________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डे
अथ त्रिचत्वारिंशोऽध्यायः ।
..
..
बुधिष्ठिर उवाचयथा प्रवानस्य पुने माहात्म्यं कथितं स्वया । तथा यथा प्रमुच्येऽहं सर्वपापर्न संशयः॥ १ भगपन्केन विधिना गन्तव्यं धर्मनिश्चयैः । प्रयागे यो विधिः प्रोक्तस्तं मे धूहि महामुने ॥ २
मार्कण्डेय उपाचकथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् । यो गच्छेत कुरुश्रेष्ठ प्रयागं देवसंयुतम् ।। पलीवर्दै समारूढः शृणु तस्यापि यत्फलम् ॥ बसते नरके घोरे गवां क्रोधे सुदारुणे । सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः ॥ ४ यस्तु पुत्रांस्तथा बालान्नापयेत्पाययेत्तथा । यथाऽऽत्मनस्तथा मन्दिानं विप्रेषु दापयेत् ॥ [* ऐश्वर्यं लभते चायं ब्रह्मलोके महीयते ॥ ऐश्वर्यलोभान्मोहाद्वा गच्छेद्यानेन यो नरः । निष्फलं तस्य तत्तीर्थ तस्माद्यानं परित्यजेत् ॥ ६ गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति । आर्षेण तु विधानेन यथाविभवमंभवम् । नं पश्यति यमं घोरं नरकं तेन कर्मणा । उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम् ।। ८ पुत्रांस्तु दारालँभते धार्मिकान्नयसंयुतान् । तत्र दानं प्रदातव्यं यथाविभवमंभवम् ॥ तेन तीर्थफलेनैव वर्धते नात्र संशयः । स्वर्गे तिष्ठति राजेन्द्र यावदाभूतसंप्लवम् ॥ १० वटमूलं समाश्रित्य यस्तु प्राणान्परित्यजेत् । सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ॥ ११ तत्र ते द्वादशाऽऽदित्यास्तपन्ति रुद्रमाश्रिताः । निर्दहन्ति जगत्सर्वे वटमूलं न दह्यते ॥ १२ नष्टचन्द्रार्कपवनं यदा चैकार्णवं जगत् । स्वपित्यत्रैव वै विष्णुरिज्यमानः पुनः पुनः ॥ १३ देवदानवगन्धर्वा ऋषयः सिद्धचारणाः । मदा मेवन्ति तत्तीर्थ गङ्गायमुनमंगमे ॥ तत्र गच्छन्ति राजेन्द्र प्रयागे संयुतं च यत् । तत्र ब्रह्मादयो देवा दिशश्चैव दिगीश्वराः ॥ १५ लोकपालाश्च साध्याश्च पितरो लोकममताः । सनत्कुमारप्रमुखास्तथैव परमर्पयः ॥ १६ अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयः परे । तथा नागाश्च सिद्धाश्च सुपर्णाः खेचराश्च ये ॥ १७ सरितः सागराः शैला नागा विद्याधरास्तथा । हरिश्च भगवानास्त प्रजापतिपुरस्कृतः ॥ १८ गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ॥ १० ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत । श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि ॥ मृत्तिकालम्भनाद्वाऽपि नरः पापात्प्रमुच्यते ॥ तत्राभिषेक यः कुर्यात्संगमे संशितव्रतः । तुल्यं फलमवामीति राजसूयाश्वमेधयांः ॥ न वेदवचनात्तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागगमनं प्रति ॥ दश तीर्थसहस्राणि पष्टिकोव्यस्तथाऽपराः । येषां सांनिध्यमत्रव कीर्तनात्कुरुनन्दन ॥ २३ या गतिर्योगयुक्तस्य सदुत्थस्य मनीपिणः । सा गतिस्त्यजतः प्राणान्गङ्गायमुनसंगमे ॥ २४ ते न जीवन्ति लोकेऽस्मिन्यत्र यत्र युधिष्ठिर । ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥ २५ एवं दृष्ट्वा तु तत्तीर्थ प्रयागं परमं पदम् । मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ २६
* अयं पाटः ख. अ. पुस्तकयोरेव। १ख. अ. 'ते। कामाल्लोभाद्भयान्मोहादच्छे । २ट. न च पश्यति त घो ।
..