________________
९० नवतितमोऽध्यायः ] पद्मपुराणम् । सुहंसा हंसवाहा च हेमवेगा मनोरथा । मुरथा सारुणा वेगा सुषेणा च सुपमिनी ॥ २६ वाहनी सरघा चान्या पुण्या चान्या पुलन्दिका। हिमा मनारथा दिव्या चन्द्रिका वेदसंक्रमा२७ ज्वाला हुताशनी स्वाहा काला चैव कपिञ्जली । स्वधा सुकाला कालिङ्गा गम्भीरा हिमवाहिनी देवद्रवी वीरवाहा लक्षहोमाऽप्यघापहा । पाराशरी वेदगर्भा हेमवेशा सुपुण्ड्रकी ॥ २९ एता नद्यो महापुण्या मूर्तिमत्यो बघापहाः । सर्वाभरणशोभाव्याः कुम्भहस्ताः सुपूजिताः ॥३० प्रयागः पुष्करश्चैव सर्वतीर्थमनोरमः । वाराणसी महापुण्या ब्रह्महत्याव्यपोहिनी ॥ ३१ द्वारावती प्रभासश्च यवन्ती नैमिषस्तथा । दण्डक[*श्व दशारण्यं महेश्वरकलेवरौ ॥ ३२ कालञ्जरो ब्रह्मक्षेत्रं मथुगे नाम वाहकः । माया काची नथाऽन्यानि दिव्यानि विविधानि च ॥ अष्टषष्टिस्तु तीर्थानि नदीनां दश कोटयः । गोदावरीमुग्वाः सर्वाः समायातास्तदाज्ञया ॥ ३४ द्वीपानां तु समस्तानि तीथानि च महान्ति च । [+ पूर्तिलिङ्गधराण्येव सहस्राक्षं सुरेश्वरम्]॥३५ समाजग्मुः समस्तानि तदादेशकराणि च । प्रणेमुर्देवदेवेशं ननशीपाणि सर्वशः ॥ ३६ तैस्तु प्रोक्तो महातीर्थैर्देवराजस्तु सादरम् । कम्मानया समाहना देवराज बदस्व नः ॥ ३७ ब्रूहि नः कारणं सर्व नमस्तुभ्यं मुगधिप । एवमाणितं सर्वं तीर्थानां वचनं तदा।] एवमाकर्ण्य तद्वाक्यं देवराजोऽभ्यभापत ।। कः समर्थों महाभागा ब्रह्महत्यां व्यपाहितुम् । गोवधाग्व्यं महापापं स्त्रीवधाख्यमनुत्तमम् ।। ३९ स्वामिद्रोहात्समुद्भूतं सुरापानाच दारुणम् । हेमस्तेयोद्गतं पापं गुरुनिन्दासमुद्भवम् ।। ४० भ्रूणहत्यां महाघोरां कः समर्थो निवनितुम् । गजद्रोहं महापापं बहुपीडाप्रदायकम् ॥ ४१ मित्रद्रोहं तथा चान्यन्सर्वविश्वामघातकम् । देवभदं तथा चान्यल्लिङ्गभेदं ततः परम् ॥ ४२ वृत्तिच्छेदं च विप्राणां गांप्रचारप्रणाशनम् । अगाग्दाहनं चान्यद्रामदीपनकं परम् ॥ ४३ षोडशेत महापापा अगम्यागमनं तथा । स्वामित्यागात्समुद्भूतं रणस्थानात्पलायनम् ॥ ४४ एतानि नाशयत्को वै [ +ममर्थस्तीर्थसत्तमः । समर्थो भवतां मध्य प्रायश्चित्तं विना ध्रुवम्।।४५ पश्यतां देवतानां च नारदस्य च पश्यतः । ब्रुवन्त सर्वे संचिन्त्य निश्चितं पापनाशनम् ॥ ४६ एवमुक्ते शुभे वाक्ये देवेशेन महात्मना । संमन्त्र्य तीर्थराजेन प्रोचुः शक्रं समागतम् ॥ ४७
तीथान्यूचुः-- श्रूयतामभिधास्यामो देवराज नमोऽस्तु ते । यावन्ति मर्वतीर्थानि सर्वपापहराणि च ॥ ४८ ब्रह्महत्यादिकान्येव त्वयोक्तानि सुरेश्वरम् । महाघोराण पापानि नाशितुं नैव शक्नुमः ॥ ४९ प्रयागः पुष्करश्चैव सर्वतीर्थमनुत्तमम् । वाराणसी महाभाग सर्वपातकनाशिनी ॥ महापातकनाशाय चत्वारोऽमितविक्रमाः ॥ उपपातकनाशाय वयं धात्रा विनिर्मिताः । महापापापपापार्थं सृष्टोऽसौ पुष्करो ध्रुवम् ॥ ५१
३८
---
-
..---.
एतच्चिदान्तर्गतः पाठः क. ख. हु च छ झ. इ. द. पुस्तकस्थः । + एतचिहान्तर्गतः पाटः क. ख. घ. ज. च. छ. स. ट. ठ. ड. द. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. घ. हु. च. छ. . ट. ठ. ड. ढ. पुस्तकस्थः। + एतचिहान्तर्गत: पाठः क ख. घ. इ. च. छ. स. ट. ठ. ड. द. पुस्तकस्थः ।
१ क. ख. ड. छ. झ. ड. द. वेणा भद्रवेणा सु। २ क. स्व. इ. च. छ. इ. ८. हेमा ३ ड. शुद्धा । ४ छ. झ. हेमगी ।