________________
महामुनिश्रीव्यासप्रणीतं—
अग्नितीर्थमिति ख्यातं यमुनादक्षिणे तटे । पश्चिमे धर्मराजस्य तीर्थ हरवरं स्मृतम् ॥ तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।।
२७
२८
एवं तीर्थसहस्राणि यमुना दक्षिणे तटे । उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः ॥ तीर्थ तु विरजं नाम यत्र देवाः सवासवाः । उपासते स्म संध्यां तु नित्यकालं युधिष्ठिर ।। २९ देवाः सेवन्ति तत्तीर्थं ये चान्ये विदुषी (?) जनाः। श्रद्धादानपरो भूत्वा कुरु तीर्थाभिषेचनम् ॥ ३० अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः । तेषु स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।। ३१ गङ्गा च यमुना चैव उभे तुल्यफले स्मृते । केवलं श्रेष्ठभावेन गङ्गा सर्वत्र पूज्यते ॥ एवं कुरुष्व कौन्तेय सर्वतीर्थाभिषेचनम् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ यस्त्विदं कल्य उत्थाय पठते च शृणोति वा । मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ ३४ इति श्रीमहापुराणे पाच आदिखण्डे यमुनामाहात्म्ये पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥ आदितः श्लोकानां समष्ट्यङ्काः -- २३५०
३२
३३
अथ षट्चत्वारिंशोऽध्यायः ।
८४
[ १ आदिखण्डे
युधिष्ठिर उवाच
1
11 २
३
श्रुतं मे ब्रह्मणा प्रोक्तं पुराणं पुण्यसंमितम् । तार्थानां तु सहस्राणि शतानि नियुतानि च ॥ १ सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता । पृथिव्यां नैमिपं पुण्यमन्तरिक्षे च पुष्करम् 1 प्रयागमपि लोकानां कुरुक्षेत्रं विशिष्यते । सर्वाणि संपरित्यज्य कथमेकं प्रशंससि ।। अप्रमाणमिदं प्रोक्तमश्रद्धेयमनुत्तमम् । गतिं च परमां दिव्यां भोगांश्चैव यथेप्सितान् ॥ किमर्थमल्पयोगेन बहुधर्मे प्रशंससि । एतं मे संशयं ब्रूहि यथादृष्टं यथाश्रुतम् ।।
४
मार्कण्डेय उवाच
अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि तद्भवेत् । नरस्य श्रद्दधानस्य पापोपहतचेतसः ॥ अश्रद्दधानो ह्यशुचिर्दुर्मतिस्त्यक्तमङ्गलः ॥
७
८
॥
९
1
एते पातकिनः सर्वे तेनेदं भाषितं मया । शृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम् ॥ प्रत्यक्षं च परोक्षं च यथाऽन्यत्संभविष्यति । यथैवान्यन्मया दृष्टं पुरा राजन्यथाश्रुतम् ॥ शास्त्रं प्रमाणं कृत्वा तु पूज्यते योगमात्मनः । क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात् जन्मान्तरसहस्रेभ्यो योगो लभ्येत मानवैः । यथा युगसहस्रेण योगो लभ्येत मानवैः || १० यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति । तेन दानेन दत्तेन योगी लभ्येत मानवैः ।। ११ प्रयागे तु मृतस्येदं सर्वे भवति नान्यथा । प्रधानहेतुं वक्ष्यामि श्रद्दधत्सु च भारत ।। यथा सर्वेषु भूतेषु सर्वत्रैव तु दृश्यते । ब्रह्म नैवास्ति वै किंचिद्यद्वक्तुं त्विदमुच्यते ।। यथा सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते । एवं सर्वेषु लोकेषु प्रयागः पूज्यते बुधैः ।। पूज्यते तीर्थराजश्च सत्यमेतद्युधिष्ठिर । ब्रह्माऽपि स्मरते नित्यं प्रयागं तीर्थमुत्तमम् | तीर्थराजमनुप्राप्य नैवान्यत्किचिदिच्छति । को हि देवत्वमासाद्य मानुषत्वं चिकीर्षति ॥ १६ अनेनैवानुमानेन त्वं ज्ञास्यसि युधिष्ठिर । यथा पुण्यमपुण्यं वा तथैव कथितं मया ।।
१२
१३
१४
१५
१७
१ क. एवं ।