________________
महामुनिश्रीव्यासप्रणीतं
[ १ आदिखण्डेहरिभक्तिकथामुक्ताख्यायिका शृणुयाञ्च यः । तस्य संदर्शनादेव पूतो भवति मानवः ॥ १५ किं पुनस्तस्य पापानामाशङ्का मुनिपुङ्गवाः । तीर्थानां च परं तीर्थ कृष्णनाम महर्षयः॥ १६ तीर्थी कुर्वन्ति जगतीं गृहीतं कृष्णनाम यैः । तस्मान्मुनिवराः पुण्यं नातः परतरं विदुः॥ १७ विष्णुप्रसादनिर्माल्यं भुक्त्वा धृत्वा च मस्तके । विष्णुरेव भवेन्मयो यमशोकविनाशनः ॥ अर्चनीयो नमस्कार्यो हरिरेव न संशयः ॥ ये हीमं विष्णुमव्यक्तं देवं वाऽपि महेश्वरम् । एकीभावेन पश्यन्ति न तेपां पुनरुद्भवः ॥ १९ तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् । हरिं चैकं प्रपश्यध्वं पूजयध्वं तथैव हि ॥ २० येऽसमानं प्रपश्यन्ति हरिं वै देवतान्तरम् । ते यान्ति नरकान्योरान्न तांस्तु गणयेद्धरिः ॥ २१ मूर्ख वा पण्डितं वाऽपि ब्राह्मणं केशवप्रियम् । श्वपाकं वा मोचयति नारायणः स्वयंप्रभुः ॥२२ नारायणात्परो नास्ति पापराशिदवानलः । कृत्वाऽपि पातकं घोरं कृष्णनाम्ना विमुच्यते ॥२३ स्वयं नारायणो देवः स्वनाम्नि जगतां गुरुः। आत्मनोऽभ्यधिकां शक्ति स्थापयामास सुव्रताः२४ अत्र ये विवदन्ते वा आयासलघुदर्शनात् । फलानां गौरवाच्चापि ते यान्ति नरकं बहु ॥ २५ तस्माद्धरौ भक्तिमान्स्याद्धरिनामपरायणः । पूजकं पृष्ठतो रक्षेन्नामिनं वक्षसि प्रभुः ॥ २६ हरिनाममहावज्रं पापपर्वतदारणम् । तस्य पादौ तु सफलो तदर्थगतिशालिनी ॥ २७ तावेव धन्यावाख्याती यौ तु पूजाकरी करौ । उत्तमानमुत्तमाकं तद्धरौं नम्रमेव यत् ॥ २८ सा जिहा या हरिस्तोति तन्मनस्तत्पदानुगम्।तानि लामानि चोच्यन्ते यानि तन्नानि चात्थितम्२९ कुर्वन्ति तच्च नेत्राम्बु यदच्युतप्रसङ्गतः। अहो लोका अतितरां दवदोषण वञ्चिताः ॥ ३० नामोच्चारणमात्रेण मुक्तिदं न भजन्ति वै । वञ्चितास्त च कलुषाः स्त्रीणां सङ्गप्रसङ्गतः॥ ३१ प्रतिष्ठन्ति च लोमानि येषां नो कृष्णशब्दने । ते मर्खा यकृतात्मानः पुत्रशोकादिविहलाः॥ ३२ रुदन्ति बहुलालापर्न कृष्णाक्षरकीर्तने । जिहां लब्ध्वाऽपि लोकेऽस्मिन्कृष्णनाम जपन्न हि ॥ ३३ लब्ध्वाऽपि मुक्तिसोपानं हेलयैव च्यवन्ति ते । तस्माद्यन्नेन वै विष्णुं कर्मयोगेन(ण) मानवः॥३४ कर्मयोगाचितो विष्णुः प्रसीदत्येव नान्यथा । तीर्थादप्यधिकं तीर्थ विष्णार्भजनमुच्यते ॥ ३५ सर्वेषां खलु तीर्थानां स्नानपानावगाहनः । यत्फलं लभते मर्त्यस्तत्फलं कृष्णसेवनात् ॥ ३६ यजन्ते कर्मयोगेन(ण) धन्या एव नरा हरिम् । तस्माद्यजध्वं मुनयः कृष्णं परममङ्गलम् ।। ३७ इति श्रीमहापुराणे पाद्म आदिखण्डे कर्मयोगप्रशंसन नाम पभाशत्तमोऽध्यायः ॥ ५० ॥
आदितः श्लोकानां समष्ट्यङ्काः-२४६३
अर्थकपञ्चाशत्तमोऽध्यायः ।
ऋषय ऊचु:कर्मयोगः कथं सूत येन चाऽऽराधितो हरिः । प्रसीदति महाभाग वद नो वदतां वर ॥ १ येनासी भगवानीशः समाराध्यो मुमुक्षुभिः । तद्वदाखिललोकानां रक्षणं धर्मसंग्रहम् ॥ २ तं कर्मयोगं वद नः सूत मूर्तिमयस्त यः । इति शुश्रूषवो विप्रा भवदने व्यवस्थिताः ॥ ३
क. येऽन्यथा संप्रपश्यन्ति हरं वै । २ ख. अ. 'म् । तो च पा । ३ ख. अ. 'ला यौ तार्थ । । ख. म. मा । ५ ख.अ. 'लाः । कर्वन्ति बहुलायासं न कृष्णाक्षरकीर्तनम् । जि'। ढ. जन्म । ७ ख. अ. 'नं हित्ववेतच्यव।