________________
१२८ महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवं सर्वमयो देवि भ्रमत्येको निरञ्जनः । भ्रमता निर्जने येन मूर्तिमन्तो द्विजोत्तमाः॥ १६ चखारो दर्शिताः पुण्या बुद्धिमन्तो महौजसः । पञ्चमः श्वसनश्चैवं पूर्वाणां मित्रमेव च ॥ १७ अयो आत्मा समायातो ज्ञानसाहाय्य एव वा । स तान्दृष्ट्वा महात्मा वै ज्ञानमात्मा समब्रवीत्।। [*ज्ञानं पश्ये अमी पञ्च मन्त्रयन्तः परस्परम]। गच्छ त्वं मम वाक्येन यूयं क इति पृच्छ ह॥१९ शानं वाक्यं परं श्रुत्वा सार्थस्तस्य महात्मनः । तदाहाऽऽत्मानमाराध्यमेतैः किं ते प्रयोजनम् ॥ तत्त्वतो भूहि तत्सर्वं भवाञ्शुद्धो हि सर्वदा ॥
___ आत्मोवाचएते पञ्च महापाज्ञा रूपवन्तो मनस्विनः । गत्वा संदर्शयाम्येतानाभाप्ये ज्ञान श्रूयताम् ॥ २१ भव्यानेतान्प्रवक्ष्यामि पश्चमी गतिमागतान । दूत त्वं गच्छ भो ज्ञान कुशलो दूतकर्मणि ॥ २२
ज्ञानमुवाचत्वमात्मश्रूयतां वाक्यं सत्यं सत्यं वदाम्यहम् । एतेषां संगतिस्तात कार्या नैव त्वया कदा॥२३ [पञ्चानामपि शुद्धात्मन्न कार्या शुभमिच्छता । भवतः संगति मोह इच्छत्येष महामते ॥ २४
['आत्मोवाचएतेषां संगति ज्ञान कस्माद्वारयते भवान । तन्मे त्वं कारणं ब्रूहि याथातथ्यन पण्डित ॥ २५
___ ज्ञानमुवाच]एतेषां सङ्गमात्रात्तु महहुःखं भविष्यति । दुःखमूला हि पश्चैव शोकसंतापकारकाः॥ २६ एवमस्तु महाप्राज्ञ करिष्ये वचनं तव । ज्ञानमाभाप्य स ह्यात्मा ध्यानन मह संगतः॥ २७
कश्यप उवाचततः पश्चैव ते तत्राद्राक्षुरात्मानमेव तम् । बुद्धिमृचः ममाय संगत्याऽऽत्मानमेव हि ॥ २८ दूतत्वं कुरु कल्याणि ह्यस्माकमात्मना सह । पञ्चतत्त्वा महात्मानो विश्वस्य धारकाः शुभाः॥२९ भवन्तं मित्रमिच्छन्ति इत्याभाष्य महामतिम् । गत्वा बुद्ध त्वया कार्य कर्तव्यं सांप्रतं ब्रज ॥ ३० एवमस्तु महाभागाः करिष्ये कार्यमुत्तमम् । एवमाप्य तान्सा वै गता ह्यात्मानमेव तम् ॥ ३१ अहं बुद्धिर्महाभाग भवन्तं समुपागता । दृतत्व महतां पात्तिपां त्वं वचनं शृणु ॥ ३२ भवन्मैत्री समिच्छन्ति ह्येक्षयां पञ्च चाऽऽत्मकाः । कुरु मेत्रं महामाज्ञ जहि ध्यानं सुदरतः॥३३
ज्ञानमुवाचन कर्तव्यस्त्वया चाऽऽत्मन्नतेषां वै समागमः । एषां संसर्गमात्रंण महहुःखं भविष्यति ॥ ३४ मया ज्ञानेन हीनस्त्वं कथं कर्म करिष्यसि । एवमेव न कर्तव्यमतेषां वै समागमः ॥ ३५ गर्भवासो हि भवतो भविष्यत्यन्यथा विभो । ज्ञानेनैव मया हीना ह्यज्ञानं यास्यसि ध्रुवम् ।।३६ एवमुक्त्वा तमात्मानं विरराम महामतिः । ततस्तामागतां बुद्धिमात्मा प्रोवाच निश्चितम् ॥ ३७ ज्ञानध्यानौ महात्मानावात्मना मम शोभनो । तत्र यानं न मे युक्तं तबुद्ध किं करोम्यहम् ।।३८
* क. ख. ग. घ..च.. ज.म.ट. ड..पुस्तकस्थाऽयं पाठः । + क.ख. ग. घ..च.छ.ज. झ. ट. र... पुस्तकस्थोऽयं पाठः । क. ख. ग. घ. च. छ. ज झ. ड. पुस्तकरथोऽयं पाठः ।
क. ख. घ. ड.च. छ. उ. द. व कुर्वाणा मन्त्रमें ।२ च. ज. इ. ढ. 'श्य समीपस्था म। ३ क, ख, ग, घ. स.च. छ. ज. स. ड.. 'म् । एतान्गत्वा ब्रीहि त्वं यू। ४ क. ख. च. छ. झ. त्वे भवता पार्श्व तेषां । ५ क. ख. प. छ.. तेजाद्याः । ६च. मान । ७ क. ख. च. छ.. र्तव्यं त्वया देव वचः शणु । ग ।