________________
४० चत्वारिंशोऽध्यायः ] पत्रपुराणम् । प्रयागं तु पुरा प्रोक्तं संक्षेपात्सूत यत्त्वया । विशेषाच्छ्रोतुमिच्छामः सूत नः कथ्यतामिति ॥ १३
सूत उवाचसाधु पृष्टं महाभागाः प्रयागं प्रति सुव्रताः । हन्ताहं तत्प्रवक्ष्यामि प्रयागस्योपवर्णनम् ॥ १४ मार्कण्डेयेन कथितं यत्पुरा पाण्डुसनवे । भारते च तदा वृत्ते प्राप्तराज्ये पृथासुते ॥ १५ एतस्मिन्नन्तरे राजा कुन्तीपुत्रो युधिष्ठिरः । भ्रातृशोकेन संतप्तश्चिन्तयंस्तु पुनः पुनः॥ १६ आसीहुर्योधनो राजा एकादशचमपतिः । अस्मान्संतप्य बहुशः सर्वे ते निधनं गताः॥ १७ वासुदेवं समाश्रित्य पञ्च शेषास्तु पाण्डवाः । कथं द्रोणं च भीष्मं च कर्ण चैत्र महाबलम् ॥ १८ दुर्योधनं च राजानं भ्रातृपुत्रममन्वितम् । राजानो निहताः मर्वे ये चान्ये शूरमानिनः ॥ १९ विना राज्येन कर्तव्यं किं भोगैर्जीवितेन वा। धिकष्टमिति संचिन्त्य राजा विकुलतां गतः॥ २० निश्चेष्टोऽथ निरुत्साहः किंचित्तिष्ठत्यधोमुखः । लब्धमंज्ञो यदा राजा चिन्तयानः पुनः पुनः२१ कं चरे विधिना योगं नियमं तीथमेव वा । येनाहं शीघ्रमामुच्ये महापातककिल्बिषात् ॥ २२ यत्र स्नात्वा नरो याति विष्णुलोकमनुत्तमम् । कथं पृच्छामि वै कृष्णं येनेदं कारितं महत् ॥ २३ धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम् । व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः॥ २४ एवं वैलव्यमापन्नो धर्मपुत्रो युधिष्ठिरः । रुदन्तः पाण्डवाः सर्वे भ्रातृशोकपरिप्लुताः॥ २५ ये च तत्र महात्मानः समेताः पाण्डवाश्रिताः। कुन्ती च द्रौपदी चैव ये च तत्र समागताः॥ भूमौ निपतिताः सर्वे रोदमानाः समन्ततः ।। वाराणस्यां तु मार्कण्डस्तेन ज्ञानी युधिष्ठिरः । यथा विक्रवमापनो रोदमानः सुदुःखितः ॥ २७ अचिरणव कालेन मार्कण्डस्तु महातपाः । हस्तिनापुरसंप्राप्तो राजद्वारे स तिष्ठति ॥ २८ द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथिलवान्द्रुतम् । त्वां द्रष्टु कामो मार्कण्डो द्वारे तिष्ठत्यसौ मुनिः ।। त्वरितो धर्मपुत्रस्तु द्वारमेत्याऽऽह तत्परः॥
२९ युधिष्ठिर उवाचस्वागतं ते महाप्राज्ञ स्वागतं ते महामुने । अद्य मे सफलं जन्म अद्य मे पावितं कुलम् ॥ अद्य मे पितरस्तृप्तास्त्वयि दृष्टे महामुने ।। सिंहासन उपस्थाप्य पादशौचार्चनादिभिः । युधिष्ठिरां महात्मा वै पूजयामास तं मुनिम् ।। ३१ ततस्तमूचे मार्कण्डः पूजितोऽहं त्वया विभो । आख्याहि त्वरितो राजन्किमर्थ त्वरितं त्वया ।। केन वा विक्लवीभूतः कथयस्व ममाग्रतः ।।
युधिष्ठिर उवाचअस्माकं चैव यवृत्तं राज्यस्यार्थे महामुने । एतत्सर्व विदित्वा तु भगवानिह चाऽऽगतः ॥ ३३
मार्कण्डेय उवाचशृणु राजन्महाबाहो यत्र धर्मो व्यवस्थितः । नैव दृष्टं रणे पापं युध्यमानस्य धीमतः ॥ ३४ किं पुरा राजधर्मेण क्षत्रियस्य विशेषतः । तदेवं हृदये कृत्वा तस्मात्पापं न चिन्तयेत् ॥ ३५ ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम् । पृच्छामि त्वां मुनिश्रेष्ठ सदा त्रैकाल्यदर्शनम् ॥ कथय त्वं समासेन मुच्येऽहं येन किल्बिषात् ॥
१ क. ततः स तुष्टो मा।