________________
२३२ महामुनिश्रीव्यासमणीतं
[२ भूमिखण्डेवार्धक्ये दुःखसंप्राप्तिर्जरा कार्य प्रहारयेत् । तारुण्ये भुज्यतां भोगाः सुखान्सर्वान्वरानने ॥ १४ यावत्तिष्ठति तारुण्ये तावञ्जति मानवः । सुखभोगादिकं सर्व स्वेच्छया सेवते नरः॥ ४५ यावत्तिष्ठति तारुण्यं तावद्भोगान्प्रभुञ्जते । वयस्यपि गते भद्रे तारण्ये किं करिष्यसि ॥ ४६ संप्राप्ते वार्धके देवि किंचित्कार्य न सिध्यति । स्थविरश्च तपः कर्तुं सुखकार्य न गच्छति ॥ ४७ व(प)यस्यपि गते बाले क्रियते सेतुबन्धनम् । तादृशोऽयं भवेत्कायस्तारुण्ये तु गते शुभे ॥ ४८ तस्मात्सुसंमुखेनापि पिबस्व मधुमाधवीम् । काम एष दहत्यङ्गं तवेदं चारुलोचने ॥ ४९ अयमेकः समायातः पुरुषो रूपवान्गुणी । अयं हि पुरुषव्याघ्रः सर्वज्ञो गुणवान्धनी ॥ ५० तवार्थे नित्यसंयुक्तः स्नेहेन वरवणिनि । वृद्धत्वं नास्ति चैवास्य स्वयं सिद्धः सुसिद्धिदः ॥५१ अजरो निर्जरो व्यापी सुसिद्धः सर्ववित्तमः । अकामः कामदो लोक आत्मरूपेण वर्तते ॥ ५२ यथा गेहस्य संस्थानं तथा गेहस्य दृश्यते । यथा वार्धकिना कायो यथा सूत्रेण मन्दिरम् ॥ ५३ अश्मकाष्ठसुसंपनैर्नानादारुसमुद्भवैः । मृत्तिकाष्टो(?)दकेनापि प्रमाता परिमाणयेत् ॥ ५४ लेपितं लेपनैः काष्ठं चित्रं भवति चित्रकैः । प्रथमं रूपमायाति गृहं सूत्रेण मूलतः॥ ५५ पुष्णन्ति(प्णाति) च स्वयं तत्तु लेपना दिने दिने । वायुना दोलितं नित्यं गृहं च मलिनायते ॥५६ मध्यमा वार्तुतः(?) कालो गृहस्य परिकथ्यते । रूपहानिर्भवेत्तस्य गृहस्वामी विलेपयेत् ॥ ५७ स्वेच्छया च गृहस्वामी रूपवन्तं नयगृहम् । संपन्ने ?) तस्य गेहम्य दृतिके परिकथ्यते ॥ ५८ काष्ठशिल्पस्य शीर्णत्वं बहुकालेः प्रयाति(?) ते ।।
मुकलोवाचबाल्यं नास्त्यपि जीवस्य तारुण्यं नास्ति जीवित । स्थानभ्रष्टा प्रजायन्ते मूलाग्रं प्रचलन्ति ते५९ न सहेल्लेपनाभारमाधारण प्रतिष्ठति । एतद्गृहस्य वार्धक्यं कथितं शृणु इतिक ॥ ६० पतमानं गृहं गत्वा गृहस्वामी परित्यजेत् । गेहमन्यं प्रविन्देद्यः प्रयान्येवं हि सत्वरम् ॥ ६१ तथा बाल्यं च तारुण्यं नृणां वृद्धत्वमेव च । म बाल्ये बालरूपश्च ज्ञानहीनं प्रकारयेत् ॥ ६२ चिन्तयेत्काममेवापि वस्त्रालंकारभूषणैः । लेपनैश्चन्दनैश्चान्यस्ताम्बलप्रभवादिभिः ॥ ६३ कार्यस्तारुण्यतां याति अतिरूपो विजायते । बाह्याभ्यन्तरमवापि रसः सर्वैः प्रपोषयेत् ।। ६४ तेन पोपणभावेन परिपुष्टः प्रजायते । जायते मांसवृद्धिस्तु रसेश्चापि नृपात्तम ॥ . . ६५ याति विस्तरतां राजन्नङ्गान्याप्यायितान्यपि । प्रत्यङ्गानि रसश्चैव स्वं स्वं रूपं प्रयान्ति वै ॥६६ दन्ताधरी स्तनो बाह कटिपृष्ठे ऊरू उभे । हस्तपादतलो तदबुद्धितत्त्वं तु च प्रपंदिरे ॥ ६७ उभाभ्यामपि तान्येवं वृद्धिमायान्ति तानि वै । अङ्गानि रसमांमाभ्यां स्वरूपाणि भवन्ति ते॥६८ तैः स्वरूपैर्भवेन्मयों रसदृद्धश्च दूतिके । स्वरूपः कथ्यते मया लोके केनं प्रियो भवेत् ॥ ६९
१ ग. ज. ड. रुण्यं तात्तिष्ठति । २ ग. घ. ज. 'रुण्यं कि करिष्यति । स । ३ ज. ने । वनेऽत्रैकः । ४ ग. घ. ड. रुषः प्राप्तः स । ५ग. घ. ट. ड. संगुप्तः स्ने । ६ ट. देहस्य । ७ . ट. किक: कायस्तथा । ८ ड. मत्रितम् । ९ ज. ट. 'नाद्यर्दिने । १० ङ. द. तारुण्यं । ११ १. नः । १२ ग. घ. ज. . ड. दतिके। १३ घ. ते । ध्यानस्थानं प्रजायन्ते सूत्रोऽयं प्रवल । ट. 'ते। ध्यानस्थानं प्रजायेत सत्रोऽयं प्रचलायते । १४ ग. घ. ट. 'हत्तजराभावमा । १५ ग. घ. ज. ट. के । एतन्मात्रं गृहं ज्ञात्वा । ड. के । एतन्मात्र। १६ ग. घ. ज. गेहं सत्यं प्र। १७ ग. घ. ज. ट. च । संपन्ने बाल्यरूपेच ज्ञा। ज. वा। १८ ग. घ. ड. 'यस्तु वशतां याति मनिरू । १९ ग. घ. "पि सर्वेः सर्वैः प्र। ज. पि सर्वैः सर्व प्र। ट. 'पि सर्वैः पूर्वः प्र। २० क. ख. ग. घ. छ. ज. झ. ट. ड. "ग्तुिष्टः । २१ ग. घ. ज. ट. व बुद्धि। २२ ग. घ. ज. झ. ट. ड. 'न. प्रशोभते । वि।