________________
महामुनिश्रीव्यासप्रणीतं
[१ आदिखण्डेअथ चतुश्चत्वारिंशोऽध्यायः । मार्कण्डेय उवाचशृणु राजन्मयागस्य माहात्म्यं पुनरेव तु । यच्छ्रत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ? मानसं नाम तत्तीर्थ गङ्गायामुत्तरे तटे । त्रिरात्रोपोषितो भूत्वा सर्वकामानवामुयात् ॥ २ गोभूहिरण्यदानेन यत्फलं प्रामुयानरैः । एतत्फलमवामोति तत्तीर्थ स्मरते पुनः॥ ३ अकामो वा सकामो वा गङ्गायां यो विपद्यते । मृतस्तु भवति स्वर्गे नरकं न च पश्यति ॥ ४ अप्सरोगणसंगीतैः सुप्तोऽसौ प्रतिबुध्यते । हंससारसयुक्तेन विमानेन स गच्छति ॥ ५ बहुवर्षाणि राजेन्द्र पदमहस्राणि भुञ्जते । ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः॥ ६ मुवर्णमणिमुक्ताब्यो जायते तु महाकुले । षष्टितीर्थसहस्राणि षष्टितीर्थशतानि च ॥ माघे मासि गमिप्यन्ति गङ्गायमुनसंगमे ॥ गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । प्रयागे माघमासे तु यह स्नातस्य तत्फलम् ॥ ८ गङ्गायमुनयोर्मध्ये पश्चानि यस्तु साधयेत् । अहीनाङ्गो विरोगश्च पञ्चेन्द्रियममन्वितः ॥ ९ यावन्ति रोमकूपाणि तस्य गात्रस्य देहिनः । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ १० ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् । स भुक्त्वा विपुलान्भोगांस्तत्तीर्थ भजते पुनः ॥ ११ जलप्रवेशं यः कुर्यात्संगमे लोकविश्रुते । राहग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः॥ १२ सोमलोकमवामोति सोमेन मह मोदते । षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥ १३ स्वर्गलोकमवामोति ऋषिगन्धर्वसेवितः । परिभ्रष्टस्तु राजेन्द्र समृद्ध जायते कुले ॥ १४ अधःशिरास्तु यो ज्वालामर्ध्वपादः पिबन्नरः । शतं वर्षसहस्राणि स्वर्गलोक महीयते ॥ १५ परिभ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः । भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थ भजते नरः॥ १६ यस्तु देहं विकर्तित्वा शकुनिभ्यः प्रयच्छति । विहगैरुपभुक्तस्य शृणु तस्यापि यत्फलम् ॥ १७ शतं वर्षसहस्राणां सोमलोके महीयते । ततः स्वर्गात्परिभ्रष्टो राजा भवति धार्मिकः ॥ १८ गुणवानरूपसंपन्नो विद्वान्सुप्रियदेहवान् । भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थ भजते पुनः ॥ १९ यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे । ऋणप्रमोचनं नाम तीर्थ तत्परमं स्मृतम् ॥ २० एकरात्रोषितो भूत्वा ऋणः सर्वैः प्रमुच्यते । सूर्यलोकमवाप्नोति अनृणी च सदा भवेत् ॥ २१ इति श्रीमहापुराणे पाद्म आदिखण्ड प्रयागमाहात्म्ये चतुश्चत्वारिशोऽध्यायः ॥ ४ ॥
आदितः श्लोकानां समष्ट्यङ्काः-२३१६
अथ पञ्चचत्वारिंशोऽध्यायः । युधिष्ठिर उवाचएतच्छ्रुत्वा प्रयागस्य यत्त्वया कीर्तनं कृतम् । विशुद्धमेतबृदयं प्रयागस्य तु कीर्तनात् ॥ अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम् ॥
मार्कण्डेय उवाचशृणु राजन्मयागे तु अनाशकफलं विभो । पामोति पुरुषो धीमा श्रद्दधानश्च यादृशम् ।। २
१ ख. म. 'रः । स तत्फ'। २ ख. म. 'ते तु यः । अ।