________________
७८
महामुनिश्रीव्यासप्रणीतं
[१ आदिखण्डेमार्कण्डेय उवाचशृणु राजन्महाभाग यन्मां पृच्छसि भारत । एवं मांख्यं च योगं च तीर्थ चैव युधिष्ठिर ॥ ३७ किं पुनर्बाह्मणैः पुण्यैः कीर्तितं वै पुरा विभो । प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम् ॥ ३८
इति श्रीमहापुराणे पाय आदिखण्डे चत्वारिंशोऽध्यायः ॥ ४० ॥ आदितः श्लोकानां समष्टयङ्काः--२१९४
---- -- अधकचत्वारिंशोऽध्यायः ।
युधिष्ठिर उवाचभगवश्रोतुमिच्छामि पुरा कल्पे यथा स्थितम् । कथं प्रयागगमनं नराणां तत्र कीदृशम् ॥ १ मृतानां का गतिस्तत्र स्नातानां चैव किं फलम् । ये वमन्ति प्रयागे तु हि तेषां च किं फलम् ॥ एतन्मे सर्वमाख्याहि परं कौतूहलं हि मे ।।
मार्कण्डेय उवाचकथयिप्यामि ते वत्स नाथेष्टं यच्च यत्फलम् । पुरा ऋषीणां विप्राणां कथ्यमानं मया श्रुतम् ।।३ आमयागात्प्रतिष्टानाद्धर्मकीवासुकीहदात् । कम्बलाश्वतरो नागा नागाश्च बहुमलिकाः ॥ ४ एतत्पजापतिक्षेत्रं त्रिषु लोकेषु विश्रुतम् । अत्र सात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः॥ ५ तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः । अन्ये च बहवस्तीथोः सर्वपापहराः शुभाः॥ ६ न शक्याः कथितुं राजन्बहुवर्षशनैरपि । संक्षेपेण प्रवक्ष्यामि प्रयागस्य च कीर्तनम् ॥ ७ पष्टिधनुःसहस्राणि परिरक्षन्ति जाहवीम् । यमुनां रक्षति सदा सविता सप्तवाहनः ।। प्रयागं तु विशेषेण स्वयं रक्षति वासवः । मण्डलं रक्षति हरिदेवैः सह सुसंमतम् ॥ तं वटं रक्षते नित्यं शूलपाणिमहेश्वरः । स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥ अधर्मेण वृतो लोको नैव गच्छति सत्पदम् ॥ स्वल्पमल्पतरं पापं यदा तस्य नराधिप । प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् ।। दर्शनात्तस्य तीर्थस्य नामसंकीर्तनादपि । मृत्तिकालभनाद्वाऽपि नरः पापाद्विमुच्यते ॥ १२ पश्च कुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी । प्रयागे तु प्रविष्टस्य पापं नश्यति तत्क्षणात् ॥ १३ योजनानां सहस्रेषु गङ्गां स्मरति यो नरः । अपि दुष्कृतकर्माऽसो लभते परमां गतिम् ॥ १४ कीर्तनान्मुच्यते पादृष्ट्वा भद्राणि पश्यति । अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम् ॥ १५ सत्यवादी जितक्रोधो अहिसां परमां स्थितः । धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः ॥ १६ गङ्गायमुनयोर्मध्ये स्नातो मुच्यत किल्बिषात् । मनसा चिन्तितान्कामान्सम्यक्पामोति पुष्कलान् ॥ ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम् । ब्रह्मचारी वसेन्मासं पितृदेवांश्च तर्पयत् ॥ ईप्सिताल्लँभते कामान्यत्र तत्राभिजायते ।। तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगा॥ १९ तत्र संनिहितो नित्यं साक्षाद्देवो महेश्वरः । दुष्पापं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर ॥ २०
१ख. ज. "त्स प्रयागस्य च य । २ख. ज. सदसि ।
१८