________________
७६
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेइदं देवर्षिचरितं सर्वतीर्थानुसंश्रितम् । यः पठेत्कल्य उत्थाय सर्वपापैः प्रमुच्यते ॥ ११० ऋषिमुख्याः सदा यत्र वाल्मीकिस्त्वथ कश्यपः।आत्रेयस्त्वथ कौण्डिन्यो विश्वामित्रोऽथ गोतमः१११ असिनो देवलश्चैव मार्कण्डेयोऽथ गालवः । भरद्वाजस्य शिष्यश्च मुनिरुद्दालकस्तथा ॥ ११२ शौनकः सह पुत्रेण व्यासश्च नेपतां वरः । दुर्वासाश्च मुनिश्रेष्ठो जाबालिश्च महातपाः॥ ११३ एते ऋपिवराः सर्वे त्वत्प्रतीक्ष्यास्तपोधनाः । एभिः सह महाभाग तीर्थान्येतान्यनुव्रज ॥ प्राप्स्यसे महती कीर्ति यथा राजा महाभिपः ॥ यथा ययानिर्धर्मात्मा यथा राजा पुरूरवाः । तथा त्वं कुरुशाईल स्वेन धर्मेण शोभसे ॥ ११५ यथा भगीरथो राजा यथा रामश्च विश्रुतः । यथा व वृत्रहा सर्वान्मपन्नानदहन्पुरा ॥ ११६ अलोक्यं पालयामास देवगडिगतज्वरः । तथा शत्रुक्षयं कृत्वा त्वं प्रजाः पालयिष्यसि ॥ ११७ स्वधर्मेणार्जितामुर्वी प्राप्य राजीवलोचन । ख्याति यास्यसि वीर्यण कार्तवीर्यार्जुनो यथा॥११८
सूत उवाचएवमाभाग्य राजानं नारदो भगवानृषिः । अनुज्ञाप्य महाराज तत्रैवान्तरधीयत ।। ११९ गुधिष्ठिरोऽपि धर्मात्मा ऋषिभिः सह सुव्रतः । जगामाग्विलतीर्थानि सादरः पृथिवीपतिः १२० मयोक्तामृषयः सर्वे तीर्थयात्राश्रयां कथाम् । यः पठेच्छणुयाद्वाऽपि स मुक्तः मर्वपातकः॥१२१ मयोक्तमखिलं तत्वं किं भूयः श्रोतुमिच्छथ । ऋषीणां पुण्यकीतीनां नावक्तव्यं ममास्ति वै।।१२२ इति श्रीमहापुराणे पाद्म आदिखण्डे नानाविधनार्थकथन नामकोनचत्वारिंशोऽध्याय ॥ ३९ ॥
आदितः श्लोकानां समष्टयङ्काः--२१५६
अथ चत्वारिशोऽध्यायः।
सूत उवाचएवमुक्तानि तीर्थानि विष्णुदेहानि सुव्रताः। एपामन्यतमासङ्गान्मुक्ता भवति मानवः ॥ ? तीर्थानुश्रवणं धन्यं धन्यं तीर्थनिषेवणम् । पापगशिनिपाताय नान्यांपायः कलौ युगे ।। २ वासं कुर्यामहं तीर्थे तीर्थम्पर्शमहं तथा । एवं योऽनुदिनं बृते स यानि परमं महत् ।। ३ पापानि तस्य नश्यन्ति तीर्थालापनमात्रतः । तीर्थानि खलु धन्यानि धन्यसेव्यानि सुव्रताः ॥ ४ तीर्थानां सेविनां देव सेवितो भवति प्रभुः । नारायणो जगकर्ता नास्ति तीर्थात्परं पदम् ॥ ५ ब्रामणस्तुलसी चैव अश्वत्थस्तीर्थसंचयः । विष्णुश्च परमंशानः सेव्य एव सदा नृभिः॥ ६ ब्राह्मणानां विशेषेण सेवनं मुनिपुङ्गवाः । सर्वतीर्थावगाहादेरधिकं विदुरग्रजाः ॥ तस्मानि(वि)जपदं साक्षात्सर्वतीर्थमयं शुभम् । भजेतानुदिनं विद्वांस्तत्र तीर्थाधिकं भवेत् ॥ ८ अश्वत्थस्य तुलस्याश्च गवां सूर्यात्प्रदक्षिणात् । सर्वतीर्थफलं प्राप्य विष्णुलोके महीयते ॥ ९ तस्माहुष्कृतकर्माणि नाशयेत्तीर्थसंवनात् । अन्यथा नरकं याति कर्म भोगाद्धि शाम्यति ॥ १० पापिना नरके वासः मुकृती स्वर्गमभुते । तस्मात्पुण्यं निषेवेत तीर्थ खलु विचक्षणः ॥ ११
ऋषय ऊचुःभ्रुतानि किल तीर्थानि समाहात्म्यानि सुव्रत । इदानीं श्रोतुमिच्छामः प्रयागस्य विशेषकम्॥१२
१ ख. अ. जपतां । २ ख. अ. भगारथः ।