________________
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवमाभाष्य राजानमायुं देवर्षिसत्तमः । जगाम सहसा तस्य पश्यतः सानुगस्य ह ॥ ७ गते तस्मिन्महाभागे नारदे देवसद्मनि । आयुरागत्य तां राही तत्सर्व विन्यवेदयत् ॥ ८ दत्तात्रेयेण दत्तस्तु पुत्रो देववरोपमः । स वै राजि कुशल्यास्ते विणोश्चैव प्रसादतः ॥ ९ येनाप्यसौ हतः पुत्रः सगुणो मे वरानने । शिरस्तस्य गृहीत्वा तु पुनरेवाऽऽगमिष्यति ॥ १० इत्याह नारदो भद्रे मा कृथाः शोकमेव च । त्यज मोहं महामोदं कुरु भद्रे सुखाकरम् ॥ ११ भर्तुर्वाक्यं निशम्यैवं राज्ञी इन्दुमती ततः । अतिहर्षान्विता जाता पुत्रस्याऽऽगमनं प्रति ॥ १२ पयोक्तं देवऋषिणा तत्तथैव भविष्यति । दत्तात्रयेण मे दत्तस्तनयो हजरामरः॥ १३ भविष्यति न संदेहः प्रतिभात्येवमेव हि । इत्येव चिन्तयित्वा तु ननाम द्विजपुंगवम् ॥ १४
नमोऽस्तु तस्मै पैरिसिद्धिदाय अत्रेः सुपुत्राय महात्मने च ॥
यस्य प्रसादेन मया सुपुत्रः प्रातः सुपुण्यश्च यशःपदश्च ।। एवमुक्त्वा तु सा देवी विरराम मुहर्षिता । आगमिष्यन्तमाज्ञाय नहुषं तनयं पुनः ॥ १६ इति श्रीमहापुराणे पाझे भूमिखण्डे वेनोपाख्याने गुरुनीर्थे नाहुषे सप्तोतरशततमोऽध्यायः ॥ १० ॥
आदितः श्लोकानां समश्यङ्का:-८३८९
अधाष्टोत्तरशत्ततमोऽध्यायः ।
कुजल उवाचब्रह्मपुत्रो महातेजा वमिष्ठस्तपतां वरः। नहुषं तं समाहृय इदं वचनमब्रवीत ॥
१ वनं गच्छस्व शीघ्रं त्वं वन्यमानय पुष्कलम् । स मुनेर्वाक्यमाकर्ण्य नहुषस्तु वनं ययौ ॥ २ अयमेष महापात्रो नहुषो नाम वीर्यवान् । आयुपुत्रः सुधर्मात्मा बाल्यान्मात्रा वियोजितः ॥ ३ अस्यैवातिवियोगेन आयुभार्या प्ररोदिति । अशोकसुन्दरी चापि तपस्तपे सुदृश्वरम् ॥ ४ कदा पश्यति सा देवी पुत्रमिन्दुमती शुभम् । नहुषं नाम धर्मज्ञं हृतं पूर्व तु दानवैः ॥ ५ तमाशाय निरालम्बा शिवस्य तनया वरा । अशोकसुन्दरी बालाऽप्यायुपुत्रस्य कारणात् ॥ ६ सा संगता ह्यनेनापि कदा चेव भविष्यति । एवं सांसारिकं वाक्यं दिवि चारणभाषितम् ॥ ७ शुश्राव स हि धर्मात्मा नहुषो विक्रमान्वितः । स गत्वा वन्यमादाय वसिष्ठस्याऽऽश्रमं प्रति ।।८ वन्यं निवेद्य पुण्यात्मा वसिष्ठाय महात्मने । बद्धाञ्जलिपुटो भूत्वा भक्त्या नमितकंधरः ॥ ९ तमुवाच महामाझं वसिष्ठं तपतां वरम् । भगवन्मे श्रुतं वाक्यमपूर्व चारणेरितम् ॥ १० एष वै नहुषो नान्ना आयुपुत्रो वियोजितः । मात्रा सह सुदुःखेस्तु इन्दुमत्या हि दानवैः ॥ ११ शिवस्य तनया बाला तपस्तेपे सुदुश्वरम् । निमित्तमस्य धीरस्य नहुषस्यति वे गुरो ॥ १२ एवमाभाषितं तत्र तत्सर्व च श्रुतं मया । कोऽसावायुः स धर्मात्मा का सा चेन्दुमती शुभा॥ १३ अशोकसुन्दरी का सा नहुषश्चेति कः प्रभो । एतन्मे संशयं जातं तद्भवांश्छेत्तुमर्हति ॥ १४ अन्यः कोऽपि महामावः कुत्रासी नहुषेति च । तच्च सर्व मम ब्रूहि कारणान्तरमेव च ॥ १५
१. स एव भद्रे संजातो विष्णोश्च सह तेजसा । ये । २ घ. छ. स. ट. ठ. ज चैनं महामोहं कायधर्मविनाशनम् । ३ . परिसद्विजाय । ४ इ. प्तः सुवरिश्च सुपुण्यद । ५ क. ख. घ. ङ. च. छ. स. ट. ठ. ड. ढ. सूत । ६ क. ख. ड. च. छ. स. ड. ढ. प्राज्ञ इहाऽऽसीमहु ।