SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ७६ षट्सप्ततितमोऽध्यायः] २७९ पद्मपुराणम् । अथ षट्सप्ततितमोऽध्यायः । सुकर्मोवाचसोरितैस्तथा सर्वैः सह स्वर्ग जगाम ह । द्रष्टुं तत्र सहस्राक्षं देववृन्दैः समावृतम् ।। धर्मराज समायान्तं ददर्श सुरराट् तदा । समुत्थाय त्वरायुक्तो ददावर्घमनुत्तमम् ॥ पप्रच्छाऽऽगमनं तस्य कथयस्व ममाग्रतः ।। तदाकर्ण्य महद्वाक्यं देवराजेन भाषितम् । धर्मराजोऽब्रवीन्सर्व ययातेश्चरितं महत् ॥ ३ धर्मराज उवाचश्रूयतां देवदेवेश यस्मादागमनं मम । कथयाम्यहमत्रापि येन चैवाऽऽगतस्तव ॥ ४ नहुषस्याऽऽत्मजेनापि वैष्णवेन महात्मना । कारिता वैष्णवाः सर्वे [*ये वसन्ति महीतले ॥५ वैकुण्ठस्य ममं रूपं मर्त्यलोकस्य वे कृतम् । अमरा मानवा जाता जरारोगैर्विवर्जिताः ॥ ६ पापमेव न कुर्वन्ति असत्यं न वदन्ति ते । कामक्रोधविहीनास्ते लोभमोहविवर्जिताः॥ ७ दानशीला महात्मानः सर्वे धर्मपरायणाः । सर्वकामः समर्चन्ति नारायणमनामयम् ॥ ८ तेन वैष्णवधर्मेण मानवा जगतीतले । निरामया वीतभया सर्वे च स्थिरयौवनाः॥ ९ दूर्वा वटा यथा देव विस्तारं यान्ति भूतले । तथा ते विस्तरं प्राप्ताः पुत्रपौत्रेः प्रपौत्रकैः॥ तेषां पुत्रैश्च पौत्रेश्च वंशावंशान्तरं गताः ॥ एवं वैष्णवधर्मेण जरामृत्युविवर्जितः । मर्त्यलोकः कृतस्नेन नहुपस्याऽऽत्मजेन च ।। पदभ्रष्टोऽस्मि मंजातो व्यापारेण विवर्जितः ॥ एवं ते सर्वमाख्यातमात्मकर्मविनाशनम् । एवं ज्ञात्वा सहस्राक्ष लोकस्यास्य हितं कुरु ॥ १२ एतत्ते सर्वमाख्यातं यथा पृष्टोऽस्मि वे त्वया । एतस्मात्कारणादिन्द्र आगतस्तव संनिधौ ।। १३ इन्द्र उवाचपूर्वमेव मया दूत आगमार्थ महात्मनः । प्रेषितो धर्मराजेन्द्र दूतेनास्यापि भाषितम् ॥ १४ नाहं स्वर्गस्य चैवार्थी नाऽऽगमिप्ये दिवं पुनः । स्वर्गरूपं करिष्यामि सर्व तमिमण्डलम् ।। १५ इत्याचचक्षे भूपालः प्रजापाल्यं करोति च । तस्य धर्मप्रभावन भीतस्तिष्ठामि सर्वतः ॥ १६ धर्मराज उवाचयेन केनाप्युपायेन तमानयस्व भूपतिम् । देवराज महाभाग यदि चेच्छसि मत्मियम् ॥ १७ इत्याकर्ण्य वचस्तस्य धर्मस्यापि सुराधिपः । चिन्तयामास मेधावी सर्वतत्त्वेन पिप्पल ॥ १८ काममाह समाहूयं गन्धर्वाश्च पुरंदरः । [* मकरन्दं रतिं देव आनिनाय महात्मनः ॥ १९ तथा कुरुत वै यूयं यथाऽऽगच्छति भूपतिः । यूयं गच्छन्तु भूलोकं मयाऽऽदिष्टा न संशयः॥२० एवमुक्ता गताः सर्वे यत्र राजा स नाहुषिः । नटरूपेण ते सर्वे कामााः कर्मणा द्विज ॥ २१ * एतचिह्नान्तर्गतः पाठः क. कु. च. छ. झ. ड. द. पुस्तकस्थः । । एतचिहान्तर्गतः पाठोप.म. द.पुस्तकस्थः । क. ख. ङ. च. छ. झ. ढ. सर्वकमैः । ड. सर्वधर्मैः । २ क. स. ङ. च. छ. म ड. ढ. वीतशोकाः । ३ क.. इ. च. छ. झ. ह. सर्वदा । ४ क. ख. घ. इ. च. छ. झ. ट. ठ. ड. द. भूपते। ५ क. ख. ङ. च. छ.... य धर्म गच्छ पु। ६ ड. नररू। ७ इ. कामेन तु समं ययुः । आ । ८ ट. या गायनाः प्रभुम् । आ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy