________________
४७ सप्तचत्वारिंशोऽध्यायः ] पद्मपुराणम् ।
युधिष्ठिर उवाचश्रुतं तद्यत्त्वया प्रोक्तं विस्मितोऽहं पुनः पुनः । कथं योगेन तत्प्राप्तिः स्वर्गलोकस्तु कर्मणा ॥१८ तदा च लभते भोगान्गां च तत्कर्मणां फलम् । तानि कर्माणि पृच्छामि पुनः प्राप्यते मही १९
मार्कण्डेय उवाचशुणु राजन्महाबाहो यथोक्तकर्मणा मही । गामग्निं ब्राह्मणं शास्त्रं काश्चनं सलिलं स्त्रियः ॥ २० मातरं पितरं चैव यो निन्दति नराधिप । नैतेषामूर्ध्वगमनमेवमाह प्रजापतिः ॥ २१ एवं योगस्य संप्राप्तिः स्थानं परमदुर्लभम् । गच्छन्ति नरकं घोरं ये नराः पापकारिणः ॥ २२ हस्त्यश्वं गामनड्वाहं मणिमुक्तादि काञ्चनम् । परोक्षं हरते यस्तु पश्चादानं प्रयच्छति ॥ २३ न ते गच्छन्ति वै स्वर्ग दातारो यत्र भोगिनः । अनेन कर्मणा युक्ताः पच्यन्ते नरकेऽधमाः २४ एवं योगं च धर्म च दातारं च युधिष्ठिर । यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम् ॥ निरुक्तं तु प्रवक्ष्यामि यथाऽयं स्वयमाप्नुयात् ॥
इति श्रीमहापुराणे पाद्य आदिखण्ड प्रयागमाहात्म्ये पटचत्वारिंशोऽध्यायः ॥ ४६॥
आदितः श्लोकानां समष्ट्यङ्काः-२३७५
अथ सप्तचत्वारिंशोऽध्यायः ।
मार्कण्डेय उवाचशृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । नैमिपं पुष्करं चैव गोतीर्थ सिन्धुसागरम् ॥ १ कुरुक्षेत्रं गया चैव गङ्गासागरमेव च । एते चान्ये च बहवो ये च पुण्याः शिलोचयाः॥ २ दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथा पर । प्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः ॥ ३ त्रीणि वाऽप्यग्निकुण्डानि येषां मध्ये तु जाह्नवी । प्रयागादभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता ॥ ४ तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । गङ्गा यमुनया साध संस्थिता लोकभाविनी ॥ ५ गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल कलां नाहन्ति षोडशीम् ॥ ६ तिस्रः कोठ्योर्धकोटी च तीर्थानां वायुरब्रवीत् । दिवि भुव्यन्तरिक्षे च तत्सर्व जाह्नवी स्मृता॥७ प्रयागं समधिष्ठानं कम्बलाश्वतरावुभौ । भागवत्यथ या चैव वेदिरेषा प्रजापतेः॥ तत्र देवाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर । पूजयन्ति प्रयागं ते ऋषयश्च तपोधनाः॥ यजन्ते क्रतुभिर्देवांस्तथा बहुधना नृपाः । ततः पुण्यतमो नास्ति त्रिषु लोकेषु भारत ॥ १० प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो । दश तीर्थसहस्राणि तिस्रः कोट्यस्तथा पराः॥११ यत्र गङ्गा महाभागा स देशस्तत्तपोवनम् । सिद्धक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ १२ इति सत्यं द्विजातीनां साधूनामात्मजस्य वा । मुहृदां च जपात्कणे शिष्यस्यानुगतस्य वा ॥१३ इदं धन्यमिदं स्वयमिदं सेव्यमिदं सुखम् । इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ १४ महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम् । अधीत्य द्विजोऽध्ययनं निघूलत्वमवामुयात् ॥ १५ यश्चेदं शृणुयानित्यं तीर्थ पुण्यं सदा शुचिः । जातिस्मरत्वं लभते नाकपृष्ठे च मोदते ॥ १६ माप्यन्ते तानि तीर्थानि सद्भिः शिष्टार्थदर्शिभिः । स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव १७ त्वया तु सम्यक्पृष्टेन कथितं तु मया विभो । पितरस्तारिताः सर्वे तारिताश्च पितामहाः॥१८ प्रयागस्य तु सर्वे ते कलां नार्हन्ति षोडशीम् । एवं ज्ञानं च योगं च तीर्थ चैव युधिष्ठिर ॥१९