________________
१७
२७८ महामुनिश्रीव्यासप्रणीत
[ २ भूमिखण्डेविष्णूचारं हि वैकुण्ठे प्रकुर्वन्ति च वैष्णवाः । भूतले तादृशोच्चारं प्रकुर्वन्ति च मानवाः ॥ १२ उभयोर्लोकयोर्भाव एको हि विप्र दृश्यते । जरारोगभयं नास्ति मृत्युहीना नरा यतः ॥ १३ दानभोगप्रभावस्तु अधिको दृश्यते भुवि । पुत्राणां च सुखं पुण्यमधिकं पोत्रजं तथा ॥ १४ स्वान्भोक्ष्यन्ति सुखेनापि मानवा भुवि सत्तमाः। विष्णोः प्रसाददानेन उपदेशेन तस्य च॥१५ सर्वव्याधिविनिर्मुक्ता मानवा वैष्णवास्तथा । स्वर्गलोकतिरस्कारः कृतो राज्ञा महीतले ॥ १६ पञ्चविंशप्रमाणेन वर्षाणां नृपसत्तम । वेदविज्ञा नराः सर्वे ज्ञानध्यानपरायणाः ॥ यवदानपराः सर्वे दयाभावाश्च मानवाः । उपकाररताः सर्वे पुण्या धन्याः शुभा नराः॥ १८ सर्वे धर्मपरा विम विष्णुध्यानपरायणाः । राज्ञा तेनोपदिष्टास्ते संजाता वैष्णवा भुवि ॥ १९
विष्णुरुवाचश्रूयतां नृपशार्दूल चरित्रं तस्य भूपतेः । सर्वधर्मपरो नित्यं विष्णुभक्तश्च नाहुषिः ॥ २० अब्दानां चैव लक्षेकं तस्यापि सुगतं भुवि । नूतनो दृश्यते कायः पञ्चविंशाब्दको यथा ॥ २१ पञ्चविंशात्मको भाति रूपेण वयसा तदा । प्रशस्तः प्रोढिसंपन्नः प्रसादात्तस्य चक्रिणः ॥ २२ मानवा भूमिलोकस्था यमं नेवानुयान्ति ते । रागंदोषविनिर्मुक्ताः कामपाशविवर्जिताः ॥ २३ सुखिता दानपुत्रेश्च सर्वधर्मपरायणाः । विस्तारं ते जनाः सर्वे संतत्याऽपि गता नृप ॥ २४ या दूवो वटाश्चैव विस्तारं यान्ति भूतले । तथा ते मानवाः सर्वे पुत्रपौत्रः प्रविस्तृताः ॥ २५ मृत्युदोषविहीनोस्ते चिरं जीवन्ति ते जनाः । स्थिरकायाश्च सुखिनो जरारोगविवर्जिताः ॥२६ पञ्चविंशाब्दिकाः सर्वे नरा दृश्यन्ति भूतले । सत्याचारपराः सर्वे विष्णुध्यानपरायणाः ।। २७ एवं हि सर्वे मास्ते प्रसादात्तस्य चक्रिणः । संजाता मानवाः सर्वे दानभोगपरायणाः ॥२८ मृतो न श्रूयते लोके सर्वस्मिञ्जगतीतले । शोकं नेव प्रपश्यन्ति दाषं नेव प्रयान्ति ते ॥ २९ स्वर्गलोकस्य यद्रूपं तद्रूपं भृतलस्य च । संजातो विष्णुभक्तास्त प्रसादात्तस्य चक्रिणः ॥ ३० यमदूता विधिभ्रष्टा विष्णुदतेस्तु ताडिताः । रुदमाना गताः सर्वे धर्मराजं परस्परम् ॥ ३? तत्सर्व कथितं दूतश्चेष्टितं भूतले च तैः । अमृत्यु भूतलं जातं दानभोगेन भास्करे ॥ ३२ [*नहुषस्याऽऽत्मजेनापि कृतं देव ययातिना । विष्णुभक्तन पुण्येन स्वर्गरूपं प्रदर्शितम् ॥ ३३ एवमाणितं सर्व धर्मराजेन वै तदा । ] धर्मराजस्तदा तत्र दृतेभ्यः श्रुतविस्तरः ॥ चिन्तयामास सत्यार्थ क्षणेकं नृपचेष्टितम् ॥ इति श्रीमहापुगणे पाद्मे भूमिखण्डे वनोपाग्व्याने ययातिचरिते पन्नसप्ततितमोऽध्यायः ॥ ४५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-७०८८
* एतचिहान्तर्गतः पाठः क. ख. घ. ङ. च. छ.झट. ड. द. पुस्तकस्थः ।
१. विष्णध्यान । २ घ. ट. ठ. ड. 'ते । राजमृत्यम । ३ झ.ट. ड. 'म। गदहीना नराः सर्वे विष्णध्या। ४ क. ख..च. छ. स. द. प्रबलः । ५ क. ख. ड. च. छ. झ. द. गद्वेष । ६ ड. कामायासवि। ७क. ख. ड.च. छ. झ. ड. ढ. पण्यैव । क. ख. च. ड"था कैतवको भोगो विस्तारं याति भू। ९ इ. "नाश्च स्थिरकाया ह्यरोगिणः । धर्माध्यक्षाश्च । १.म. ट... "ता मानवश्रेष्ठ प्र। ११ क. ख. घ. ड. च. छ. झ. ट. ठ. ड. द. अधिकं । १२ क. ख. हु. च. छ. झ. र... सर्वार्थ ।