________________
५३ त्रिपञ्चाशत्तमोऽध्यायः] पद्मपुराणम् ।
२१ भाले कचेषु नेत्रेषु कुचाग्रेषु च सर्वदा । नाभौ कटौ पृष्ठदेशे जघने योनिमण्डले ॥ १५ अधरे दन्तभागेषु कक्षायां हि न संशयः । [*अङ्गेष्वेवं प्रत्यङ्गेषु सर्वत्र निवसाम्यहम् ॥ १६ नारी मम गृहं देव सदा तत्र वसाम्यहम् । तत्रस्थः पुरुषान्सर्वान्मारयामि न संशयः॥ १७ स्वभावेनाबला नारी संतप्ता मम मागेणेः । भ्रातरं पितरं दृष्ट्वा अन्यं स्वजनबान्धवम् ॥ १८ सरूपं सगुणं देव मम बाणाहता सती।] चलते नात्र संदेहो विपाकं नैव चिन्तयेत् ॥ १९ योनिः स्पैन्दति नारीणां स्तनौ चैव सुरेश्वर। नास्ति धैर्य सुरेशान सुकलां नाशयाम्यहम्॥२०
इन्द्र उवाचपरुषोऽहं भविष्यामि रूपवान्गुणवान्धनी । कौतुकार्थमिमां नारी चालयामि मनोद्भव ॥ २१
नेव कामान संत्रासान वा लोभान कारणात् । न वै मोहान वै क्रोधात्सत्यं सत्यं रतिप्रिय २२ कथं मे दृश्यते तस्या महत्सत्यं पतिव्रतम् । निष्कर्षिष्य इतो गत्वा भवन्मोहोऽत्र कारणम् ॥२३ एवं कामं च संदिश्य जगाम सुरराट् स्वयम् ]। मन्मथाकृतिः संभूतो रूपवान्गुणवान्स्वयम्॥२४ सर्वाभरणशोभाङ्गः सर्वभोगसमन्वितः । भोगलीलासमाकीर्णः सर्वदौदार्यसंयुतः ॥ २५ यत्र सा तिष्ठत देवी कुकलस्य प्रिया नृप । आत्मलीलां च रूपं च गुणभावं प्रदर्शयेत् ॥ २६ नैव पश्यति सा तं तु पुरुषं रूपसंपदम् । यत्र यत्र व्रजेत्सा हि तत्र तां पश्यते नृप ॥ २७ साभिलाषेण मनसा तामेवं परिपश्यति । कामचेष्टां सहस्राक्षो दर्शयन्सर्वभावकैः ॥ २८ चतुप्पथे पथे तीर्थे यत्र देवी प्रयाति सा । तत्र तत्र सहस्राक्षस्तामेव परिपश्यति ॥ २९ इन्द्रण प्रेषिता दूती तत्पार्थ प्रति सा गता । सुकलां च महाभागां प्रत्युवाच प्रहस्य वै ॥ ३० अहो सत्यमहो धैर्यमहो कीर्तिरहो क्षमा । अस्या रूपेण संसारे नास्ति नारी वरानना ॥ ३१ का त्वं भवसि कल्याणि कस्य भायो भविष्यास । यस्य त्वं सगुणा भायो स धन्यः पुण्यभाग्भुवि॥ तस्यास्तु वचनं श्रुत्वा तामुवाच मनस्विनी । वैश्यजात्यां समुत्पन्नो धर्मात्मा सत्यवत्सलः॥३३ तस्याहं हि प्रिया भार्या सत्यसंधस्य धीमतः । कृकलस्यापि वैश्यस्य सत्यमेव वदामि ते ॥३४ मम भर्ता स धर्मात्मा तीर्थयात्रां गतः सुधीः । तस्मिन्गते महाभागे मम भर्तरि सांप्रतम् ॥ ३५ अतिक्रान्ताः शृणुष्व त्वं त्रयश्चैवापि वत्सराः। ततोऽहं दुःखिता जाता विना तेन महात्मना३६ एतत्ते सर्वमाख्यातमात्मवृत्तान्तमेव च । भवती पृच्छेती का मां भविष्यति वदस्व मे ॥ ३७ सुकलाया वचः श्रुत्वा दूत्या आभाषितं पुनः । मामेवं पृच्छसे भद्रे तत्ते सर्व वदाम्यहम् ॥३८ अहं तवान्तिकं प्राप्ता कार्यार्थ वरवणिनि । श्रूयतामाभिधास्यामि श्रुत्वा चैवावधार्यताम् ॥ ३९ गतस्ते निघृणो भर्ता त्वां त्यक्त्वा तु वरानने । किं करिष्यास तेनापि [*प्रियाघातकरेण च ॥ यस्त्वां त्यक्त्वा गतः पापी साव्याचारसमन्विताम् । किंवा स ते गतो बाले तत्र जीवति वै मृतः॥ किं करिष्यति तेनापि भवती खिद्यते वृथा । कस्मानाशयसे त्वं च देहं हेमसमप्रभम् ॥ ४२ बाल्ये वयसि संप्राप्त मानवो न च विन्दति । एकं सुखं महाभागे बालक्रीडां विना शुभे ॥४३
* एतच्चिद्वान्तर्गतः पाठो ग. घ. ट. पुस्तकस्थः । । एतञ्चिह्नान्तर्गतः पाठो ग. घ. ज. ट. ह. पुस्तकस्थः । __* एचिहान्तर्गतः पाठो ग. घ. छ. ज. झ. ट. इ.पुस्तकस्थः ।
१ ग. घ. ज. ट. पातकं । २ अ. स्कन्दति। ३ ग. घ. ट. ड. सर्वावयवस। ज. सर्वावयवसुंदरः । य । ४ ग. घ. ज. ट. ड. तु सुरूपं नृपस । ५ ग. घ. ट. ड. 'त्र तत्र ब्रजेनप। ६ ग. घ. ड. छ. ज. स. इ. द. हो कान्तिर। ७ ज. सदृशी। ८ ग. घ. ज. ट. ड. यशस्विनी । ९ ग. घ. ज. ट. 'च्छति का वं हसिष्यासे व।