________________
५१ एकपञ्चाशत्तमोऽध्यायः ] पबपुराणम् ।
सूत उवाचएवमेव पुरा पृष्टो व्यासः सत्यवतीसुतः । ऋषिभिरग्निसंकाशैर्व्यासस्तानाह यच्वृणु ॥
व्यास उवाचशृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम् । कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम् ॥ ५ आम्नायसिद्धमखिलं ब्राह्मणार्थं प्रदर्शितम् । ऋषीणां शृण्वतां पूर्व मनुराह प्रजापतिः ॥ ६ सर्वपापहरं पुण्यमृषिसंधैर्निषेवितम् । समाहितधियो यूयं शृणुध्वं गदतो मम ॥ कृतोपनयनो वेदानधीयीत द्विजोत्तमः । गर्माष्टमेऽष्टमे वाऽब्दे स्वसूत्रोक्तविधानतः ॥ ८ दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः। भिक्षाहारो गुरुहितो वीक्षमाणो गुरोर्मुखम् ॥९ कार्पासमुपवीतार्थ निर्मितं ब्रह्मणा पुरा । ब्राह्मणानां त्रिसूत्रं कौषयवस्त्रमेव वा ॥ १० सदोपवीती चैव स्यात्सदा वद्धशिखो द्विजः । अन्यथा यत्कृतं कर्म तद्भवत्ययथाकृतम् ॥ ११ वसेदविकृतं वासः कार्पासं वा कपायकम् । तदेव परिधानीयं शुलपतीवमुत्तमम् ॥ १२ उत्तरं तु समानातं वासः कृष्णाजिनं शुभम् । तदभावे गवयजं रौरवं वा विधीयते ॥ १३ उद्धृत्य दक्षिणं बाहुं सव्यबाहौ समर्पितम् । उपवीतं भवेन्नित्यं निवीतं कण्ठसजने ॥ १४ सव्यबाहुं समुदृत्य दक्षिणे तूभृतं द्विजाः। प्राचीनावीतमित्युक्तं पित्र्ये कर्मणि पोजयेत् ।। १५ अग्न्यागारे गवां गोष्ठे होमे तेर्थे तथैव च । स्वाध्याये भोजने नित्यं ब्राह्मणानां च संनिधौ१६ उपासने गुरूणां च संध्ययोः साधुसंगमे । उपवीती भवेन्नित्यं विधिरेप सनातनः ॥ १७ मौञ्जी त्रिवृत्समाश्लिष्टां कुर्याद्विमस्य मेखलाम् । मुञ्जाभावे कुशेनाऽऽहुन्थिनकेन वा त्रिभिः१८ धारयेद्वैण(धा? वैणव)पालाशो दण्डो केशान्तिको द्विजः। यज्ञीयवृभज वाऽथ सौम्यमत्रणमेव च१९ सायं प्रातर्द्विजः संध्यामुपासीत समाहितः। कामाल्लोभाद्भयान्मोहान्यक्त्वैनां पतितो भवेत् ॥२० अग्निकार्य ततः कुर्यात्सायं पातः प्रसन्नधीः । स्नात्वा संतपयेदेवानृपीन्पितगणांस्तथा ॥ २१ देवताभ्यर्चनं कुर्यात्पुष्पैः पत्रैर्यवाम्बुभिः। अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ॥ २२ असावहं भो नामेति सम्यक्प्रणतिपूर्वकम् । आयुरारोग्यसिद्ध्यर्थ तन्द्रादिपरिवर्जितः ॥ २३ आयुप्मान्भव सौम्येति वाच्या विमोऽभिवादने । आकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरप्लुतः॥ यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषो यथा शूद्रस्तथैव सः॥२५ व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । मव्येन मव्यः स्पष्टव्यो दक्षिणेन तु दक्षिणः॥ २६ लोकिकं वैदिकं वाऽपि तथाऽऽध्यात्मिकमेव वा । आददात(च)यता ज्ञानं तं पूर्वमभिवादयेत्॥२७ नोदकं धारयेद्रेक्ष्यं पुष्पाणि समिधस्तथा। एवंविधानि चान्यानि न देवार्थेषु कर्मसु ॥ २८ ब्राह्मणान्कुशलं पृच्छत्क्षत्रवन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः । मातुलः श्वशुरश्चैव मातामहपितामहौ ॥ ३० वर्णश्रेष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः । माता मातामही गुर्वी पितुर्मातुश्च सोदरा ॥ ३१ श्वश्रूः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः । ज्ञेयस्तु गुरुवर्गोऽयं मातृतः पितृतो द्विजाः॥३२ अनुवर्तनमेतेषां मनोवाकायामभिः । गुरून्दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ॥ ३३ नैतैरुपविशेत्सा विवदेनाऽऽत्मकारणात् । जीवितार्थमपि द्वेषाद्गुरुभिर्नैव भाषणम् ॥ उद्रिक्तोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ॥
१ अ. 'मन्तव' । २ ट. जाये । ३ ट. 'थै त्रपादि।
२९
१२