________________
७ सप्तमोऽध्यायः ]
पद्मपुराणम् ।
१२९
एवं श्रुत्वा गता बुद्धिस्तेषां पार्श्वे यशस्विनी । समाचष्टे समग्रं तत्कथनं ज्ञानध्यानयोः ॥ ३९ ततस्ते पञ्चकाः सर्वे आत्मानं प्रति जग्मिरे । मैत्रमेव प्रतीच्छामो भवतो नित्यमेव हि ॥ ४० यस्माच्छुद्धोऽसि लोकेश तस्मात्त्वां समुपागताः । स्वयमेव विचार्यैव ह्युत्तरं नः प्रदीयताम् ॥। ४१ आत्मोवाच
यूयं पञ्चैव संप्राप्ता मम मैत्रं समिच्छथ । स्वीयं गुणं प्रभावं च कथयन्तु ममाग्रतः ।। ४२ भूमिरुवाच
सर्वकार्यस्य संस्थानं चर्ममांस समन्वितम् । [*अस्थिमूलदृढत्वं च नखलोमसमन्वितम् ] ॥ Half महाप्राज्ञ कायमध्ये ममैव हि । नासिकागमनो गन्धः स मे भृत्यो महामनाः ॥
आकाश उवाच
अहमाकाशकः प्राप्तो मम काये प्रभावकम् । श्रूयतामभिधास्यामि परब्रह्मस्वरूपिणे । बाह्यान्तरावकाशश्च शून्यस्थाने वसाम्यहम् । ममैव भृत्य श्रवणे श्रवणार्थं प्रतिष्ठितौ ॥ वायुरुवाच
४३
४४
४९
४६
यत्स्त्ररूपेऽथ निःश्वासे करोम्येवं शुभाशुभम् । कर्म काये स्थितं नित्यं स्पर्शाख्यस्तत्रमे गुणः॥ ४७ तेज उवाच -
काये सूर्यस्य वै नित्यं विनियोगं करोम्यहम् । सवाद्याभ्यन्तरं सर्व देव्याद्रव्यं प्रदर्शये ॥ तत्र नेत्रे च भृत्यौ मे द्रव्यलब्धप्रसाधकौ । एवं मयाऽऽत्मव्यापारस्तवाग्रे कथितः परः ।।
आप ऊचु:
शुक्रं मञ्जा तथा लाला पलं त्वक्संधिसंस्थितम् । रुधिरं प्रेषयामो वै कायमध्ये स्थिता वयम् ||५० संपोषयामोऽहर्निशममृतेन कलेवरम् । एवंमयः सुव्यापारः कायपत्तनकेऽर्पितः ॥ अमात्यं रसनां विद्धि रसास्वादकरी पराम् ।।
४८ ४९
५१
नासिकोवाच
५२
सुगन्धेन परां पुष्टिं कायस्यापि करोम्यहम् । दुर्गन्धं तु परित्यज्य कार्य सर्वं प्रदर्शये ॥ बुद्धियुक्ता महाभाग तस्या भावेन भाविता । स्वामिकार्याय कायेऽस्मिन्नहं तिष्ठामि निश्चला || गन्धं मम गुणं विद्धि द्विविधं यत्प्रवर्तितम् ॥
५४
श्रवणे ऊचतु:
कार्याकार्यादिकं शब्द लोकैरुक्तं शुभाशुभम् । शृणुयाव सुकायस्थों सत्यासत्यं प्रियाप्रियम् ॥ ५५ शब्दो हि मे गुणः प्रोक्तो मम व्यापार एव हि । योजयामि न संदेहो यदा बुद्धिः प्रपूरयेत् ५६ त्वगुवाच
पञ्चरूपात्मको वायुः शरीरेऽस्मिन्व्यवस्थितः । सवाद्याभ्यन्तरां चेष्टां तेषां जानामि निश्चितम् ५७ शीतोष्णमातपं वर्ष वायोः स्फुरणमेव च । सर्व जानामि संस्पर्शादङ्गश्लेषादिकं नृणाम् ॥ ५८ स्पर्श एव गुणो मह्यमेतत्सत्यं वदाम्यहम् । एवं हि ते समाख्याती ह्यात्मव्यापार एव हि ॥ ५९
*क. ख. ग. ड. च. छ. . ड ढ पुस्तकस्थोऽयं पाठः ।
१ क. ख. ङ. च. छ. झ. ड ड च पञ्चरूपेण तिष्ठामि क २ क ख ग घ ङ. छ. झ. ट. ड. उ. म् । चर्मकार्य स्थितोऽमात्यं शृणुध्वाऽऽत्मन्गुणं हि मे । ते । ३ क. ख. च. छ. झ. दुष्टादुष्टं । ४क. ख. ग. घ. ङ. च. छ. ज. छ. ट. ड ढ नेत्रावमात्या मे मम राज्य' । ५ च सर्व ।
१७