________________
महामुनिश्रीव्यासप्रणीतं
[ आदिखण्डेनृलोके देवलोकस्य तीर्थ त्रैलोक्यविश्रुतम् । पुष्कर तीर्थमासाद्य देवदेवसमो भवेत् ॥ २० दश कोटिसहस्राणि तीर्थानां वै महीपते । सांनिध्यं पुष्करे येषां त्रिसंध्यं सूर्यवंशज॥ २१ आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः । गन्धर्वाप्सरसश्चैव तत्र संनिहिताः प्रभो ॥ २२ यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा । दिव्ययोगा महाराज पुण्येन महता द्विजाः ॥ २३ मनसाऽप्यभिकामस्य पुष्कराणि मनीषिणः । पुनन्ति सर्वपापानि नाकपृष्ठं म पूज्यते ॥ २४ अस्मिस्तीर्थे महाभाग नित्यमेव पितामहः । उवास परमप्रीतो देवदानवसमतः ॥ २५ पुष्करेषु महाभाग देवाः सर्षिपुरोगमाः । सिद्धिं परमिकां प्राप्ताः पुण्येन महताऽन्विताः ॥ २६ तत्राभिषेकं यः कुर्यापितृदेवार्चने रतः। अश्वमेधादशगुणं प्रवदन्ति मनीषिणः ॥ २७ अप्येकं भोजयद्विपं पुष्करारण्यमाश्रितः । तेनाऽऽमोत्यजिताल्लोकान्ब्रह्मणः सदने स्थितान् २८ सायं प्रातः स्मरेद्यस्तु पुष्कराणि कृताञ्जलिः । उपस्पृष्टं भवेत्तेन सर्वतीर्थेषु पार्थिव ॥ २० जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषस्य वा । पुष्करे गतमात्रस्य सर्वमेव प्रणश्यति ॥ ३० यथा सुराणां सर्वेषामादिस्तु मधुसूदनः । तथैव पुष्करं राजंस्तीर्थानामादिरुच्यते ॥ ३॥ उष्ट्वा द्वादश वर्षाणि पुष्करे नियनः शुचिः । क्रतून्सर्वानवामोति ब्रह्मलोकं च गच्छति ॥ ३. यस्तु वर्षशतं पूर्णमग्निहोत्रमुपाचरेत् । कार्तिकी वा वसेदेकां पुष्करे सममेव तत् ॥ ३. दुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः । दुष्करं पुष्कर दानं वस्तुं चैत्र सुदुष्करम् ॥ ३४ त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च। पुष्कराण्यादितीर्थानि न विग्रस्तत्र कारणम् ॥३. उष्ट्वा द्वादश वर्षाणि नियनो नियनाशनः । स मुक्तः सर्वपापेभ्यः सर्वक्रतुफलं लभेत् ॥ ३६ इति श्रीमहापुराणे पाद्म आदिखण्डे पुष्करनाथमाहात्म्यवर्णन नामकादशोऽध्यायः ॥ १५ ॥
आदितः श्लोकानां समष्टयङ्काः-४००
अथ द्वादशोऽध्याय ।
वसिष्ठ उवाचप्रदक्षिणमुपावृत्तो जम्बृमार्ग समाविशत् । जम्बुमार्ग समाविश्य पितृदेवपिपूजितम् । अश्वमेधमवानोति विष्णुलोकं च गच्छति ।। तत्रोप्य रजनीः पञ्च षष्ठे कालंऽश्नुवन्नरः । न दुर्गतिमवाप्नोति सिद्धिं चाऽऽग्नात्यनत्तमाम ॥: जम्बूमार्गादुपारत्तो गच्छेत्सुण्डलिकाश्रमम् । न दुर्गतिमवाप्नोति स्वर्गलोके च पूज्यत ।। ३ अगस्त्याश्रममासाद्य पितृदेवार्चने रतः । त्रिरात्रांपोषिता राजन्नग्निष्टोमफलं लभेत् ॥ शाकवृत्तिः फलैर्वाऽपि कोमारं विन्दते परम् । कन्याश्रमं समासाद्य श्रीपुष्टं लोकपूजितम् ।। ५ धर्मारण्यं हि तत्पुण्यमाद्यं च पार्थिवर्षभ । यत्र प्रविष्टमात्रा व पापेभ्यो विप्रमुच्यते ॥ ६ अर्चयित्वा पितृन्देवानियती नियताशनः । सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ प्रदक्षिणं ततः कृता ययातिपतनं व्रजेत् । हयमेधस्य यज्ञस्य फलं प्रामाति तत्र वे ॥ महाकालं ततो गच्छेनियतो नियताशनः । कोटितीर्थमुपस्पृश्य हयमेधफलं लभेत् ॥
१ झ. षष्टकालक्ष्मिवान। ट. षष्टिकालं क्षमा नरः । २ झ. 'च्छेत्तन्दुलि । ट. 'च्छेदुद्दालका । ख. अ. 'च्छेत्तुण्ड. लिका । ३ ख. अ. श्रीजुष्टं।