________________
३९ एकोनचत्वारिंशोऽध्यायः ] पद्मपुराणम् । सर्व दहति गङ्गापस्तूलराशिमिवानलः । सर्वे कृतयुगे पुण्यं त्रेतायां पुष्करं स्मृतम् ।। द्वापरे तु कुरुक्षेत्रं गङ्गा कलियुगे स्मृता । पुष्करे तु तपस्तप्येहानं दद्यान्महालये ॥ मलये त्वग्निमारोहेगुतुङ्गे त्वनाशनम् । पुष्करे तु कुरुक्षेत्रे गङ्गापोमध्यमेषु च ॥ सद्यस्तारयते जन्तुः सप्तसप्तावरांस्तथा ॥ पुनाति कीर्तिता पापं दृष्टा तत्र (भद्र) प्रयच्छति । अवगाढा च पीता च पुनात्यासप्तमं कुलम् ८६ यावदस्थि मनुष्यस्य गङ्गायाः स्पृशते जलम् । तावत्स पुरुषो राजन्स्वर्गलोके महीयते ॥ ८७ यथा पुण्यानि तीर्थानि पुण्यान्यायतनानि च । उपास्य पुण्यं लब्ध्वा च भवति परलोकभाक् ॥ ८८ न गङ्गासदृशं तीर्थ न देवः केशवात्परः । ब्राह्मणेभ्यः परं नास्ति एवमाह पितामहः॥ ८९ यत्र गङ्गा महाराज स देशस्तत्तपोवनम् । सिद्धक्षेत्रं च विज्ञेयं गङ्गातीरसमाश्रितम् ॥ ९० इदं सत्यं द्विजातीनां साधूनां मानसेषु च । मुक्तिं चैव जपेत्कर्णे शिष्टस्यानुगतस्य च ॥ ९१ इदं धर्म्यमिदं मेध्यमिदं स्वर्ग्यमिदं सुखम् । इदं पुण्यतमं रम्यं पावनं धर्ममुत्तमम् ।। महाशिषमिदं गुह्यं सर्वपापप्रमोचनम् । अधीत्य द्विजमध्ये च निर्मलत्वमवामुयात् ।। श्रीमत्स्वग्ये महापुण्यं सपनशमनं शिवम् । मेधाजननमग्यं वै तीथेवंशानुकीतनम् ॥ ९४ अपुत्रो लभते पुत्रमधनो धनमामुयात् । महीं विजयते राजा वेश्यो धनमवामुयात् ।। शूद्रो वाऽथेप्सितान्कामान्ब्राह्मणः पारगः पठन् । यश्चेदं शृणुयान्नित्यं तीर्थपुण्यं सदा शुचिः । जानीः संस्मरते बहीर्नाकपृष्ठे च मोदते ॥ ९६ गम्यान्यपि च तीर्थानि कीर्तितान्यगमान्यपि । मनसाऽप्यभिगच्छेत सर्वतीर्थमभीप्सया ॥ ९७ एतानि वसुभिः साध्यैरादिन्यैर्मरुदश्चिभिः । ऋषिभिर्देवकल्पैश्च श्रितानि सुकृतैषिभिः॥ ९८ एवं त्वमपि कौरव्य विधिनाऽनेन सुव्रत । वन तीर्थानि नियतः पुण्यं पुण्येन वर्धते ॥ ९९ भावितैः कारणैः पूर्वमास्तिक्याच्छ्रतिदर्शनात् । प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः॥ नावतो नाकृतात्मा च नाशुचिर्न च तस्करः । स्नाती तीर्थेषु कौरव्य न च वक्रमतिर्नरः ॥१०१ त्वया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना । पितरस्तपितास्तात सर्वे च प्रपितामहाः ॥ पितामहपुरोगाश्च देवाः सर्षिगणास्तथा ।
[*वसिष्ठ उवाच-] लं च धर्मेण धर्मज्ञ नित्यमेवाभितोषितः । दिलीप कीर्ति महती प्राप्स्यसे भुवि शाश्वतीम् ॥१०३
नारद उवाचएवमुक्त्वाऽभ्यनुज्ञाप्य वसिष्ठो भगवानृषिः। प्रातः प्रीतेन मनसा तत्रैवान्तरधीयत ॥ १०४ दिलीपः कुरुशार्दूल शास्त्रतत्त्वार्थदर्शनात् । वसिष्ठवचनाच्चैव पृथिवीमनुचक्रमे ॥ एवमेषा महाभाग प्रतिष्ठाने प्रतिष्ठिता । तीर्थयात्रा महापुण्या सर्वपापप्रमोचनी ॥ १०६ अनेन विधिना यस्तु पृथिवीं पर्यटिष्यति । अश्वमेधशतं सायं फलं प्रेत्यैष भोक्ष्यते ॥ १०७ ततश्चाष्टगुणं पार्थ प्राप्स्यसे धर्ममुत्तमम् । दिलीपः पार्थ नृपतिर्यथा पूर्वमवाप्तवान् । नेता च त्वमृषीन्यस्मात्तस्मात्तेऽष्टगुणं फलम् ॥
१०८ रक्षोगणविकीर्णानि तीर्थान्येतानि भारत । न गतिर्विद्यतेऽन्यस्य त्वामृते कुरुनन्दन ॥ १०९
___ * इदं ख. अ. पुस्तकयोरेव। १ ख. ज. गायोध्यापुरेषु । २ ख. म. महर्षीणामि । ३ ख. म. 'न् । सेवसे त्व।
१०२