यथावित्तानुसारतः । केशवाय ततो दत्त्वा संकल्प्य हविषाऽन्वितम् ॥ ३१ स्वयं कुर्यात्ततः प्राज्ञो भोजनं सह बान्धवैः । पुत्रैश्च भार्यया युक्तस्ततः सिद्धिमवामुयात् ॥ ३७ पुराणसंहिता पूर्णा श्रोतव्या धर्मतत्परैः । चतुर्वर्गस्य वै सिद्धिर्जायते तस्य नान्यथा ।। ३० सपादं लक्षमेकं तु ब्रह्माख्यं पुष्करं शृणु । कृते युगे तु निष्पापाः शृण्वन्ति मनुजा द्विजाः ॥ ३९ लक्षस्य ततः कृत्स्नं पुराणं पद्मसंज्ञकम् । श्लोकानां तु सहस्राभ्यां द्वाभ्यामेव तथाऽधिकम् ॥ ४० त्रेतायुगे तथा प्राप्ते शृण्वन्ति मनुजा द्विजाः । चतुर्वर्गफलं भुक्त्वा ते यास्यन्ति हरिं पुनः ॥ ४ द्वाविंशतिसहस्राणां संहिता पद्मसंज्ञका । द्वापरे कथिता विप्र ब्रह्मणा परमात्मना ॥ द्वादशैव सहस्राणां पद्माख्यां च सुसंहिताम् । कलौ युगे पठिष्यन्ति मानुषा विष्णुतत्पराः ॥ 8 एकोऽर्थचैकभावश्च चतुर्ष्वपि प्रवर्तितः । संहितास्वपि विप्रेन्द्राः शेषाख्यानमविस्तरः || ४१ द्वादशैव सहस्राणि नाशं यास्यन्ति सत्तमाः । कलौ युगे तु संप्राप्ते प्रथमं हि भविष्यति ।। भूमिखण्डं नरः श्रुत्वा सर्वपापैः प्रमुच्यते । रोगैर्दुःखैः शत्रुभिश्च विमुक्तः सुखमामुयात् ॥ अन्यत्सर्वं परित्यज्य जपं दानं तथा श्रुतम् । श्रोतव्यं हि प्रयत्नेन पद्माख्यं पापनाशनम् ॥ ४ प्रथमं सृष्टिखण्डं हि भूमिखण्डं द्वितीयकम् । तृतीयं स्वर्गखण्डं च पातालं तु चतुर्थकम् ॥ ४८ पञ्चमं चोत्तरं खण्डं सर्वपापप्रणाशनस् । यः शृणोति नरो भक्त्या पञ्च खण्डान्यनुक्रमात् ॥ ४९ सहस्रगोप्रदानस्य मानत्रो लभते फलम् । महाभाग्येन लभ्यन्ते पश्च खण्डानि भूसुराः ॥ श्रुतानि मोक्षदानि स्युः सत्यं सत्यं न संशयः ॥
४०
४६
५०
३८०
इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने पश्चविंशत्यधिकशततमोऽध्यायः ॥ १२५ ॥ इति श्रीमहामुनिव्यासप्रणीते महापुराणे पाद्मे द्वितीयं भूमिखण्डं समाप्तम् । अध्यायानामादितः समथ्यङ्काः - १८७
आदितः श्लोकानां समथ्यङ्काः – ९०८०
१. ट. ठ. राणं पद्मसंज्ञं च श्रोतव्यं । २ ट. पद्माख्यं । ३ क. स. घ. ङ. च. छ. झ ट ठ ड ढ का धर्माख्या कथ्यते सा तु द्वापरस्य महामते । द्वा । ४ ८. संभ्रमात् ।
Page #387
--------------------------------------------------------------------------
_