________________
त्रयोदशोऽध्यायः ] पमपुराणम् । की गच्छेत धर्मज्ञः स्थानं तीर्थमुमापतेः । नाना भद्रवट नाम त्रिषु लोकेषु विभुतम् ॥
माभिगम्य बीशानं गोसहस्रफलं लभेत् । महादेवप्रसादाच गाणपत्यमवामुयात् ॥ सामसपत्नं तु श्रिया युक्तं नरोत्तम । नर्मदा तु समासाद्य नदीं त्रैलोक्यविश्रुताम् ॥ वयित्वा पिन्तृदेवानग्निष्टोमफलं लभेत् ॥
इति श्रीमहापुराणे पाद्म आदिखण्डे द्वादशोऽध्यायः ॥ १२ ॥
आदितः श्लोकानां समष्ट्यङ्काः-४१२
अथ त्रयोदशोऽध्यायः ।
युधिष्ठिर उवाचवसिष्ठेन दिलीपाय कथितं तीर्थमुत्तमम् । नर्मदेति च विख्यातं पापपर्वतदारणम् ॥ १ भूयश्च श्रोतुमिच्छामि तन्मे कथय नारद । नर्मदायाश्च माहात्म्यं वसिष्ठोक्तं द्विजोत्तम ॥ २ कथमेपा महापुण्या नदी सर्वत्र विश्रुता । नर्मदा नाम विख्याता तन्मम ब्रूहि नारद ॥ ३
नारद उवाचनर्मदा सरितां श्रेष्ठा सर्वपापप्रणाशिनी । ताग्येन्मर्वभूतानि स्थावराणि चराणि च ॥ ४ नर्मदायास्तु माहात्म्यं वमिष्टोक्तं मया श्रुतम् । नदेवद्धि महाराज सर्व हि कथयामि ते ॥ ५ पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ ६ त्रिभिः मारस्वतं तोयं मप्ताहेन नु यामुनम् । सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ कलिङ्गदेशे पश्चार्थे पर्वतेऽमरकण्टके । पुण्या च त्रिषु लोकेषु रमणीया मनोरमा । सदेवासुरगन्धर्वा ऋपयश्च तपोधनाः । तपस्तप्त्वा महाराज मिद्धिं च परमां गताः॥ ९ तत्र स्नात्वा महाराज नियमस्थो जितेन्द्रियः । उपोप्य रजनीमेकां कुलानां तारयेच्छतम् ॥ १० जनेश्वरे नरः स्नात्वा पिण्डं दत्त्वा यथाविधि । पितरस्तस्य तृप्यन्ति यावदाभूतमप्लवम् ॥ ११ पर्वतस्य समन्तातु रुद्रकोटिः प्रतिष्ठिना । म्नानं यः कुरुने नत्र गन्धमाल्यानुलेपनम् ॥ १२ मीतस्तस्य भवेत्सर्वो रुद्रकोटिन संशयः । पर्वते पश्चिमस्यान्ते स्वयं देवो महेश्वरः ॥ १३ तत्र स्नात्वा शुचिर्भवा ब्रह्मचारी जिंतन्द्रियः । पितृकार्य तु कुर्वीत विधिदृष्टेन कर्मणा ॥ १४ तिलोदकेन तत्रैव तर्पयेपितृदेवताः । आमप्तमं कुलं तस्य स्वर्ग तिष्ठति पाण्डव ॥ षष्टिवर्षसहस्राणि स्वर्गलोक महीयते । अप्सरांगणसंकीर्णो दिव्यस्त्रीपरिवारितः ॥ दिव्यगन्धानुलिप्तश्च दिव्यालङ्कारभूषितः । ततः स्वर्गा-परिभ्रष्टो जायते विपुले कुले । धनवान्दानशीलश्च धार्मिकश्चैव जायते ॥ पुनः स्मरति तत्तीर्थ गमनं तत्र कुर्वने । तारयित्वा कुलान्मप्त रुद्रलोकं म गच्छति ॥ योजनानां शतं मागं श्रूयते सरितोत्तमा । विस्तारेण तु राजेन्द्र योजनद्वगमन्तरम् ॥ १९ षष्टिस्तीर्थसहस्राणि षष्टिः कोट्यस्तथैव च । पर्वतस्य ममन्तात्तु तिष्ठन्त्यमरकण्टके ।। ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः । सर्वहिंमानिवृत्तश्च मर्वभूतहिते रतः ॥ एवं सर्वममाचारः क्षेत्रपालान्परिव्रजेत् । तस्य पुण्यफलं राजशृणुप्वावहितो हि मे ॥ २२
१ ख. अ. 'कामः सफल थि।२ ख. ञ, कलश रु ।
१५