________________
आदिखण्डे ३ तृतीयोऽध्यायः ] पद्मपुराणम् । स्पर्शमात्रस्तु वै वायू रूपमा समावृणोत् । ज्योतिश्चापि विकुर्वाणं रसमा संसर्ग ह॥ ११ संभवन्ति ततोऽम्भांसि रसमात्राणि तानि तु । रसमात्राणि चाम्भांसि रूपमा समावृणोत् ।।१४ विकुर्वाणानि चाम्भांसि गन्धमात्रं ससंजिरे । तस्माज्जाता मही चेयं सर्वभूतगुणाधिका ॥ १५ सजायातो यतस्तस्मात्तस्य गन्धो गुणो मतः । तस्मिस्तस्मिंस्तु तन्मात्रात्तेन तन्मात्रता स्मृता १६ तन्मात्राण्यविशेषाणि विशेषाः क्रमशोऽपराः । भूततन्मात्रसर्गोऽयमहंकारात्तु तामसात् ॥ १७ कीर्तितस्तु समासेन मुनिवर्यास्तपोधनाः । तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ॥ १८ एकादशं मनश्चात्र कीर्तितं तत्त्वचिन्तकैः । ज्ञानेन्द्रियाणि पश्चात्र पश्च कर्मेन्द्रियाणि च ॥ १९ तानि वक्ष्यामि नेपां च कर्माणि कुलपावनाः। श्रवणं त्वक्कभुजिहा नासिका चैव पञ्चमी॥२० शब्दादिज्ञानमिदव्यर्थ बुद्धियुक्तानि पञ्च वै । पायूपस्थं हस्तपादौ कीर्तिता वाक्क पञ्चमी ॥२१ विसर्गानन्दमिद्भिश्च गन्युक्ती कर्म तत्स्मृतम् । आकाशवायुतेजांसि सलिलं पृथिवी तथा ॥ २२ शब्दादिभिर्गुणैविप्राः संयुक्ता उत्तरोत्तरः । नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना ॥ २३ नाशक्नुवन्प्रजाः स्रष्टुमसमागत्य कृत्स्नशः । समेत्यान्योन्यसंयोगं परस्परमथाऽऽश्रयात् ॥ २४ एकसंघाः सलक्षाश्च संप्राप्यैक्यमशेषतः । पुरुपाधिष्ठितत्वाच्च प्रधानानुग्रहेण च ॥ २५ महदादयो विशेषान्तादण्डमुत्पादयन्ति ते । तत्क्रमेण विवृद्धं तु जलवुदबुदवत्सलम् ॥ २६ भूतेभ्योऽण्डं महाप्राज्ञा वृद्धं नदुदकेशयम् । प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानमनुत्तमम् ॥ २७ तत्राव्यक्तस्वरूपोऽसौ विष्णुर्विश्वेश्वरः प्रभुः । ब्रह्मरूपं समास्थाय स्वयमेव व्यवस्थितः ॥ २८ खेदजाण्डमभृत्तस्य जरायुश्च महीधराः । गर्भोदकं समुद्राश्च तस्याभन्महदात्मनः ॥ साद्रिद्वीपसमुद्राश्च सज्योनिर्लोकसंग्रहः । तस्मिन्नण्डेऽभवन्सर्व सदेवासुरमानुपम् ।। अनादिनिधनस्यैव विष्णा भेः समुत्थितम् । यत्पद्म तमिमण्डमभूच्छीकेशवेच्छया ॥ रजोगुणधरो देवः स्वयमेव हरिः परः ॥ ब्रह्मरूपं समास्थाय जगत्स्रष्टुं प्रवर्तते ॥ सृष्टिं च यात्यनुयुगं यावन्कल्पविकल्पना । नारसिंहादिरूपेण रुद्ररूपेण संहरेत् ॥ स ब्रह्मरूपं विस जन्महात्मा जगन्समस्तं परिपातुमिच्छन् । रामादिरूपं स तु गृह्य पानि बभूव रुद्रो जगदेवदत्तुम् ॥
इति श्रीमहापुगणे पान आदिखण्डे द्वितीयोऽध्यायः ॥ २ ॥
आदिनःश्लोकानां समष्ट्यङ्काः-६४
अथ नृतीयोऽध्यायः ।
ऋपय ऊचुःनदीनां पर्वनानां च नामधेयानि सर्वशः । तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ॥ १ प्रयाणं च प्रमाणज्ञ पृथिव्याः किल सर्वतः । निखिलेन समाचक्ष्व काननानि च सत्तम ॥ २
सूत उवाचपोमानि महामाज्ञा महाभूतानि संग्रहात् । जगनीस्थानि सर्वाणि समान्याहुर्मनीषिणः ॥ ३
१ समावृणोत्। । क. सर्ज वै। त। ३ इ. ढ. मी ॥ २० ॥ मादि । ४ क. मिध्यं च बु। ५ क. 'या ॥२॥
संसादि । ६ क. तत्कमेण ।
क. 'कन्धविकन्धना ।