________________
४२ द्विचत्वारिंशोऽध्यायः ]
पद्मपुराणम् ।
देवदानवगन्धर्वा ऋषयः सिद्धचारणाः । तत्रोपस्पृश्य राजेन्द्र स्वर्गलोके सुखं गताः ।।
इति श्रीमहापुराणे पाच आदिखण्ड एकचत्वारिंशोऽध्यायः ॥ ४१ ॥ आदितः श्लोकानां समथ्र्यङ्काः – २२१५
अथ द्विचत्वारिंशोऽध्यायः ।
७९
२१
मार्कण्डेय उवाच
१
३
४
७
८
१० ११
१२
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । प्रयागे सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ आर्तानां च दरिद्राणां निश्चितव्यवसायिनाम् । स्थानं मुक्त्वा प्रयागं तु नाक्षयं तु कदाचन ॥ २ गङ्गायमुनमासाद्य यस्तु प्राणान्परित्यजेत् । दीप्तकाश्चनवर्णाभे विमाने सूर्यवर्चसि ॥ धरमांमध्ये स्वर्गे मोदेन मानवः । ईप्सिता भने कामान्वदन्ति ऋषिपुंगवाः ॥ सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः । वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणैः ॥ गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते । यावन स्मरते जन्म तावत्स्वर्गे महीयते ॥ तत्र स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः । हिरण्यरत्नमंपूर्ण समृद्धे जायते कुले ॥ तदेव स्मरते तीर्थ स्मरणात्तत्र गच्छति । देशस्थो यदि वाऽरण्ये विदेशे यदि वा गृहे ॥ प्रयागं स्मरमात्रोऽपि यस्तु प्राणान्परित्यजेत् । स ब्रह्मलोकमाशांति वदन्ति ऋषिपुंगवाः ॥ ९ सर्वकामफला वृक्षा मही यत्र हिरण्मयी । ऋषयो मुनयः सिद्धा यत्र लोके प्रगच्छति ॥ स्त्रीसहस्राकुले रम्ये मन्दाकिन्यास्त शुभे । मद ऋषिभिः सार्धं स्वकृतेनेह कर्मणा ॥ सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः । ततः स्वर्गात्परिभ्रष्ट जम्वृद्वीपपतिर्भवेत् ॥ ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः । गुणवान्वित्तसंपन्नो भवतीह न संशयः ॥ कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः । गङ्गायमुनयोर्मध्ये यस्तु दानं प्रयच्छति ।। सुवर्णमणिमुक्तां वा यदि वान्यं प्रतिग्रहम् । स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा ।। निष्फलं तस्य तत्तीर्थं यावत्तत्फलमश्रुते । एवं तीर्थे न गृह्णीयात्पुण्येष्वायतनेषु च ॥ निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् । कपिलां पाउलावणं प्रयागे यः प्रयच्छति ॥ १७ स्वर्णगृह रौप्यखुरां चलकण्ठीं पयस्विनीम् । प्रयागे श्रोत्रियं साधुं ग्राहयित्वा यथाविधि ।। १८ शुक्लाम्रधरं शान्तं धर्मज्ञं वेदपारगम् । सा गौस्तम्मै च दातव्या गङ्गायमुनसंगमे ॥ वासांसि च महाहाणि रत्नानि विविधानि च । यावद्रोमाणि तस्या गोः सन्ति गात्रेषु सत्तम २० तावद्वर्षसहस्राणि स्वर्गलोके महीयते । यत्रासौ लभते जन्म सा गौस्तत्राभिजायते ॥ I न च पश्यत्यसौ घोरं नरकं तेन कर्मणा । उत्तरान्स कुरून्प्राप्य मोदते कालमक्षयम् ॥ २२ गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् । पुत्रान्दारांस्तथा भृत्यान्गौरेका प्रतिनारयेत् ॥ २३ तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते । दुर्गमे विपमे धीरे महापातकसंभवे । गौरव रक्षां कुरुते तस्माद्देया द्विजातये ।।
१३
१४
१५
१६
१९
२१
इति श्रीमहापुराणे पाद्म आदिखण्डे विचत्वारिंशोऽध्यायः ॥ ४२ ॥ आदितः श्लोकानां समथ्यङ्काः – २२३९
१ क. के महीयते । इ । २ क. योगहा ।
२४