________________
५० पञ्चाशत्तमोऽध्यायः]
पमपुराणम् । पस्त्विदं कल्यमुत्थाय पठते वा शृणोति वा । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥
वासुदेव उवाचमम वाक्यं तु कर्तव्यं तव स्नेहाइवीम्यहम् । नित्यं संस्मर त्वं राजन्प्रयागं विगतज्वरः॥ ७ प्रयागं संस्मरन्नित्यं सहास्माभियुधिष्ठिर । स्वयं प्राप्स्यसि राजेन्द्र स्वर्गलोकं तु शाश्वतम् ॥ ८ प्रयागमनुगच्छेदा वसते वाऽपि यो नरः । सर्वपापविशुद्धात्मा स्वर्गलोकं स गच्छति ॥ ९ प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः । अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥ अकोपनश्च राजेन्द्र सत्यवादी दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमभुते ॥ ऋषिभिः क्रतवः प्रोक्ता देवैश्वापि यथाक्रमम् । न हि शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ॥ १२ वहूपकरणो यज्ञो नानासंभारविभ्रमः । प्राप्यते विविधैरथैः समृद्धैर्वा नरैः कचित् ॥ १३ यो दरिदैरपि बुधैः शक्यः प्राप्तुं नरेश्वर । ततो यज्ञः फलैः पुण्यैस्तं निबोध जनेश्वर ॥ १४ ऋषीणां परमं गुह्यमिदं भरतसत्तम । तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ दश कोटिसहस्राणि त्रिंशत्कोव्यस्तथा परे । माघमासे तु गङ्गायां गमिष्यन्ति नरर्षभ ॥ १६ स्वस्थो भव महाराज भुक्ष्व राज्यमकण्टकम् । पुनद्रेक्ष्यसि राजेन्द्र यजमानो विशेषतः॥ १७ इति श्रीमहापुराणे पाद्म आदिखण्डे प्रयागमाहात्म्यकथनं नामोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥
आदितः श्लोकानां समष्टयङ्काः-२४२६
अथ पञ्चाशत्तमोऽध्यायः ।
ऋषय ऊचु:भवता कथितं सर्व यत्किचिन्पृष्टमेव च । इदानीमपि पृच्छाम एकं वद महामते ॥ १ एतेषां खलु तीर्थानां सेवनायत्फलं भवेत् । सर्वेषां किल कृत्वैकं कर्म केन च लम्यते ॥ एतन्नो ब्रूहि सर्वज्ञ कर्मवं यदि वर्तते ॥ - सूत उवाचकर्मयोगः किल प्रोक्तो वर्णानां द्विजपूर्वशः । नानाविधो महाभागास्तत्र चैकं विशिष्यते ॥ ३ हरिभक्तिः कृता येन मनसा वचसा गिरा । जितं तेन जितं तेन जितमेव न संशयः ॥ ४ हरिरेव समाराध्यः सर्वदेवेश्वरेश्वरः । हरिनाममहामनश्यत्पापपिशाचकम् ॥ हरेः प्रदक्षिणां कृत्वा सकृदप्यमलाशयाः। सर्वतीर्थसमागाद्यं लभन्ते या संशयः॥ प्रतिमां च हरेर्दृष्ट्वा सर्वतीर्थफलं लभेत् । विष्णुनाम परं जप्त्वा सर्वमत्रफलं लभेत् ॥ विष्णुप्रसादतुलसीमाघ्राय द्विजसत्तमाः । प्रचण्डं विकरालं तद्यमस्याऽऽस्यं न पश्यति ॥ ८ सकृत्मणामी कृष्णस्य मातुः स्तन्यं पिबेन हि । हरिपादे मनो येषां तेभ्यो नित्यं नमो नमः।।९ पुल्कसः श्वपचो वाऽपि ये चान्ये म्लेच्छजातयः। तेऽपि वन्द्या महाभागा हरिपादेकसेवका:१० किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । हरौ भक्तिं विधायैव गर्भवासं न पश्यति ॥ ११ हरेरग्रे स्वनैरुच्चैर्नृत्यस्तनामकृन्नरः । पुनाति भुवन विमा गङ्गादिसलिलं यथा ॥ १२ दर्शनात्स्पर्शनात्तस्य आलापादपि भक्तितः। ब्रह्महत्यादिभिः पापमुच्यते नात्र संशयः ॥ १३ हरेः प्रदक्षिणं कुर्वनुश्स्तनामकन्नरः । करतालादिसंधानं सुस्वरं कलशन्दितम् ॥ ब्रह्महत्यादिकं पापं तेनैव करतालितम् ॥
mroor,