________________
४३ त्रिचत्वारिंशोऽध्यायः ] पद्मपुराणम् । कम्बलाश्वतरौ नागौ यमुनादक्षिणे तटे । तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥ २७ तत्र गत्वा तु तत्स्थानं महादेवस्य धीमतः । नरस्तारयते सर्वान्दशातीतान्दशापरान् ॥ २८ कृत्वाऽभिषेकं तु नरः सोऽश्वमेधफलं लभेत् । स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम् ॥ २९ पूर्वपार्धे तु गङ्गायास्त्रिषु लोकेषु भारत । कूपं चैव तु सामुद्रं प्रतिष्ठानं च विश्रुतम् ॥ ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति । सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥ उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः । हंसप्रपतनं नाम तीर्थ त्रैलोक्यविश्रुतम् ॥ अश्वमेधफलं तस्मिन्नातमात्रस्य भारत । यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ॥ उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे । सलिलस्तर्पयेद्यस्तु पितृस्तत्र विमत्सरः ॥ पष्टिवर्पसहस्राणि षष्टिवर्षशतानि च । सेवते पितृभिः सार्ध स्वर्गलोकं नराधिप ॥ पूज्यते सततं तत्र ऋषिगन्धर्वकिंनरैः । ततः स्वर्गपरिभ्रष्टः क्षीणकर्मा दिवश्च्युतः॥ ३६ उर्वशीसदृशीनां तु कन्यानां लभते शतम् । गवां शतसहस्राणां भोक्ता भवति भूमिप ॥ ३७ काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते । भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थ लभते पुनः ॥ ३८ कुशासनधरो नित्य नियतः संयतेन्द्रियः । एककालं तु भुञ्जानो मासं भोगपतिर्भवेत् ॥ ३९ सुवर्णालंकृतानां तु नारीणां लभते शतम् । पृथिव्याः मसमुद्राया महाभोगपतिर्भवेत् ॥ ४० दशग्रामसहस्राणां भोक्ता भवति भूमिप । काञ्चीनपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते ॥ ४१ धनधान्यसमायुक्तो दाता भवति नित्यशः।स भुक्त्वा विपुलान्भोगांस्तत्तीर्थ स्मरते पुनः॥४२ अथ तस्मिन्वटे रम्ये ब्रह्मचारी जितेन्द्रियः । उपोष्य योगयुक्तश्च ब्रह्मज्ञानमवामुयात् ॥ ४३ कोटितीर्थ समासाद्य यस्तु प्राणान्परित्यजेत् । कोटिवर्षसहस्राणि स्वर्गलोके महीयते ॥ ४४ ततः स्वगोत्परिभ्रष्टः क्षीणकमो दिवश्च्युतः । सुवर्णमणिमुक्तान्ये कुले भवति रूपवान् ॥ ४५ ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु । दशाश्वमेधिकं तत्र तीर्थ तत्रापरं भवेत् ॥ ४६ कृत्वाऽभिषेकं तु नरः मोऽश्वमेधफलं लभेत् । धनान्यो रूपवान्दक्षो दाता भवति धार्मिकः ४७ चतुर्वेदेषु यत्पुण्यं सत्यवादेषु यत्फलम् । अहिंसायां तु यो धर्मो गमनादेव तद्भवेत् ॥ ४८ कुरुक्षेत्रसमा गङ्गा यत्र तत्रावगाद्यते । कुरुक्षेत्राद्दशगुणा यत्र सिन्ध्या समागता ॥ ४९ यत्र गङ्गा महाभागा बहुनीर्थतपोधना । सिद्धक्षेत्रं हि तज्ज्ञयं नात्र कार्या विचारणा ॥ ५० क्षितौ तारयत मत्यानागांस्तारयतऽप्यधः। दिवि तारयते देवांस्तन सा त्रिपथा स्मृता ॥ ५१ यावदस्थीनि गङ्गायां तिष्ठन्ति तस्य देहिनः । तावद्वर्पसहस्राणि स्वर्गलोके महीयते ॥ ५२ तीथानां तु परं तीर्थ नदीनामुत्तमा नदी । मोक्षदा सर्वभूतानां महापातकिनामपि ॥ ५३ सर्वत्र सुलभा गङ्गा त्रिपु स्थान दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे ॥ तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ सर्वेषां चैव भूतानां पापोपहतचेतसाम् । गतिरन्यत्र मानां नास्ति गङ्गासमागतिः॥ ५५ पवित्राणां पवित्रं या मङ्गलानां च मङ्गलम् । महेश्वरशिरांभ्रष्टा सर्वपापहरा शुभा ॥ ५६
इति श्रीमहापुगणे पाद्म आदिखण्डे प्रयागमाहात्म्ये त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
आदितः श्लोकानां समष्टयङ्काः-२२९५