________________
७ सप्तमोऽध्यायः ] पद्मपुराणम् ।
१२७ नास्ति कस्य हि केनापि तत्सर्वं श्रूयतां प्रिये । दक्षस्यापि सुता यूयं सुन्दर्यश्चैव मामकाः ॥२५ भवतीनामहं भो भरकः पूरकः शुभे । पोषक: पालकश्चैव रक्षकोऽस्मि वरानने ॥ २६ कस्माद्वैरं कृतं क्रूरैरसुरैरजितात्मभिः । तव पुत्रा महाभागे सत्यधर्मविवर्जिताः ॥ २७ तेन दोषेण ते सर्वे तव दोषेण वै शुभे । निहता वासुदेवेन देवैश्च सुनिपातिताः ॥ २८ तस्माच्छोको न कर्तव्यः सत्यमोक्षविनाशनः । शोको हि नाशयेत्पुण्यं क्षयात्पुण्यस्य नश्यति २९ तस्माच्छोकं परित्यज्य विघ्नरूपं वरानने । आत्मदोषप्रभावेन दानवा मरणं गताः॥ ३० देवा निमित्तभूताश्च नाशिताः स्वेन कर्मणा । एवं ज्ञात्वा महाभागे समागच्छ सुखं प्रति ॥ ३१ एवमुक्त्वा महायोगी तां प्रियां दुःखभागिनीम् । विषादाच निवृत्तोऽसौ विरराम महामतिः॥३२
इति श्रीमहापुराणे पाझे भूमिखण्डे दिनिविलापो नाम पष्ठोऽध्यायः ॥ ६ ॥
आदितः श्लोकानां समश्यङ्काः-३५०३
अथ मप्तमोऽध्यायः ।
दितिरुवाचसत्यमुक्तं त्वया नाथ मर्वमेव न संशयः । भर्तृम्नेहं परिन्यज्य गता सापत्नजं द्विज ॥ अभिमानेन दुःखेन मानभङ्गेन सत्तम । महादुःखेन संतप्ता करिष्ये प्राणमोचनम् ॥ २
कश्यप उवाचश्रूयतामभिधास्यामि यथा शान्तिभविष्यति । न कः कस्य भवेन्पुत्रो न माता न पिता शुभे ॥३ न भ्राता बान्धवाः कस्य न च स्वजनवान्धवाः । एवं संसारसंवन्धो मायामोहसमन्वितः ॥ ४ स्वयमेव पिता देवि स्वयं माताऽथ वान्धवाः । स्वयं स्वजनवर्गश्च स्वयं संवः सनातनः॥ ५ आचारेण नरो देवि सुग्वित्वमुपजायते । अनाचारण पापेन नाशं यानि तथा ध्रुवम् ॥ ६ कृरयोनि प्रयात्येवं नगे देवि न संशयः । कर्मणा सत्यहीनन महापापेन मोहितः ॥ ७ रिपुत्वं वर्तते मर्त्यः प्राणिनां निन्यसंस्थितः । मन्यन वर्तते मन्यो यदा लोके पिये शुभे॥ तदा तस्य भवन्त्येवं मित्राः सर्वत्र भाविनि ॥ कृषिकारो यदा देवि क्षेत्रे बीनं सुमंस्थिनः । यादृशं तु वपत्येव नादृशं फलमश्नुते ।। तथा तव च पुत्रश्च माधुभिः स्पधितं सह। कर्मणस्तस्य तस्मात्त्वं फलं भुव सुसंस्थितम् ॥१० तव पुत्रा महाभागे तपःशान्तिविवर्जिताः । तेन पापेन ते सर्वे पतिता वे महत्पदात ॥ ११ एवं ज्ञात्वा शमं गच्छ मुश्च दुःसं सुखं तेथा । कस्य पुत्राश्च मित्राणि कस्य स्वजनवान्धवाः ॥ आत्मकर्मानुसारेण फलं भुञ्जन्ति जन्तवः ॥ परार्थे चिन्तनं देवि तत्वज्ञानेन पण्डिताः । न कुर्वन्ति महात्मानो व्यर्थमवं न संशयः॥ १३ पञ्चभूतात्मकं कायं केवलं संधिजर्जरम् । आत्मामित्रं कृतं तेन सर्व देवि निशामय ॥ १४ आत्मा नाम महापुण्यः सर्वगः सर्वदर्शकः । सर्वसिद्धिस्तु सर्वात्मा सात्त्विकः सर्वसिद्धिदः॥१५
१ क. ख. च. छ. झ. 'पि संबन्धों देवि श्रृयताम् । दं। २ क. ख. च. छ. स. 'त्यसौख्यवि । ३ क. ख. च. छ. झ. रिपुरूपं । ४ क. ख. च. छ. स. विवादा'। ५ क. ख. च. छ. स. धर्मः । ६ क. ख. च. छ. झ. भामिनि । ७क.
ख.च.छ. झ, तत्प्राप्त । ८ क.ख. च.च. छ.गे सत्यशा । ९क. ख.ग. च, च. छ. ट. व्रज।