SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ११४ महामुनिश्रीव्यासप्रणीतं [ २ भूमिखण्डेएवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराद ततः । हर्षेण महताऽऽविष्टस्तेषां स्तोत्रं चकार ह ॥ ५२ इति श्रीमहापुराणे पाद्म भूमिखण्ड वेनोपाख्याने गुरुतार्थकथने नवतितमोऽध्यायः ॥ ९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-७५२३ अथकनवतितमोऽध्यायः । कुञ्जल उवाचब्रह्महत्याऽभिभूतश्च सहस्राक्षा यदा पुरा । गौतमस्य प्रियासङ्गादगम्यागमनात्तथा ॥ सुजातं पातकं तस्य त्यक्तुं देवेश्च ब्राह्मणः । महस्राक्षस्तपस्तंप निरालम्बो निराश्रयः॥ २ तपन्ति देवताः सर्वा ऋषयो यक्षकिंनराः । देवराजस्य पूजार्थमभिषेकं प्रचक्रिरे ॥ देशे मालवके नीत्वा देवराज सुतोत्तमाः । चक्रुः स्नानं महाभागाः कुम्भैरुदकपूरितैः॥ ४ स्नापितुं प्रथमं नीतो वाराणस्यां स्वयं ततः । प्रयागे च सहस्राक्षः सर्वतीर्थे ततः पुनः॥ ५ महात्मना पुष्करेण स्नापितः स्वयमेव च । ब्रह्मादिभिः सुरैः सर्वैर्मुनिवृन्दद्विजोत्तमः॥ ६ नागवृन्दैनगैः सर्वैर्गन्धर्वश्च सकिनरैः । नापिता देवराजस्तु वेदमंत्रः सुसंस्कृतः॥ [ *मुनिभिः सर्वपापघ्नेस्तस्मिन्कालं द्विजोत्तम ] ॥ शुद्ध तस्मिन्सहस्राक्षे महाभागे महामतो । ब्रह्महत्या गता तस्य अगम्यागमनाद्भवा ॥ ८ [ + पापेन तेन घोरेण सायमिन्द्रस्य भूतले ] । सुप्रसन्नः महस्राक्षस्तीर्थेभ्योऽपि वरं ददौ ॥ ९ भवन्तस्तीर्थराजानो भविष्यथ न संशयः । मत्प्रसादात्पवित्राश्च यस्मादहं विमोक्षितः ॥ सुघोरात्किल्बिषादत्र युप्माभिविमलैरहम् ॥ एवं तेभ्यो वरं दत्त्वा मालवाय वरं ददौ । यस्मात्स्वयं त्वयाऽप्येतद्विधृतं मम पातकम् ॥ तस्मात्त्वमनपानेश्च धनधान्यैरलंकृतः ॥ भविष्यसि न संदेहो मत्प्रसादान संशयः । सुदुप्कालविना न्वं तु भविष्यसि न संशयः ।। १२ एवं तस्मै वरं दत्त्वा सहस्राक्षः पुरंदरः । क्षेत्राणि सर्वतीर्थानि देशान्मालवकांस्तथा । [*आखण्डलेन सार्धं ते स्वस्थानं प्रति जग्मिरे ।। सूत उवाचतदामभृति चत्वारः प्रयागः पुष्करस्तथा ] । वाराणसी मर्वतीर्थ प्रापुः स्वस्थानमुत्तमम् ॥ १४ कुञ्जल वाच -- [+ अस्ति पाश्चालदेशे तु विदुरो नाम क्षत्रियः । तेन लोभप्रसङ्गेन ब्राह्मणो निहतः पुरा ।।१५ शिखासूत्रविहीनस्तु तिलकेन विवर्जितः । भिक्षार्थमटते सोऽह्नि ब्रह्मन्नोऽहं समागतः॥ १६ ब्रह्मनाय सुरापाय भिक्षा चान्नं प्रदीयताम् । गृहप्वेवं समस्तेषु भ्रमते याचतं पुरा।। १७ * एतच्चिदान्तर्गतः पाठः क. स्व. घ. ड. च. छ. झ. ट. ड. दृ. पुस्तकस्थः । + एतञ्चिद्वान्तर्गतः पाठः क. ख. घ. ङ. च. छ. झ ट. ठ. ड. द. पुस्तकस्थः । * एतचिहान्तर्गतोऽय पाठः क. ख. ड. च. छ. झ. ड पुस्तकस्थः । + एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. स. ड. पुस्तकस्थः । १क. ख. ड. च. छ.श. द. "मीम्तपोबल: । म" । ड. "मन्त्रः सुशोभनेः । म ।
SR No.010652
Book TitlePadmapurana Part 01
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1893
Total Pages387
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy