________________
२६६ महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डे[*अविज्ञातः प्रकर्तव्यो ब्राह्मणो नैव जानता । यस्यापि ज्ञायते वंशः कुलं त्रिपुरुषं तया ॥ आचारश्च तथा राजस्ताविप्रान्सनिमत्रयेत् ॥ कुलं न ज्ञायते यस्य आचारेण विचारयेत् । श्राद्धे दाने प्रकर्तव्ये विशुद्धो मूर्ख एव हि ॥ २५ अविज्ञातो भवेद्विमो वेदवेदाङ्गपारगः । श्राद्धदानं प्रकर्तव्यं तस्माद्विनं निमन्त्रयेत् ॥ २६ आतिथ्यं तु प्रकर्तव्यमपूर्व नृपसत्तम । अन्यथा कुरुते पापी स याति नरकं ध्रुवम् ॥ २७ तस्माद्विमः प्रकर्तव्यो दाने श्राद्धे च पर्वसु । आदौ परीक्षयेद्विषं श्राद्धे दाने प्रकारयेत् ॥ २८ नाश्नन्ति तस्य वै गेहे पितरो विप्रवर्जिताः । शापं दत्त्वा ततो यान्ति श्राद्धाद्वै विप्रवर्जितात् ॥ महापापी भवेत्सोऽपि ब्रह्महा स च कथ्यते ॥
२९ पत्राचारं परित्यज्य यो वर्तेत नराधिप । महापापी स विज्ञेयः सर्वधर्मबहिष्कृतः॥ ३० ये त्यजन्ति शिवाचारं वैष्णवं भोगदायकम् । निन्दन्ति ब्राह्मणान्धर्मान्विज्ञेयाः पापवर्धनाः॥३१ शिवाचारं परित्यज्य शिवभक्तान्विषन्ति च । हरि निन्दन्ति ये पापा ब्रह्मद्वेषकराः सदा ॥ आचारनिन्दकाश्चैव महापातककृत्तमाः ॥ आचं पूज्यं परं ज्ञानं पुण्यं भागवतं तथा । वैष्णवं हरिवंशं च मात्स्यकं कूर्ममेव च ।। ३३ ये पूजयन्ति पानं च तेषां श्रेयो वदाम्यहम् । प्रत्यक्षं तेन वे देवः पूजितो मधुसूदनः॥ ३४ तस्मात्मपूजयेज्ज्ञानं वैष्णवं विष्णुवल्लभम् । देवस्थाने हि नित्यं वै वैष्णवं पुस्तकं नृप ॥ तस्मिन्प्रपूजिते विप्रपूजितः कमलापतिः ॥ असंपूज्य हरेनिं येऽधीयते लिखन्ति च । अज्ञाय तत्प्रयच्छन्ति शृण्वन्ति धारयन्ति च ॥ ३६ विक्रीणन्ति च लोभेन कुज्ञाननियमेन च । असंस्कृतपदेशे तु यथेष्टं स्थापयन्ति च ॥ ३७ हरेनिं यथाक्षेमं प्रत्यक्षाच प्रकाशयेत् । अधीते च समर्थश्च यः प्रसादं करोति च ॥ ३८ अशुचिश्चाशुचिस्थाने यः प्रवक्ति शृणोति च । इति सर्व समासेने गुरुनिन्दासमं स्मृतम् ॥ ३९ गुरुपूजामकृत्वैव यः शास्त्रं श्रोतुमिच्छति । न करांति च शुश्रूषामाज्ञाभङ्गं च भावयेत् ॥ ४० नाभिनन्दति तद्वाक्यमुत्तरं च प्रयच्छति । गुरुकर्माभिसाध्यं च तदुपेक्षां करोति च ॥ ? गुरुमातमशक्तं वा विदेशे प्रस्थितं तथा । अरिभिः परिभूतं वा यः संत्यजति पापकृत् ॥ पठमानं पुराणं तु तस्य पापं वदाम्यहम् ॥ कुम्भीपाके वसेत्तावद्यावदिन्द्राश्चतुर्दश । पठमानं गुरुं यो हि उपेक्षयति पापधीः ॥ तस्यापि पातकं घोरं चिरं नरकदायकम् । भार्यापुत्रेषु मित्रेषु यश्चावज्ञां करोति च ॥ इत्येतत्पातकं ज्ञेयं गुरुनिन्दासमं महतं ॥
४४ ब्रह्मनः स्वर्णस्तेयी च गोहन्ता गुरुतल्पगः । महापातकिनस्त्वेते योगनाशकपञ्चमाः ।। ४५ क्रोधाद्वेषाद्भयाल्लोभाद्राह्मणस्य विशेषतः । मर्मादिकृन्तको यश्च ब्रह्मनः स प्रकीर्तितः ॥ ४६ ब्रामणं यः समाहूय याचमानमकिंचनम् । पश्चानास्तीति यो यात्स च वै ब्रह्महा स्मृतः ॥४७ यस्तु विद्याभिमानेन निस्तेजयति च द्विजान् । उदासीनान्सभामध्ये ब्रह्महा स प्रकीर्तितः ॥४८ मिथ्यागुणैरथाऽऽत्मानं नयत्युत्कर्षतां बलात् । गुरुं विबोधयेद्यस्तु स च वै ब्रह्महा स्मृतः ॥४९
* एतञ्चिदान्तर्गतः पाठो ड. ढ. पुस्तकस्थः । १. छ. स. द. न ज्ञान नि । २ इ. द. त् । स ब्रह्महा कृतघ्नश्च गों। ३ क. ख. ङ. च. छ. झ. ट. सुरापो । ४. छ.स.ह. द. विरोध ।