________________
महामुनिश्रीव्यासप्रणीतं
[१ आदिखण्डेसर्वकामेन संपूर्णो राजा भवति पाण्डव । मृतो रुद्रत्वमामोति न चेह जायते पुनः ॥ १॥ स्वर्ग गत्वा ततो राज्यं कृत्वाऽऽगत्य ततो दिवम् । महादेवं ततोपास्य त्रयोदश्यां हि मानवः ॥११ स्नातमात्रो नरस्तत्र सर्वयज्ञफलं लभेत् । ततो गच्छेत राजेन्द्र तीर्थ परमशोभनम् ॥ १५ नराणां पापनाशाय अगस्त्येश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्मुच्यते ब्रह्महत्यया ॥ १६ कार्तिकस्य तु मासस्य कृष्णपक्षचतुर्दशीम् । घृतेन स्नापयेदेवं समाधिस्थो जितेन्द्रियः॥ १७ एकविंशकुलोपेतो न मुच्येदेश्वरात्पदात् । यानं चोपानही छत्रं दद्याच घृतकाञ्चनम् ॥ भोजनं चैव विमाणां सर्वे कोटिगुणं भवेत् ॥ ततो गच्छेत राजेन्द्र रविस्तवमनुत्तमम् । तत्र स्नात्वा नरो राजसिंहासनगतिर्भवेत् ॥ १९ नर्मदादक्षिणे कूले तीर्थ शक्रस्य विश्रुतम् । उपोष्य रजनीमेका स्वानं तत्र समाचरेत् ॥ २० स्वानं कृत्वा यथान्यायमर्चयेत्तु जनार्दनम् । गोसहस्रफलं तस्य विष्णुलोकं स गच्छति ॥ २१ ऋषितीर्थ ततो गच्छेत्सर्वपापहरं नृणाम् । स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ २१ नारदस्य च तत्रैव तीर्थ परमशोभनम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ २३ देवतीर्थ ततो गच्छेद्ब्रह्मणा निर्मितं पुरा । तत्र स्नात्वा नरो राजन्ब्रह्मलोके महीयते ॥ २४ अमरकण्टक ततो गच्छेदमरस्थापितं पुरा । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ २ ततो गच्छेत राजेन्द्र वामनेश्वरमुत्तमम् । तत्र चाऽऽयतनं दृष्ट्वा मुच्यते ब्रह्महत्यया ॥ २६ ऋषितीर्थ ततो गच्छेत्त्वीशानेशं पुमान्धुवम् । वटेश्वरं ततो दृष्ट्वा पर्याप्तं जन्मनः फलम् ॥ २७ भीमेश्वरं ततो गच्छेत्सर्वव्याधिविनाशनम् । स्नातमात्रो नरो राजन्मर्वदुःखात्ममुच्यते ॥ २८ ततो गच्छेत राजेन्द्र वारणेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन्सर्वदुःखात्प्रमुच्यते ॥ २९ सोमतीर्थ ततो गच्छेत्पश्येत चन्द्रमुत्तमम् । तत्र स्नात्वा नरो राजन्भक्त्या परमया युनः ॥ ३० तत्क्षणादिव्यदेहस्थः शिववन्मोदते चिरम् । षष्टिवर्षसहस्राणि शिवलोके महीयते ॥ ३१ ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् । अहोरात्रांपवासेन त्रिरात्रफलमाप्नुयात् ॥ तस्मिंस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति । यावन्ति तस्य रोमाणि तत्मसूतकुलस्य च ॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ यस्तु प्राणपरित्यागं तत्र कुर्यानराधिप । अक्षयं मांदत कालं यावच्चन्द्रदिवाकरौ ॥ ३४ नर्मदातटमाश्रित्य तिष्ठन्ति ये तु मानवाः । ते मृताः स्वर्गमायान्ति तथा सुकृतिनो यथा ॥ ३५ सुरभिकेश्वरं गच्छेन्नारकं कोटिकेश्वरम् । गङ्गावतरण तत्र दिने पुण्यो न संशयः ॥ ३६ नन्दितीर्थ ततो गच्छेत्स्नानं तत्र समाचरेत् । तुष्यते तस्य नन्दीशः सोमलांके महीयते ॥ ३७ ततो दीपेश्वरं गच्छेव्यासतीर्थ तपोवनम् । निवर्तिता पुरा तत्र व्यासभीता महानदी ॥ हुकारिता तु व्यासेन दक्षिणेन ततो गता ॥ प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । व्यासस्तत्र भवेत्मीतो वाञ्छितं लभते फलम् ॥३९ सूत्रेण वेष्टयेद्यस्तु दीसं देवं सवेदिकम् । क्रीडते अक्षयं कालं यथा रुद्रस्तथैव सः ॥ ४० ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् । संगमे तु नरः स्नात्वा मुच्यते सर्वपातकैः ॥ ४१ एरण्डी त्रिषु लोकेषु विख्याता पापनाशिनी । अथवाऽऽश्वयुजे मासि शुक्लपक्षस्य चाष्टमी।। ४२ शुचिर्भूत्वा नरः स्नात्वा सोपवासपरायणः । ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता ॥ ४३