________________
६६ षट्षष्टितमोऽध्यायः ]
पद्मपुराणम् । ब्रह्माऽपि त्रिदशैः सार्धमुपसंहियते पुनः । परार्धद्वयकालान्ते शिवेन परमात्मना ॥ १६९ एवं नैवास्ति संसारे यस्य सर्वोत्तमं पदम् । विहायैकं जगन्नाथं परमात्मानमव्ययम् ॥ १७० कालं यान्ति सुराः सर्वे प्रतिमानेन वर्जिताः। एवं भूते जगत्यस्मिन्कः पुनः पण्डितोऽपि वा १७१ न चास्ति सर्ववित्कश्चिन्न च मूर्खश्च सर्वशः । यो यद्वस्तु विजानाति तत्र तत्र स पण्डितः १७२ समाधाने तु सर्वत्र प्रभावः सदृशः स्मृतः । स्थितस्यातिशयत्वेन प्रभावः कस्यचित्कचित्॥१७३ दानवैनिर्जिता देवास्ते देवैर्निर्जिताः पुनः । इत्यन्योन्यं स्थितावेतौ भाग्यैर्जयपराजयौ ॥ १७४ एवं वस्त्रयुगं राजन्मस्थमात्रं तु भोजनम् । मानं छत्रीसनं चैव सुखदुःखाय केवलम् ॥ १७५ सार्वभौमोऽपि भवति श्रद्धामात्रपरिग्रहः । उदकुम्भसहस्रेभ्यः क्लेशायासविस्तरः॥ १७६ प्रत्यूषे तूर्णनिर्घोषः सतां पुरनिवासिभिः। राज्येऽभिमानमात्रं हि ममेदं वाह्यते गृहे ॥ १७७ सर्वाभरणशृङ्गारः सर्वमालेपनं परम् । सर्वसंलपितं गीतं चित्तमुन्मत्तचेष्टितम् ॥ १७८ इत्येवं राज्यसंभोगैः कुतः सौख्यं विचारतः। नृपाणां विग्रहे चिन्ता वाऽन्योन्यविजिगीषया १७९ प्रायेण श्रीमदालेपानहुषाद्या महानृपाः। स्वर्ग प्राप्ता निपतिताः कः श्रिया विन्दते सुखम् १८० स्वर्गेऽपि हि कुतः सौख्यं दृष्ट्वा दीप्तां परश्रियम् । उपर्युपरि देवानामन्योन्यातिशयस्थिताम् १८१ नरैः पुण्यफलं स्वर्गे मूलच्छेदेन भुज्यते । यदर्थ क्रियते कर्म तत्र दोषस्तु दारुणः ॥ १८२ [*छिन्नमूलस्तरुयद्वद्विवशः पतितः क्षितौ । क्षीणपुण्यास्ततस्तद्वनिपतन्ति दिवौकसः ॥ १८३ सुखाभिलाषनिष्ठानां सुखभोगादिसंप्लवैः। अकस्मात्पतितं दुःख कष्टं स्वर्गे दिवौकसाम् ॥१८४ इति स्वर्गेऽपि देवानां नास्ति सौख्यं विचारतः । क्षयश्च विपयासिद्धौ स्वर्गे भोगाय कर्मणः१८५ तत्र दुःखं महत्कष्टं नरकाग्निपु देहिनाम् । घोरैश्च विविधैर्भावैर्वाअनःकायसंभवैः ॥ १८६ कुगरच्छेदनं तीव्र वल्कलानां च तक्षणम् । पर्णशाखाफलानां च पातश्चण्डेन वायुना ॥ १८७ तन्मूलनाशश्च गजैरन्यैश्चैव हि देहिभिः । दावाग्निहिमपातैश्च दुःखं स्थावरजातिषु ॥ १८८ पशूनामात्मशमनं दण्डताडनमेव च । नासावेधेन संत्रामः प्रेतोदेन मुताडनम् ॥ १८९ वेत्रकाष्ठादिनिगडैरङ्कुशेनाङ्गबन्धनम् । भावेन मनसा क्लेशभिक्षायुवादिपीडनम् ॥ १९० आत्मयूथवियोगैश्व बलान्नयनवन्धने । पशूनां सन्ति कायानामेवं दुःखान्यनेकशः॥ १९१ वर्षाशीतातपाहुःखं सुकष्टं ग्रहपक्षिणाम् । वंशमानातिकायानामेवं दुःखान्यनेकधा ॥ १९२ गर्भवासे महदुःखं [*जन्मदुःखं तथा नृणाम् । सुबाल्ये च महहुःखं] कौमारे गुरुशासनम् १९३ यौवने कामरागाभ्यां दुःखं चैवर्ण्यया पुनः । कृषिवाणिज्यसेवायैः सुगोरक्षादिकर्मभिः ॥१९४ * एतचिहान्तर्गतः पाठः क. ख.घ.इ.च छ.झ.ट.इ. द. पुस्तकस्थः । * क. ख. घ. हु. च छ. स. ह. ढ. पुस्तकस्थमेतत् ।
१. ख. घ. ङ. च. झ. ड. द. म् । ज्ञात्वा सातिशयं सर्वमतिमान विवर्जयेत् । ए। छ. म् । ज्ञात्वा सातिशय सवेमभिमानं विवर्जयेत् । ए। ट. 'म् । ज्ञात्वा याति शम सर्व प्रीतिमानो विवर्जयेत् । ए। २ क. ख. उ. च. छ.स.म् । पानं शय्याऽऽस । ३ अ. 'त्राशनं । ४ छ झ. खट्वामात्रपरिग्रहः । ५ क. ख. ड. च. छ. स. ६. समं ।। क. ख.च. हि सदैवं वा । क. ख. ङ. च. छ. झ. इ. द. सर्वमामरणं मारः । ८ घ. ट. . तं नित्यमु। ९ क. ख. रु.च. छ. म. द. 'ते । तदाऽन्यक्रिय। १. छ. दृष्टं । ११क. ख. ङ. च. छ. म. द. तत्कलानां । १२ क.ख. . च. छ.स.म.द. तत्क्षणम् । ग.ज. रक्षणम् । १३ मतोदकसुताडनात् । आ१४ क. ख. इ. च. छ. स. ने । तामुक्षा सर्पाणां को दुःखं च दारुणम् । दुष्टानां घातनं लोके पाशेन च निवन्धनम् । अकस्माजन्म मरणं कीटादीना मुहुर्मुहुः ।।१५क. ख. ख. च. छ. प्र. द.ल्ये दःखंचाज्ञान को। १६ इ. खंबै विषयात्पुनः ।