________________
२६२ महामुनिश्रीव्यासमणीत
[२ भूमिखण्डेक्षुधा हि सर्व रोगाणां व्याधिः श्रेष्ठतमः स्मृतः। सो काम्यौषधलाभेन क्षणमात्र प्रयास्यति१४१ क्षुदाधिवेदना तीव्रा निःशेषबलकृन्तनी । तयाऽभिभूतो म्रियते यथाऽन्यैर्व्याधिभिर्नरः ॥१४२ आहारेऽपि हि किं सौख्यं जिहाने हि प्रवर्तिनि । तत्क्षणादर्धकालेन कण्ठं माप्य निवर्तते १४३ इति शुव्याधितप्तानामनमौषधवत्स्मृतम् । न तत्सुखाय मन्तव्यं परमार्थेन पण्डितैः॥ १४४ मृतोऽयमग्रतः शेते सर्वकार्यविवर्जितः । तत्रापि च कुतः सौख्यं तमसा चोदितात्मनः ॥ १४५ प्रेरोधे हि कुतः सौख्यं कार्यैरुपहतात्मनः । कृषिवाणिज्यसेवाख्यगोरक्षादिपरिश्रमैः ॥ १४६ पातर्मूत्रपुरीषाभ्यां मध्याहे क्षुत्पिपासया । तृप्ताः कामेन बाध्यन्ते निद्रया निशि जन्तवः॥१४७ अर्थस्योपार्जने दुःखं दुःखमर्जितरक्षणे । नाशे दुःखं व्यये दुःखमर्थस्यैव कुतः सुखम् ॥ १४८ चौरेभ्यः सलिलेभ्योऽनेः स्वजनात्पार्थिवादपि । भयमर्थवतां नित्यं मृत्योर्देहभृतामिव ॥ १४९ खे यथा पक्षिभिर्मासं भुज्यते श्वापदैर्भुवि । जले च भक्ष्यते मत्स्यैस्तथा सर्वत्र वित्तवान्॥१५० विमोहयन्ति संपत्सु तापयन्ति विपत्सु वा । वेदयन्त्यजने दुःखं कथमर्थाः सुखावहाः ॥ १५१ मागर्थ याति चोद्विनः पश्चात्सर्वार्थनिःस्पृहः । जन्तुरागमाच्चापि सुखी स्यात्तेन दुःख्यपि१५२ हेमन्ते शिशिरे दुःखं ग्रीष्मे तापश्च दारुणः । प्रावृष्यत्यल्पवृष्टिभ्यां कालेऽप्येवं कुतः सुखम् १५३ विवाहविस्तरे दुःखं तद् द्वहने पुनः । प्रसवेरपि दुःखैश्च दुःखं विष्ठादिकर्मजम् ॥ १५४ दन्ताक्षिरोगे पुत्रस्य हा कष्टं किं करोम्यहम् । गावो नष्टाः कृषिर्भमा भार्या च प्रपलायिता१५५ अमी प्रापूर्णिकाः प्राप्ता भयं मे शंसिनो ग्रहाः। बालापत्या च मे भार्या किं करिष्यति वै धनम् प्रदेयकाले कन्यायाः कीदृशश्च वरो भवेत् । एतचिन्ताभिभूतानां कुतः सौख्यं कुटुम्बिनाम् १५७
कुटुम्बचिन्ताकुलितस्य पुंसः श्रुतं च शीलं च गुणाश्च सर्वे ।।
अपककुम्भे निहिता इवाऽऽपः प्रयान्ति देहेन समं विनाशम् ॥ १५८ राज्येऽपि हि कुतः सौख्यं सन्धिविग्रहचिन्तया । पुत्रादपि भयं यत्र तत्र सौख्यं हि कीदृशम्।। स्वजातीयाद्भयं प्रायः सर्वेषामेव देहिनाम् । एकद्रव्याभिलाषित्वाच्छुनामिव परस्परम् ॥ १६० न प्रविश्य वनं कश्चिन्नृपः ख्यातो हि भूतले । निखिलं यस्तिरस्कृत्य सुखं तिष्ठति निर्भयः १६१ युद्ध बाहुसहस्रं हि पातयामास भूतले । श्रीमतः कार्तवीर्यस्य ऋषिपुत्रः प्रतापवान् ॥ १६२ ऋषिपुत्रस्य रामस्य रामो दशरथात्मजः । जघान वीर्यमतुलमूर्ध्वगं सुमहात्मनः ॥ १६३ जरासंधेन रामस्य तेजसा नाशितं यशः । जरासंधस्य भीमेन तस्यापि पवनात्मजः ॥ १६४ हनुमान्भरतेनापि प्रक्षिप्तः पतितः क्षितौ । निवातकवचाः सर्वे दानवा बलदर्पिताः॥ १६५ जितवानर्जुनस्तान्वै गोपैः स च विनिर्जितः । सूर्यः प्रतापयुक्तो हि मेघैः संछाद्यते कचित् १६६ क्षिप्यन्ते वायुना मेघा वायोर्वीर्य नगैर्जितम् । दह्यन्ते वह्निना शैलाः स वह्निः शाम्यते जलैः ।। तज्जलं शोष्यते सूर्यैस्ते सूर्याः सह वारिणा(?)। त्रयो लोकाः समेताश्व नश्यन्ते ब्रह्मणो दिने १६८
घ. ज.ट. सा कायोषधलेपन । छ. झ. सच्छान्त्यौषधलेपेन । २ छ. स. क्षुझ्याधि । ३ क. ङ. च. छ. झ.द. प्रबोधे । म. प्रारम्भे । ४ ट. तष्णा कामेन बाध्येत नि" । ५ ट. तत्त्वतः । ६ ङ, छ. झ. द. विमोदयन्ति । ७ङ. छ. इ. ह."हः । तयोरर्थपतिर्दुःखी सुखी सर्वार्थसाधकः। हैं। ८ घ. ङ. इ. णः । सवातातप । ९ ड. दुःखमिष्टादिकर्मतः ।। १.क.स्व. च. छ. र..र्या कः करिष्यति बन्धन । ११. 'ध्यन्ति बान्धवाः । । १२ म. मश्च दर्प द। १३ म. जनदानस्य रामेण तें । १४ म.शः । जामदग्न्यप्रभावेण त । १५ न. परमात्मनः । ह। १६ म. मानपि सूर्येण प्र। १७ °हचारिणा । त्रैलोक्येन स । इति क्वचित्पुस्तके ।