________________
१०६ षडधिकशततमोऽध्यायः] पद्मपुराणम् । हाहाकारं महत्कृत्वा रुरोद वरवर्णिनी । केन मे लक्षणोपेतो हृतो बालः सुलक्षणः ॥ २ तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतः । संप्राप्तो हि मया वत्सः सकामैर्दारुणैः पुनः ॥ १ दत्तात्रयेण पुण्येन तुष्टेन सुमहात्मना । दत्तः पुत्रो हृतः केन रुरोद करुणान्विता ॥ ४ हा पुत्र वत्स मे तात हा बाल गुणमन्दिर । कासि केनाभिनीतोऽसि मम शब्दः प्रदीयताम् ॥५ सोमवंशस्य सर्वस्य भूषणस्त्वं न संशयः । केन त्वमद्य नीतोऽसि मम प्राणैः समन्वितः ॥ ६ सुराजलक्षणैर्दिव्यैः संपूर्णः कमलेक्षणः । केनाप्यद्य हृतो वत्स किं करोमि क याम्यहम् ॥ ७ स्फुट जानाम्यहं कर्म बन्यजन्मनि यत्कृतम् । न्यासभङ्गः कृतः कस्य तस्मात्पुत्रो हृतो मम ॥ ८ [*किंवा छलं कृतं कस्य पूर्वजन्मनि पापया । कर्मणः कस्य वै दुःखमनुभुञ्जामि नान्यथा ॥ ९ रत्नापहारिणी जाता पुत्ररत्नं हृतं मम । तस्माद्देवेन वै दिव्य अनौपम्यगुणाकरः ॥ १० किंवा वितर्कितो विप्रः कर्मणस्तस्य वे फलम् । प्राप्तं मया न संदेहः पुत्रशोकान्वितं भृशम् ॥ ११ किंवा शिशुविरोधश्च कृतो जन्मान्तरे मया । तस्य पापस्य भुञ्जामि कर्मणः फलमीदृशम् ॥ १२ याचमानस्य चैवाग्रे वैश्वदेवस्य कर्मणि । किं वाऽपि नापितं चान्नं व्याहृतिभिर्हतं द्विजैः ॥ १३ एवं सुवेदनायुक्ता स्वभानुतनया तदा । इन्दुमती महाभागा शोकविहलिनाऽभवत् ॥ १४ पतिता मूर्छिता शोकाद्विदलत्वं गता सती । निःश्वामं मुञ्चमाना सा वन्सहीना यथा हि गौः ॥१५ आयू राजाऽथ शोकेन दुःग्वन महताऽन्वितः । हृतं श्रुत्वा हि पुत्रं तु धर्य नत्याज पार्थिवः १६ तपमश्च फलं नास्ति नास्ति दानस्य वै फलम् । यस्मादेवं हतः पुत्रस्तस्मानास्त्यत्र संशयः १७ दत्तात्रेयः प्रमन्नस्तु वरं मे दत्तवान्पुग । अजेयं च जयापेनं पुत्रं सर्वगुणान्वितम् ॥ १८ तद्वरस्य प्रसादात्तु कथं विघ्नो ह्यजायत । इति चिन्तापरी राजा दुःखितः प्रारुदद्भशम् ॥ १९ इति श्रीमहापुराणे पाञ मिरवण्डे वनोपाख्याने गुरुनाथ नाहुपे पदधिकशततमोऽध्यायः ॥ १०६ ॥
आदितः श्लोकानां सपथ्यङ्काः-८३७३
अथ सप्तोत्तरशततमोऽध्यायः ।
कुञ्जल उवाचअथासो नारदः साक्षात्स्वाद्राजानमागतः । नृपमाश्वासयामास कस्माद्राजन्यरुयते ॥ १ पुत्रापहरणात्तेऽद्य क्षेमं जातं महामते । देवादीनां महाराज एवं ज्ञात्वा तु मा शुचः॥ २ सर्वविद्या गुणांश्चापि वरान्कामांस्तथैव च । लब्ध्वा कामाभिसंपूर्णो ह्यागमिष्यति ते सुतः ॥ ३ येनाप्यपहृतस्तेऽद्य वालो देवगुणोपमः । आत्मगेहे महाराज कालो नीतो न संशयः॥ ४ तस्य नाशं स वै कृत्वा महावीर्यो महाबलः । स त्वामभ्येप्यते भूयः शिवस्य सुतया सह ॥ ५ इन्द्रोपेन्द्रसमः पुत्रो भविष्यति स्वतेजसा । इन्द्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः॥ ६
* एतच्चिद्वान्तर्गतः पाठो घ. छ. ट. ठ. इ. पुस्तकस्थः । घ. ट. ठ. ड. वा फलं कस्य पूर्व पापयाऽपहृतं मया । पुत्रसंतापजं दुःखं तस्मात्प्राणोमि । २ क. ख. घ. उ. च. छ. झ. ट. ठ. ड. द. मि पुत्रशोक सुदारुणम् । या । ३ क. ख. ड. च. झ. द. प्रभुझानस्य । ४.न करुणान्वितः। ५ क. ख. ड. च. छ. झ. ड. ढ. 'यं यौवनोपे। ६ क. ख. च. छ. स. ट. ठ. अ. द. वंज्ञो हि गुणी भूत्वा सर्ववेत्ता न संशयः । सर्वकलाभि'।