________________
चतुर्दशोऽध्यायः ] पत्रपुराणम् । । दशगुणं पुण्यं नर्मदोद्वाससंगमे ॥
इति श्रीमहापुराणे पाम आदिखण्डे त्रयोदशोऽध्यायः ॥ १३ ॥ आदितः श्लोकानां समश्यकाः-४६६
अथ चतुर्दशोऽध्यायः ।
नारद उवाचनर्मदा तु नदी श्रेष्ठा पुण्या पुण्यतमा त्रिषु । मुनिभिस्तु महाभागैविभक्ता धर्मकादिभिः॥ १ सोपवीतमात्राणि पविभक्तानि पाण्डव । तेषु स्नात्वा तु राजेन्द्र सर्वपापैः प्रमुच्यते ॥ महेश्वरं परं तीर्थ त्रिषु लोकेषु विश्रुतम् । तस्योत्पत्ति कथयतः शृणु पाण्डवनन्दन ॥ इस मुनिगणाः सर्वे सेन्द्राश्चैव मरुद्गणाः । स्तुवन्ति ते महात्मानं देवदेवं महेश्वरम् ॥ ४ स्तवमानास्तु संप्राप्ता यत्र देवो महेश्वरः । विज्ञापयन्ति देवेशं सेन्द्रास्ते तु मरुद्रणाः॥ अयोदिनान्विरूपाक्ष परित्रायस्व नः प्रभो ।।
ईश्वर उवाचसागतं तु मुनिश्रेष्ठाः किमर्थमिह चाऽऽगताः । किं दुःख को नु संतापः कुतो वा भयमागतम् ६ व्ययध्वं महाभागा एनदिच्छामि वेदितुम् । एवमुक्तास्तु रुद्रेणाकथयन्नमितव्रताः ॥ • ऋषय ऊचुःअपि घोरो महावीर्यो दानवो बलदर्पितः । वाणो नामेति विख्यातो यस्य वै त्रिपुरं पुरम् ८ जगने तु वसंदिव्यं भ्रमते तस्य तेजसा । तस्माद्भीना विरूपाक्ष त्वामेव शरणं गताः॥ ९ घायस्व महतो दुःखादेव त्वं हि परा गतिः । एवं प्रसादं देवेश सर्वेषां कर्तुमर्हसि ॥ १० पेन देवाः सुप्रसन्नाः सुंग्वमेधन्ति शंकर । परां निर्वृतिमायान्ति तत्मभो कर्तुमर्हसि ॥ ११
देव उवाचएतत्सर्व करिष्यामि मा विषादं करिष्यथ । अचिरेणेव कालेन कुर्या युप्मत्सुखावहम् ॥ १२ आश्वासयित्वा तान्सन्निर्मदातटमास्थितः । चिन्तयामास सर्वेशस्तद्वधं प्रति पाण्डव ॥ १३ कथं केन प्रकारेण हन्तव्यस्त्रिपुरो मया । एवं संचिन्त्य भगवान्नारदं स्मरते तदा ॥ स्मरणादेव संप्राप्तो नारदः ममुपस्थितः ॥
नारद उवाचआज्ञापय महादेव किमर्थं संस्मृतो यहम् । किं कार्य तु मया देव कर्तव्यं कथयस्व मे ॥ १५
ईश्वर उवाचगच्छ नारद तत्रैव यत्र तत्रिपुरं पुरम् । वाणस्य दानवेन्द्रस्य शीघ्रं गच्छाथ तत्कुरु ॥ १६ भर्तारो देवताभाश्च स्त्रियश्चाप्सरसोपमाः । तासां वै तेजसा विम भ्रमंते त्रिपुरं दिवि ॥ १७ अत्र गत्वा तु विमेन्द्र मन्त्रमन्यं प्रचोदय । देवस्य वचनं श्रुत्वा मुनिस्त्वरितविक्रमः॥ स्त्रीणां हृदयनाशाय प्रविष्टस्तं पुरं प्रति ॥ शोभते तत्पुरं दिव्यं नानारत्नोपशोभितम् । शतयोजनविस्तीर्ण ततो द्विगुणमायतम् ॥ इतः पश्यति तत्रैव वाणं तु बलदर्पितम् । मालाकुण्डलकेयूरैर्मुकुटेन विराजितम् ॥
१ क. सन्दिव्यं । २ ख. अ. सुखं नन्दन्ति । ३ ट. सांप्रतं । ४ ८. 'म् । रत्नकु ।