________________
अष्टादशोऽध्यायः ]
परपुराणम् । डीसंगमे स्नात्वा भक्तिभावानुरञ्जितः। मूर्तिको शिरसि स्थाप्य अवगाय च वै जलम् ॥ होदकसंमिश्र मुच्यते सर्वकिल्विषः ॥ क्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ ४५
सुवर्णतिलके स्नात्वा दत्वा च काञ्चनम् । काञ्चनेन विमानेन रुद्रलोके महीयते ॥ ४६
स्वर्गच्युतः कालाद्राजा भवति वीर्यवान् । ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु संगमम् ॥ ४७ कोक्ये विश्रुतं दिव्यं तत्र संनिहितः शिवः । तत्र स्नात्वा नरो राजन्गाणपत्यमवाप्नुयात्।।४८ सन्दतीर्थ ततो गच्छेत्सर्वपापप्रणाशनम् । आ जन्मनः कृतं पापं स्नानमात्रायपोहति ॥ ४९ जागिरसं ततो गच्छेत्स्नानं तत्र समाचरेत् । गोसहस्रफलं तस्य रुद्रलोके महीयते ॥ ५० गलतीर्थ ततो गच्छेत्सर्वपापप्रणाशनम् । तत्र गत्वा तु राजेन्द्र स्नानं तत्र समाचरेत् ॥ सजन्मकृतैः पापैर्मुच्यते नात्र संशयः ॥ टेश्वरं ततो गच्छेत्सर्वतीर्थमनुत्तमम् । तत्र स्नात्वा नरो राजन्गोसहस्रफलं लभेत् ॥ ५२ संगमेश्वरं ततो गच्छेत्सर्वपापहरं परम् । तत्र स्नात्वा नरो राजल्लभते नात्र संशयः ॥ ५१ बद्रतीर्थ समासाद्य दानं दद्यात्तु यो नरः । तस्य तीर्थप्रभावेण सर्व कोटिगुणं भवेत् ॥ ५४ अथ नारी भवेत्काली तत्र स्नानं समाचरेत् । गौरीतुल्या भवेत्सा तु रुद्रपत्नी न संशयः ॥५५ भङ्गारेश्वरं ततो गच्छेत्स्नानं नत्र समाचरेत् । स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥ ५६ भङ्गारकचतुर्थ्यां तु स्नानं तत्र समाचरेत् । अक्षयं मोदते कार्ल मुरारिकृतशासनः ॥ ५७ अयोनिसंगमे स्नात्वा न पश्येद्योनिमन्दिरम् । पाण्डवेश्वरकं गत्वा स्नानं तत्र समाचरेत् ॥ "अक्षयं मोदते कालमवध्यस्तु सुरासुरैः॥ विष्णुलोकं ततो गत्वा क्रीडाभोगसमन्वितः। तत्र भुक्त्वा महाभोगान्म] राजाऽभिजायते ॥५९ फैम्बोतिकेश्वरं गच्छेत्स्नानं तत्र समाचरेत् । उत्तरायणे संप्राप्ते यदिच्छेत्तस्य तद्भवेत् ॥ ६० चन्द्रभागां ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ ६१ ततो गच्छेत्तु राजेन्द्र तीर्थ शक्रस्य विश्रुतम् । पूजितं देवराजेन देवैरपि नमस्कृतम् ॥ ६२ तत्र स्नात्वा नरो राजन्दानं दत्त्वा च काञ्चनम् । अथवा नीलवर्णाभं वृषभं यः समुत्सृजेत् ॥६१ वृषभस्य तु रोमाणि तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि नरो हरपुरे वसेत् ॥ ६४ ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् । अश्वानां श्वेतवर्णानां सहस्रेषु नराधिप ॥ स्वामी भवति मर्येषु तस्य तीर्थप्रभावतः ॥ ततो गच्छेत राजेन्द्र ब्रह्मावर्तमनुत्तमम् । तत्र स्नात्वा नरो राजस्तर्पयेत्पितृदेवताः ॥ ६६ उपोष्य रजनीमेको पिण्डं दत्त्वा यथाविधि । कन्यागते यथाऽऽदित्ये अक्षयं संचितं भवेत् ॥६७ ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन्कपिलां यः प्रयच्छति ॥ ६८ संपूर्णा पृथिवीं दत्त्वा यत्फलं तदवाप्नुयात् । नर्मदेश्वरं परं तीर्थ न भूतं न भविष्यति ।। ६९ सत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् । तत्र सर्वगतो राजा पृथिव्यामभिजायते ॥ ७० सर्वलक्षणसंपूर्णः सर्वव्याधिविवर्जितः । नार्मदीयोत्तरे कूले तीर्थ परमशोभनम् ॥ ७१ नादिन्यायतनं रम्यमीश्वरेण तु भावितम् । तत्र स्नात्वा तु राजेन्द्र दानं दत्त्वा च शक्तितः।। ७२
-
१ख. प्र. शक्तिका । २८. वाटेश्वरं । ३८. 'लं मुचिरं कृ। ४ ट. कम्बोजिकेश्वरं ।