________________
[ आदिखण्डे
महामुनिश्रीव्यासप्रणीतंशतं वर्षसहस्राणां स्वर्गे मोदेत पाण्डव । अप्सरोगणसंकीर्णे दिव्यस्त्रीपरिवारिते ॥ २३ दिव्यगन्धानुलिप्तश्च दिव्यालंकारभूषितः । क्रीडते देवलोके तु दैवतैः सह मोदते ॥ २१ ततः स्वर्गात्परिभ्रष्टो राजा भवति वीर्यवान् । गृहं च लभतेऽसौ वै नानात्नविभूषितम् ॥ २५ स्तम्भैर्मणिमयैर्दिव्यैर्ववैडूर्यभूषितैः । आलेखसहितं दिव्यं दासीदाससमन्वितम् ॥ २६ मत्तमातङ्गशब्दैश्च हयानां हेषितेन च । क्षुभ्यते तस्य तवारमिन्द्रस्य भवनं यथा ॥ २७ राजराजेश्वरः श्रीमान्सर्वस्वीजनवल्लभः ॥ तस्मिन्गृह उषित्वा तु क्रीडाभोगसमन्वितः ॥ जीवेद्वर्षशतं साग्रं सर्वरोगविवर्जितः ॥ एवं भोगो भवेत्तस्य यो मृतोऽमरकण्टके । अग्निप्रवेशेऽथ जले तथा चैव अनाशने ॥ २० अनिवर्तिका गतिस्तस्य पर्वतस्याम्बरे यथा । पतनं पतते यस्तु मान (वो) मानवाधिप ॥ ३: कन्यास्त्रीणि सहस्राणि एकेकस्यापि चापरे । तिष्ठन्ति भवने तस्य प्रेषणं प्रार्थयन्ति च ॥ ३॥ दिव्यभोगसमुत्पन्नः क्रीडते कालमक्षयम् । पृथिव्यामासमुद्रायामीदृशो नैव जायते ॥ ३॥ ईशोऽयं नरश्रेष्ठ पर्वते सुरकण्टके । कोटितीर्थ तु विज्ञेयं पर्वतस्य तु पश्चिमे ॥ रुद्रो जालेश्वरो नाम त्रिषु लोकेषु विश्रुतः । तस्य पिण्डमदानेन संध्योपासनकर्मणा ॥ ३४ पितरो दश वर्षाणि तर्पितास्तु भवन्ति ते । दक्षिणे नर्मदायास्तु कपिलाख्या महानदी॥ ३० सरलार्जुनसंछन्ना नातिदूरे व्यवस्थिता । अस्ति पुण्या महाभागा त्रिषु लोकेषु विश्रुता ॥ ३६ तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर । पुराणे श्रूयते राजन्सर्व कोटिगुणं भवेत् ॥ ३७ तस्यास्तीरे तु ये वृक्षाः पतिताः कालपर्ययात् । नर्मदातोयसंयुक्तास्तेऽपि यान्ति परां गतिम् ॥ ३८ द्वितीया तु महाभागा विशल्यकरणा शुभा। तत्र तीरे नरः स्नात्वा विशल्यो भवति क्षणात् ॥ ३९ तत्र देवगणाः सर्वे सकिनरमहोरगाः। यक्षराक्षसगन्धर्वा ऋषयश्च तपोधनाः॥ ४० सर्वे समागतास्तत्र पर्वतेऽमरकण्टके । तेश्च सर्वैः समागम्य मुनिभिश्च तपोधनः ॥ ४१ नर्मदासंश्रिता पुण्या विशल्या नाम नामतः । उत्पादिता महाभागा सर्वपापप्रणाशिनी ॥ ४२ तत्र स्नात्वा नरो राजन्ब्रह्मचारी जितेन्द्रियः । उपोप्य रजनीमकां कुलानां तारयच्छतम् ॥ ४३ कपिला च विशल्या च श्रूयते राजसत्तम । ईश्वरेण पुरा प्राक्त लोकानां हितकाम्यया ॥ ४४ तत्र स्नाखा नरो राजन्नश्वमेधफलं लभेत् । अनशनं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।। ४५ सर्वपापविशुद्धात्मा इन्द्रलोकं स गच्छति । नर्मदायां तु राजेन्द्र पुराणे यच्छ्रतं मया ॥ ४६ तत्र तत्र नरः स्नात्वा अश्वमेधफलं लभेत् । ये वसन्त्युत्तर कृले इन्द्रलोके वसन्ति ते ॥ ४७ सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर । समं स्नानं च दानं च यथा मे शंकरोऽब्रवीत् ॥ ४८ परित्यजति यः प्राणान्पर्वतऽमरकण्टके । वर्षकोटिशतं साग्रमिन्द्रलोके महीयते ॥ ४९ नर्मदाया जलं पुण्यं फेनोर्मिसमलंकृतम् । पवित्रं शिरसा वन्धं सर्वपापैः प्रमुच्यते ।। ५० नर्मदा सर्वपुण्या च ब्रह्महत्यापहारिणी । अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥ ५१ एवं पुण्या च रम्या च नर्मदा पाण्डुनन्दन । त्रयाणामपि लोकानां पुनात्येपा महानदी ॥ ५२ वटेश्वरे महापुण्ये गङ्गाद्वारे तपोवने । एतेषु सर्वस्थानेषु येऽदिताः संशितव्रर्ताः ॥ ५३
१ क. 'वेतेषां ये मुताऽम । २ क. 'वेशोऽथ । ३ ख. न. 'ते 'उद्देशों । ४ ख. ज. पुण्या ह्येषा । ट. पुण्यताया म' । ५ ट. ये द्विजाः सं । ६ ख. म. ताः । ततो दशगुणं पुण्यं नर्मदायास्तु सं।