________________
महामुनिश्रीन्यासमणीत
[१ आदिखण्डेबहुक्लेशेन युज्यन्ते ततो यान्ति परां गतिम् । प्रयागस्मरणाल्लोकः स्वर्गलोकं स गच्छति ॥ २० इति श्रीमहापुराणे पान आदिखण्डे प्रयागमाहात्म्ये सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
आदितः श्लोकानां समष्ट्यङ्काः-२३९५
अथाष्टाचत्वारिंशोऽध्यायः । युधिष्ठिर उवाचकथा सर्वा त्वियं प्रोक्ता प्रयागस्य महामुने । एवं मे सर्वमाख्याहि यथा हि मम तारयेत् ॥ १
मार्कण्डेय उवाचशृणु राजन्प्रवक्ष्यामि प्रोक्तं सर्वमिदं जगत् । ब्रह्मा विष्णुस्तथेशानो देवता प्रभुरव्ययः॥ २ ब्रह्मा सृजति भूतानि स्थावरं जगमं च यत्। तान्येतानि परो लोके विष्णुः पालयति प्रजाः॥३ कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत् । न ददाति च नाऽऽदत्ते न कदाचिद्विनश्यति ॥ ४ ईश्वरः सर्वभूतानां यः पश्यति स पश्यति । उत्तरेण प्रतिष्ठानो दिदानी ब्रह्म तिष्ठति ॥ ५ महेश्वरो वटे भूत्वा तिष्ठते परमेश्वरः । ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।। ६ रक्षन्ति परमं नित्यं पापकर्मपरायणान् । ये तु चान्ये च तिष्ठन्ति ते यान्ति परमां गतिम् ॥ ७
युधिष्ठिर उवाचअप्याह मे यथातत्वं यथेषां तिष्ठते श्रुतम् । केन वा कारणेनेव तिष्ठन्ति लोकसंमनाः ॥ ८
मार्कण्डेय उवाचप्रयागे निवसन्त्येते ब्रह्मविष्णुमहेश्वराः । कारणं तु प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर ॥ ९ पञ्चयोजनविस्तीर्ण प्रयागस्य तु मण्डलम् । तिष्ठन्ति रक्षणार्थाय पापकर्मनिवारणाः ॥ १० तस्मिंस्तु स्वल्पकं पापं नरके पातयिष्यति । एवं ब्रह्मा च विष्णुश्च प्रयागे स महेश्वरः ॥ ११ सप्त द्वीपाः समुद्राश्च पर्वताश्च महीतले । ध्रियमाणाश्च तिष्ठन्ति यावदाभूतसंप्लवम् ॥ १२ ये चान्ये बहवः सर्वे तिष्ठन्ति च युधिष्ठिर । पृथिवीस्थानमारभ्य निर्मितं दैवतैत्रिभिः ॥ १३ प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम् । एतत्पुण्यं पवित्रं च प्रयागं तु युधिष्ठिर । खराज्यं कुरु राजेन्द्र भ्रातृभिः सहितो भव ।। इति श्रीमहापुराणे पाद्म दिखण्डे प्रयागमाहात्म्येऽष्टाचत्वारिंशोऽध्यायः ॥ ४८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-२४०९
अर्थकोनपञ्चाशत्तमोऽध्यायः ।
सूत उवाचभ्रातृभिः सहिताः सर्वे पाण्डवा धर्मनिश्चयाः । ब्राह्मणेभ्यो नमस्कृत्वा गुरुदेवांस्त्वतर्पयन् ॥१ वासुदेवोऽपि तत्रैव क्षणेनाभ्यागतस्तदा । पाण्डवैः सहितैः सर्वैः पूज्यमानः स माधवः ॥ २ कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः । अभिषिक्तः स्वराज्ये तु धर्मपुत्रो युधिष्ठिरः ॥ ३ एतस्मिनन्तरे चैव मार्कण्डेयो महात्मवान् । ततः स्वस्तीति चोक्त्वा वै क्षणादाश्रममागतः ॥ ४ युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः महितस्तु सः। महादानं ददौ चाथ धर्मपुत्रो युधिष्ठिरः ।। ५
१ स. न. न कदाचिच्च वर्धेत न । २ ट. 'नाद्देवानां ब्र।