________________
४५ पञ्चचत्वारिंशोऽध्यायः ]
पद्मपुराणम् ।
अहीनाङ्गो विरोगश्च पञ्चेन्द्रियसमन्वितः । अश्वमेधफलं तस्य गच्छतस्तु पदे पदे ॥ कुलानि तारयेद्राजन्दश पूर्वान्दशापरान् । मुच्यते सर्वपापेभ्यो गच्छेत परमं पदम् ।। युधिष्ठिर उवाच
महाभागोऽसि धर्मज्ञ दानं वदसि मे प्रभो । अल्पेनैव प्रदानेन बहून्धर्मानवामुयात् ॥ अश्वमेधस्तु बहुभिः सुकृतैः प्राप्यते इह । एतं मे संशयं ब्रूहि परं कौतूहलं हि मे ॥ मार्कण्डेय उवाच
शृणु राजन्महावीर यदुक्तं पद्मयोनिना । ऋषीणां संनिधौ पूर्व कथ्यमानं मया श्रुतम् || पञ्चयोजनविस्तीर्ण प्रयागस्य तु मण्डलम् । संप्रविष्टस्य तद्भूमावश्वमेधः पदे पदे || व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश । नरस्तारयते सर्वान्यस्तु प्राणान्परित्यजेत् ।। एवं ज्ञात्वा तु राजेन्द्र सदा श्रद्धापरो भवेत् । अश्रद्दधानाः पुरुषाः पापोपहतचेतसः || न प्राप्नुवन्ति तत्स्थानं प्रयागं देवनिर्मितम् ॥
युधिष्ठिर उवाच
स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः । कथं तीर्थफलं तेषां कथं पुण्यमवाप्नुयुः ॥ विक्रयं सर्वभाण्डानां कार्याकार्यमजानतः । प्रयागे का गतिस्तस्य एवं ब्रूहि महामुने ॥ मार्कण्डेय उवाच
शृणु राजन्महागुह्यं सर्वपापप्रणाशनम् । मासं वसंस्तु राजेन्द्र प्रयागे नियतेन्द्रियः ।। मुच्यते सर्वपापेभ्यो यथाऽऽदिष्टं स्वयंभुवा ॥
१३
शुचिस्तु प्रयतो भूत्वाऽहिंसकः श्रद्धयाऽन्वितः । मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम् ||१४ विश्रम्भघातकानां तु प्रयागे शृणु तत्फलम् । त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत् ।। १५ त्रिभिर्मासैः प्रमुच्येत प्रयागात्तु न संशयः । अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् ॥ १६ सर्वकामसमृद्धस्तु स्वर्गलोके महीयते । स्थानं स लभते नित्यं धनधान्यसमाकुलम् ॥ एवं ज्ञानेन संपूर्णः सदा भवति भोगवान । तारिताः पितरस्तेन नरकात्मपितामहाः ॥ धर्मानुसारि तत्त्वज्ञ पृच्छतस्ते पुनः पुनः । त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम् ।। १९ युधिष्ठिर उवाच
१७ १८
अद्य मे सफलं जन्म अद्य मे सफलं कुलम् । मीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेव तेऽद्य वै ॥ त्वद्दर्शनात्तु धर्मात्मन्मुक्तोऽहं सर्वपातकैः ॥
८३
३
४
७
८
११
१२
मार्कण्डेय उवाच -
दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम् | कीर्तनाद्वर्धते पुण्यं श्रुतं पापप्रणाशनम् ।। २१ युधिष्ठिर उवाच
यमुनायां तु किं पुण्यं किं फलं तु महामुने । एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम् ।। २२ मार्कण्डेय उवाच
२३ २४
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगा ॥ येनैव निःसृता गङ्गा तेनैव यमुनाऽऽगता । योजनानां सहस्रेषु कीर्तनात्पापनाशिनी ॥ तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर । कीर्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति ।। २५ अवगाढा च पीता च पुनात्यासप्तमं कुलम् । प्राणांस्त्यजति यस्त्वत्र स याति परमां गतिम् ॥ २६